१३

तत आह स्नापयतैनामिति स्नातायै वाससी प्रयच्छति या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इत्यथैनां परिधापयति परिधत्त धत्त वाससैनां शतायुषीं कृणुत दीर्घमायुः । बृहस्पतिः प्रयच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावती । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्वेति परिहितामभिमन्त्रयते परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावती । शतं च जीव शरदः पुनृचीर्वसूनि चार्या विभजासि जीवतीत्यथास्या अग्रेण ज्ञातिकुलमग्निमुपसमाधायाघारावाघार्याज्यभागौ जुहोत्यग्नये जनिविदे स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय जनिविदे स्वाहेति दक्षिणार्धपूर्वार्धे तत एता आहुतीर्जुहोति भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहा । या तिरश्ची यानूची संराधन्यै प्रसाधन्यै सदसस्पतिं युक्तो वह जातवेद इति जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति १३