१६

सोमः प्रथमो विविदे गन्धर्वस्ततोऽपरः तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः सोमो ददद्गन्धर्वाय गन्धर्वोऽग्नये ददत् रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् सरस्वति प्रेदमव सुभगे वाजिनीवति तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रत इत्यथैनौ ब्रह्माभिमन्त्रयते समितं सङ्कल्पेथां सं वां सृजामि हृदये । संसृष्टं मनो अस्तु वां संसृष्टः प्राणो अस्तु वामित्यथैनामश्मानमास्थापयत्यातिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायत इति प्रदक्षिणमग्निं परिणयति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इत्यथास्या भ्राताञ्जलिनाञ्जलावुपस्तीर्णाभिघारितान्लाजानावपतीयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम । भगेन त्वा संसृजामि मासरेण सुरामिवेत्यथैनां वाचयतीमान्लाजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननांस्तदग्निरनुमन्यतामियं स्वाहेत्येवमेव त्रिरास्थापयति त्रिः परिणयति त्रिरावपत्यथैनां प्राचीं वोदीचीं वा १६