परिहितमभिमन्त्रयते परीदं वासो अधिधाः स्वस्तयेऽभूरापीनामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्नित्यथास्य प्रथमवास्यमादत्ते यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं वा भ्रातरः सुहृदो वर्धमानमनुजायन्तां बहवः सुजातमित्यथैनं मौञ्ज्या मेखलया त्रिवृता मध्यतः सन्नह्यति या बृहती दुरिता रराणा शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां बलमाभरन्ती स्वसा देवानां सुभगा मेखलेयमिति ग्रन्थिं ग्रथ्नाति प्राणानां ग्रन्थिरसि स मा विस्रस इत्यथाजिनमुत्तरं परिधत्ते मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधेऽहमिति जयाभ्यातानान्नाष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति पूर्णा पश्चादिमं मे वरुन तत्त्वा यामि त्वं नोऽग्ने स त्वं नो अग्ने त्वमग्नेऽयास्ययाश्चाग्नेऽस्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा गुरवे वरं ददाति ६