सप्त पदानि प्रक्रमयत्येकमिषे विष्णुस्त्वान्वेतु द्वे ऊर्जे विष्णुस्त्वान्वेतु त्रीणि व्रताय विष्णुस्त्वान्वेतु चत्वारि मायोभवाय विष्णुस्त्वान्वेतु पञ्च पशुभ्यो विष्णुस्त्वान्वेतु षड्रायस्पोषाय विष्णुस्त्वान्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेत्विति सप्तमे पदे समीक्षमाणो जपति सखा सप्तपदा भव सखायौ सप्तपदावभूव । सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठा इत्यथास्या दक्षिणमंसं प्रति बाहुमन्ववहृत्य हृदयदेशमभिमृशति मम हृदये हृदयं ते अस्तु मम चित्ते चित्तमस्तु ते । मम वाचमेकमना शृणु मामेवानुव्रता भव सहचर्या मया भवेत्यथास्या दक्षिणं कर्णमाजपति मां ते चित्तं प्रविशतु मां चक्षुर्मामु ते मनः मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते मधु हे मध्वागाहे जिह्वा मे मधुवादिनी मुखे मे सारघं मधु दत्सु संवननं कृतम् चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् यद्देवगन्धर्वो वित्तस्तेन संवनिनौ स्वः मां चैव पश्य सूर्यं च मान्येषु मनः कृथा इति १७