१८

अथास्याः स्वधितिं मूर्ध्नि धारयन्हिरण्यं वोदकुम्भेनावसिञ्चत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेनावसिच्य यथार्थं वहन्त्युह्यमानामनुमन्त्रयते ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु । पुनस्तान्यज्ञिया देवा नयन्तु यत आगता इत्यथैनां गृहानुह्यानडुहे रोहिते चर्मण्युपवेशयतीह गावो निषीदन्त्विहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणोऽभि पूषा निषीदत्वित्यथैनामाग्नेयेन स्थालीपाकेन याजयत्यथैतस्य स्थालीपाकस्योपहत्याभिघार्य जुहोत्यग्नये स्वाहाग्नयेऽग्निवते स्वाहाग्नयेऽन्नादाय स्वाहाग्नये स्विष्टकृते स्वाहेति यावज्जीवमेतमग्निं व्रीहिभिर्यवैर्वा सायं प्रातः परिचरत्यग्नये स्वाहेति सायं पूर्वामाहुतिं जुहोति प्रजापतये स्वाहेत्युत्तरां सौरीं पूर्वां प्रातरेके समामनन्त्यौपासनो नित्यो धार्योऽनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्योऽन्यतरस्य चैतदहरुपवासः १८