०३

पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पात्रं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्धारयमाणोऽविषिञ्चन्हरत्युत्तरेणाग्निं प्रणीताः सादयित्वा दर्भैरपिदधाति प्रणीतावत्प्रोक्षणीः संस्कृत्य बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति दर्वीं निष्टप्य सम्मृज्य पुनर्निष्टप्य निदधाति संमार्गानभ्युक्ष्याग्नावादधाति पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योत्तरेणाग्निमङ्गारान्निरूह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पवित्रे अग्नावाधाय शम्याभिः परिदधात्यपरेणाग्निमुदीचीनकुम्बां शम्यां निदधाति संस्पृष्टे मध्यमया प्राचीनकुम्बे दक्षिणामुत्तरां चापरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्प्राङ्मुख उपविशति यज्ञोपवीतं कृत्वाप आचम्य दक्षिणतः कुमार उपविश्यान्वारभते ३