१२

दक्षिणायन इत्यपरं विज्ञायते दक्षिणायनं पितॄणामिति पितृसंयुक्तं पुनरिदं कर्म पूर्वपक्ष उपगृह्णीत विज्ञायते पूर्वपक्षो देवानामिति दैवं पुनरिदं कर्मापरपक्ष इत्यपरं विज्ञायतेऽपरपक्षः पितॄणामिति पितृसंयुक्तं पुनरिदं कर्म पूर्वाह्ण उपगृह्णीत विज्ञायते पूर्वाह्णो देवानामिति दैवं पुनरिदं कर्म मध्यन्दिन उपगृह्णीत विज्ञायते मध्यन्दिनमृषीणामित्यृषिसंयुक्तं पुनरिदं कर्माथापि विज्ञायते तस्मान्मध्यन्दिने सर्वाणि पुण्यानि सन्निपतितानि भवन्तीत्यपराह्ण उपगृह्णीत विज्ञायतेऽपराह्णः पितॄणामिति पितृसंयुक्तं पुनरिदं कर्माथापि विज्ञायते भगस्यापराह्ण इति भगसंयुक्तं पुनरिदं कर्माथापि विज्ञायते तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्तीति पुण्याह उपगृह्णीतापि वै खलु लोके पुण्याह एव कर्माणि चिकीर्षन्ते तस्मादश्लीलनामंश्चित्रे नावस्येन्न यजेत यथा पापाहे कुरुते तादृगेव तदिति परिचष्ट एव पापाहं विज्ञायते तु खल्वेकेषामिन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनिन्दिता मघाभिर्गावो गृह्यन्ते फल्गुनीभ्यां व्यूह्यत इति यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात्प्रियैव भवति नैव तु पुनरागच्छतीति विज्ञायते १२