१०

ततो भिक्षते यां मन्यत इयं मा न प्रत्याख्यास्यतीति तामाहृत्योपनिधायाचार्याय प्राह तिस्रो भिक्षतेऽपरिमिता वा त्रिरात्रमक्षारलवणाश्यधःशायी भवत्यथास्य चतुर्थ्यां मेधाजननं कुर्वन्ति यत्रैकमूलः पलाशः प्राचीं वोदीचीं वा दिशं तं परिसमूह्य प्रक्षाल्य प्रदक्षिणमाज्येनाभ्यञ्जञ्जपति सुश्रवः सुश्रवसं मा कुरु यथा त्वं सुश्रवः सुश्रवा अस्येवं मां सुश्रवः सुश्रवसं कुरु यथा त्वं सुश्रवो देवानां वेदेषु निधिगोपोऽस्येवमहं ब्राह्मणानां वेदेषु निधिगोपो भूयासमित्यथास्य षोडशवर्षस्य गोदानं कुर्वन्ति तस्य चौडेन कल्पो व्याख्यात एतावन्नाना सर्वान्केशान्वापयते गुरवे गां वरं ददाति न प्राग्गोदानकर्मण स्नानीयमभिहरते न गन्धान्संवत्सरं कृतगोदानो ब्रह्मचर्यं चरत्यग्निगोदानो वा भवति १०