तत एता आहुतीर्जुहोति या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया जुहोमि वैश्वकर्मणीं स्वाहा । यानूची निपद्यसेऽहं संराधनी इति । तां त्वा घृतस्य धारयाग्नौ संराधनीं यजे स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा । युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेम स्वाहा । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहेत्यथ वाससोऽन्तान्सम्मार्ष्टि या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधत्स्व वास इत्यथैनं परिधापयति परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीणामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्वेति ५