०१

उपनयनं व्याख्यास्यामः । स पुरस्तादेव सम्भारानुपकल्पयते पालाशमिध्मं खादिरमौदुम्बरं वैकङ्कतं वैतद्वृक्षीयामेव दर्वीं करोति त्वग्बिलां मूलदण्डारत्नीं चतुरङ्गुलं बिलं करोति । सादयाचारिकं कर्मेति विज्ञायते । गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यं गर्भनवमेषु ब्राह्मणमित्यपरं वासांसि समामनन्त्यैणेयं ब्राह्मणो वसीत रौरवं राजन्यो बस्ताजिनं वैश्यो यदजिनं धारयेद्ब्रह्मवर्चवृद्वासो धारयेत्क्षत्रं वर्धयेदुभयं धार्यमुभयोर्वृद्ध्या इति विज्ञायते वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे हेमन्ते वा राजन्यं शरदि वैश्यं वर्षासु रथकारं शिशिरे वा सर्वानापूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुन्नामधेय आशितस्य कुमारस्य केशान्वापयित्वा स्नातमलंकृतमहतं वासः परिधाप्य प्राचीनप्रवण उदीचीनप्रवणे समे वा देशे स्थण्डिलमुद्धत्यावोक्ष्याग्निं मथित्वा लौकिकं वाहृत्य न्युप्योपसमादधाति १