०४

अथ परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतोऽनुमतेऽनुमन्यस्वेति पश्चात्सरस्वतेऽनुमन्यस्वेत्युत्तरतो देव सवितः प्रसुवेति समन्तमेवं हुत्वा परिषिञ्चति कृतवन्मन्त्रान्नमतीध्मं त्रेधाभ्यज्य सकृदेवादधात्ययं त इध्म आत्मा जातवेदस्तेन वर्धस्व चेन्द्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेत्युत्तरं परिधिसन्धिमन्ववहृत्य दर्वीं दक्षिणाप्राञ्चमासीनः सन्ततमृजुमाघारमाघारयति प्रजापतिं मनसा ध्यायन्न च स्वाहा करोति दक्षिणं परिधिसन्धिमन्ववहृत्येन्द्राय स्वाहेति प्राञ्चमुदञ्चं सन्ततमृजुमाघारमाघार्याज्यभागौ जुहोत्यग्नये मेधपतये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय मेधपतये स्वाहेति दक्षिणार्धपूर्वार्धे तावन्तरेणेतरा आहुतीर्जुहोति सर्वदर्विहोमाणामेष कल्पो मन्त्रान्ते नित्यः स्वाहाकारोऽमन्त्रास्वमुष्मै स्वाहेति यथादेवतमादिष्टदेवतेऽथानादिष्टदेवतेऽग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाग्नये स्विष्टकृते स्वाहेति व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च ४