प्रागग्रैर्दर्भैरग्निं परिस्तृणात्यपि वोदगग्राः पश्चात्पुरस्ताच्च भवन्ति दक्षिणः पक्ष उपरिष्टाद्भवत्यधस्तादुत्तरो दक्षिणेनाग्निं ब्रह्मायतने दर्भान्संस्तीर्य मयि गृह्णाम्यग्रे अग्निमिति द्वाभ्यामात्मन्यग्निं ध्यात्वोत्तरेणाग्निं पात्रेभ्यः संस्तीर्य यथार्थं द्रव्याणि प्रयुनक्त्यश्मानमहतं वासोऽजिनं मौञ्जीं मेखलां त्रिवृतं ब्राह्मणस्य मौर्वीं राजन्यस्य सौत्रीं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्यैकविंशतिदारुमिध्मं सन्नह्यत्याहुतिपरिमाणं वा तस्मिञ्छम्याः परिधीनुपसन्नह्यति दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं येन चार्थः सकृदेव सर्वाणि यथोपपादं वैतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निमतिक्रम्य दक्षिणतो ब्रह्मायतनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशत्यपरेणाग्निं प्राङ्मुख उपविश्य समावप्रछिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वान्येन नखाच्छित्त्वाद्भिरनुमृज्य २