१५

अपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्स्तृणाति तेषु पूर्वापरावुपतिष्ठेते प्राङ्मुखः प्रत्यङ्मुख्या हस्तं गृह्णीयादित्येकं प्रत्यङ्मुखः प्राङ्मुख्या इत्यपरमथैनयोः प्रैषकृदञ्जली उदकेन पूरयत्यथास्याञ्जलिनाञ्जलावुदकमानयति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्यथास्या दक्षिणेन हस्तेन दक्षिणं हस्तमभीवाङ्गुष्ठमभीव लोमानि गृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । हस्तेन ते हस्तं गृह्णामि सौभगत्वाय मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरन्धिस्ते त्वा देवा अदुर्मह्यं पत्नीम् । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः शन्तमा प्रजायै । क्षुरपविर्जारेभ्यो जीवसूर्वीरसूः स्योना मह्यं त्वादुर्गार्हपत्याय देवाः । तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊनू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम् १५