०७

अपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्स्तृणाति तेषु पूर्वापरावुपतिष्ठेते प्राङ्मुखः प्रत्यङ्मुखस्य हस्तं गृह्णीयादित्येकं प्रत्यङ्मुखः प्राङ्मुखस्येत्यपरमथैनयोः प्रैषकृदञ्जली उदकेन पूरयत्यथास्याञ्जलिनाञ्जलावदुकमानयति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु न इत्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तमभीवाङ्गुष्ठमभीव लोमानि गृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तेन ते हस्तं गृह्णामि सवित्रा प्रसूतः को नामासीत्यसावितीतरः प्रत्याह तस्य नामाभिपद्य जपत्यसौ सविता ते हस्तमग्रभीदग्निष्ट आचार्यः कस्य ब्रह्मचार्यसि कस्मै त्वा काय त्वा कमुपनयाम्यागन्ता मा रिषेण्यतः प्रस्थावानो भावस्थातु समन्यवो दृढाश्चिदमरिष्णवः कृशाश्चिदमरिष्णव आ गन्त संरभावहै प्रेतो मृत्युं नुदावहै न मृत्युश्चरतीह ७