सावित्रीं भो अनुब्रूहीति तस्मै सावित्रीं पच्छोऽन्वाह भूस्तत्सवितुर्वरेण्यं भुवो भर्गो देवस्य धीमहि सुवर्धियो यो नः प्रचोदयादित्यथ द्वितीयं द्वे च व्याहृती सावित्रीं चार्धर्चशोऽथ तृतीयं सर्वाश्च व्याहृतीः सावित्रीं चानवानं पुरस्तात्प्रत्यङ्मुखायैक आहुस्तां खल्विमां सावित्रीं संवत्सरादेक आहुर्द्वादशरात्रादेके त्रिरात्रादेके सद्य एकेऽथैनं पौरोडाशीयानां प्रथममुपकारयत्यथास्मै दण्डं प्रयच्छन्नाह ब्रह्मचार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा सुषुप्था भिक्षाचर्यं चराचार्याधीनो वेदमधीष्वेत्यप एवाचार्यकुलेऽश्नीयादित्येकमपरं काममश्नीश्वेति हार्थो भवतीति शाल्मलीमूलो भारद्वाजो वाथास्याष्टाचत्वारिंशद्वर्षाणि पुराणं वेदब्रह्मचर्यं सम्प्रदिशन्त्या वेदाध्ययनादित्येक आहुरा गोदानकर्मण इत्येकेऽथैनं दक्षिणे पाणावभिपद्योत्थापयत्युदायुषा स्वायुषेत्यादित्यमुदीक्षयति तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदह् शतं ज्योक्च सूर्यं दृश इति ९