त्रिंशः प्रश्नः
१
अथेमेऽग्निचयास्
तेषां भूमेः परिमाणविहारान्व्याख्यास्यामोऽथाङ्गुलप्रमाणं चतुर्दशाणवश्चतुस्त्रिँशत्तिलाः पृथुसँ श्लिष्टा इत्यपरं दशाङ्गुलं क्षुद्र पदं द्वादश प्रादेशः
पृथोत्तरयुगे त्रयोदशिके
पदं पञ्चदशाष्टाशीतिशतमीषा चतुःशतमक्षः
षडशीतिर्युगं द्वात्रिँशज्जानुः
षट्त्रिँशच्छम्याबाहू
द्विपदः प्रक्रमो द्वौ प्रादेशावरत्निरथाप्युदाहरन्ति पदे युगे प्रक्रमेऽरत्नावियति शाम्यायां च मानार्थेषु याथाकामीति
पञ्चारत्निः पुरुषो व्यामश्च
चतुररत्निर्व्यायामश्चतुरश्रं चिकीर्षन्यावच्चिकीर्षेत्तावतीँ रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति
लेखामालिख्य तस्या मध्ये शङ्कुं निहन्यात्
तस्मिन्पाशौ प्रतिमुच्य लक्षणेन मण्डलं परिलिखेद्विष्कम्भान्तयोः शङ्कू निहन्यात्
पूर्वस्मिन्पाशं प्रतिमुच्य पाशेन मण्डलं परिलिखेदेवमपरस्मिंस्ते यत्र समेयातां तेन द्वितीयं विष्कम्भमायच्छेद्विष्कम्भान्तयोः शङ्कू निहन्यात्
पूर्वस्मिन्पाशौ प्रतिमुच्य लक्षणेन मण्डलं परिलिखेदेवं दक्षिणत एवं पश्चादेवमुत्तरतस्
तेषां येऽन्त्याः सँसर्गास्तच्चतुरश्रँसम्पद्यतेऽथापरम्प्रमाणाद्द्विगुणाँ रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति
स प्राच्यर्थोऽपरस्मिन्नर्धे चतुर्भागोने लक्षणं करोति
तन्न्यञ्चनम्
अर्धेऽँसार्थम्पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य न्यञ्चनेन दक्षिणापायम्यार्धेन श्रोण्यँ सान्निर्हरेद्दीर्घचतुरश्रं चिकीर्षन्यावच्चिकीर्षेत्तावत्यां भूम्यां द्वौ शङ्कू निहन्याद्द्वौद्वावेकैकमभितः समौ
यावती तिर्यङ्मानी तावतीँरज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति
पूर्वेषामन्त्ययोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे लक्षणं करोति
मध्यमे पाशौ प्रतिमुच्य लक्षणस्योपरिष्टाद्दक्षिणापायम्य लक्षणे शङ्कुं निहन्यात्
सोऽँस एतेनोत्तरोऽँसो व्याख्यातस्
तथा श्रोणी
यत्र पुरस्तादँहीयसीं मिनुयात्तत्र तदर्धे लक्षणं करोत्यथापरं प्रमाणादध्यधाँरज्जुमुभयतःपाशां कृत्वापरस्मिँ स्तृतीये षड्भागोने लक्षणं करोति
तन्न्यञ्चतम्
इष्टेऽँसार्थम्पृष्ठ्यानतयोः पाशौ प्रतिमुच्य न्यञ्चनेन दक्षिणापायम्येष्टेन श्रोण्यँ सान्निर्हरेत्
समचतुरश्रस्याक्ष्णयारज्जुर्द्विस्तावतीं भूमिं करोति
प्रमाणं तिर्यक्विकरण्यायामस्
तस्याक्ष्णयारज्जुस्त्रिकरणी
तृतीयकरण्येतेन व्याख्यात
नवमस्तु भूमेर्भागो भवतीति
दीर्घचतुरश्रस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भूते कुरुतस्तदुभयं करोति
तासां त्रिकचतुष्कयोर्द्वादशिकपञ्चिकयोः पञ्चदशिकाष्टिकयोः सप्तिकचतुर्विँशिकयोर्द्वादशिकपञ्चत्रिँ शिकयोः पञ्चदशिकषट्त्रिँशिकयोरित्येतासूपलब्धिः १
नानाचतुरश्रे समस्यन्कनीयसः करण्या वर्षीयसो वृध्रमुल्लिखेद्वृध्रस्याक्ष्णयारज्जुः समस्तयोः पार्श्वमानी भवति
चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयसो वृध्रमुल्लिखेद्वृध्रस्य पार्श्वमानीमक्ष्णयेतरत्पार्श्वमुपसँहरेत्
सा यत्र निपतेत्तदपच्छिन्द्याद्छिन्नया निरस्तं समचतुरश्रं दीर्घचतुरश्रं चिकीर्षँस्तदक्ष्णयापच्छिद्य भागं द्वेधा विभज्य प्रार्श्वयोरुपदध्याद्यथायोगम्
अपि वैतस्मिँश्चतुरश्रँसमस्य तस्य करण्यापच्छिद्य यदतिशिष्यते तदितरत्रोपदध्याद्दीर्घचतुरश्रँसमचतुरश्रं चिकीषँ र्स्तिर्यङ्मानीं करणीं कृत्वा शेषं द्वेधा विभज्य पार्श्वयोरुपदध्यात्
खण्डमावापेन तत्सम्पूरयेत्
तस्य निर्हार उक्तश्चतुरश्रमेकतोऽणिमच्चिकीर्षन्नणिमतः करणीं तिर्यङ्माणीं कृत्वा शेषमक्ष्णया विभज्य विपर्यस्येतरत्रोपदध्याद्चतुरश्रं प्रौगं चिकीर्षन्यावच्चिकीर्षेद्द्विस्तावतीं भूमिँसमचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात्
तस्मिन्पाशौ प्रतिमुच्य दक्षिणोत्तरयोः श्रोण्योर्निपातयेद्बहिस्पन्द्यमपच्छिन्द्याद्चतुरश्रमुभयतःप्रौगं चिकीर्षन्यावच्चिकीर्षेद्द्विस्तावतीं भूमिं दीर्घचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात्
तस्मिन्पाशौ प्रतिमुच्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेद्बहिस्पन्द्यमपच्छिन्द्यादेतेनापरं प्रौगं व्याख्यातं चतुरश्रं मण्डलं चिकीर्षन्नक्ष्णयार्धं मध्यात्प्राचीमभ्यापातयेद्यदतिशिष्यते तस्य सह तृतीयेन मण्डलं परिलिखेद्मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भमष्टौ भागान्कृत्वा भागमेकोनत्रिँशधा विभज्याष्टाविँ शतिभागानुद्धरेद्भागस्य च षष्ठमष्टमभागोनम्
अपि वा पञ्चदश भागान्कृत्वा द्वावुद्धरेत्
सैषानित्या चतुरश्रकरणी
प्रमाणं तृतीयेन वर्धयेत्तच्चतुर्थेनात्मचतुस्त्रिँशोनेन सविशेषः २
अथाग्न्याधेयिके विहारे गार्हपत्यादाहवनीयस्यायतनं
विज्ञायतेऽष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीतैकादशसु राजन्यो द्वादशसु वैश्य इत्यायामतृतीयेन त्रीणि चतुरश्राण्यनूचीनानि कारयेदपरस्योत्तरस्याँ श्रोण्यां गार्हपत्यस्
तस्यैव दक्षिणेऽँसेऽन्वाहार्यपचनः पूर्वस्योत्तरेऽँस आहवनीयोऽपि वा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा सम्भुज्य षष्ठँसप्तमं वा भागमागन्तुकमुपसमस्य समं त्रैधं विभज्य पूर्वस्मादन्ताद्द्वयोर्भागयोर्लक्षणं करोति
गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं निहन्ति
तद्दक्षिणाग्रेरायतनं भवत्यपि वा प्रमाणं पञ्चमेन वर्धयेत्
तत्सर्वं पञ्चधा सम्भुज्यापरस्मादन्ताद्द्वयोर्भागयोर्लक्षणं करोति
पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं निहन्ति
तद्दक्षिणाग्नेरायतनं भवति
विपर्यस्तैतेनोत्करो व्याख्यातोऽपरेणाहवनीयं यजमानमात्री भवतीति दार्शपौर्णमासिकाया वेदेर्विज्ञायते
तस्यास्त्रिभागोनं पश्चात्तिरश्ची
तस्या एवार्धं पुरस्तात्तिरश्च्येवं दीर्घचतुरश्रमेकतोऽणिमद्विहृत्य स्रक्तिषु शङ्कून्निहन्याद्यावती पार्श्वमानी द्विरभ्यस्ता तावतीँरज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं करोति
दक्षिणयोः पार्श्वयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं निहन्यात्
तस्मिन्पाशौ प्रतिमुच्य लक्षणेन दक्षिणं पार्श्वं परिलिखेदेतेनोत्तरं पार्श्वं व्याख्यातम्पूर्वं पार्श्वं तया द्विरभ्यस्तया परिलिखेदेवमपरं दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्तात्तिरश्चीति पाशुबन्धिकाया वेदेर्विज्ञायते
मानयोगस्तस्या व्याख्यातो रथसम्मितेत्येकेषाम्विराट्सम्पन्नेत्येकेषां शम्यामात्री चतुःस्रक्तिर्भवतीत्युत्तरवेदेर्विज्ञायते
समचतुरश्राविशेषाद्वितृतीया वेदिर्भवतीति पैतृक्या वेदेर्विज्ञायते
महावेदेस्तृतीयेन समचतुरश्रकृतायास्तृतीयकरणी भवतीति
नवमस्तु भूमेर्भागो भवति
यजमानमात्री चतुःस्रक्तिर्भवतीत्येकेषां दिक्षु स्रक्तयो भवन्ति
वेदितृतीये यजेतेति सौत्रामणिकीं वेदिमभ्युपदिशन्ति
महावेदेस्तृतीयेन समचतुरश्रकृताया अष्टादशपदा पार्श्वमानी भवति
तस्यै दीर्घकरण्यामेकतोऽणिमत्करण्यां च याथाकामीति ३
प्राग्वँशः षोडशप्रक्रमायामो द्वादशव्यासोऽपि वा द्वादशप्रक्रमायामो दशव्यासस्
तस्य मध्ये द्वादशिको विहारस्
त्रिँशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति षट्त्रिँशत्प्राची चतुर्विँशतिः पुरस्तात्तिरश्चीति महावेदेर्विज्ञायते
मानयोगस्तस्या व्याख्यात आहवनीयात्षट्प्रक्रमान्महावेदिस्
तत एकस्मिन्सदस्
तद्दशकम्
उदक्सप्तविँशत्यरत्न्योऽष्टादशेत्येकेषां ततश्चतुर्षु हविर्धानं तद्दशकं द्वादशकं वा
मानयोगस्तयोर्व्याख्यातो यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्योत्तरवेदिं विमिमीते
दशपदोत्तरवेदिर्भवतीति सोमे विज्ञायते
मानयोगस्तस्या व्याख्यातश्चात्वालः शम्यामात्रोऽपरिमितो वाथोपरवाः प्रादेशमुखाः प्रादेशान्तराला अरत्निमात्रँसमचतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहन्यादर्धप्रादेशेनार्धप्रादेशेनैकैकं मण्डलं परिलिखेत्
सदसः पूर्वार्धाद्द्विप्रक्रममवशिष्य धिष्ण्यानां द्विप्रादेशो विष्कम्भस्
तथान्तराला आग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निरेतेन मार्जालीयो व्याख्यातस्
तस्योदीचीं द्वारं कुर्वन्ति
रथाक्षान्तराला यूपावटा भवन्तीत्येकादशिन्यां विज्ञायते
तस्या दशानां च रथाक्षाणामेकादशानां च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत
स प्रक्रमः स्यात्
तेन वेदिं विमिमीतेऽथाश्वमेधे विँशत्याश्च रथाक्षाणामेकविँशत्याश्च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत
स प्रक्रमः स्यात्
तेन वेदिं विमिमीतेऽथ प्राच्येकादशिन्यां यूपार्थं वेदेः पूर्वार्धात्पदार्धव्यासमपच्छिद्य तत्पुरस्तात्प्राञ्चं दध्याद्नात्राष्टाङ्गुलं विद्यते
न व्यतिषङ्गो यूपावटाः पदविष्कम्भास्त्रिपदपरिणाहानि यूपोपराणीति ४
अर्धाष्टमाः पुरुषाः प्रथमोऽग्निरर्धनवमा द्वितीयोऽर्धदशमास्तृतीय एवमुत्तरोत्तरो विधाभ्यास ऐकादशविधात्
तदेतत्सप्तविधप्रभृत्येकशतविधान्तम्
अत ऊर्ध्वमेकशतविधानेव प्रत्याददीतानग्निकान्वा यज्ञक्रतूनाहरेदन्यत्राश्वमेधादश्वमेधमप्राप्तं चेदाहरेदत ऊर्ध्वं विधामभ्यस्येन्नेतरदाद्रि येतातीतं चेदाहरेदाहृत्य कृतान्तादेव प्रत्याददीत
कथमु खलु विधामभ्यस्येद्यदन्यत्प्रकृतेस्तत्पञ्चदश भागान्कृत्वा विधायांविधायां द्वौद्वौ भागौ समस्येत्
ताभिरर्धाष्टमाभिरग्निं चिनुयादूर्ध्वप्रमाणाभ्यास जानोः पञ्चमस्य चतुर्विँशेनैके समामनन्त्यथ हैक एकविधप्रभृतीनपक्षपुच्छाँ श्चिन्वते
तन्नोपपद्यते पूर्वोत्तरविरोधादथ हैकेषां ब्राह्मणं भवति श्येनचिदग्नीनां पूर्वा ततिरित्यथापरेषां न ज्यायाँसं चित्वा कनीयाँसं चिन्वीतेत्यथास्माकम्पक्षी भवति
न ह्यपक्षः पतितुमर्हत्यरत्निना पक्षौ द्रा घीयाँसौ भवतस्
तस्मात्पक्षप्रवयाँसि वयाँसि
व्याममात्रौ पक्षौ च पुच्छं च भवतीति
नापक्षपुच्छः श्येनो विद्यते
न चासप्तविधस्य पक्षपुच्छानि विद्यन्ते न च सप्तविधं चित्वैकविधप्रसङ्गस्
तस्मात्सप्तविध एव प्रथमोऽग्निर्भेदान्वर्जयेदधरोत्तरयोः पार्श्वसन्धानं भेदा इत्युपदिशन्ति
तदग्न्यन्तेषु न विद्यते न स्रक्तिपार्श्वयोः साहस्रं चिन्वीत प्रथमं चिन्वान इति
पञ्चमायां वा चितौ सङ्ख्यां पूरयेद्द्विशताश्चेच्चिकीर्षेत्पञ्चचोडाभिर्नाकसदः समानसङ्ख्यं प्रतीयात् ५
पशुधर्मो ह वा अग्निर्यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद्दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषामुत्तरं यदवाक्चोर्ध्वं च तत्समानमेवमिष्टकानाँरूपाण्युपदध्याद्या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात्सव्यावृत उत्तरत ऋजुलेखाः पश्चाच्च पुरस्ताच्च भवन्ति
त्र्यालिखिता मध्येऽथ या विशयस्था यथा ह वै पशोः पृष्ठवँशो नैवैकस्मिन्पार्श्वे व्यतिरेकेण वर्तते नैवापरस्मिन्नेवं तासामुपधानं प्रतीयादथापि ब्राह्मणं भवति
प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङाथर्वणस्तस्येष्टका अस्थानीति
तस्माद्बहिस्तन्वं चेच्चिनुयात्तन्वोपव्लयमध्यैरात्मोपव्लयमध्यात्सन्दध्यात्
प्राञ्चमेनं चिनुत इति विज्ञायतेऽमृन्मयीभिरनिष्टकाभिर्न सङ्ख्यां पूरयेद्
इष्टकचिद्वा अन्योऽग्निः पशुचिदन्य इत्येतस्मात्ब्राह्मणात्
पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियते यत्प्राचीनमैष्टकाद्यजुः क्रियत इति च
लोकबाधीनि द्र व्याण्यवटेषूपदध्याद्मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयादिष्टकामन्त्रयोरिष्टकाव्यतिरेके लोकम्पृणाः सम्पद्यन्ते परिमाणाभावादतीतानेव वेष्टकागणानत्रोपदध्यात्
पञ्च लोकम्पृणार्मन्त्रव्यतिरेकेऽक्ताः शर्कराः सन्धिषूपदध्यात्
प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः
प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः
पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राचीरित्यपवर्गश्चतुरश्रास्वेवैतदुपपद्यते ६
न खण्डामुपदध्याद्न भिन्नामुपदध्याद्न कृष्णामुपदध्याद्न जीर्णामुपदध्याद्न लक्ष्मणामुपदध्याद्न स्वयमातृण्णाँस्वयं चितावुपदध्यादूर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेदर्धेन नाकसदां पञ्चचोडानां च
यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्सम्पूरयेत्पुरीषस्यानियतपरिमाणत्वाद्व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते
चतुरश्रेत्येकेषाम्परिमण्ड्लेत्येकेषां चतुरश्रँसप्तधा विभज्य तिरश्चीं त्रेधा विभजेदपरस्मिन्प्रस्तार उदीचीरुपदधाति
समचतुरश्राश्चेदुपदध्याद्व्यायामषष्ठेनेष्टकाः कारयेच्चतुर्थेन तृतीयेनेति
तासां नव प्रथमा द्वादश द्वितीया इति पूर्वस्मिन्प्रस्तार उपदधाति
पञ्च तृतीयाः षोडश प्रथमा इत्यपरस्मिन्
परिमण्डलायां यावत्सम्भवेत्तावत्समचतुरश्रं कृत्वा तन्नवधा विभजेत्प्रधीँ स्त्रिधात्रिधेत्यपरं प्रस्तारं तथोपदध्याद्यथा प्रध्यनीकेषु स्रक्तयो भवन्ति
धिष्ण्या एकचितीकाश्चतुरश्राः परिमण्डला वा
तेषामाग्नीध्रीयं नवधा विभज्यैकस्या स्थानेऽश्मानमुपदध्यादथ होतुर्धिष्ण्यं नवधा विभज्य पूवाँर्स्त्रिभागानेकैकं द्वेधा विभजेदथेतरान्नवधानवधा विभज्य मध्यमपूर्वौ द्वौ भागौ समस्येदथ मार्जालीयं त्रेधा विभज्य पूर्वापरौ भागौ पञ्चधा विभजेदुख्यभस्मना सँसृज्येष्टकाः कारयेदिति
संवत्सरभृत एवैतदुपपद्यते न रात्रिभृत एवमस्य मन्त्रवती चितिकॢप्तिश्छन्दश्चितं त्रिषाहस्रस्य परस्ताच्चिन्वीत कामविवेकात्
तस्य रूपँश्येनाकृतिर्भवतीति ७
अथ वै भवति
श्येनचितं चिन्वीत सुवर्गकाम इत्याकृतिद्वैविध्यं चतुराश्रात्मा श्येनाकृतिश्च
विज्ञायत उभयं ब्राह्मणम्पञ्च दक्षिणायाँश्रोण्यामुपदधाति पञ्चोत्तरस्याम्बस्तो वय इति दक्षिणेऽँ! स उपदधाति
वृष्णिर्वय इत्युत्तरे
व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति
सिँहो वय इत्युत्तरे
पुरुषो वय इति मध्य इति चाथापरम्वयसां वा एष प्रतिमया चीयते यदग्निरित्युत्पततां छाययेत्यर्थः
समचतुरश्राभिरग्निं चिनुते दैव्यस्य च मानुषस्य च व्यावृत्त्या इति मैत्रायणीयब्राह्मणं भवति
तस्येष्टकाः कारयेत्पुरुषस्य चतुर्थेन पञ्चमेन षष्ठेन दशमेनेत्यथाग्निं विमिमीते
यावान्पुरुष ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयं
यदमुत्र स्पन्दया करोति तदिह वेणुना करोति
तस्यात्मा समचतुरश्रश्चत्वारः पुरुषाः
पक्षः समचतुरश्रः पुरुषः
स तु दक्षिणतोऽरत्निना द्रा घीयान्
एतेनोत्तरः पक्षो व्याख्यातः
पुच्छः समचतुरश्रः पुरुषस्
तमवस्तात्प्रादेशेन वर्धयेदेवँसारत्निप्रादेशा सप्तविधः सम्पद्यत उपधाने पक्षाग्रादुत्तरतः पुरुषतृतीयवेलायां चतस्रः पञ्चम्यस्तासामभितो द्वेद्वे पादेष्टके
ततोऽष्टौ चतुर्थ्यः
पक्षशेषँषड्भागीयाभिः प्रच्छादयेदेतेनोक्तरः पक्षो व्याख्यातः
पूर्वापरयोः पुच्छपार्श्वयोश्चतुर्भागीया उपदध्याद्दक्षिणोत्तरयोः पादेष्टकाः
शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेदेष द्विशतः प्रस्तारोऽपरस्मिन्प्रस्तारे पक्षाग्रादुत्तरतोऽर्धव्यायामवेलायां तिस्रस्तिस्रः षष्ठ्यो द्वेद्वे द्विपदे इति विपर्यासमुपदध्यात्
तथोत्तरे
दक्षिणस्याँश्रोण्यां नव षष्ठ्यश्चतुरश्रकृतास्
तथोत्तरस्यां नवनव षष्ठ्यो द्वेद्वे द्विपदे इति दक्षिणादँसादोत्तरादँ साद्विपर्यासमुपदध्याद्शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेदेष द्विशतः प्रस्तारो व्यत्यासं चिनुयाद्यावतः प्रस्ताराँ श्चिकीर्षेत् ८
अथापरः
पुरुषस्य पञ्चम्यस्
ता एवैकतोऽध्यर्धास्
तासामर्ध्याः पाद्याश्चोपधाने पूर्वापरयोः पक्षपार्श्वयोरर्धेष्टका उदीचीरुपध्यात्
तथोत्तरे
दक्षिणोत्तरयोः पुच्छपार्श्वयोश्चतस्रश्चतस्रोऽध्यर्धा उदीचीः
पुच्छस्यावस्ताच्चतस्रोऽर्धेष्टका उदीचीस्
तासामभितो द्वे पादेष्टके
जघनेन पुच्छाप्यययोरेकैकामर्धेष्टकां प्राचीं शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेदेष द्विशतः प्रस्तारोऽपरस्मिन्प्रस्तार आत्मस्रक्तिषु चतस्रः पादेष्टका उपदध्यात्
तासामभितो द्वेद्वे अर्धेष्टके
पूर्वस्मिन्ननीके पञ्च
पक्षाग्रयोस्तिस्रस्तिस्रोऽध्यर्धा उदीचीस्
तासामन्तरालेष्वेकैकामर्धेष्टकां प्राचीं शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेदेष द्विशतः प्रस्तारो व्यत्यास चिनुयाद्यावतः प्रस्ताराँश्चिकीर्षेत् ९
अथ वक्रपक्षो व्यस्तपुच्छस्
तस्येष्टकाः कारयेत्पुरुषस्य चतुर्थ्यस्
तासामर्ध्याः पाद्याश्च
नित्यमक्ष्णयापच्छेदनमनादेशे
पादेष्टकाश्चतुर्भिः परिगृह्णीयादर्धपदेन पदेनाध्यर्धपदेन पदसविशेषेणेति
ते द्वे यथा दीर्घसँश्लिष्टे स्यातां तथार्धेष्टकां कारयेदथाग्निं विमिमीत आत्मा द्विपुरुषायामो दशपदव्यासस्
तस्य दक्षिणादँसादुत्तरतोऽध्यर्धप्रक्रमे लक्षणं करोत्येवमपरतस्
तयोरुपरिष्टात्स्पन्द्यां नियम्याँसमपच्छिन्द्यादेतेनेतरासाँ स्रक्तीनामपच्छेदा व्याख्याताः
स आत्मा
शिरोऽर्धषष्ठपदायाममर्धपुरुषव्यासं
तस्याँसौ प्रक्रमेणप्रक्रमेणापच्छिन्द्यात्
पुच्छस्य षट्पदा प्राची द्विपुरुषोदीची
तस्य पूर्वे स्रक्ती त्रिभिस्त्रिभिः प्रक्रमैरपच्छिन्द्यात्
पक्षो द्वादशपदायामो दशपदव्यासस्
तस्य मध्यात्प्राञ्चि षट्पदानि प्रक्रम्य शङ्कुं निहन्याद्श्रोण्योरेकैकम्
अथैनँस्पन्द्यया परिचिनुयादन्तस्पन्द्यामपच्छिद्य तत्पुरस्तात्प्राञ्चं दध्यात्
स निर्णाम एतेनोत्तरस्य पक्षस्य निर्णामो व्याख्यातः
पक्षाग्रयोः प्रक्रमप्रमाणानि पञ्चपञ्च चतुरश्राण्यनूचीनानि कृत्वा सर्वाण्यवाञ्चमक्ष्णयापच्छिन्द्यादर्धान्युद्धरेदेवँ सारत्निप्रादेशः सप्तविधः सम्पद्यत उपधाने शिरसोऽप्यये चतुर्थीमुपदध्याधँसमुखीं पुरस्तात्पादेष्टके अभितस्
तयोरवस्तादभितस्तिस्रस्तिस्रश्चतुरश्रपाद्याः
शेषे पादेष्टका अपि वा शिरसोऽग्रे हँसमुखीमुपदध्यात्
तस्य अवस्ताच्चतुर्थीमुपदध्यात्पादेष्टके अभितस्
तयोरवस्तादभितस्तिस्रस्तिस्रश्चतुरश्रपाद्याः
शेषे पादेष्टकाः
शिरसोऽवस्तात्पञ्च पादेष्टका व्यतिषक्ता उपदध्यात्
तथा पुच्छस्य पुरस्ताद्यद्यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पादेष्टकाश्चोपदध्याद्शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत्
पाद्याभिः सार्ध्याभिः सङ्ख्यां पूरयेदेष द्विशतः प्रस्तारोऽपरस्मिन्प्रस्तारे हँसमुखीश्चतस्रश्चतसृभिः पादेष्टकाभिः संयोजयेद्यथा दीर्घचतुरश्रँ सम्पद्यते
तत्तिर्यक्स्वयमातृण्णावकाश उपदध्याद्
हँसमुख्यौ प्रतीच्यौ पुच्छाप्ययेऽर्धपदेनात्मनि विशये
तयोरवस्तादभितस्तिस्रः पादेष्टकाः प्राङ्मुखीरुपदध्यात्
पुच्छस्यावस्तात्पञ्चदश पादेष्टका व्यतिषक्ता उपदध्यात्
पादेष्टके अर्धेष्टकेति पक्षपत्त्राणां प्राचीर्व्यत्यासं चिनुयाद्विशये यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पादेष्टकाश्चोपदध्याद्शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत्
पाद्याभिः सार्ध्याभिः सङ्ख्यां पूरयेत् १०
अथापरः
पुरुषस्य पञ्चमीभिः शतमशीतिः सप्तार्धं च सारत्निप्रादेशः सप्तविधः सम्पद्यते
तासां पञ्चाशद्द्वे चात्मन्यर्धचतुर्थ्यः शिरसि
पञ्चदश पुच्छेऽष्टपञ्चाशत्सार्ध्या दक्षिणे पक्ष उपदध्यात्
अथोत्तरेऽर्धव्यायामेन स्रक्तीनामपच्छेदः
सन्नतं पुच्छम्पक्षयोस्त्रिभिस्त्रिभिररत्निभरपनामोऽध्यर्ध्याभिः षट्षट्पत्त्राणि कुर्यादाकृतिः शिरसो नित्याथेष्टकानां विकाराः
पुरुषस्य पञ्चम्यस्
ता एवैकतोऽध्यर्धास्
ता एवैकतः सपादाः
पञ्चमभागीयायाः पाद्याः सार्ध्यास्
तथाध्यर्धायास्
तयोश्चाष्टमभागौ तथा श्लेषयेद्यथा तिस्रः स्रक्तयो भवन्ति
पञ्चमभागीयायाश्चाष्टम्यस्
तानि दशात्मनि पञ्चमभागीयाः सार्ध्या उपदध्यात्
तथा पुच्छे
पक्षयोश्चाध्यर्धाः सार्ध्याः
शिरसि याः सम्भवन्त्यपरस्मिन्प्रस्तारे पूर्वयोः पक्षाप्यययोरेकैकामुभयीमुपदध्यादेकैकामपरयोर्
द्वेद्वे शिरसः पार्श्वयोः
पुच्छस्यावस्तादध्यर्धाः प्राचीर्यथावकाशम्पार्श्वयोः पाद्याः साष्टमभागाः
पक्षयोश्चाध्यर्धाः सावयवाः
शेषं यथायोगं यथासङ्ख्यं यथाधर्मं चोपदध्यात् ११
कङ्कचित एतेनात्मा पुच्छं च व्याख्यातं शिरसि पञ्चोपदध्यात्
तस्याकृतिर्व्याख्याता
सप्तपञ्चाशद्दक्षिणे पक्ष उपदध्यात्
तथोत्तरे
व्यायामेन सप्रादेशेन पक्षयोरपनामः
पञ्चमभागीयार्ध्याभिः षट्षट्पत्त्राणि कुर्यादध्यर्धावशिष्यते
तया पुच्छस्यावस्तात्पादावरत्निमात्रावरत्न्यन्तरालौ प्रादेशव्यासौ भवतस्
तयोरवस्तादभितो द्वौद्वावष्टमभागौ प्राग्भेदावुपदध्यादेवँसारत्निप्रादेशः सप्तविधः सम्पद्यतेऽथेष्टकानां विकाराः
पञ्चमभागीयाः सावयवाः
पादेष्टकां चतुर्भिः परिगृह्णीयादर्धप्रादेशेनाध्यर्धप्रादेशेन प्रादेशेन प्रादेशसविशेषेनेत्यध्यर्धेष्टकां चतुर्भिः परिगृह्णीयादर्धव्यायामेन द्वाभ्यामरत्निभ्यामरत्निसविशेषेणेति
ताः षट्
तासां चतुरश्रपाद्याः साष्टमभागाः पादयोरुपधाय शेषं यथायोगं यथासङ्ख्यं यथाधर्मं चोपदध्यात् १२
अलजचित एतेनात्मा शिरः पुच्छं च व्याख्यातं पदावपोद्धृत्य
त्रिषष्टिर्दक्षिणे पक्ष उपदध्यात्
तथोत्तरे
पुरुषेण पक्षयोरपनामोऽप्रस्मादपनामात्प्राञ्चमरत्निं मित्वा तस्मिन्स्पद्यां नियम्यापरं पक्षपत्त्रापच्छेदमन्वायच्छेदेवं पञ्च पञ्चम्यः सार्ध्या उद्धृता भवन्ति
पादेष्टकामपनाम उपधाय तासां चतुरश्रपाद्याः साष्टमभागा अपोद्धृत्य शेषं यथायोगं यथासङ्ख्यं यथाधर्मं चोपदध्यात् १३
प्रौगचितं चिन्वीतेति
यावानग्निः सारत्निप्रादेशस्तावत्प्रौगं कृत्वा तस्यापरस्याः करण्या द्वादशेनेष्टकास्तदर्धव्यासाः कारयेत्
तासामर्ध्याः पाद्याश्च
तासां द्वे अर्धेष्टके बाह्यसविशेषे चुबुक उपदध्यादर्ध्याश्चान्तयोः
शेषमग्निं बृहतीभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेदपरस्मिन्प्रस्तारेऽपरस्मिन्ननीके सप्तचत्वारिँशत्पादेष्टका व्यतिषक्ता उपदध्याद्चुबुक एकाँशूलपाद्यां दीर्घे चेतरे चतस्रः स्वयमातृण्णावकाश उपदध्यादर्ध्याश्चान्तयोः
शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् १४
उभयतःप्रौगं चिन्वीतेति
यावानग्निः सारत्निप्रादेशस्तावदुभयतःप्रौगं कृत्वा
नवमेन तिर्यङ्मान्याः प्रौगचितोक्ता विकारास्
तथोपधानम्
अपरस्मिन्प्रस्तारे चुबुकयोर्द्वे पादेष्टके उपदध्यात्सन्ध्यन्तयोश्च दीर्घपाद्ये
दीर्घे चेतरे च चतस्रः स्वयमातृण्णावकाश उपदध्यादर्ध्याश्चान्तयोः
शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् १५
रथचक्रचितं चिन्वीतेति विज्ञायते
द्वयानि तु खलु रथचक्राणि भवन्ति साराणि च प्रधियुक्तानि चाविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरित्यथाग्निं विमिमीते
यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिन्यावत्सम्भवेत्तावत्समचतुरश्रं कृत्वा तस्य कर्ण्या द्वादशेनेष्टकाः कारयेत्
तासाँषट्प्रधावुपधाय शेषमष्टधा विभजेदपरं प्रस्तारं तथोपदध्याद्यथा प्रध्यनीकेषु स्रक्तयो भवन्त्यथापरः
पुरुषार्धात्पञ्चदशेनेष्टकाः समचतुरश्राः कारयेन्मानार्थास्
तासां द्वे शते पञ्चविँशतिश्च सारत्निप्रादेशः सप्तविधः सम्पद्यते
तास्वन्याश्चतुःषष्टिमावपेत्
ताभिः समचतुरश्रं करोति
तस्य षोडशेष्टका पार्श्वमानी भवति
त्रयस्त्रिँशदतिशिष्यन्ते
ताभिरन्तान्सर्वशः परिचिनुयाद्नाभिः षोडश मध्यमाश्चतुःषष्टिरराश्चतुःषष्टिर्वेदिर्नाभिः शेषा
नाभिमन्ततः परिलिखेद्नेमिमन्ततश्चान्तरतश्च परिलिख्य नेमिनाभ्योरन्तरालं द्वात्रिँशद्धा विभज्य विपर्यासं भागानुद्धरेदेवमवाप उद्धृतो भवति
नेमिं चतुःषष्टिं कृत्वा व्यवलिख्य मध्ये परिकृषेत्
ता अष्टाविँशतिशतं भवन्त्यराँश्चतुर्धाचतुर्धा नाभिमष्टधा विभजेदेष प्रथमः प्रस्तारोऽपरस्मिन्प्रस्तारे नाभिमन्ततश्चतुर्थवेलायां परिकृषेन्नेमिमन्तरतो नेमिमन्तरतश्चतुःषष्टिं कृत्वा व्यवलिखेदराणां पञ्चधा विभाग आ परिकर्षणयोर्नेम्यामन्तरालेषु द्वेद्वे नाभ्यामन्तरालेष्वेकैकां यच्छेषं नाभेस्तदष्टधा विभजेत्
स एष षोडशकरणः सारो रथचक्रचित् १६
द्रो णचितं चिन्वीतेति विज्ञायते
द्वयानि तु खलु द्रो णानि भवन्ति चतुरश्राणि च परिमण्डलानि चाविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरित्यथाग्निं विमिमीते
चतुरश्र आत्मा भवति
तस्य त्रयः पुरुषास्त्रिभागोनाः पार्श्वमानी
पश्चात्त्सरुर्भवति
तस्यार्धपुरुषो दशाङ्गुलानि च प्राची
त्रिभागोनः पुरुष उदीचीत्येवँसारत्निप्रादेशः सप्तविधः सम्पद्यतेऽथेष्टकानां विकाराः
पुरुषस्य षष्ठ्यस्
त एवैकतोऽध्यर्धास्
तासामर्ध्यास्तिर्यग्भेदाः पुरुषस्य चतुर्थ्य इति
तासां त्सरुश्रोण्यन्तरालयोः षट्षष्टीरुपधाय शेषमग्निं बृहतीभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेदपरस्मिन्प्रस्तारे दक्षिणेऽँसेऽध्यर्धामुदीचीमुपदध्यात्
तथोत्तरे
पूर्वस्मिन्ननीके षड्भागीया उपदध्याद्दक्षिणोत्तरयोश्चतुर्भागीयास्
त्सरोः पुरस्तात्पार्श्वयोर्द्वे चतुर्भागीये उपदध्यात्
तयोरवस्तादभितो द्वेद्वे अध्यर्धे विषूची
तयोरवस्तान्मध्यदेशे द्वे षष्ठ्यौ प्राच्यौ
शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् १७
अथापरः
पुरुषस्य षोडशीभिर्विँशशतँसारत्निप्रादेशः सप्तविधः सम्पद्यते
तासामेकामपोद्धृत्य शेषाः परिमण्डलं करोति
तत्पूर्वेण रथचक्रचिता व्याख्यातं षोडशीं पुरस्ताद्विशय उपधाय तया सह मण्डलं परिलिखेद्
यदवस्तादपच्छिन्नं तत्पुरस्तादुपदध्यात्
प्रधीनाँसप्तधा विभागः
प्रधिमध्यमाः प्रक्रमव्यासा भवन्ति
चतुरश्राणामर्ध्याभिः सङ्ख्यां पूरयेदपरस्मिन्प्रस्तारे प्रधिमध्यमामोष्ठ उपधाय यदवस्तात्तद्द्वेधा विभजेत्
स एष नवकरणो द्रो णचित्परिमण्डलः
समूह्यपरिचाय्यौ पूर्वेण रथचक्रचिता व्याख्यातौ
समूह्यस्य दिक्षु चात्वालान्खानयित्वा तेभ्यः पुरीषँसमूह्योपदध्यात्
परिचाय्य इष्टकानां देशभेदस्
तँसर्वाभिः प्रदक्षिणं परिचिनुयात् १८
श्मशानचितं चिन्वीतेति विज्ञायते
सर्वमग्निं चतुरश्रान्पञ्चदश भागान्कृत्वा तेषामाख्यातमुपधानं त्रिभिर्भागैर्भागार्धव्यासं दीर्घचतुरश्रं विहृत्य पूर्वस्याः करण्या मध्याच्छ्रोणी प्रत्यालिख्यान्तावुद्धरेत्
तस्य दशधा विभागस्
तानि विँशतिः सर्वोऽग्निः सम्पद्यतेऽपरस्मिन्प्रस्तारे प्रौगमध्येऽनूचीनं विभजेत्
तस्य षड्धा विभागस्
ते द्वे पार्श्वयोरुपदध्याद्भागतृतीयायामाश्चतुर्थव्यासाः कारयेत्
तासामर्ध्यास्तिर्यग्भेदास्
ता अन्तयोरुपधाय शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेद्
अर्धेष्टकाभिः सङ्ख्यां पूरयेदूर्ध्वप्रमाणमग्नेः पञ्चमेन वर्धयेत्
तत्सर्वं त्रैधा विभज्य द्वयोर्भागयोश्चतुर्थेन वा नवमेन वा चतुर्दशेन वेष्टकाः कारयेत्
ताभिश्चतस्रो वा नव वा चतुर्दश वा चितीरुपधाय शेषमवाञ्चमक्ष्णयापच्छिन्द्यादर्धमुद्धरेत्
तस्य नित्यो विभागो यथायोगमिष्टकानाँह्रासवृद्धी १९
कूर्मचितं चिन्वीत यः कामयेत ब्रह्मलोकमभिजयेयमिति विज्ञायते
द्वयाः खलु कूर्मा भवन्ति वक्राङ्गाश्च परिमण्डलाश्चाविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरित्यथाग्निं विमिमीते
चतुरश्र आत्मा भवति
तस्य दश प्रक्रमाः पार्श्वमानी भवति
तस्य द्वाभ्यान्द्वाभ्यां प्रक्रमाभ्याँस्रक्तीनामपच्छेदः
पूर्वस्मिन्ननीके प्रक्रमप्रमाणानि चत्वारि चतुरश्राणि कृत्वा तेषां ये अन्त्ये ते अक्ष्णयापच्छिन्द्यादेवं दक्षिणत एवं पश्चादेवमुत्तरतः
स आत्मा
शिरः पञ्चपदायाममर्धपुरुषव्यासं तस्याँसौ प्रक्रमेणप्रक्रमेणापच्छिन्द्यात्
स्रक्त्यपच्छेदे पादानुन्नयेत्
तस्य द्विपदाक्ष्णया तिरश्ची तद्द्विगुणायाममनूची
तस्य द्विपदाक्ष्णया पूर्वमँसमपच्छिन्द्यादेतेनेतरेषाम्पादानामपच्छेदा व्याख्याता
अपरयोः पादयोरपरावँसावपच्छिन्द्यादेवँसारत्निप्रादेशः सप्तविधः सम्पद्यते
तस्येष्टकाः कारयेत्पुरुषस्य चतुर्थ्यस्
तासामर्ध्याः पाद्याश्चाध्यर्धपाद्याश्चतुर्भिः परिगृह्णीयात्प्रक्रमेण द्वाभ्यां पदाभ्यां पदसविशेषेणेति
ते द्वे यथा दीर्घसँश्लिष्टे स्यातां तथैकां कारयेद्द्विपदाक्ष्यणार्धेन समचतुरश्रामेकाम्
उपधाने शिरसोऽग्रे चतुरश्रामुपदध्याधँसमुख्याववस्तात्
पञ्चपञ्च चतुरश्रा द्वेद्वे पादेष्टके इति पादेषूपदध्याद्यद्यदपच्छिन्नं तस्मिन्नर्धेष्टका उपदध्याच्छेषमग्निं चतुर्भागीयाभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेदपरस्मिन्प्रस्तारे शिरसोऽग्रे हँ समुखीमुपदध्यात्पादेष्टके अभितस्
तयोरवस्तादभितो द्वेद्वे अध्यर्धपाद्ये विषूची
तयोरवस्तादभितश्छेदसँहिते द्वे पादेष्टके
द्वेद्वे द्विपदे तिस्रस्तिस्रोऽर्धेष्टका इति पादेषूपदध्याद्यद्यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पदेष्टकाश्चोपदध्याद्शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् २०
अथापरः
पुरुषस्य षोडशीभिर्विँशशतँसारत्निप्रादेशः सप्तविधः सम्पद्यते
तासां पञ्च षोडशीरपोद्धृत्य शेषाः परिमण्डलं करोति
तदुत्तरेण द्रो णचिता व्याख्यातम्
अथ ताः पञ्च षोडश्यस्ताभिरवान्तरदिक्षु पादानुन्नयेच्छिरः पुरस्तात्
तासां परिकर्षणं व्याख्यातम्प्रधीनाँसप्तधा विभागः
प्रधिमध्यमाः प्रक्रमव्यासा भवन्ति
यदतिरिक्तँसम्पद्यते तच्चतुरश्राणामध्यर्धाभिर्योयुज्येतापरस्मिन्प्रस्तारे पादानाँशिरोवद्विभागः शिरसः पादवद्व्यत्यासं चिनुयाद्यावतः प्रस्ताराँ श्चिकीर्षेत्
कूर्मस्यान्ते तनुपुरीषमुपदध्यान्मध्ये बहुलम्
एतदेव द्रो णे विपरीतम्
अथ हैक एकविधप्रभृतीन्प्रौगादीन्ब्रुवते
समचतुरश्रानेक आचार्यास्
तस्य करण्या द्वादशेनेष्टकाः कारयेत्
तासामर्ध्याः पाद्याश्चाथाश्वमेधिकस्याग्नेः पुरुषाभ्यासो नारत्निप्रादेशानाम्प्राकृतो वा त्रिगुणस्
त्रिस्तावोऽग्निर्भवतीत्येकविँशोऽग्निर्भवतीत्युभयं ब्राह्मणमुभयं ब्राह्मणम् २१