चत्वारि विवाहकरणानि वित्तं रूपं प्रज्ञा बान्धवमिति तानि चेत्सर्वाणि न शक्नुयाद्वित्तमुदस्येत्ततो रूपं प्राज्ञायां च तु बान्धवे च विवदन्ते बान्धवमुदस्येदित्येक आहुरप्रज्ञेन हि कः संवासोऽथैतदपरं न खल्वियमर्थेभ्य ऊह्यते प्रजननार्थोऽस्यां प्रधानः स योऽलं संलक्षणाय स्यात्स तामावहेत यस्यां प्रशस्ता जायेरन्न स्वपन्तीमुपगृह्णीत न चरन्तीं प्रथममभ्यागच्छंस्तां मङ्गल्यानि परिपृच्छेच्चतुरो लोष्टानाहरेद्वेदिलोष्टं गोमयलोष्टं सीतालोष्टं श्मशानलोष्टमिति तामाहैषामेकमादत्स्वेति सा चेद्वेदिलोष्टमाददीताध्यापकं यायजूकं जनयिष्यतीति विद्याद्यदि गोमयलोष्टं बहुपशुं जनयिष्यतीति विद्याद्यदि सीतालोष्टं कृष्टराधिकं जनयिष्यतीति विद्याद्यदि श्मशानलोष्टमादहनशीक्ष्णी परिख्यातेति विद्यान्नैनामुपगृह्णीताथ खलु बहूनि लक्षणानि भवन्ति श्लोकं तु लाक्षणा उदाहरन्ति यस्यां मनोऽनुरमते चक्षुश्च प्रतिपद्यते । तां विद्यात्पुण्यलक्ष्मीकां किं ज्ञानेन करिष्यतीत्युदगयन उपगृह्णीत विज्ञायत उदगयनं देवानामिति दैवं पुनरिदं कर्म ११