०८

प्राणाय त्वाचार्याय परिददामि कुबेराय त्वा महाराजाय परिददामि तक्षकाय त्वा वैशालेयाय परिददाम्यग्नये त्वा परिददामि वायवे त्वा परिददामि सूर्याय त्वा परिददामि प्रजापतये त्वा परिददामि प्रजापत इमं गोपायामुमिति परिदायाथास्य दक्षिणमंसं प्रति बाहुमन्ववहृत्य नाभिदेशमभिमृशति युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः । तं धीरासः कवय अन्नयन्ति स्वाधियो मनसा देवयन्त इत्यथास्य दक्षिणं कर्णमाजपति भूस्त्वयि दधामि भुवस्त्वयि दधामीत्युत्तरं सुवस्त्वयि दधामीति दक्षिणमपि वोत्तरमेव द्विः सकृदेव दक्षिणमथैनमश्मानमास्थापयत्यातिष्ठेममश्मानमश्मेव त्वं स्थिरो भव प्रमृणीहि दुरस्यून्सहस्व पृतन्यत इति ततः समिधमाधापयत्यग्नये समिधमाहारिषं बृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस एवं मामायुषा वर्चसा सन्या मेधया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेत्येकामादधाति तिस्र एके सप्तैके प्रदक्षिणमग्निं परिक्रम्य दक्षिणत उदगावृत्योपविश्योपसङ्गृह्य पृच्छति ८