प्रवरप्रश्नः
१
विश्वास-प्रस्तुतिः
अथातः प्रवरान्व्याख्यास्यामः
मूलम्
अथातः प्रवरान्व्याख्यास्यामः
विश्वास-प्रस्तुतिः
सप्तानामृषीणाम् अगस्त्याष्टमानां पक्षा भवन्ति
मूलम्
सप्तानामृषीणाम् अगस्त्याष्टमानां पक्षा भवन्ति
विश्वास-प्रस्तुतिः
त्रयः पक्षा भृगूणां पञ्चार्षेया वत्सा विदा आर्ष्टिषेणाश्
मूलम्
त्रयः पक्षा भृगूणां पञ्चार्षेया वत्सा विदा आर्ष्टिषेणाश्
विश्वास-प्रस्तुतिः
चत्वार एवाङिग्रसः कौमण्डा दीर्घतमा रौक्षायणा गर्गाश्च
मूलम्
चत्वार एवाङिग्रसः कौमण्डा दीर्घतमा रौक्षायणा गर्गाश्च
विश्वास-प्रस्तुतिः
गर्गाणां त्र्यार्षेयो विकल्पो
मूलम्
गर्गाणां त्र्यार्षेयो विकल्पो
विश्वास-प्रस्तुतिः
विश्वामित्रपक्षे पूरणा द्व्यार्षेयाः
मूलम्
विश्वामित्रपक्षे पूरणा द्व्यार्षेयाः
विश्वास-प्रस्तुतिः
शुनकवसिष्ठा एकार्षेया
अतोऽन्ये त्रिप्रवरा भवन्त्य्
मूलम्
शुनकवसिष्ठा एकार्षेया
अतोऽन्ये त्रिप्रवरा भवन्त्य्
विश्वास-प्रस्तुतिः
एतेषु भृग्वङ्गिरसो भिन्नविवाहं कुर्वते
मूलम्
एतेषु भृग्वङ्गिरसो भिन्नविवाहं कुर्वते
विश्वास-प्रस्तुतिः
न चेत्समानार्षेया बहवः स्युर् इति मतं बौधायनस्येति १
मूलम्
न चेत्समानार्षेया बहवः स्युर् इति मतं बौधायनस्येति १
अथात ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होतेत्येष एवोभयोः सर्वत्रोद्देशो द्व्यार्षेयसन्निपातेऽविवाहस्त्र्यार्षेयाणां त्र्यार्षेयसन्निपातेऽविवाहः पञ्चार्षेयाणाम्
असमानप्रवरैर्विवाह
एक एव ऋषिर्यावत्प्रवरेष्वनुवतते ।
तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणादिति पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः ।
भृग्वङ्गिरोगणेष्वेव शेषेष्वेकोऽपि वारयेदिति २
विश्वास-प्रस्तुतिः
भृगूणाम् एवादितो व्याख्यास्यामो -
मार्कण्डेया माण्डूका माण्डव्याः काँसय आलेखना दार्भायणाः शार्कराक्षा दैवतायनाः शौनकायना माण्डूकेयाः पार्षिकाः साङ्काः प्रान्तायनाः पैलाः पैङ्गलायना दाध्रेषयो बाह्यकयो वैश्वानरयो वैहीनरयो विरोहिता बार्हा गौष्ट्रायणा ऐष्टेषयः काशकृत्स्ना वाग्भूतया ऋतभागा ऐतिशायना जानायनाः पाणिनिर् वाल्मीकि- स्थौलपिण्डयः शैखावता जिहीतयः सावर्णिर्वाकायना बालायना सौकृतयो मण्डवित्सौविष्टयो हस्त्याग्नयः शौद्धकयो वैकर्णा औपजिह्वय औरशयः काम्बलोदरयः काठोरकृद्वैहलिर्विरूपाक्षा वृकाश्वा उच्चैर्मन्यवो दैवमत्या आर्कायणा मार्कायणाः काह्वायना वायवायनिनो शाङ्करवाः कारबवश्चान्द्र मगाङ्गेया अनुपेया याज्ञिका जाबालिर्बाहुमित्रायणा आपिशलयो वैष्टपुरेया लोहितायना उष्ट्राक्षा नाडायनाः शारद्वतायना राजितवाहा वत्सा वात्स्यायना इत्येके, वत्सास्
मूलम्
भृगूणामेवादितो व्याख्यास्यामो मार्कण्डेया माण्डूका माण्डव्याः काँसय आलेखना दार्भायणाः शार्कराक्षा दैवतायनाः शौनकायना माण्डूकेयाः पार्षिकाः साङ्काः प्रान्तायनाः पैलाः पैङ्गलायना दाध्रेषयो बाह्यकयोवैश्वानरयो वैहीनरयो विरोहिता बार्हा गौष्ट्रायणा ऐष्टेषयः काशकृत्स्ना वाग्भूतया ऋतभागा ऐतिशायना जानायनाः पाणिनिर्वाल्मीकि स्थौलपिण्डयः शैखावता जिहीतयः सावर्णिर्वाकायना बालायना सौकृतयो मण्डवित्सौविष्टयो हस्त्याग्नयः शौद्धकयो वैकर्णा औपजिह्वय औरशयः काम्बलोदरयः काठोरकृद्वैहलिर्विरूपाक्षा वृकाश्वा उच्चैर्मन्यवो दैवमत्या आर्कायणा मार्कायणाः काह्वायना वायवायनिनो शाङ्करवाः कारबवश्चान्द्र मगाङ्गेया अनुपेया याज्ञिका जाबालिर्बाहुमित्रायणा आपिशलयो वैष्टपुरेया लोहितायना उष्ट्राक्षा नाडायनाः शारद्वतायना राजितवाहा वत्सा वात्स्यायना इत्येके वत्सास्
तेषां पञ्चार्षेयः प्रवरो भवति।
भार्गव च्यावनाप्नवानौर्व जामदग्न्येति होता
जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ३
विदाः शैला अवटाः शैलाः प्राचीनयोग्या अभयजाताः काण्डरथयो वैदभृताः पुलस्तय आर्कायणामार्कायणा नाष्ट्रायणाः क्रौञ्चायना भुञ्जायना जामलायना इत्येते विदास्
तेषां पञ्चर्षियः प्रवरो भवति
भार्गव च्यावनाप्नवानैर्व वैदेति होता विदवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युः ४
आर्ष्टिषेणा नैरथयो ग्राम्यायणाः काण्वयश्चान्द्रा यणाः प्रौढकलायनाः सिद्धाः सुमनायना गौराम्भिराम्भिरित्येत आर्ष्टिषेणास्
तेषां पञ्चार्षेयः प्रवरो भवति
भार्गव च्यावनाप्नवानार्ष्टिषेणानूपेति होतानूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदित्यध्वर्युर्वत्सा विदा आर्ष्टिषेणा इत्येतेषामविवाह एते पञ्चावत्तिनः ५
यस्का मौनो मूको वाधूलो वर्षपुष्पो बालेयो राजिततायिनो दुर्दिनो भास्करो दैवन्तायनो बाष्कलेयो माध्यमेया वाशयः कौशाम्बेयाः कौटिल्याः सत्यकश्चित्रसेना भागन्तयो वार्काश्वकय औक्था औग्रचितयो भागुरित्थय इत्येते यस्कास्
तेषां त्र्यार्षेयः प्रवरो भवति
भार्गव वैतहव्य सावेतसेति होता
सवेतोवद्वीतहव्यवद्भृगुवदित्यध्वर्युः ६
मित्रयुवो रौष्ट्यायनाः शायण्डिनाः सापिण्डनाः सुराम्भिना माल्या बाल्या महाबाल्यास्तार्क्ष्यायणा औरुक्ष्यायणा वाजायना मादाघयः कैतवायना इत्येते मित्रयुवस्
तेषां त्र्यार्षेयः प्रवरो भवति
भार्गव वाध्र्यश्व दैवोदासेति होता दिवोदासवद्वध्र्यश्ववद्भृगुवदित्यध्वर्युः ७
वैन्याः पार्था बाष्कलास्तेषां त्र्यार्षेयः प्रवरो भवति
भार्गव वैन्य पार्थेति होता
पृथुवद्वेनवद्भृगुवदित्यध्वर्युः ८
शुनका गार्त्समदा यज्ञपयः सौगन्धयः खार्दमायना गाङ्गायना मत्स्यगन्धाश्चौक्षाः श्रोत्रियास्तैत्तिरीयाः पल्पूला इत्येते शुनकास्
तेषामेकार्षेयः प्रवरो भवति
शौनकेति होता
शुनकवदित्यध्वर्युर्गार्त्समदेति होता गृत्समदवदित्यध्वर्युर्वा ९
अङ्गिरसो व्याख्यास्याम आयास्या आणीवेयाः काचाक्षयो मूढाः सात्यकयस्तैदेहाः कौमारवत्यास्तौण्डिर्दार्भिर्देवकिः सात्यमुग्रिः कौबाह्या बौध्या नैकरिः स्वस्तैषकिः कीलालयः कारुणिः काटोरिः काशीवाजाः पार्थिवा इत्येत आयास्या गौतमास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरसायास्य गौतमेति होता
गोतमवदयास्यवदङ्गिरोवदित्यध्वर्युः १०
शारद्वता आभिजिता रौहिण्याः क्षीरकरम्भाः सौमुचयः सौयमुना औपबिन्दवो राहूगणा राणयो मार्षण्या इत्येते शारद्वता गौतमास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस गौतम शारद्वतेति होता
शरद्वद्वद्गोतमवदङ्गिरोवदित्यध्वर्युः ११
कौमण्डा मामन्थरेषणा मासुराक्षाः काष्टरेषयऊर्जायना वनजायना वाशय इत्येते कौमण्डा गौतमास्
तेषां पञ्चार्षेयः प्रवरो भवत्याङ्गिरसौचथ्य काक्षीवत गौतम कौमण्डेति होता
कुमण्डवद्गोतमवत्कक्षीवद्वदुचथ्यवदङिग्रोवदित्यध्वर्युः १२
दीर्घतमसां पञ्चार्षेयः प्रवरो भवत्याङ्गिरसौचथ्यकाक्षीवत गौतम दीर्घतमसेति होता
दीर्घतमोवद्गोतमवत्कक्षीवद्वदुचथ्यवदङ्गिरोवदित्यध्वर्युः १३
औशनसा दिश्याः प्रशस्ताः सुरूपाक्षा महोदरा विगद्वकाः सुबुध्या निहिता गुहा इत्येत औशनसा गौतमास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस गौतमौशनसेति होतोशनसवद्गोतमवदङ्गिरोवदित्यध्वर्युः १४
कारेणुपालयो वास्तव्याः श्वेतीयाः पौञ्जिष्ठय औदज्ञायना बान्धुक्या आजगन्धय इत्येते कारेणुपालयो गौतमास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङिग्रस गौतम करेणुपालेति होता
करेणुपालवद्गोतमवदङिग्रोवदित्यध्वर्युः १५
वामदेवानां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस गौतम वामदेवेति होता
वामदेववद्गोतमवदङ्गिरोवदित्यध्वर्युर्गौतमानाँसर्वेषामेवाविवाहः १६
भरद्वाजाः क्षाम्यायणा मामण्डा देवाश्वा उद्वहव्याः प्राग्वँशयो वाहलया बाह्योगा वासिनायनास्तैदेहा आज्ञा औक्षा भूरयः पारिणद्धेयाः शैखेयाः शौद्धकय ऊरूढाः खारिग्रीवय औपशयो वयोक्षिभेदा आग्निवेश्या वेधाः शठा गौरिवायनाश्चेलका स्तनकर्णा ऊरूक्षा माणभिन्दव्याः काह्वोदङ्कास्तौज्वलयो वेलाः खारणादयो भारुण्डेया माद्र पथयः सौरोभङ्गाः शुङ्गा दैवमतय इषुमता औदमेघयः प्रवाहणेयाः कल्माषा राजस्तम्भिः सुधूपकृद्वाराहयो वलभिकय उग्राङ्गता शालाहलयो देववेला महावेला निविञ्च्यायना धन्यायनाः शालालयः शार्दूलयः कात्कला वाक्कला सैह्यकेषाः क्रौडायणाः क्रौडिल्या ब्रह्मस्तम्भा राजस्तम्भा अग्निस्तम्भा वायुस्तम्भाः सूर्यस्तम्भाः सोमस्तम्भा यमस्तम्भा इन्द्र स्तम्भा विष्णुस्तम्भा यज्ञस्तम्भा आपस्तम्भा ये चान्ये स्तम्भशबधाः स्विष्टा आरुणसिन्धुः कौमुदगन्धिः शक्तिः कौशिवायना आत्रेयायणाः भामण्या धूमगन्धाः कुकाः कौकाक्षयो नैतुन्दयो दार्भयः श्यामेया मत्स्यक्राथाः कौक्वायनाः कारुपथयः कारीषायणाः काम्बल्या इत्येते भरद्वाजास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाजेति होता
भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः १७
रौक्षायणानां पञ्चार्षेयः प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज वान्दन मातवचसेति होता
मतवचोवदवन्दनवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युः १८
गर्गाः साम्भरायणाः सखीनयो गन्धारायणा बाहुलकयो भ्रष्टका भ्राष्ट्रबिन्दवः क्रौष्टुकयः सौयामुनिर्भ्राजिनाक्षत्रेया होत्रापचयः सत्यापचयः काणायना औपमत्कटायना जाणवत्पलाशशाखावन्तयः सङ्ग्रहतुल्या वैडुहा निस्रोहताः कारिरौतिः कैवल्या राजयः पौलय इत्येते गर्गास्
तेषां पञ्चार्षेयस्त्र्यार्षेयो वा प्रवरो भवत्याङ्गिरस बार्हस्पत्य भारद्वाज शैन्य गार्ह्येति होताङ्गिरस सैन्य गार्ग्येति वा
गर्गवच्छिनिवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्युर्गर्गवच्छिनिवदङ्गिरो-वदिति वा
भरद्वाजानाँसर्वेषामेवाविवाहः १९
विष्णुवृद्धाः शठमर्षणा भद्र णा मद्र णाः शाम्बुरायणा बादरायणा वात्सप्रायणाः सात्यकिः सात्यकायना नैतुन्द्या स्तुत्या भारुण्या वैहोढा दैवस्थानय इत्येते विष्णुवृद्धास्
तेषां त्र्यार्षेयः प्रवरो भवत्य्
आङ्गिरस पौरुकुत्स त्रासदस्येति होता
त्रसदस्युवत्पुरुकुत्सवदङ्गिरोवदित्यध्वर्युः २०
कण्वा औपमर्कटायना बाष्कलाः शैलाहलिनो मौञ्जिर्मौञ्जयो मौञ्जिगन्धा वाजिर्वाजयो वाजश्रवसा इत्येते कण्वास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरसाजमीढ काण्वेति होता
कण्ववदजमीढवदङ्गिरोवदित्यध्वर्युः २१
हरिताः कौत्साः शाङ्ख्या दार्भ्या शैभङ्गो बैमगवो मनायुर्लम्बोदरो महोदरो नैमिश्रयो मिश्रोदनाः कौठपाः कारोषयः कौलयः पौलयः पौण्डलो मान्धूपो मान्धातुर्माद्र कारय इत्येते हरितास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरसाम्बरीष यौवनाश्वेति होता
युवनाश्ववदम्बरीषवदङ्गिरोवदित्यध्वर्युः २२
सङ्कृतयो लमकाः पौत्यस्तण्डिः शम्भुः शैवगवः परिभवस्तारकाद्या हारिग्रीवा वैतालेयाः श्रौतायनाश्चारायणा आग्रायणा आर्षयश्चान्द्रा यणा आपघ्रापयः पृतिमाषा इत्येते सङ्कृतयस्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस साङ्कृत्य गौरिवीतेति होता
गौरिवीतवत्सङ्कृतिवदङ्गिरोवदित्यध्वर्युः २३
रथीतरा हास्तिदासिः काण्वायना नैतिरक्षयः शैलालयो भैलिर्भिल्लिभायनाः सावहवा भैक्षवाहा हैमगवा इत्येते रथीतरास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस वैरूप राथीतरेति होताङ्गिरस वैरूप पार्षदश्वेति वा
रथीतरवद्विरूपवदङ्गिरोवदित्यध्वर्युः पृषदश्ववद्विरूपवदङ्गिरोवदिति वा २४
मुद्गला हिरण्याक्षा ऋषभा मिताक्षा ऋश्या ऋश्यायणा दीर्घजङ्घाः प्रलम्बजङ्घास्तरुणा भिन्दवा इत्येते मुद्गलास्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरस भार्म्यश्व मौद्गल्येति होता
मुद्गलवद्भृम्यश्ववदङ्गिरोवदित्यध्वर्युः २५
कपयो वैतलानामैतिशायनाना पतञ्जलायान्त्रस्विनां ताण्डिनां भोजसिनाँ शाङ्गरवाणां करशिखण्डानां मौषीतकिश्छागलयः पौष्पय इत्येते कपयस्
तेषां त्र्यार्षेयः प्रवरो भवत्याङ्गिरसामहय्यवौरुक्षयेति होतोरुक्षयवदमहय्यवदङ्गिरोवदित्यध्वर्युः २६
अत्रीन्व्याख्यास्यामोऽत्रयो भूरयश्छाद्निश्छान्दोगिः पौष्टिका माङ्गलयः शैवाश्छागलास्तृणबिन्दवो भागन्तयो मालकुजो व्याडलः शाम्बव्यायनाः कार्मर्यायणयो दाक्षिस्तैदेहा गाणिस्पतय औद्दालकिद्रो र्ण!भावा गौरिग्रीवयो गाविष्ठिराः शिशुपालाः कृष्णात्रेया गौरात्रेया अरुणात्रेया नीलात्रेयाः श्वेतात्रेयाः श्यामात्रेया महात्रेया आत्रेया हालेया वालेयाः शौभ्रेया वामरथीनां वैतभावयः शौद्रे याः कौद्रे या गोपवनाः कालपवय आनीषायणा आनङ्गिर्मानङ्गिर्दौरङ्गिः सौरङ्गिः पुष्पयः शैखयः साकेतायना भारद्वाजायना इन्द्रा तिथिरित्येतेऽत्रयस्
तेषां त्र्यार्षेयः प्रवरो भवत्यात्रेयार्चनानस श्यावाश्वेति होता
श्यावाश्ववदर्चनानसवदत्रिवदित्यध्वर्युः २७
वाद्भुतकानां त्र्यार्षेयः प्रवरो भवत्यात्रेयार्चनानस वाद्भुतकेति होता
वद्भुतकवदर्चनानसवदत्रिवदित्यध्वर्युः २८
गविष्ठिराणां त्र्यार्षेयः प्रवरो भवत्यात्रेयार्चनानस गाविष्ठिरेति होता
गविष्ठिरवदर्चनानसवदत्रिवदित्यध्वर्युः २९
मुद्गलाः शालिसन्धय और्णनाभयो दाक्षिर्वैतवाहाः शिरीषयः शालिमतो व्रीहिमतो गौरीषितो गौरिकयो वायवना वायुपूटा इत्येते मुद्गलास्
तेषां त्र्यार्षेयः प्रवरो भवत्यात्रेयार्चनानसपौर्वातिथेति होता
पूर्वातिथिवदर्चनानमवदत्रिवदित्यध्वर्युः ३०
विश्वामित्रान्व्याख्यास्यामः
कुशिकाः पार्णजङ्घा वारक्या औदरिर्माणिर्बृहदग्निरालविराघट्टिरापद्यपा अन्तकाः कामन्तका बाष्पकयश्चिकिता लामकायनाः शालङ्कायनाः शाङ्कायना लौका गौराः सौगन्तयो यमदूता अनभिम्लातास्तारकायणाश्चौवला जाबालयो यज्ञवल्का विदण्डा भौवनयः सौबभ्रवय औपदहनय औदुम्बरिर्भारिष्टिकयः श्यामेयाश्चैत्रेयाः शालावता मयूराः सौमत्याश्चित्रतन्तवो मनुतन्तवो मान्तवो ये चान्ये तन्तुशब्दा बाभ्रव्याः कलापा उत्सरय इत्येते कुशिकास्
तेषां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्र दैवरातौदलेति होतोदलवद्देवरातवद्विश्वामित्रवदित्यध्वर्युः ३१
लोहिता दाण्डकयश्चाक्रवर्मायणा झर्झायना वाञ्जायना मादाघयः कैतवायनयो वाशय इत्येते लोहितास्
तेषां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्राष्टक लौहितेति होता
लोहितवदष्टकवद्विश्वामित्रवदित्यध्वर्युः ३२
विश्वामित्रदेवश्रवसदेवतरसः श्रौमतकामकायनाः कामकायनिनस्
तेषां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्र दैवश्रवस दैवतरसेति होता
देवतरसवद्देवश्रवसवद्विश्वामित्रवदित्यध्वर्युः ३३
रौक्षकाश्चौडूहला रैणवाश्च
तेषां त्र्यार्षेयः प्रवरो भवति
वेश्वामित्र रौक्षक रेणवेति होता
रेणुवद्रुक्षकवद्विश्वामित्रवदित्यध्वर्युः ३४
कताः सैरिन्धाः करभा वाजायनाः सांहितेयाः कौकृत्याः शैशिरेया औदुम्बरायणाः पिण्डग्रीवा नारायणा नाराट्या इत्येते कतास्
तेषां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्र कात्यात्कीलेति होतात्कीलवत्कतवद्विश्वामित्रवदित्यध्वर्युः ३५
धनञ्जयाः कारीषय आश्ववतास्तुलभ्याः सैन्धवायना उष्ट्राक्षा महाक्षा इत्येते धनञ्जयास्
तेषां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्र माधुच्छन्दस धानञ्जयेति होता
धनञ्जयवन्मधुच्छन्दोवद्विश्वामित्रवदित्यध्वर्युः ३६
अजानां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्र माधुच्छन्दसाजेति होता
अजवन्मधुच्छन्दोवद्विश्वामित्रवदित्यध्वर्युः ३७
अघमर्षणाः कुशिकास्
तेषां त्रयार्षेयः प्रवरो भवति
वैश्वामित्राघमर्षण कौशिकेति होता
कुशिकवदघमर्षणवद्विश्वामित्रवदित्यध्वर्युः ३८
इन्द्र कौशिकास्
तेषां त्र्यार्षेयः प्रवरो भवति
वैश्वामित्रैन्द्र कौशिकेति होता
कुशिकवदिन्द्र वद्विश्वामित्रवदित्यध्वर्युः ३९
पूरणा वारिधापयन्तास्
तेषां द्व्यार्षेयः प्रवरो भवति
वैश्वामित्र पौरणेति होता
पूर्वणवद्विश्वामित्रवदित्यध्वर्युः ४०
कस्यपान्व्याख्यास्यामः
कश्यपाश्छागरयो मठरा ऐतिशायना आभूत्या वैशिप्रा धूम्रा धूम्रायणा धौम्या धार्म्यायणा औदव्रजिराग्रायणा बैम्बकयः प्रावाहार्या हृद्रो गाः काश्यातपा आपाम्बानिका मौषीतकिश्छागसयो माषशरावयः सौधवयः सायस्या आसुरायणाश्छागव्याः सौनद्या स्थौलकेशयो वार्षकय औपव्या लाक्षमणयः क्रोष्टा जीवतयः खार्दमायणा लोहितायना मितकुम्भा पिङ्गाक्षय औडलयो मारायणा ॥॥॥ वैकर्णेयाः कौषीतकेयाः धूमलक्ष्मणयः सुरा गौरिवायणा विमत्स्या आग्निशर्मायणा औक्थ्यायनाः काम्बरोदरयो देवयाता वैदोऽम्बा वेलया महाचक्रेयाः पैठीनसा पानस्या विषगणा दाक्षायणयो भालन्दनाः शाङ्खमित्रेया हरित्याः पाञ्चाला जारमाण्यो वार्षगाणिः सौविश्रवसो वैशम्पायनाः स्वैरकिः कालशय औक्त्रायणिर्मार्जायनाः कांसायना दैवो होता शुचयः खरेभा आयस्थूणा भागुरयः पाथिकार्या गौमायना हिरण्यपापा आग्निदेविस्तथासूर्या मुसला आविश्रेण्या उत्तरतोगण्डमाना मन्त्रिता वैकर्णय स्थूलबिन्दव इत्येते निध्रवाः कश्यपास्
तेषां त्र्यार्षेयः प्रवरो भवति
काश्यपावत्सार नैध्रुवेति होता
निध्रुववदवत्सारवत्कश्यपवदित्यध्वर्युः ४१
रेभाणां त्र्यार्षेयः प्रवरो भवति
काश्यपावत्सार रैभेति होता
रेभवदवत्सारवत्कश्यपवदित्यध्वर्युः ४२
शण्डिलाः कौहडाः पावकाः पार्यका औदमेघाः सौदानवः सावचसः कारेयाः कौकुण्डेया ऐषिकयो महोदकयः कौश्रयो कामशयो मौञ्जायना जाणवत्साः खार्वमायना गाड्गायना वात्सभालयो गोभिला वैदायना वात्स्यायना वाह्यायनयो बहूदरयो भागुरिः गार्दभीमुखा हिरण्यबाहुस्तैदेहा गोमूत्रा वार्कखण्डा जानन्तरिजालन्धरिर्धन्वन्तरित्येते शण्डिलास्
तेषां त्र्यार्षेयः प्रवरो भवति
काश्यपावत्सार शाण्डिलेति होता काश्यपावत्सार दैवलेति वा काश्यपावत्सारासितेति वा शाण्डिलासित दैवलेति वा शण्डिलवदवत्सारवत्कश्यपवदित्यध्वर्युर्देवलवदवत्सारवत्कश्यपवदिति वासितवदवत्सारवत्कश्यपवदिति वा देवलवदवत्सारवच्छण्डिलवदिति वा ४३
लौकाक्षयो दार्भायणा मैत्रवादिर्वैदेहाः कालेयाः कापुटिस्तथा कलयः काँ सपात्रयश्च भालकायनिर्नित्यरसोविरोदकिः कौणामिः सौतयः सैतकिः साम्भरिरानिष्टिरैषिकिः सौसुकिश्चैरन्दिः पशुभिश्चोलपला यौथकालकिर्लोकाक्षयो यौथपालाजपाला इत्येते लोकाक्षयोऽहर्वसिष्ठा नक्तं कश्यपास्
तेषां त्र्यार्षेयः प्रवरो भवति
काश्यपावत्सार वासिष्ठेति होता काश्यपावत्सारासितेति वा
वसिष्ठवदवत्सारवत्कश्यपवदित्यध्वर्युरसितवदवत्सारवत्कश्यपवदिति वैतेषामेवाविवाहा ४४
वसिष्ठानेकार्षेयान्व्याख्यास्यामो वैकलिर्वाराटकिः साखला गौरिश्रवसा आश्वलायनाः कापिष्ठाः शौचिवृक्षा वैयाघ्रपद्या वाह्यकायनिर्वाटव्या जातूकर्णा औडुलोमिः कौभोजिः कौलायनाः सुन्दरहरिताः काण्ढेविद्धिः सौयवसायना आलम्भायना लौमायन्याः स्वस्त्याः कार्षिताः पार्णकायनाश्चौडकायनाः पार्णवल्का देवना गौरव्याः श्राविष्ठायना वाहकथय आविक्षितयोऽश्वयाजयाः पूतिमाषाः सप्तवैला वासिष्ठा इत्येते वसिष्ठास्
तेषामेकार्षेयः प्रवरो भवति वासिष्ठेति होता
वसिष्ठवदित्यध्वर्युः ४५
कुण्डिना लोहायना गुग्गुलिरौपवस्तिर्वैकर्णयोऽश्मरथा बाहवः क्रौञ्चोक्याः सामङ्गलिनः कापटवः पैठका नवग्रामा हिरण्याक्षायणाः पैप्पलादयो भाक्षिर्माध्यन्दिनाः शन्तिः सौपतिथिरित्येते कुण्डिनास्
तेषां त्र्यार्षेयः प्रवरो भवति
वासिष्ठ मैत्रावरुण कौण्डिन्येति होता
कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदित्यध्वर्युः ४६
उपमन्यव औपगवा मण्डलेखयः कापिञ्जला जालागतास्तपोलोकास्त्रैवर्णाश्चैव पार्णागारिः सुराक्षराः शैलालयो महाकर्णायना वालशिखा औद्गाहमानयो बालायना भागुरित्थायना कुण्डोदरयणा लाक्ष्मणेयाः काचान्तयो वार्काश्वकय आनृक्षरायणा आलबवाः कपिकेशाः इत्येत उपमन्यवस्
तेषां त्र्यार्षेयः प्रवरो भवति
वासिष्ठैन्द्र प्रमदाभरद्वसवेति होताभरवद्वसुवदिन्द्र प्रमदवद्वसिष्ठवदित्यध्वर्युः ४७
पराशराः
काण्डूशया वाजयो वाजन्तयो वैमतायनाः ।
गोपालिरेषां पञ्चम एते कृष्णाः पराशराः ॥
प्रारोहयो वैकलयः प्लाक्षयः कौमुदादयः ।
हार्यश्विरेषां पञ्चम एते गौराः पराशराः ॥
खल्वायनयोः गोपयः काल्कयः श्यातयातयः ।
वारुणिरेषां पञ्चम एतेऽरुणाः पराशराः ॥
भालुक्या बादरिश्चैव काह्वायनाः कौकुशालयः ।
क्षैमितिरेषां पञ्चम एते नीलाः पराशराः ॥
कृष्णाजिनाः कापिशुभ्राः श्यामायनयः श्वेतयूपयः ।
पोष्करसादिरेषां पञ्चम एते श्वेताः पराशराः ॥
वाश्यायनयो वार्ष्णेया श्यामेयाः श्रौतिभिः सह ।
चौलिरेषां पञ्चम एते श्यामाः पराशराः ॥
कृष्णा गौरा अरुणा नीलाः श्वेताः श्यामा ये पराशरास्
तेषां त्र्यार्षेयः प्रवरो भवति
वासिष्ठ शाक्त्य पाराशर्येति होता
पराशरवच्छक्तिवद्वसिष्ठवदित्यध्वर्युः ४८
अगस्तीन्व्याख्यास्यामोऽगस्तयो विशालाद्या स्कालायना औपदहनयः कल्माषदण्डिर्धावणिर्लावर्णिर्लव्यार्बुदो बैरिणयो बुद्बुदोदरयः शैवपथयः शालावता मौञ्जकयः पाण्डुहृदा हारिग्रीवयो रौहिष्या मौसलय इत्येतेऽगस्तयस्
तेषां त्र्यार्षेयः प्रवरो भवत्यागस्त्य दार्ढच्युतैध्मवाहेति होतेध्मवाहवद्दृढच्युतिवदगस्तिवदित्यध्वर्युः ४९
सोमवाहानां त्र्यार्षेयः प्रवरो भवत्यागस्त्य दार्ढच्युत सौमवाहेति होता
सोमवाहवद्दृढच्युतिवदगस्तिवदित्यध्वर्युः ५०
यज्ञवाहानां त्र्यार्षेयः प्रवरो भवत्यागस्त्य दार्ढच्युत याज्ञवाहेति होता
यज्ञवाहवद्दृढच्युतिवदगस्तिवदित्यध्वर्युः ५१
क्षत्रियाणां त्र्यार्षेयः प्रवरो भवति
मानवैड पौरूरवसेति होता
पुरूरवोवदिडावन्मनुवदित्यध्वर्युः ५२
वैश्यानां त्र्यार्षेयः प्रवरो भवति
भालन्दन वात्सप्र माङ्क्तिलेति होता
मङ्क्तिलवद्वत्सप्रवद्भलन्दनवदित्यध्वर्युः ५३
नाराशँसान्व्याख्यास्याम आत्रेयवाध्र्यश्ववाधूलवसिष्ठकण्वशुनकसङ्कृतियस्कराजन्यवैश्या इत्येते नाराशँसाः प्रकीर्तितास्
तनूनपादितरेषां क्षत्रियवैश्यानां पुरोहितप्रवरो भवतीति विज्ञायते
मनुवदिति वा - सर्वेषां गोत्राणां मानव्यो हि प्रजा इति विज्ञायते
सगोत्रां गत्वा चान्द्रायणं चरेद्,
व्रते परिनिष्ठिते ब्राह्मणीं न त्यजेन्,
मातृवद् भगिनीवद्गर्भो न दुष्यति कश्यप इति विज्ञायते
अथ सन्निपाते विवाहस्तदध्यायं वर्जयेद्
बौधायनस्य तत्प्रमाणँ हि कर्तव्यं
मानव्यो हि प्रजा इति च विज्ञायते
गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ।
ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः ।
अत्रिर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः ॥
तेषाँसप्तर्षीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्युच्यते
न भवत्ययाजनीयो यः प्रवरान्स्वान्पराँश्च विजानाति
मन्त्रो ब्राह्मणं वेद इत्याचक्षते
तस्मात्प्रवरज्ञाने यत्नो महान्द्विजैः कार्यः
श्राद्धविवाह ऋत्विजो देवा स्तोत्रं गोत्रमूलानि च महाप्रवरे सन्तिष्ठते
नित्यं पर्वणिपर्वणि स्वाध्यायी ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ५४