अष्टाविंशः प्रश्नः
१
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
यः पापयक्ष्मगृहीतः स्याद्यो वापरुध्येत देवेभ्य ऋषिभ्यः पितृभ्यो गोभ्यो ब्राह्मणेभ्यस्तेनाभिशस्तोऽभिशस्यमानो वा रहस्येष्ट्या यजेतेत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्याः प्रज्ञात उपवसथोऽथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने येन देवाः पवित्रेणात्मानं पुनते सदा ।

“One who is seized by a chronic illness or who is deprived of gods, R̥ṣis, Pitr̥s, cattle and the brahmaņas, or who is or is being accused for robbery, should perform the Rahasyeṣṭi.” One who is going to perform this Iṣṭi procures a piece of gold. The rite to be performed on the Upavasatha-day is well known. Next morning after the Agnihotra has been offered, one melts clarified butter over the Gārhapatya before the carrying forth of the Praṇītā waters, purifies it, takes four spoonfuls into the ladle, and makes an offering on the Āhavanīya, while the sacrificer has contacted him,
विश्वास-प्रस्तुतिः
तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति प्राजापत्यं पवित्रं शतोद्यामँहिरण्मयम्।
मूलम्
तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति प्राजापत्यं पवित्रं शतोद्यामँहिरण्मयम्।
English
with the verse “May the Pāvamānī verses purify me through that thousand-streamed purifier through which the gods always purify themselves svāhā.”1 He takes another four spoonfuls and offers on the Āhavanīya itself with the verse, “The purifier which belongs to Prajāpati, is made of a hundred darbha-blades and is golden.
विश्वास-प्रस्तुतिः
तेन ब्रह्मविदो वयम्पूतं ब्रह्म पुनीमहे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोतीन्द्र ःसुनीती सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
मूलम्
तेन ब्रह्मविदो वयम्पूतं ब्रह्म पुनीमहे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोतीन्द्र ःसुनीती सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
English
We who possess divine knowledge shall purify the pure divine song through that purifier, svāhā.”1 He takes another four spoonfuls and again offers on the Āhavanīya with the verse, “May Indra together with Suniti purify me; Soma together with Svasti; Varuṇa together with Samici.
विश्वास-प्रस्तुतिः
यमो राजा प्रमृणाभिः पुनातु मां जातवेदा मोर्जयन्त्या पुनातु स्वाहेत्यथ पृष्ठ्याँस्तीर्त्वापः प्रणीयाग्नयेऽँहोमुचेऽष्टाकपाल इति दशहविषमिष्टिं निर्वपति श्रपयित्वासादयति
मूलम्
यमो राजा प्रमृणाभिः पुनातु मां जातवेदा मोर्जयन्त्या पुनातु स्वाहेत्यथ पृष्ठ्याँस्तीर्त्वापः प्रणीयाग्नयेऽँहोमुचेऽष्टाकपाल इति दशहविषमिष्टिं निर्वपति श्रपयित्वासादयति
English
May king Yama together with the Pramṛṇās purify me; may Jātavedas Agni together with Ūrjayantī purify me svāhā.”1
Having strewn the Pṛṣṭhya line and having carried forth Praṇītā waters, he polurs out paddy for the Iṣṭi of ten oblations beginning with a cake on eight potsherds to Amhomuc Agni.2 Having cooked (the oblations) he places them (within the altar).
विश्वास-प्रस्तुतिः
तस्याः सप्तदश सामिधेन्यः
मूलम्
तस्याः सप्तदश सामिधेन्यः
English
For this (Iṣṭi) there are seventeen Sāmidhenī verses.
विश्वास-प्रस्तुतिः
समिध्यमानां च समिद्धां चान्तरेण पावकवत्यौ धाय्ये दधात्यपामिदं न्ययनं नमस्त इति द्वे
मूलम्
समिध्यमानां च समिद्धां चान्तरेण पावकवत्यौ धाय्ये दधात्यपामिदं न्ययनं नमस्त इति द्वे
English
Between the two (Sāmidhenī verses) respectively beginning with the words samidhyamāna3 and samiddha3 (the Hotṛ) inserts two additional verses containing the word pāvaka, namely, “This is the source of waters, the storing place of ocean. O Agni, let thy weapons strike somebody different from us. Purifier, do thou be auspicious to us. O Agni obeisance to thy heat, thy brilliance, obeisance to thy flame. O Agni let thy….”4
विश्वास-प्रस्तुतिः
पावकवन्तावेवाज्यभागवग्नी रक्षाँसि सेधति शुक्रशोचिरमर्त्यः ।
मूलम्
पावकवन्तावेवाज्यभागवग्नी रक्षाँसि सेधति शुक्रशोचिरमर्त्यः ।
English
The Ājyabhāgas are also the verses containing the word pāvaka. (The Hotṛ) recites the puronuvākyā (for Agni), “Agni, the bright-flamed, immortal, bright, purifier, venerable, drives away the Rakṣases,”5
विश्वास-प्रस्तुतिः
शुचिः पावक ईड्य इति पुरोऽनुवाक्यामनूच्य यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
मूलम्
शुचिः पावक ईड्य इति पुरोऽनुवाक्यामनूच्य यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
English
and recites the yājyā, “O Agni, may we purify our divine song through thy purifier which is spread amidst thy flame.”6
विश्वास-प्रस्तुतिः
ब्रह्म तेन पुनीमह इति यजति
मूलम्
ब्रह्म तेन पुनीमह इति यजति
विश्वास-प्रस्तुतिः
यो धारया पावकया परिप्रस्यन्दते सुतः ।
मूलम्
यो धारया पावकया परिप्रस्यन्दते सुतः ।
विश्वास-प्रस्तुतिः
इन्दुरश्वो न कृत्विय इति पुरोऽनुवाक्यामनूच्या कलशेषु धावति पवित्रे परिषिच्यते ।
मूलम्
इन्दुरश्वो न कृत्विय इति पुरोऽनुवाक्यामनूच्या कलशेषु धावति पवित्रे परिषिच्यते ।
English
(For the Ājyabhāga to Soma he recites the verse), “The pressed Soma which flows around in a purifying stream like an active horse,”7 as the puronuvākyā, and recites the yājyā : “(The pressed Soma) flows into the wooden trough (after) it is passed through the woolen strainer. It is extolled in the sacrifice with prayers.”8
विश्वास-प्रस्तुतिः
उक्थैर्यज्ञेषु वर्धत इति यजत्यथ हविषामग्नेर्मन्वे प्रथमस्य प्रचेतस इत्येतस्मिन्ननुवाके याज्यापुरोऽनुवाक्याः सहसंयाज्या भवन्त्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति पवमानः सुवर्जन इत्येतेनानुवाकेन प्रत्यृचम्प्रसिद्धेडाथान्वाहार्यमासाद्य हिरण्यं ददाति

The puronuvākyās and yājyās for the principal offerings together with the Sviṣṭakṛt offering are from the Anuvāka9 beginning with “I think of Agni the first and the wise one….” Before the Sviṣṭakr̥t offering he offers spoonfuls respectively with the verses from the Anuvāka beginning with “(the Soma) which is being passed through the filter, which is born in the heaven….."10 The invocation of Iḍa is as prescribed. Having placed the Anvähārya cooked rice (within the altar) the sacrificer gives away a piece of gold as Dakṣiņā.
विश्वास-प्रस्तुतिः
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्ताद्गृहपतेः स्रुवाहुतीरुपजुहोति यद्देवा देवहेडनमित्येतेनानुवाकेन प्रत्यृचं सन्तिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
मूलम्
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्ताद्गृहपतेः स्रुवाहुतीरुपजुहोति यद्देवा देवहेडनमित्येतेनानुवाकेन प्रत्यृचं सन्तिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
English
The rite upto the Patnīsamyājas is similar. Before the offering to Gṛhapati Agni, the Adhvaryu offers. spoonfuls respectively with the verses from the Anuvāka11 beginning with “O gods, the sons of Aditi, do you relieve us of the deed by which we may have disturbed the gods. Relieve me with the best order.” This Iṣṭi comes to an end with the pouring down of the Praṇīta waters and the Viṣṇu-strides. the sacrificer releases his vow.
विश्वास-प्रस्तुतिः
एतयैव यजेतर्तुव्यतिक्रमे दारव्यतिक्रमेऽयोनौ वा रेतः सिक्त्वैतयैव यजेत पातकोपपातकसंयुक्तो द्वादशाहं महापातकसंयुक्तो मासं पुण्यमिच्छन्संवत्सरमृतुं वा तामेतां महापवित्रेष्टिरित्याचक्षते मृगारेष्टिरिति वा रहस्येष्टिरिति बौधायनः १

One who has transgressed the rule of approaching his wife after her menses, who has not at all approached his wife or has dropped his seminal fluid at a place other than the womb, should perform this Işţi. One who has perpetrated a sin or a minor sin should perform this sacrifice for twelve days; if he has perpetrated a great sin, he should perform it for a month; one who desires to acquire merit should perform it for a year or for a season. This Iṣṭi is known as Mahāpavitreṣṭi or Mṛgāreṣṭi or Rahasyeṣṭi. So says Baudhāyana.
२
विश्वास-प्रस्तुतिः
यथो एतत्सोऽपरिमितं प्रवसतीति न संवत्सरमति प्रवसतीत्येवेदमुक्तं भवति स उ चेदति प्रवसेत्पवित्रेष्ट्या यजेतेत्येतयेष्ट्या यक्ष्यमाण उपकल्पयते हिरण्यं तस्याः प्रज्ञात उपवस्तथोऽथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने येन देवाः पवित्रेणात्मानं पुनते सदा ।

When it is said that “he (the sacrificer) goes on a journey for a longer time,”12 it is presumed that he should not go on a journey for a period longer than a year. If he goes on a journey for a period longer than a year, he should perform the Pavitreṣṭi. One who is going to perform this Iṣṭi procures a piece of gold. The Upavasatha-rite of this Iṣṭi is well known. Next morning, after the Agnihotra has been offered, one melts clarified butter over the Gārhapatya before the carrying forth of Praṇītā waters, purifies it, takes four spoonfuls into the ladle, and makes an offering on the Āhavanīya, while the sacrificer has contacted him,
विश्वास-प्रस्तुतिः
तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति प्राजापत्यं पवित्रं शतोद्यामँहिरण्मयम्।
मूलम्
तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति प्राजापत्यं पवित्रं शतोद्यामँहिरण्मयम्।
English
with the verse, “May the Pāvamānī verses purify me through that thousand-streamed filter through which the gods always purify themselves svāhā.”13 He takes another four spoonfuls and offers on the Āhavanīya with the verse, “The strainer which belongs to Prajāpati is made of a hundred darbha-blades and is golden.
विश्वास-प्रस्तुतिः
तेन ब्रह्मविदो वयम्पूतं ब्रह्म पुनीमहे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोतीन्द्र ःसुनीती सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
मूलम्
तेन ब्रह्मविदो वयम्पूतं ब्रह्म पुनीमहे स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोतीन्द्र ःसुनीती सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या ।
English
We who possess divine knowledge shall purify the pure divine song through that strainer, svāhā.”13 He takes another four spoonfuls and offers again on the Āhavanīya with the verses, “May Indra, together with Sunīti, purify me; Soma together with Svasti; Varuṇa together with Samīci.
विश्वास-प्रस्तुतिः
यमो राजा प्रसृणाभिः पुनातु मां जातवेदा मोर्जयन्त्या पुनातु स्वाहेत्यथ पृष्ठ्याँस्तीर्त्वापः प्रणीयाग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपति सरस्वत्यै प्रियाया उपाँश्वाज्यमग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपति सरस्वत्यै प्रियाया उपाँ श्वाज्यमग्नये पावकाय पुरोडाशमष्टाकपालं निर्वपति सवित्रे सत्यप्रसवायोपाँश्वाज्यमग्नये शुचये पुरोडाशमष्टाकपालं निर्वपति वायवे नियुत्वत उपाँश्वाज्यमग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति विष्णवे शिपिविष्टायोपाँश्वाज्यमग्नये वैश्वानराय पुरोडाशमष्टाकपालं निर्वपति दधिक्राव्ण उपाँ श्वाज्यमिति

May king Yama together with the Pramṛņās purify me; may Jātavedas Agni together with Ūrjayantī purify me, svāhā.”13
Having strewn the Pṛṣthya line and having carried forth Praṇītā waters, he pours out paddy for a cake on eight potsherds to Pavamana Agni, clarified butter to be offered to Priya Sarasvatī in the upāṁśu manner, paddy for a cake on eight potsherds to Pāvaka Agni, clarified butter to be offered to Satyaprasava Savitṛ in the upāṁśu manner,14 paddy for a cake on eight potsherds to Suci Agni, clarified butter to be offered to Niyutvant Vāyu in the upāṁšu manner,14 paddy for a cake on eight potsherds to Vratapati Agni, clarified butter to be offered to Sipivista Viṣṇu in the upāṁśu manner,”14 paddy for a cake on eight potsherds to Vaiśvänara Agni and clarified butter to be offered to Dadhikrävan in the upāṁśu manner.14
विश्वास-प्रस्तुतिः
श्रपयित्वासादयति
मूलम्
श्रपयित्वासादयति
English
Having cooked (the oblations) he places them (within the altar).
विश्वास-प्रस्तुतिः
तस्याः सप्तदश सामिधेन्यः
मूलम्
तस्याः सप्तदश सामिधेन्यः
English
For this Iṣṭi there are seventeen Sāmidhenīs.
विश्वास-प्रस्तुतिः
समिध्यमानां च समिद्धां चान्तरेण पावकवत्यौ धाय्ये दधात्यपामिदं न्ययनं नमस्त इति द्वे
मूलम्
समिध्यमानां च समिद्धां चान्तरेण पावकवत्यौ धाय्ये दधात्यपामिदं न्ययनं नमस्त इति द्वे
English
Between the two Sāmidhenī verses, namely, the ones beginning with the words samidhyamāna15 and samiddha15 he inserts two additional verses containing the word pävaka, namely, “This is the source of waters…” and “O Agni, obeisance to thy heat ….”16
विश्वास-प्रस्तुतिः
पावकवन्तावेवाज्यभागवग्नी रक्षाँसि सेधति शुक्रशोचिरमर्त्यः ।
मूलम्
पावकवन्तावेवाज्यभागवग्नी रक्षाँसि सेधति शुक्रशोचिरमर्त्यः ।
English
The Ājyabhāgas are also the verses containing the word pāvaka.
विश्वास-प्रस्तुतिः
शुचिः पावक ईड्य इति पुरोऽनुवाक्यामनूच्य यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
मूलम्
शुचिः पावक ईड्य इति पुरोऽनुवाक्यामनूच्य यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
English
(The Hotr̥) recites the puronuvākyā “Agni, the bright-flamed.."17
विश्वास-प्रस्तुतिः
ब्रह्म तेन पुनीमह इति यजति
मूलम्
ब्रह्म तेन पुनीमह इति यजति
English
and recites the yājyä: “O Agni, may we purify our divine song….”18
विश्वास-प्रस्तुतिः
यो धारया पावकया परिप्रस्यन्दते सुतः ।
मूलम्
यो धारया पावकया परिप्रस्यन्दते सुतः ।
English
(For the Ājyabhāga to Soma) he recites the verse, “The pressed Soma which flows around …”19
विश्वास-प्रस्तुतिः
इन्दुरश्वो न कृत्विय इति पुरोऽनुवाक्यामनूच्या कलशेषु धावति पवित्रे परिषिच्यते ।
मूलम्
इन्दुरश्वो न कृत्विय इति पुरोऽनुवाक्यामनूच्या कलशेषु धावति पवित्रे परिषिच्यते ।
English
as the puronuvākyā, and recites the yājyā : “(The pressed Soma) flows into the wooden trough…"20
विश्वास-प्रस्तुतिः
उक्थैर्यज्ञेषु वर्धत इति यजत्यथ हविषामग्न आयूँषि पवसेऽग्ने पवस्वेत्यग्नेः पवमानस्योत नः प्रिया प्रियास्विमा जुह्वाना युष्मदिति सरस्वत्याः प्रियाया अग्ने पावक स नः पावकेति पावकस्या विश्वदेवमा सत्येनेति सवितुः सत्यप्रसवस्याग्निः शुचिव्रततम उदग्ने शुचयस्तवेति शुचेर्वायुरग्रेगा वायो शुक्रो अयामि त इति वायोर्नियुत्वतस्त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीति व्रतपतेः प्र तत्ते अद्य किमित्ते विष्णो परिचक्ष्यं भूदिति विष्णोः शिपिविष्टस्य वैश्वानरो न ऊत्या पृष्टो दिवीति वैश्वानरस्य दधिक्राव्णो अकारिषमा दधिक्रा इति दधिक्राव्णोऽथ हुतानुमन्त्रणमग्नेः पवमानस्याहं देवयज्यया शुचिः पूतो मेध्यो विपाप्मा ब्रह्मवर्चस्यन्नादो भूयासमग्नेः पावकस्याग्नेः शुचेरग्नेर्व्रतपतेरग्नेर्वैश्वानरस्याहं देवयज्यया शुचिः पूतो मेध्यो विपाप्मा ब्रह्मवर्चस्यन्नादो भूयासमित्य्

Now (the puronuvākyās and yājyās) of the principal offerings: those for Pavamāna Agni are: “O Agni, thou purifiest life; do thou give food and strength to us. Do thou drive away ill fortune.”21 “O Agni, doing good work, do thou promote vigour and valour for us granting me prosperity and wealth.”22 For Priya Sarasvatī: “Sarasvatī, beloved among the beloved, having seven sisters, very agreeable, has become worthy of praise. O Sarasvatī, these offerings are made to thee with obeisance. Do thou accept our song of praise. May we be in the most beloved favour, resorting to thee like a tree serving as a guardian.”23 For Pāvaka Agni: “O Pāvaka Agni, do thou bring the gods through brilliant and gentle speech, and carry their oblations. -O Pāvaka Agni, do thou, brilliant, bring the gods here, and carry our sacrificial oblation towards them.”22 For Satyaprasava Savitr̥: “We invoke with our implorings the universal god, lord of all that exists, Savitr̥, who impels all that exists. God Savitr̥ comes up with his golden chariot, beholding all beings, turning up again and again along the true region and setting the mortal and immortal.”24 For Śuci Agni: “Agni with the most brilliant vow, wise, learned, shines brightly when offering is made to him. -O Agni, thy lustrous flames, shining, brilliant, are coming up.”25 For Niyutvant Vāyu: “May the advancing Vāyu, being gratified with offerings, gentle, come to the sacrifice with mental speed together with gentle mares.”26 O Vāyu, I carry to thee standing among the gods in heaven the essence of sweet Soma which is bright. O God, well ascending, do thou come for drinking Soma with the chariot carried by mares. For Vratapati Agni : “O god Agni, thou art the guardian of ordinances among the mortals; thou art worthy of being honoured in sacrifice.— O gods, we the ignorant have violated the ordinances promulgated by you who are wise. May Agni the wise compensate all of them with those acts with which he enables the gods to enjoy the offerings.”27 For Sipivista Viṣṇu : “O Sipivista, I, knowing thy forms and devoted to thee, praise thy name. Being feeble, I praise thee, stronger and residing beyond this midregion. O Vișņu, what is censurable in that thou sayest “I am covered?” Do thou not conceal this (name) from us even though thou hast a different (feeble) form at the meet (with the demons at dawn).”28 For Vaiśvānara Agni; “May Vaiśvānara Agni come to us with his favour from a long distance as a result of our song capable of bringing him.-Vaiśvānara Agni attached to the heaven, attached to the earth, attached he has entered all plants. May he, attached severely, guard us against injury by day and at night.”29 For Dadhikrävan, “I have sung the praise of Dadhikrāvan, the swift strong horse. May he make our mouth fragranti may he prolong our life. Dadhikra, with his glory, has overspread the five peoples, as the sun with his light the waters. May the strong steed, winning hundreds and thousands, fill with honey these songs of ours.”30 Now the following (by the sacrificer) of the offering: “May I become radiant, pure, holy, sinless, having divine splendour, and capable of eating food through the offering to Pavamāna Agni.” May I become raidant, pure, holy, sinless, having divine splendour, and capable of eating food through the offering to Pāvaka Agni. “May I … to Śuci Agni.” “May I … to Vratapati Agni.” “May I … to Vaiśvānara Agni.
विश्वास-प्रस्तुतिः
उपाँशुयाजायामुपाँशुयाजवदित्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति पवमानः सुवर्जन इत्येतेनानुवाकेन प्रत्यृचम्
मूलम्
उपाँशुयाजायामुपाँशुयाजवदित्यथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति पवमानः सुवर्जन इत्येतेनानुवाकेन प्रत्यृचम्
English
With regard to the Upāṁśuyāja offering (the following should be) as in the case of (normal) Upāṁśuyāja offering.31 Before the Sviṣṭakr̥t-offerings (the Adhvaryu) offers spoonfuls with the verses from the Anuvāka beginning with the verse, “The (Soma) which is being passed through the filter….”32
विश्वास-प्रस्तुतिः
अतिथिवत्यौ दमूनवत्यौ संयाज्ये जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुपयाहि विद्वान्।
मूलम्
अतिथिवत्यौ दमूनवत्यौ संयाज्ये जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुपयाहि विद्वान्।
English
The puronuvākyā and yājyā for the Sviṣṭakr̥t offerings should be the verses containing the word atithi and damunas, namely, “O Agni, do thou, dear (to men), belonging to the house, guest in the house, wise, come to this our sacrifice.
विश्वास-प्रस्तुतिः
विश्वा अग्ने अभियुजो विहत्य शत्रूयतामाभरा भोजनानि ॥
मूलम्
विश्वा अग्ने अभियुजो विहत्य शत्रूयतामाभरा भोजनानि ॥
English
Having dispelled all the attacks of the enemies, do thou bring us desirable objects.”33
विश्वास-प्रस्तुतिः
मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
मूलम्
मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
English
Agni, worthy of being cleansed, residing in the house, praised by the learned, the guest, auspicious to us,
विश्वास-प्रस्तुतिः
सहस्रशृङ्गो वृषभस्तदोजा विश्वाँग्ने सहसा प्रास्यन्यानिति
मूलम्
सहस्रशृङ्गो वृषभस्तदोजा विश्वाँग्ने सहसा प्रास्यन्यानिति
English
of a thousand flames, giver of plenty, is being cleansed. O Agni, thou overcomest all others by thy strength.”34
विश्वास-प्रस्तुतिः
प्रसिद्धेडाथान्वाहार्यमासाद्य हिरण्यं ददाति
मूलम्
प्रसिद्धेडाथान्वाहार्यमासाद्य हिरण्यं ददाति
English
(The invocation of) Iḍā is as prescribed. After having placed the Anvāhārya cooked rice (within the altar) the sacrificer gives away a piece of gold (as Dakṣiņā).
विश्वास-प्रस्तुतिः
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्ताद्गृहपतेः स्रुवाहुतीरुपजुहोति यद्देवा देवहेडनमित्येतेनानुवाकेन प्रत्यृचं सन्तिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
मूलम्
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्ताद्गृहपतेः स्रुवाहुतीरुपजुहोति यद्देवा देवहेडनमित्येतेनानुवाकेन प्रत्यृचं सन्तिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
English
The procedure upto the Patnīsaṁyāja-offerings is similar. Before the offering to Gṛhapati Agni the Adhvaryu offers spoonfuls respectively with the verses from the Anuvāka beginning with the verse, “O gods, the sons of Aditi, do you relieve us of the deed by which we may have disturbed the gods. Do you relieve me with the best order.”35 This Iṣṭi comes to an end with the pouring down of the Praṇītā goblet and the striding of Viṣṇu-steps. The sacrificer releases his vow.
विश्वास-प्रस्तुतिः
एतयैव यजेताभिशस्तोऽभिशस्यमानो वैतयैव यजेतर्तुव्यतिक्रमे दारव्यतिक्रमेऽयोनौ वा रेतः सिक्त्वैतयैव यजेत संवत्सरमर्धपादमेकविँशतिरात्रं वा
मूलम्
एतयैव यजेताभिशस्तोऽभिशस्यमानो वैतयैव यजेतर्तुव्यतिक्रमे दारव्यतिक्रमेऽयोनौ वा रेतः सिक्त्वैतयैव यजेत संवत्सरमर्धपादमेकविँशतिरात्रं वा
English
One who has been accused or is being accused should perform this Iṣṭi. One should perform this Iṣṭi in the event of transgression of the season or transgression of the rule of approaching his wife after menstruation, or dropping seminal fluid in a place other than the womb. One should continue to perform this Iṣṭi for a year or for one and a half month or twentyone days.
विश्वास-प्रस्तुतिः
तिर्यग्योनिगतान्ज्ञातीन्जात्यन्तरे वर्तमानान्दुष्कृतैरपरुद्धान्दश पूर्वान्दशापरानात्मानं चैकविँशं पङ्क्तिं च पुनाति न च पुनरावर्तत इत्य्
मूलम्
तिर्यग्योनिगतान्ज्ञातीन्जात्यन्तरे वर्तमानान्दुष्कृतैरपरुद्धान्दश पूर्वान्दशापरानात्मानं चैकविँशं पङ्क्तिं च पुनाति न च पुनरावर्तत इत्य्
English
He sanctifies his kinsmen born in the animal-world or being in a different life or fallen on account of evil deeds (he purifies) twentyone generations ten preceding and ten following and himself. And he is not born again.
विश्वास-प्रस्तुतिः
अथाप्युदाहरन्ति
मूलम्
अथाप्युदाहरन्ति
English
In this connection they quote the following stanza:
विश्वास-प्रस्तुतिः
वैश्वानरीं व्रातपतीम्पवित्रेष्टिं तथैव च ।
ऋतावृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति २
मूलम्
वैश्वानरीं व्रातपतीम्पवित्रेष्टिं तथैव च ।
ऋतावृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति २
English
“One who performs in every season the Vaiśvānarīṣṭi, the Vrātapatīṣṭi, and the Pavitreṣṭi, sanctifies ten generations."
३ नक्षत्रेष्टि
विश्वास-प्रस्तुतिः
अथातो नक्षत्रेष्टीर्व्याख्यास्यामोऽग्निर्वा अकामयतान्नादो देवानाँ स्यामिति ता ब्राह्मणेन व्याख्याताः
मूलम्
अथातो नक्षत्रेष्टीर्व्याख्यास्यामोऽग्निर्वा अकामयतान्नादो देवानाँ स्यामिति ता ब्राह्मणेन व्याख्याताः
English
Now we shall explain the Nakṣatreṣṭis. These have been described in the Brāhmaṇa"36 beginning with “Agni verily desired: may I become the eater of food among the gods.”
विश्वास-प्रस्तुतिः
सा या वैशाख्याः पौर्णमास्याः पुरस्तादमावास्या भवति स सकृत्संवत्सरस्यापभरणीभिः सम्पद्यते तस्यामारभेतेति
मूलम्
सा या वैशाख्याः पौर्णमास्याः पुरस्तादमावास्या भवति स सकृत्संवत्सरस्यापभरणीभिः सम्पद्यते तस्यामारभेतेति
English
The new-moon day which comes before the full-moon day of Vaiśākhā is conjoined with the Bharaṇī constellation once in a year. On that day one should commence the Nakṣatreșṭis.
विश्वास-प्रस्तुतिः
तस्या उपवसथेऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याजस्रान्वापि वा पौर्णमास्याममावास्यायां वोपपसेद्यस्यां तल्लक्ष्म सम्पद्यते
मूलम्
तस्या उपवसथेऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याजस्रान्वापि वा पौर्णमास्याममावास्यायां वोपपसेद्यस्यां तल्लक्ष्म सम्पद्यते
English
On the Upavasatha day of the first Iṣṭi, one should consign the sacred fires into the kindling woods, move away, churn outfire; or he should carry the permanently maintained fires. Alternatively he may observe the Upavasatha-day on that full-moon day or new-moon day which is characterised by that sign (= Bharaṇī constellation).
विश्वास-प्रस्तुतिः
तत्रैषोऽत्यन्तप्रदेशो हविरुच्छिष्टव्रतो यजमानो भवतीति विज्ञायतेऽपि वा जन्मनक्षत्रे कुर्यादायुष्कामस्य यावज्जीवं त्र्यवरार्ध्यो वा प्रयोगो जीववन्तावाज्यभागौ यजत्या नो अग्ने सुकेतुना त्वँसोम महे भगमित्यथ निर्वपत्यग्नये कृत्तिकाभ्यो जुष्टं निर्वपामीत्यग्निं कृत्तिका यजेति सम्प्रेष्यत्याग्नेयमष्टाकपालमनुमत्यै चरुमिति सर्वत्रानुषजति नक्षत्रहविर्मध्ये

In that case this is the special procedure:the sacrificer is required to consume only remnants of oblations as the Vrata-food, so is it said. Or for one desiring long life one should make the beginning of the Nakṣatreṣṭis on the day conjoined with the constellation at his birth. The Nakṣatreṣṭis should be performed throughout one’s life or three times in minmum. (The Hotṛ) should recite the puronuvākyās containing the word jiva, namely, “O Agni possessing good knowledge, do thou give pleasant wealth adequate for our livelihood.-O Soma, thou bestowest fortune to the elderly one; thou bestowest mental power to the young obeying the law for his maintenance.”37 The Adhvaryu pours out (paddy for a cake on eight potsherds) with the formulas, “I pour out (the oblation) dear to Agni and Kr̥ttikās.” He gives out the call to the Hotr̥ to recite the yājyä “Do you recite the yājyǎ for Agni and Kr̥ttikā.” In every Iṣṭi he should offer along with oblation to the constellation, additional oblations, namely a cake on eight potsherds to Agni and cooked rice to Anumati.
विश्वास-प्रस्तुतिः
श्रपयित्वासादयति
मूलम्
श्रपयित्वासादयति
English
Having cooked (the oblations) he places them (within the altar).
विश्वास-प्रस्तुतिः
तस्याः सप्तदश सामिधेन्यः
मूलम्
तस्याः सप्तदश सामिधेन्यः
English
For that (i.e, each Iṣṭi) there should be seventeen Sāmidhenī verses.
विश्वास-प्रस्तुतिः
समिध्यमानां च समिद्धां चान्तरेण श्रीमत्यौ धाय्ये दधाति स्वारुहा यस्य श्रियो दृशेऽदाभ्यः पुरएतेति
मूलम्
समिध्यमानां च समिद्धां चान्तरेण श्रीमत्यौ धाय्ये दधाति स्वारुहा यस्य श्रियो दृशेऽदाभ्यः पुरएतेति
English
Inbetween the verses respectively containing the words samidhyamāna and samiddha, the Hotṛ inserts two additional verses containing the word śrī, namely, “Whose (Agni’s) glory, while he is being enkindled at the beginning of sacrifice, is self-made and becomes manifest like the wealth of one having heroic sons. Invulnerable Agni is the forerunner of human beings. His chariot is always new and speedy.”38
विश्वास-प्रस्तुतिः
रयिमन्तौ पुऋष्तिमन्तावाज्यभागौ यजत्यग्निना रयिमश्नवद्गयस्फानो अमीवहेत्यथ हविषामग्निर्मूर्धा भुवोऽनु नोऽद्यानुमतिरन्विदनुमते त्वमिति सञ्चर्योर्याज्यापुरोऽनुवाक्या
मूलम्
रयिमन्तौ पुऋष्तिमन्तावाज्यभागौ यजत्यग्निना रयिमश्नवद्गयस्फानो अमीवहेत्यथ हविषामग्निर्मूर्धा भुवोऽनु नोऽद्यानुमतिरन्विदनुमते त्वमिति सञ्चर्योर्याज्यापुरोऽनुवाक्या
English
He offers the two Ājyabhāgas with the puronuvākyās containing the word rayi and pușṭi, namely, “One obtains through Agni wealth, prosperity and glory consisting of heroic sons. -O Soma, do thou, promoting domestic wealth, destroying pain, granting riches, promoting prosperity, be our good friend."39
Now (the puronuvākyās and yājyās) of the principal oblations: “Agni is the head of the heaven, the height, lord of the earth; he quickens the seeds of waters.”40 _“Thou art the leader of the sacrifice and the region with which thou becomest associated together with thy auspcious mares. Thou placest in the heaven thy head winning light. Thou renderest O Agni, thy tongue capable of carrying oblation."41 And “May Anumati accompany us today and favour our sacrifice today among the gods. May she and the oblation-carrier Agni be cheerful to the worshipper. -O Anumati, do thou favour us and give us bounty; impel us for wisdom and power; prolong our lives."-These are the puronuvākyās and yājyās for the two continuing divinities.
विश्वास-प्रस्तुतिः
नक्षत्रहविषानग्निर्नः पातु कृत्तिका इति यथासमाम्नातम्
मूलम्
नक्षत्रहविषानग्निर्नः पातु कृत्तिका इति यथासमाम्नातम्
English
(The puronuvākyā-yājyās) for the offerings to the constellations are as laid down in the scripture, beginning with “May Agni and the Kṛttikäs the divine constellation granting power help us. Do you (O priests) offer into their mouths the shining oblation.”[^7-1757]
[^7-1757] TBr III.1.1-3
विश्वास-प्रस्तुतिः
अथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेति यथासमाम्नातं स्विष्टवत्यौ संयाज्ये हव्यवाहँस्विष्टमिति
मूलम्
अथ पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेति यथासमाम्नातं स्विष्टवत्यौ संयाज्ये हव्यवाहँस्विष्टमिति
English
Before the Sviṣṭakr̥t offering the Adhvaryu offers spoonfuls respectively with the formulas, “To Agni svāhā, to Kṛttikās svāhā,” as laid down in the scripture.42 The puronuvākyā-yājyā for the Sviṣṭakṛt offering are the verses containing the word svișta, namely, “We make an offering to Sviṣṭakr̥t Agni, carrier of oblation, smiter of enemies, killer of the Rakṣas, winning the armies, lustrous, shining and bountiful. O god Agni, do thou fulfil the well- offered oblation; dispel all enemies; do thou shine showing us the wide path; grant us enlightened and non-decaying life.”[^9-1757]
[^9-1757] TBr II.4.1.4.
विश्वास-प्रस्तुतिः
सन्तिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
मूलम्
सन्तिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
English
This Iṣṭi comes to an end with the pouring down of the Praṇīta-goblet and the striding of Viṣṇu-steps.
विश्वास-प्रस्तुतिः
विसृजते व्रतम् ३
मूलम्
विसृजते व्रतम् ३
English
The sacrificer relinquishes the vow.
४
विश्वास-प्रस्तुतिः
एवमुत्तरमुत्तरं प्रतितन्त्रमुत्तरौत्तरेऽहनि यजेत
मूलम्
एवमुत्तरमुत्तरं प्रतितन्त्रमुत्तरौत्तरेऽहनि यजेत
English
In this manner one should perform each succeeding Iṣṭi on each subsequent day following the (above-mentioned) procedure.
विश्वास-प्रस्तुतिः
विशेषान्व्याख्यास्यामः
मूलम्
विशेषान्व्याख्यास्यामः
English
We shall (however) mention the special features.
विश्वास-प्रस्तुतिः
प्रजापतिः सवितेत्युपाँशु सर्पेभ्य आश्रेषाभ्य आज्ये करम्भमिति
मूलम्
प्रजापतिः सवितेत्युपाँशु सर्पेभ्य आश्रेषाभ्य आज्ये करम्भमिति
English
(The puronuvākyā and yājyā) in the sacrifice to Prajāpati and in that to Savitr̥ should be recited in a low tone. (In the Iṣṭi) to Sarpas and the Aśreṣās (the oblation should be) flour of parched barley mixed with ghee.
विश्वास-प्रस्तुतिः
सर्वे यवा भवन्ति
मूलम्
सर्वे यवा भवन्ति
English
(Here) barley-grains should be used.
विश्वास-प्रस्तुतिः
अधिश्रयणकाले तिरः पवित्रमाज्यमानीयाधिश्रित्य तिरः पवित्रं करम्भानावपति
मूलम्
अधिश्रयणकाले तिरः पवित्रमाज्यमानीयाधिश्रित्य तिरः पवित्रं करम्भानावपति
English
At the time of putting it over the fire the Adhvaryu should pour out clarified butter (into a vessel) over the strainers, heat the clarified butter, and put the flour of parched barley into it over the strainers.
विश्वास-प्रस्तुतिः
पितृभ्यो मघाभ्यः पुरोडाशँषट्कपालमिति
मूलम्
पितृभ्यो मघाभ्यः पुरोडाशँषट्कपालमिति
English
One should offer a cake on six potsherds to the Pitṛs and the Maghas.
विश्वास-प्रस्तुतिः
पैतृयज्ञिकेन निर्वपणप्रोक्षणाधिवपनसंवपनादीनि व्याख्यातानि भवन्ति
मूलम्
पैतृयज्ञिकेन निर्वपणप्रोक्षणाधिवपनसंवपनादीनि व्याख्यातानि भवन्ति
English
The pouring out (of barley), the sprinkling, the pouring out (for pounding) the pouring our (of the flour etc.) should be regarded as having been explained through (the procedure in) the Mahāpitṛyajña (of the Cāturmāsya).
विश्वास-प्रस्तुतिः
तार्तीयसवनिकेन सौम्येन प्रचरणकल्पो व्याख्यातोऽथैतद्वायवे निष्ट्यायै गृष्ट्यै दुग्धमिति
मूलम्
तार्तीयसवनिकेन सौम्येन प्रचरणकल्पो व्याख्यातोऽथैतद्वायवे निष्ट्यायै गृष्ट्यै दुग्धमिति
English
The procedure of offering should be regarded as having been explained by the offering of cooked rice to Soma in the third pressing (of Soma). In regard to the milk of a cow which has borne a calf only once offered to Vāyu and Svāti constellation;
विश्वास-प्रस्तुतिः
पयसः प्रातर्दोहवत्सँस्कार आ विशाखाभ्यामिष्ट्वा तदानीमेव पौर्णमासीमाज्येन यजेताथ श्वो भूते मित्रायानूराधेभ्यश्चरुमित्युत्तराभिरषाढाभिरिष्ट्वा तदानीमेवाभिजिता यजेताथ श्वो भूते विष्णवे श्रोणायै पुरोडाशं त्रिकपालमित्युत्तरेषु प्रोष्ठपदेषु पुरोडाशं भूमिकपालमिति

the milk should be accomplished as the morning milk (in the New-moon sacrifice). Having offered to the Viśākhās one should at the same time offer clarified butter in the Iṣṭi on the full-moon day. Next day he should offer cooked rice to Mitra and Anūrādhās. Having offered to Uttarāṣāḍhās one should immediately offer to the Abhijit constellation. Next day he should offer a cake on three potsherds to Viṣṇu and the Śravaṇa constellation. As for the cake on the ground regarded as the potsherd to Uttara Proṣṭhapadā:
विश्वास-प्रस्तुतिः
कपालमात्रं भूमौ परिलिख्याङ्गारमधिवर्तयति
मूलम्
कपालमात्रं भूमौ परिलिख्याङ्गारमधिवर्तयति
English
one should trace a potsherd on the earth and pass the ember upon it.
विश्वास-प्रस्तुतिः
तस्यैककपालवत्सँस्कार आपभरणीभिरिष्ट्वा तदानीमेवामावास्यामाज्येन यजेताथ श्वो भूते चन्द्र मसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालमित्यभिनीयैवाहनि निर्वपेदुदिते चन्द्र मसि प्रचरेत्
मूलम्
तस्यैककपालवत्सँस्कार आपभरणीभिरिष्ट्वा तदानीमेवामावास्यामाज्येन यजेताथ श्वो भूते चन्द्र मसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालमित्यभिनीयैवाहनि निर्वपेदुदिते चन्द्र मसि प्रचरेत्
English
That should be accomplished as one potsherd. Having offered to Apabharaṇīs one should immediately offer clarified butter on the new-moon day. Next day he should offer a cake on fifteen potsherds to Candramas and its reflection. He should allow some time to pass and pour out paddy by day, and make the offering after the moon has risen.
विश्वास-प्रस्तुतिः
ते एतमहोरात्राभ्यां चरुं निरवपतां द्वयानां व्रीहीणां शुक्लानां च कृष्णानां न सवात्योर्दुग्धे श्वेतायै च कृष्णायै चेत्यभिनीयैवाहनि निर्वपेदस्तमिते प्रचरेदपि वा सन्धावेव निर्वपेत्सन्धावेव प्रचरेद्निर्वपेदुषसि प्रचरेदथैतस्मै नक्षत्राय चरुं निर्वपति

(The day and night) poured out paddy for cooked rice to Ahoratra of two varieties white and black, to be cooked in the milk of a white cow and a black cow both being the calves of the same mother-cow. Having allowed some time to pass, he should pour out (paddy) by day and make the offering after sunset. Or he may pour out during the (morning) twilight and offer during the (evening) twilight. He should make the offering in accordance with the time of pouring out of the oblation-material. Now the cooked rice for Uṣas. Having allowed the time to pass, one should pour out (paddy) at night, and make the offering at dawn. He pours out paddy for cooked rice to nakṣatra (in general).
विश्वास-प्रस्तुतिः
यथा त्वं देवानामस्येवमहं मनुष्याणां भूयासमिति निर्वपणकाले यजमानायतन आसीनो यजमानो जपत्य्
मूलम्
यथा त्वं देवानामस्येवमहं मनुष्याणां भूयासमिति निर्वपणकाले यजमानायतन आसीनो यजमानो जपत्य्
English
The sacrificer, being seated in his seat, murmurs at the time of pouring out (of the paddy) the formula, “MayI become (the best) among men just as thou art (the best) among the gods.”
विश्वास-प्रस्तुतिः
अभिनीयैवाहनि निर्वपेदुदितेषु नक्षत्रेषु प्रचरेदथैतँसूर्याय नक्षत्रेभ्यश्चरुमित्यभिनीयैव रात्रौ निर्वपेदुदिते सूर्ये प्रचरेदथैतमदित्यै चरुमथैतं विष्णवे चरुमिति यजति
मूलम्
अभिनीयैवाहनि निर्वपेदुदितेषु नक्षत्रेषु प्रचरेदथैतँसूर्याय नक्षत्रेभ्यश्चरुमित्यभिनीयैव रात्रौ निर्वपेदुदिते सूर्ये प्रचरेदथैतमदित्यै चरुमथैतं विष्णवे चरुमिति यजति
English
Having allowed time to pass, he should pour out by day, and make the offering after the stars appear. Now this cooked rice to Sūrya and the Nakṣatras. Having allowed time to pass, he should pour out at night, and make the offering after the sun has risen. Now this cooked rice to Aditi and cooked rice to Viṣṇu.
विश्वास-प्रस्तुतिः
यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठतीति ब्राह्मणम्वरो दक्षिणा भवतीति विज्ञायतेऽपाघावद्वा
मूलम्
यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठतीति ब्राह्मणम्वरो दक्षिणा भवतीति विज्ञायतेऽपाघावद्वा
English
“Viṣṇu indeed is sacrifice; therefore he finally resides in sacrifice,” so says the Brāhmaṇa. A boon is given as Dakṣiņā, so is it said. Or (the Dakṣiņā should be) as in the Āpāghā sacrifice.[^1-1761]
[^1-1761] TBr III.12.4.7
विश्वास-प्रस्तुतिः
प्रसिद्धः पशुः
मूलम्
प्रसिद्धः पशुः
English
The animal-sacrifice is as prescribed.
विश्वास-प्रस्तुतिः
पाथिकृत्येष्ट्येष्ट्वा दर्शपूर्णमासाभ्यां यजेत नक्षत्रसत्त्रेण द्युतिरानन्त्याय
मूलम्
पाथिकृत्येष्ट्येष्ट्वा दर्शपूर्णमासाभ्यां यजेत नक्षत्रसत्त्रेण द्युतिरानन्त्याय
English
Having performed the Pāthikṛtī Iṣṭi one should perform the Full-moon and New-moon sacrifices. (One should perform) the Nakṣatra-sattra for the eternity of splendour.
विश्वास-प्रस्तुतिः
ज्योतिषामयनेनेष्ट्वा पापं निर्णुद्य ज्योतिष्ट्वमुपजायतेऽप पुनर्मृत्युं जयतीति ह स्माह बौधायनः ४
मूलम्
ज्योतिषामयनेनेष्ट्वा पापं निर्णुद्य ज्योतिष्ट्वमुपजायतेऽप पुनर्मृत्युं जयतीति ह स्माह बौधायनः ४
English
By performing the Jyotiṣām Ayana one gets rid of the sin, obtains illumination and wins unnatural death, so says Baudhāyana.
५ आग्रयणप्रायश्चित्तम्
विश्वास-प्रस्तुतिः
नवैरेवामावास्यायां पौर्णमास्यां वा यजेत नवैर्वाग्निहोत्रं जुहुयाद्
मूलम्
नवैरेवामावास्यायां पौर्णमास्यां वा यजेत नवैर्वाग्निहोत्रं जुहुयाद्
English
One should perform the New-moon sacrifice or the Full-moon sacrifice with new corn. Or one should offer Agnihotra with new corn.
विश्वास-प्रस्तुतिः
अपि वाग्निहोत्रीं वा नवानादयित्वा तस्याः पयसा जुहुयादपि वा नवानां यवाग्वा सायम्प्रातरग्निहोत्रं जुहुयादपि वा गार्हपत्ये चतुःशरावमोदनँश्रपयित्वाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यो जुहुयादपि वा नवैरेव ब्राह्मणान्भोजयेत्

Or one should feed Agnihotra-cow with new corn and offer the Agnihotra with her milk. Or one should offer the evening and morning Agnihotra with the gruel of new corn. Or one should cook on the Gārhapatya rice of paddy measuring four Śarāvas, and make offerings to the divinities of Āgrayaṇa with Sviṣṭakr̥t Agni as the fourth. Or one should give to brāhmaṇas food of new corn.
विश्वास-प्रस्तुतिः
स एष इष्ट्युपचारकल्पो हरितयवशमीधान्यौषधिवनस्पतिमूलफलशाकानामनिष्ट्वाग्रयणं याथाकामी स्यात्पक्तिवैषम्याद्व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यो यवैरिष्ट्वा यवैरेव यजेता व्रीहिभ्योऽपि वा व्रीहिभिरेव यवैर्वा यजेत

These are alternatives to the performance of an Iṣṭi. Without having offered the first fruits of green barley, leguminous grains, plants, trees, roots, fruits and vegetables, one may consume them at will, since the times of their ripenings vary. Having performed the Āgrayaṇeṣṭi of paddy, one should offer paddy alone (in the Full-moon and New-moon sacrifices) until the Āgrayaṇeṣṭi with barley. After having performed the Āgrayaṇeșṭi with barley, one should offer barley alone (in the Full-moon and New-moon sacrifices) until the Agrayaṇesti with paddy. Alternatively one may offer paddy or barley (in the Full-moon sacrifices).
विश्वास-प्रस्तुतिः
सन्तिष्ठन्त आग्रयणानि ५
मूलम्
सन्तिष्ठन्त आग्रयणानि ५
English
The Āgrayaṇa performances come to an end.
६ पशुप्रायश्चित्तम्
विश्वास-प्रस्तुतिः
अथातः पशुप्रायश्चित्तानि व्याख्यास्यामः
मूलम्
अथातः पशुप्रायश्चित्तानि व्याख्यास्यामः
English
Now we shall explain the expiations pertaining to an Animal-sacrifice.
विश्वास-प्रस्तुतिः
स यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्येताँहुत्वा नैमित्तिकीं द्वितीयां जुहोति यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि ।
मूलम्
स यदि पशुरुपाकृतो वाश्येत यदस्य पारे रजस इत्येताँहुत्वा नैमित्तिकीं द्वितीयां जुहोति यस्माद्भीषावाशिष्ठास्ततो नो अभयं कृधि ।
English
If the animal bellows after it is dedicated, one should make an offering with the verse, “O Vaiśvānara Agni, may that brilliant light which is created beyond this region lead us beyond the enemies, svāhā.”43 He makes the second incidental offering with the verse, “(O animal), do thou render us fearless (from that spirit)
विश्वास-प्रस्तुतिः
प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्रा य मीढुषे स्वाहेति
मूलम्
प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्रा य मीढुषे स्वाहेति
English
for whose fear thou hast bellowed. Obeisance to bountiful Rudra, svāhā.”
विश्वास-प्रस्तुतिः
यस्माद्भीषावेपिष्ठाः पलायिष्ठाः समज्ञास्थाः शकृदकृथार्मूत्रमकृथा इत्येतेषु निमित्तेषु य इदमकस्तस्मै नमस्तस्मै स्वाहेति तृतीयां स यदि निषीदेद्यस्माद्भीषा न्यषद इत्येताँहुत्वा तं मैत्रावरुणदण्डेनोत्थापयेदन्येनौदुम्बरेण वोर्ग्वा उदुम्बर ऊर्क्पशव ऊर्जैवास्मा ऊर्जं पशूनवरुन्द्ध इति ब्राह्मणम्

In the event of these incidences: “From whose fear thou hast trembled….” “…hast run away ….,” “….art dead…. hast evacuated faeces …,” “… hast urinated …” he should make a third offering with the part “obeisance to him, svāhā to him who has done this” joined to the preceding portion. If it sits down, he should make an offering with the verse, “From whose fear thou hast sat down …” and should make it get up with the MaitrāVaruṇa’s staff or any other staff of Ficus glomerata. “Ficus glomerata is strength; animals are strength; through strength he obtains for him strength i.e. cattle.” So the Brāhmaṇa.
विश्वास-प्रस्तुतिः
उदुस्र तिष्ठेत्युस्रम्
मूलम्
उदुस्र तिष्ठेत्युस्रम्
English
If it is a bull, he should modify the verse
विश्वास-प्रस्तुतिः
उदश्वेत्यश्वम्
मूलम्
उदश्वेत्यश्वम्
English
as “O bull, do thou get ….”
विश्वास-प्रस्तुतिः
उच्छागेति छागम्
मूलम्
उच्छागेति छागम्
English
If it is a goat, he should modify the verse as “O goat, do thou get up
विश्वास-प्रस्तुतिः
उन्मेषेति मेषम्
मूलम्
उन्मेषेति मेषम्
English
“If it is a sheep, he should modify the verse as “O sheep, do thou get up….”
विश्वास-प्रस्तुतिः
उद्वश इति वशां स उ चेत्प्राक्पर्यग्निकरणान्म्रियेत याश्वमेधे प्रायश्चित्तिस्तां कृत्वाथान्यं तद्दैवत्यं तद्वर्णं तद्वयसं तद्रू पं तज्जातीयं पशुमालभेत
मूलम्
उद्वश इति वशां स उ चेत्प्राक्पर्यग्निकरणान्म्रियेत याश्वमेधे प्रायश्चित्तिस्तां कृत्वाथान्यं तद्दैवत्यं तद्वर्णं तद्वयसं तद्रू पं तज्जातीयं पशुमालभेत
English
If it is a barren cow, he should modify the verse as, “O barren cow…..” If it dies before carrying the fire around, one should perform the expiation prescribed in the Aśvamedha,44 and immolate another animal for the same divinity, of the same colour, of the same age, of the same form and of the same class.
विश्वास-प्रस्तुतिः
तस्योपाकरणादि सर्वमावर्तते निर्मन्थ्य सामिधेनीतच्छेषाघारसम्प्रैषसम्मार्गप्रवरप्रयाजवर्जम्
मूलम्
तस्योपाकरणादि सर्वमावर्तते निर्मन्थ्य सामिधेनीतच्छेषाघारसम्प्रैषसम्मार्गप्रवरप्रयाजवर्जम्
English
In its case the entire procedure beginning with dedication is repeated except the churning out of fire, putting of fire-sticks at the Sāmidhenī-recitation, keeping back (one fire-stick), the Aghara by means of the spoon, the giving out of a call to the Āgnīdhra to cleanse the fire, the cleansing of the fire, the choosing (of the Hotṛ and the Maitrāvaruṇa) and the Prayājas.
विश्वास-प्रस्तुतिः
अथ यदि तज्जातीयं न विन्देताजावयो गोअश्वा इत्यन्योन्यस्य प्रतिनिधयो भवन्तीति
मूलम्
अथ यदि तज्जातीयं न विन्देताजावयो गोअश्वा इत्यन्योन्यस्य प्रतिनिधयो भवन्तीति
English
If one does not get an animal of the same species, goats and sheep, and bulls and horses become the substitutes for each other.
विश्वास-प्रस्तुतिः
तेषां छागश्च मेषश्चोपाकरणीयवलाभेऽन्यतममालभेत
मूलम्
तेषां छागश्च मेषश्चोपाकरणीयवलाभेऽन्यतममालभेत
English
He should, however, take a goat itself as a substitute for a goat, and a ram itself as a substitute for a ram. If it is not available, one may take any.45
विश्वास-प्रस्तुतिः
त्वाष्ट्रेण प्रचरणकल्पो व्याख्यातोऽथास्य शरीरमप्सु प्रवेशयति न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति द्वाभ्याम् ६
मूलम्
त्वाष्ट्रेण प्रचरणकल्पो व्याख्यातोऽथास्य शरीरमप्सु प्रवेशयति न वा उवेतन्म्रियस आशानां त्वा विश्वा आशा इति द्वाभ्याम् ६
English
(If no animal at all is available) the procedure in respect of the animal to Tvaṣṭr̥46 is recommended. One should throw away the carcass of the (dead) animal into water with the two verses, “(O animal), thou art not really dead (through immolation), (therefore) dost not ruin, thou goest to gods by an easy path. May god Savitṛ place thee where the good-doers, not the evil-doers, reach,”47 and with the two verses, “(I dedicate) thee to the four immortal guardians of the quarters.48 We worship the supervisor of this animal with the oblation. I unite all quarters with honey; may the waters and plants be faultless. May this sacrificer dispel the enemies; may all animals be not snatched.”47
७
विश्वास-प्रस्तुतिः
अथ यद्यङ्गहीनः पशू रूपतो वर्णतो वाग्नेयीमाग्नावैष्णवीमैन्द्री ं! वायव्यां पाजापत्यामिति च हुत्वा तमेवोपाकुर्यादथ यदि वपामाह्रियमाणाँश्येनोऽपहरेन्नश्येद्वा पात्र्याँ हिरण्यमन्तर्धाय चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमान उद्यन्त्सुपर्णो न विभाति सर्वं हिरण्यकुक्षिः सप्तशिराः पुरस्तात् ।

If the animal is deficient in respect of colour or appearance, one should offer (clarified butter) with the verses respectively addressed to Agni, Agni-Viṣṇu, Indra, Vāyu and Prajāpati, and dedicate the very animal. If an eagle snatches away the omentum being brought over, or if it is lost, one should take into a vessel four spoonfuls across a piece of gold, and make an offering on the Āhavanīya, while the sacrificer has contacted him, with the verse, “The rising (sun) with golden bowels and seven heads shines in front like an eagle.
विश्वास-प्रस्तुतिः
सर्वेषु लोकेषु विभुः प्रविष्टो गातुमस्मिन्यज्ञे यजमानाय विन्द स्वाहेत्यथैतस्यै वपायै स्थाने यत्किञ्चिन्मेदोरूपमवशिष्टँ स्यात्तदुत्पाट्य तेन प्रचरेद्
मूलम्
सर्वेषु लोकेषु विभुः प्रविष्टो गातुमस्मिन्यज्ञे यजमानाय विन्द स्वाहेत्यथैतस्यै वपायै स्थाने यत्किञ्चिन्मेदोरूपमवशिष्टँ स्यात्तदुत्पाट्य तेन प्रचरेद्
English
Do thou, all-pervading and entering into all regions, secure the path for the sacrificer in this sacrifice, svāhā.”49 He should tear out whaever remnant of fat might be sticking on the spot of the omentum, and offer it.
विश्वास-प्रस्तुतिः
अथ यद्येनां पुनर्विन्देत नैनामाद्रि येताथ यदि वपा हविरवदानं वा स्कन्देदा त्वा ददे यशसे वीर्याय चास्मास्वघ्निया यूयं दधाथेन्द्रि यं पय इत्यादाय जुहोति यस्ते द्र प्सो यस्त उदर्षो दैव्यः केतुर्विश्वं भुवनमाविवेश ।

In case he regains it (the omentum) he should ignore it. If the omentum or portion of the oblation falls down, one should take it with the mantra, “I take thee for glory and valour; O cows, do you grant us might and milk,” and offer it with the mantra, “Do thou, whose drop or overflow, the divine sign has entered the entire region,
विश्वास-प्रस्तुतिः
स नः पाह्यरिष्ट्यै स्वाहेत्यथ यद्यसँस्थिते पशौ शकुनिश्चषाल उपविशेच्चषालं प्रक्षाल्य यूपं प्रोक्ष्य तथैवाज्येन जुहोत्यापवस्व वदस्व वा सोमपीतये गातुमस्मिन्यज्ञे यजमानाय विन्द स्वाहेति ७
मूलम्
स नः पाह्यरिष्ट्यै स्वाहेत्यथ यद्यसँस्थिते पशौ शकुनिश्चषाल उपविशेच्चषालं प्रक्षाल्य यूपं प्रोक्ष्य तथैवाज्येन जुहोत्यापवस्व वदस्व वा सोमपीतये गातुमस्मिन्यज्ञे यजमानाय विन्द स्वाहेति ७
English
guard us against injury, svāhā.”50 If a crow rests upon the Caṣāla while the animal is not yet immolated, he should wash the Caṣāla, sprinkle the sacrificial post, and make an offering of clarified butter with the verse, “Do thou pass through for the drinking of Soma (by gods); do tho (O crow) cry; do thou secure the path for the sacrificer in this sacrifice, svāhā.”51
८ चातुर्मास्य-प्रायश्चित्तानि
विश्वास-प्रस्तुतिः
अथातश्चातुर्मास्यान्तरालव्रतानि व्याख्यास्यामस्
मूलम्
अथातश्चातुर्मास्यान्तरालव्रतानि व्याख्यास्यामस्
English
Now we shall explain the ordinances to be observed in the interval between the Cāturmāsya-parvans.
विश्वास-प्रस्तुतिः
तस्थैतद्व्रतं नानृतं वदति
मूलम्
तस्थैतद्व्रतं नानृतं वदति
English
The ordinance is: one does not speak untruth,
विश्वास-प्रस्तुतिः
न माँसमश्नाति
मूलम्
न माँसमश्नाति
English
does not eat flesh;
विश्वास-प्रस्तुतिः
न स्त्रियमुपैति
मूलम्
न स्त्रियमुपैति
English
does not approach a woman;
विश्वास-प्रस्तुतिः
नास्य पल्पूलनेन वासः पल्पूलयन्त्यमृन्मयपाय्यशूद्रो च्छिष्टो
मूलम्
नास्य पल्पूलनेन वासः पल्पूलयन्त्यमृन्मयपाय्यशूद्रो च्छिष्टो
English
his garment is not washed with water impregnated with alkline salt. He drinks through a pot other than an earthen one; he does not give the remnants of food to a Śūdra.
विश्वास-प्रस्तुतिः
स्वयं पादौ प्रक्षालयते
मूलम्
स्वयं पादौ प्रक्षालयते
English
He himself washes his own feet;
विश्वास-प्रस्तुतिः
न लवणमश्नाति
मूलम्
न लवणमश्नाति
English
he does not eat salty things;
विश्वास-प्रस्तुतिः
न कौशीधान्यमन्यत्र तिलेभ्यो नासन्द्याँशयीत
मूलम्
न कौशीधान्यमन्यत्र तिलेभ्यो नासन्द्याँशयीत
English
he does not consume leguminous grains except sesame; he does not sleep on awooden bed;
विश्वास-प्रस्तुतिः
न स्त्रियमुपेयात्
मूलम्
न स्त्रियमुपेयात्
English
he does not appraoch a woman (for sexual enjoyment) .
विश्वास-प्रस्तुतिः
काममृतौ जायामुपेयाद्यद्यजातपुत्रः स्यादुभयोः कालयोर्मधुपूर्वं व्रतमुपैति
मूलम्
काममृतौ जायामुपेयाद्यद्यजातपुत्रः स्यादुभयोः कालयोर्मधुपूर्वं व्रतमुपैति
English
If he wills, he may approach his wife after her menstruation provided he has no son. At both times he eats Vrata-food along with honey.
विश्वास-प्रस्तुतिः
मध्वश्नातीति ब्राह्मणं घृतमित्येवेदमुक्तं भवति
मूलम्
मध्वश्नातीति ब्राह्मणं घृतमित्येवेदमुक्तं भवति
English
“One consumes honey,” so says the Brāhmaṇa. Ghee is meant thereby.
विश्वास-प्रस्तुतिः
दैव्यं मध्विति विज्ञायतेऽञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येनेति
मूलम्
दैव्यं मध्विति विज्ञायतेऽञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येनेति
English
It is regarded as divine honey. It is said: “O Vanaspati, those seeking divine favour besmear thee with divine honey in the sacrifice.”52
विश्वास-प्रस्तुतिः
नान्यस्योच्छिष्टं भुञ्जीत
मूलम्
नान्यस्योच्छिष्टं भुञ्जीत
English
He should not eat the remnants of another person;
विश्वास-प्रस्तुतिः
नान्यस्यार्त्विज्यं कुर्वीत
मूलम्
नान्यस्यार्त्विज्यं कुर्वीत
English
he should not officiate as a priest in another’s sacrifice;
विश्वास-प्रस्तुतिः
नाञ्जीत
मूलम्
नाञ्जीत
English
he should not put collyrium in his eyes;
विश्वास-प्रस्तुतिः
नाभ्यञ्जीत
मूलम्
नाभ्यञ्जीत
English
he should not anoint himself;
विश्वास-प्रस्तुतिः
न श्राद्धं भुञ्जीत
मूलम्
न श्राद्धं भुञ्जीत
English
he should not consume food at Śrāddha;
विश्वास-प्रस्तुतिः
न लोमानि वापयीत
मूलम्
न लोमानि वापयीत
English
he should not cause the hair on the body to be shaved;
विश्वास-प्रस्तुतिः
न दतो धावते
मूलम्
न दतो धावते
English
he should not cleanse his teeth;
विश्वास-प्रस्तुतिः
न नखानि निकृन्तते
मूलम्
न नखानि निकृन्तते
English
he should not get his nails pared;
विश्वास-प्रस्तुतिः
कामं पर्वसु केशश्मश्रुलोमनखानि वापयीत
मूलम्
कामं पर्वसु केशश्मश्रुलोमनखानि वापयीत
English
if he wills he may cause his hair, beard, hair on the body to be shaved and nails pared on the Parvan-days.
विश्वास-प्रस्तुतिः
चतुर्षुचतुर्षु मासेषु निवर्तयेतेति ब्राह्मणं संवत्सरादूर्ध्वं दार्शपौर्णमासिकमेव व्रतमुपदिशन्ति तस्य चेद्वैश्वदेवस्य कालो नातीयाद्यद्यतीयादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
मूलम्
चतुर्षुचतुर्षु मासेषु निवर्तयेतेति ब्राह्मणं संवत्सरादूर्ध्वं दार्शपौर्णमासिकमेव व्रतमुपदिशन्ति तस्य चेद्वैश्वदेवस्य कालो नातीयाद्यद्यतीयादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
English
He should get his hair turned back every four months, says the Brāhmaṇa.53 After the year is passed over, one should observe the ordinance prescribed for the Ful-moon and New-moon sacri- fices provided the day for the (next) Vaiśvadevaparvan is not passed over. If it is passed over, he offers a cake on eight potsherds to Vratapati Agni.
विश्वास-प्रस्तुतिः
सा प्रसिद्धेष्टिः सन्तिष्ठत आमावास्यकालादिति व्याख्याताः
मूलम्
सा प्रसिद्धेष्टिः सन्तिष्ठत आमावास्यकालादिति व्याख्याताः
English
The Iṣṭi comes to a close as prescribed. (The options) “until the day of the New-moon sacrifice” etc. are explained.54
विश्वास-प्रस्तुतिः
कालातिक्रमेष्वापदि यजेत ८
मूलम्
कालातिक्रमेष्वापदि यजेत ८
English
In the event of a calamity one may perform a rite even after the expiry of the proper time.
९ अध्वरदीक्षाप्रायश्चित्तानि
विश्वास-प्रस्तुतिः
अथातोऽध्वरदीक्षाप्रायश्चित्तानि व्याख्यास्यामो दीक्षितश्चेदनृतं वदेदिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्न इति चतस्रो वारुणीर्जपेत्
मूलम्
अथातोऽध्वरदीक्षाप्रायश्चित्तानि व्याख्यास्यामो दीक्षितश्चेदनृतं वदेदिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्न इति चतस्रो वारुणीर्जपेत्
English
Now we shall explain the expiations pertaining to the initiation for a Soma- sacrifice. If the initiated person speaks untruth, he should murmur the four verses addressed to Varuṇa, namely, “Do thou, O Varuṇa, harken my call… –Praying to thee with the divine song, I come to thee…. -Do thou O Agni, the wise….-Do thou, O Agni, be nearest to us….”55
विश्वास-प्रस्तुतिः
कृष्णाजिनाद्व्यवच्छिन्नो दण्डाद्वा देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याशीरवतु । वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमँहस इति जपेदमेध्यमनिष्टं वा दृष्ट्वा जपतीत्युक्तमेतदभिवृष्टोऽभिवृष्यमाणो वा जपतीत्युक्तमेतद्व्रतयित्वाप आचम्य जपति शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः ।

If he is separated from the skin of black antelope or from the staff, he should murmur the verse, “The sacrifice has gone to the gods and to men; may its benediction guard me. May the welfare grow through the curds and ghee; may the sacrifice relieve the lord of sacrifice from sin.”56 After gazing at an impure or unwanted object he murmurs -this is already dealt with. One over whom it has rained, or is raining, murmurs-this is already dealt with. Having taken Vrata-food, he sips water and murmurs the verse, “O waters, do you, when drunk, become auspicious to us, gracious in our stomach, in our womb.
विश्वास-प्रस्तुतिः
इरावतीरनमीवा अनागसः स्वस्ति नो भवथ जीवस इति
मूलम्
इरावतीरनमीवा अनागसः स्वस्ति नो भवथ जीवस इति
English
Full of food, propitious and harmless, do you become kind for our life.”
विश्वास-प्रस्तुतिः
छर्दयित्वा निष्ठीव्य वा जपति यदत्रापि रसस्य मे निरष्ठविषमस्तृतः ।
मूलम्
छर्दयित्वा निष्ठीव्य वा जपति यदत्रापि रसस्य मे निरष्ठविषमस्तृतः ।
English
After vomitting or spitting, he murmurs the verse,
विश्वास-प्रस्तुतिः
अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु म इति
मूलम्
अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु म इति
English
“May Agni, Soma and Pṛthivi reinstate within me the sap which I, invincible, spat.”
विश्वास-प्रस्तुतिः
रेत स्कन्नमनुमन्त्रयते यन्मे रेतः परीतोषात्तदर्पिथ ।
मूलम्
रेत स्कन्नमनुमन्त्रयते यन्मे रेतः परीतोषात्तदर्पिथ ।
English
He follows the seminal fluid which he has dropped with the verse, “The seminal fluid which I have dropped voluntarily,
विश्वास-प्रस्तुतिः
अग्निहोत्रमिव सोमेन तदहं पुनरादद इति
मूलम्
अग्निहोत्रमिव सोमेन तदहं पुनरादद इति
English
I take it back like the Agnihotra (subjugated) by Soma.”57
विश्वास-प्रस्तुतिः
मूत्रं करिष्यन्पुरीषं वा पृथिव्या लोष्टमादत्त इयं ते यज्ञिया तनूरिति
मूलम्
मूत्रं करिष्यन्पुरीषं वा पृथिव्या लोष्टमादत्त इयं ते यज्ञिया तनूरिति
English
When he is going to urinate or to evacuate faeces, he takes a clod of earth with the formula, “This is thy sacrificial form.”
विश्वास-प्रस्तुतिः
करोत्यपो मुञ्चामि न प्रजामँहोमुचः स्वाहाकृताः पृथिवीमाविशतेति
मूलम्
करोत्यपो मुञ्चामि न प्रजामँहोमुचः स्वाहाकृताः पृथिवीमाविशतेति
English
He urinates with “I relinquish water, not progeny; do you, relieving from sin, enter into the earth with Svāhā-utterance.”
विश्वास-प्रस्तुतिः
लोष्टं प्रतिनिदधाति पृथिव्या सम्भवेति
मूलम्
लोष्टं प्रतिनिदधाति पृथिव्या सम्भवेति
English
He replaces the clod with “Do thou be united with the earth.”
विश्वास-प्रस्तुतिः
बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु
मूलम्
बीभत्सा नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेत्यश्रु
English
He sheds tears with “You are disgusting water; do you enter into the earth with Svāhā-utterance;”
विश्वास-प्रस्तुतिः
कफस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानं तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदं दुःस्वप्नं दृष्ट्वा जपत्यभिपर्वावर्तते दुःस्वप्न पापस्वप्नादभूत्यै ।
मूलम्
कफस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्नूहानं तपस्या नाम स्थापः स्वाहाकृताः पृथिवीमाविशतेति स्वेदं दुःस्वप्नं दृष्ट्वा जपत्यभिपर्वावर्तते दुःस्वप्न पापस्वप्नादभूत्यै ।
English
cough with “You are nauseous water; do you enter into the earth with Svāhā-utterance;” sweat with “You are originated by heat; do you enter into the earth with Svāhā-utterance.”58 Having seen a bad dream, he murmurs the verse,
विश्वास-प्रस्तुतिः
ब्रह्माहमन्तर करवै न हि स्वप्नमुपग्रथ इति
मूलम्
ब्रह्माहमन्तर करवै न हि स्वप्नमुपग्रथ इति
English
“I return from the bad dream, the evil dream, the damage, I hold the prayer against it, the sorrows indicated by the dream are driven away.”59
English
स्वप्नेऽन्नं भुक्त्वा जपति यदन्नमद्यते नक्तं न तत्प्रातः क्षुधोऽवति ।
English
one eats food in a dream, he murmurs the verse, “The food which is eaten at night does not save one from hunger in the morning.
विश्वास-प्रस्तुतिः
सर्वं तदस्मान्मा हिँसीन्न हि तद्ददृशे दिवेति
मूलम्
सर्वं तदस्मान्मा हिँसीन्न हि तद्ददृशे दिवेति
English
May it not injure us; it is not seen by day.”
विश्वास-प्रस्तुतिः
लोहितमुत्पतितं दृष्ट्वा कण्डूय वा जपति नमो रुद्रि याभ्योऽद्भ्यः स्वाहेति
मूलम्
लोहितमुत्पतितं दृष्ट्वा कण्डूय वा जपति नमो रुद्रि याभ्योऽद्भ्यः स्वाहेति
English
If one looks at blood fallen on the ground, or rubs, he murmurs, “Obeisance to water belonging to Rudra, svāhā.”
विश्वास-प्रस्तुतिः
न वर्षति धावेद्यदि धावेद्नमो रुद्रा य वास्तोष्पतय इत्येतामृचं जपेद्नान्येन दीक्षेतेन समेयाद्यदि समेयात्कया नश्चित्र आभुवदित्येतामृचं जपेद्देवयजनादन्यत्राभ्युदितोऽभिनिस्रुक्तो वा सूर्यो मा देवो देवेभ्यः पात्विति जपेदितीन्न्वा इमानि सर्वास्वेवाध्वरदीक्षासु प्रायश्चित्तानि भवन्तीति बौधायन

One should not walk when it is raining. If he walks, he murmurs the verse, “Obeisance to Rudra the lord of residence. I invoke (Rudra) who guards at arrival, at departure, at leaving, at final departure, at coming back and at moving around.”60 One should not come across another initiated person. If he comes, he should murmur the verse, “With which help, with which most powerful help will the wonderful and ever-growing friend come to us ?”61 If the sun rises or sets while the initiated is away from the sacrificial place, the initiated murmurs the verse, “May god Sūrya protect me from the gods; Vāyu from the midregion. May Agni the sacrificer protect me from the evil eye. O strong one, O impetuous one, O instigator, O thou of all men with these names, O Soma, we shall worship thee; with these names, O Soma, we shall worship thee.”62 These are the expiations in all kinds of initiation at a Soma-sacrifice, so says Baudhāyana.
विश्वास-प्रस्तुतिः
आवान्तरदीक्षायै विसर्गादिति शालीकिः ९
मूलम्
आवान्तरदीक्षायै विसर्गादिति शालीकिः ९
English
These are applicable upto the relinquishment of the intermediate initiation, says Śālīki.
१० सर्वयज्ञानां प्रायश्चित्तानि
विश्वास-प्रस्तुतिः
अथातः सर्वयज्ञानां प्रायश्चित्ता व्याख्यास्यामः
मूलम्
अथातः सर्वयज्ञानां प्रायश्चित्ता व्याख्यास्यामः
English
Now we shall explain the expiations for all kinds of sacrifice.
विश्वास-प्रस्तुतिः
सर्वत्र स्कन्नच्छिन्नभिन्नभग्ननष्टदुष्टविपरीतहीनेषु हविःस्यन्दनास्रावितपतितस्फुटितेष्वद्विजश्वानबिडालकाकखरमृगपशुपक्षिसरीसृपादीनामन्यत्कीटानामृत्विजोऽग्नीनामन्तरागतानां द्वादशगृहीतेन स्रुचं पूरयित्वा दुर्गां मनस्वतीं महाव्याहृतीस्तिस्रो जुहुयाद्जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।

In all cases where oblation is fallen down, broken, split, shattered, lost, defiled, inverted, or defective, or flows out, leaks out, falls down, or is cracked, where a non-twiceborn, a dog, a cart, a cat, a crow, an ass, a deer, an animal, a bird, a serpent and the like, or any of the insects passes between the officiating priests and the firs, one should take twelve spoonfuls in the ladle and make offerings with the verse containing the word durga, another containing the word manas63 and with three Mahāvyāhṛtis. (The durga offering is to be made with the verse), “We press Soma for Jätavedas Agni; he burns the riches of those entertaining enmity.
विश्वास-प्रस्तुतिः
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः स्वाहेति
मूलम्
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः स्वाहेति
English
May he lead us beyond all adversities. May Agni carry us beyond all misbehaviours as if crossing the sea by a boat, svāhā.64
विश्वास-प्रस्तुतिः
कार्यविपर्यासे च मन्त्रब्राह्मणमात्रं दर्भेध्माबर्हिःपरिधिविधृतिपवित्रहविःकपालस्रुक्स्रुवारणिकृष्णाजिनप्रणीता-ग्न्युद्वासनेन यत्किञ्चित्कार्यविपर्यासः स्याद्ये चान्ये चाज्यस्थाल्याः स्रुवेणोपघातं प्रायश्चित्तानि जुहोति प्रजापतये स्वाहा हिरण्यगर्भाय स्वाहेत्यथ पितामहां जुहोति भृगूणां पतये स्वाहाङ्गिरसां तपसे स्वाहेत्यथ महाव्याहृतीर्जुहोति भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च स्वाहा सुवरादित्याय च दिवे च महते च स्वाहा भूर्भुव सुवश्चन्द्र मसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहेत्यथ व्याहृतीर्जुहोति भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहेति १०

In the event of any transposition in procedure, the expiation should be just the one prescribed in the Brāhmaṇa or the mantra. If there occurs any transposition in respect of darbha-grass, sacrificial grass and faggot, enclosing sticks, separating blades, strainer, oblation, potsherds, ladle, spoon, kindling woods, skin of a black antelope, Praṇītā-goblet, taking down from the fire, or if there is any other transposition, one should make expiatory offerings each time dipping the spoon into the vessel of clarified butter with the formula, “To Prajāpati svāhā, to Hiranyagarbha svāhā,” “the pitāmahā offering with “To the lord of Bhṛgus svāhā; to the Tapas of the Angirases svāhā.” Then offers the Mahāvyāhr̥tis “To Bhū, Agni, Pṛthivi and Mahat svāhā to Bhuvaḥ, Vāyu, Antarikṣa and Mahat svāhā; to suvaḥ, Āditya, heaven and Mahat svāhā; to bhur bhuvaḥ suvaḥ Candramas, Nakṣatras, Dises and Mahat svāhā.” Then he offers the Vyāhr̥tis “bhūḥ svāhā; bhuvaḥ svāhā, suvaḥ svāhā, bhūr bhuvah suvaḥ svāhā.”
११
विश्वास-प्रस्तुतिः
मन्त्रहीनेऽतिरिक्ते वा दुरधीते दुरागते ।
मूलम्
मन्त्रहीनेऽतिरिक्ते वा दुरधीते दुरागते ।
English
If an offering is made without the relevant formula, if it is superfluous, if (the mantra) is recited incorrectly, if the offering is made at a wrong time,
विश्वास-प्रस्तुतिः
अनागतेऽवषट्कारे अतीते वापि यद्धुते ॥
मूलम्
अनागतेऽवषट्कारे अतीते वापि यद्धुते ॥
English
if it is made in advance, if offered without Vaṣaṭ-utterance, if it is passed over,
विश्वास-प्रस्तुतिः
हविषः स्यन्दनादग्नेर्होतुर्हीनस्वरेण च ।
मूलम्
हविषः स्यन्दनादग्नेर्होतुर्हीनस्वरेण च ।
English
if the oblation is spilt out from the fire, if the Hotṛ’s voice is defective,
विश्वास-प्रस्तुतिः
अतिदाहे च हविषां यत्किञ्चित्पात्रभेदने ॥
मूलम्
अतिदाहे च हविषां यत्किञ्चित्पात्रभेदने ॥
English
if the oblations are overburnt, if any vessel is broken,
विश्वास-प्रस्तुतिः
कपालनाशे भेदे च चतुष्पाद्यन्तरागते ।
मूलम्
कपालनाशे भेदे च चतुष्पाद्यन्तरागते ।
English
if a potsherd is lost or broken, if any quadruped passes between the fires,
विश्वास-प्रस्तुतिः
प्रणाशे च पवित्रस्य आज्यस्यैवावलोडने ॥
मूलम्
प्रणाशे च पवित्रस्य आज्यस्यैवावलोडने ॥
English
if the strainers are lost while agitating the clarified butter,
विश्वास-प्रस्तुतिः
हविषां च विपर्यास ऋत्विक्ष्वप्रयतेषु च ।
मूलम्
हविषां च विपर्यास ऋत्विक्ष्वप्रयतेषु च ।
English
if the oblations are transposed, if the priests are inattentive,
विश्वास-प्रस्तुतिः
यज्ञप्रसारणीकाले द्वैधीभावे समुत्थिते ॥
मूलम्
यज्ञप्रसारणीकाले द्वैधीभावे समुत्थिते ॥
English
if there is a difference of opinion during the sacrificial procedure,
विश्वास-प्रस्तुतिः
मिन्दाहुती च होतव्ये व्याहृत्यः प्रणवादिकाः ।
मूलम्
मिन्दाहुती च होतव्ये व्याहृत्यः प्रणवादिकाः ।
English
one should offer two Mindāhutis, make offerings with Praṇava and Vyāhr̥tis,
विश्वास-प्रस्तुतिः
वारुण्यस्तन्तुमत्यश्चान्वग्निश्च मनस्वती ॥
मूलम्
वारुण्यस्तन्तुमत्यश्चान्वग्निश्च मनस्वती ॥
English
with verses addressed to Varuṇa, also to Tantumant Agni with the verse, anv agnir uṣasām …,65 with the verse containing the word manas,
विश्वास-प्रस्तुतिः
महाव्याहृतयः सप्त प्राजापत्या तथैव च ।
मूलम्
महाव्याहृतयः सप्त प्राजापत्या तथैव च ।
English
seven Mahāvyāhr̥tis, and offerings to Prajāpati.
विश्वास-प्रस्तुतिः
प्रसन्धानाय यज्ञस्य त्वेते मन्त्राः प्रकीर्तिताः ॥
मूलम्
प्रसन्धानाय यज्ञस्य त्वेते मन्त्राः प्रकीर्तिताः ॥
English
These mantras are prescribed for the restoration of the sacrifice.
विश्वास-प्रस्तुतिः
अप्रायश्चित्तिको यज्ञो ह्यसुरैः सम्प्रभुज्यते ।
मूलम्
अप्रायश्चित्तिको यज्ञो ह्यसुरैः सम्प्रभुज्यते ।
English
A sacrifice concluded without the (essential) expiations is consumed by demons.
विश्वास-प्रस्तुतिः
असुरैर्भुक्तयज्ञस्तु देवान्दोषेण सँश्रयेत ॥
मूलम्
असुरैर्भुक्तयज्ञस्तु देवान्दोषेण सँश्रयेत ॥
English
The sacrifice consumed by demons invests the gods with blemish.
विश्वास-प्रस्तुतिः
ऋत्विजो यजमानं च आयुषो ब्रह्मवर्चसात्।
मूलम्
ऋत्विजो यजमानं च आयुषो ब्रह्मवर्चसात्।
English
A defective offering deprives the priests and the sacrificer of (long) life and divine splendour.
विश्वास-प्रस्तुतिः
प्रच्यावयेद्दुरिष्टं तत्तस्माद्दोषान्प्रणाशयेदिति ११
मूलम्
प्रच्यावयेद्दुरिष्टं तत्तस्माद्दोषान्प्रणाशयेदिति ११
English
Therefore one should remove the deficiencies (in rites).
१२ अनुग्रहाः
विश्वास-प्रस्तुतिः
अथातोऽनुग्रहान्व्याख्यास्यामः
मूलम्
अथातोऽनुग्रहान्व्याख्यास्यामः
English
Now we shall explain the secondary employments.
विश्वास-प्रस्तुतिः
सायँहोमं चोपोदयं जुहुयात्प्रातर्होमं चोपास्तमयं कालेन कालमनतिक्रम्य
मूलम्
सायँहोमं चोपोदयं जुहुयात्प्रातर्होमं चोपास्तमयं कालेन कालमनतिक्रम्य
English
One should offer the evening Agnihotra before the next sunrise, and the morning Agnihotra before sunset without transgressing the time (of the next offering) by the (belated) time.
विश्वास-प्रस्तुतिः
कालो दर्शपूर्णमासयोरग्निहोत्रस्य च न स्कन्दते न व्यथत इति विज्ञायत आ प्रातराहुतिकालात्सायमाहुतिकालो नातीयादा सायमाहुतिकालात्प्रातराहुतिकालोऽथ यदि सायं सायं दोषा वस्तोर्नमः स्वाहेत्याहुतिँहुत्वाग्निहोत्रं जुहुयाद्यदि प्रातः प्रातर्दोषा वस्तोर्नमः स्वाहेत्याहुतिँहुत्वाग्निहोत्रं जुहुयादथ यदि पूर्वस्यामाहुत्याँहुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदञ्छकले हिरण्यं निधायोत्तरामाहुतिं जुहुयात्

The period of Full-moon and New-moon sacrifices and the Agnihotra does not pass away nor it becomes disturbed, so is it said. The period of evening Agnihotra does not pass away until the (next) morning Agnihotra; the period of morning Agnihotra does not pass away until the evening Agnihotra. If the evening (Agnihotra is belated), one should make an offering with the formula, “Obeisance to the illuminator of dark in the evening svāhā,” and then offer the Agnihotra. If the morning (Agnihotra is belated), one should make an offering with the formula, “Obeisance to the illuminator of dark in the morning svāhā,” and then offer the Agnihotra. If the Āhavanīya becomes extinguished after the first Agnihotra-offering is made, one should place a piece of gold on a chip of wood with the formula, “Agni is in the wood, in the wood is Agni” and then make the second offering. If the proper time for the Agnihotra is transgressed, the practice of offering the Agnihotra in emergency should be adhered to.66
कालातिक्रमेष्वापद्धोम आमावास्यस्य कालात्पौर्णमासस्य कालो नातीयादा पौर्णमासादामावास्यस्या व्रीह्याग्रयणस्य कालाच्छ्यामाकाग्रयणस्य कालो नातीयादा यवाग्रयणस्य कालाद्व्रीह्याग्रयणस्या श्यामाकाग्रयणाद्यवाग्रयणस्या वरुणप्रघासानां कालाद्वैश्वदेवस्य कालो नातीयादा साकमेधेभ्यो वरुणप्रघासाआमा शुणसीर्यात्साकमेधानामा वैश्वदेवाच्छुनासीर्यस्या दक्षिणायनपशोः कालादुत्तरायणपशोः कालो नातीयादोत्तरायणपशोर्दक्षिणायनपशोरोत्तरवसन्तज्योतिष्टोमस्य कालात्पूर्ववसन्तज्योतिष्टोमस्य कालो नातीयात्
English
The time for the Full-moon sacrifice does not pass over until the time for the New-moon sacrifice; the time for the New-moon sacrifice does not pass over until the time for the Full-moon sacrifice. The time for the Śyāmākāgrayaṇa does not pass over until the time for Vrihyāgrayaṇa. The time for the Vrihyāgrayaṇa does not pass over until the time for the Yavāgrayana. The time for the Yavāgrayaṇa does not pass over until the time for the Syāmākāgrayana. The time for the Vaiśvadevaparvan (of the Cāturmāsyas) does not pass over until the time for the Varuṇapraghāsaparvan. The time for the Varuṇapraghasaparvan does not pass over until the time for the Sākamedhaparvan. The time for the Sakamedhaparvan does not pass over until the time for the Śunāsīrīyaparvan. The time for the Śunāsīrīyaparvan does not pass over until the time for the Vaiśvadevaparvan (in the next cycle). The time for the Animal-sacrifice pertaining to the northern course of the sun does not pass over until the time for the Animal-sacrifice pertaining to the southern course of the sun. The time for the Animal-sacrifice pertaining to the southern course of the sun does not pass over until the time for the Animal-sacrifice pertaining to the northern course of the sun. The time for the performance of the Jyotiṣṭoma to be performed in the former Vasanta does not pass over until the time for the Jyotiṣṭoma to be performed in the latter Vasanta.
विश्वास-प्रस्तुतिः
समस्तस्य संवत्सरस्या निज्यासुत्या ऋषयो ह स्म तत्प्रयोयुगा आसंस्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहुवुः
मूलम्
समस्तस्य संवत्सरस्या निज्यासुत्या ऋषयो ह स्म तत्प्रयोयुगा आसंस्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहुवुः
English
In the case of a combined year, there should be no performance of an Iṣṭi nor of a Soma-sacrifice (at the next year’s beginning). There were sages who were experts in ritual-practice. They offered the Agnihotra every month-half.
विश्वास-प्रस्तुतिः
प्रतिपदि सायं चतुर्दशगृहीतानि गृह्णाति
मूलम्
प्रतिपदि सायं चतुर्दशगृहीतानि गृह्णाति
English
On the Pratipad-day in the evening one takes up fourteen portions of Agnihotra;
विश्वास-प्रस्तुतिः
सकृदुन्नयते हविरेका समित्
मूलम्
सकृदुन्नयते हविरेका समित्
English
he takes the oblation at once. One firestick should be put.
विश्वास-प्रस्तुतिः
सकृद्धोमः सकृदुपस्थानं सकृत्पाणिनिमार्जनम्
मूलम्
सकृद्धोमः सकृदुपस्थानं सकृत्पाणिनिमार्जनम्
English
There should be a single offering. The praying should be done at one time. Cleansing of the palms should be done once only.
विश्वास-प्रस्तुतिः
एवं प्रातरथ षण्मासानहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन चाग्नये पथिकृतेऽग्नये तन्तुमतेऽग्नये वैश्वानरायाग्नये व्रतपतय इति पुरोडाशान्निरुप्याग्निहोत्रँहुत्वा दर्शपूर्णमासाभ्यामिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन चाथ संवत्सरमहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन चाग्नये पवमानायाग्नये पावकायाग्नये शुचयेऽग्नये पथिकृतेऽग्नये तन्तुमतेऽग्नये वैश्वानरायाग्नये व्रतपतय इति पुरोडाशान्निरुप्याग्निहोत्रँ हुत्वा दर्शपूर्णमासाभ्यामिष्ट्वाग्रयणैश्चातुर्मास्यैः पशुबन्धेन च १२

Similarly at the morning Agnihotra. If one has not offered the Agnihotra for six months, has not performed Full-moon and New-moon sacrifices, the Agrayaṇeşti, the Cāturmāsya and the Animal-sacrifice for six months, one should offer cakes on eight potsherds to Pathikṛt Agni, Tantumant Agni, Vaiśvānara Agni and Vratapati Agni, and then offer the Agnihotra. (He should then perform) the Full-moon and New-moon sacrifices, the Āgrayaṇa, the Cāturmāsya and the Animal-sacrifice (at the proper time). If one has not offered the Agnihotra, has not performed the Full-moon and New-moon sacrifice, the Āgrayaṇa, the Cāturmāsyas and the Animal-sacrifice for one year, he should offer cakes on eight potsherds to Pavamāna Agni, Pāvaka Agni, Šuci Agni, Pathikṛt Agni, Tantumant Agni, Vaiŝvanara Agni and Vratapati Agni, and then offer the Agnihotra. (He should then perform) the Full-moon and New-moon sacrifices, Āgrayaṇa, Cāturmāsya and the Animal-sacrifice (at the proper time).
१३
विश्वास-प्रस्तुतिः
अथ हविषामर्थे व्रीहियवौ
मूलम्
अथ हविषामर्थे व्रीहियवौ
English
For the purpose of oblations paddy and barley (are the normal grains).
विश्वास-प्रस्तुतिः
तयोरलाभे प्रियङ्गवः कोद्र वोदारवरकवर्ज ँर्! श्यामाकनीवारवेणुयवास्तरसम्पाककन्दमूलफलान्यापः सक्तुमिति
मूलम्
तयोरलाभे प्रियङ्गवः कोद्र वोदारवरकवर्ज ँर्! श्यामाकनीवारवेणुयवास्तरसम्पाककन्दमूलफलान्यापः सक्तुमिति
English
If they do not become available, one should employ the grains of Panicum italicum unmixed with Paspalum scrobicufatum and udāravaraka, or grains of Panicum frumentaceum or Hygrorhiza aristata or bamboo-seed or fully roasted bulbs, roots or fruits or flour of parched barley.
विश्वास-प्रस्तुतिः
घृतमाज्यार्थे
मूलम्
घृतमाज्यार्थे
English
One should use ghee for clarified butter.
विश्वास-प्रस्तुतिः
गव्यमिति प्रत्ययस्
मूलम्
गव्यमिति प्रत्ययस्
English
The convention is that it should be made out of cow’s milk.
विश्वास-प्रस्तुतिः
तस्यालाभे माहिषमाजं वा घृतमाज्यार्थे प्रयुञ्जीत
मूलम्
तस्यालाभे माहिषमाजं वा घृतमाज्यार्थे प्रयुञ्जीत
English
In its absence one should use the ghee prepared out of the milk of she-buffalo or she-goat.
विश्वास-प्रस्तुतिः
भोजनेष्वविरुद्धं मन्यन्त एके
मूलम्
भोजनेष्वविरुद्धं मन्यन्त एके
English
Some teachers think that one should employ such ghee as is not unsuitable as food.
विश्वास-प्रस्तुतिः
तयोरलाभे तैलं प्रतिनिधिस्
मूलम्
तयोरलाभे तैलं प्रतिनिधिस्
English
In the absence of both of them one should use sesame-oil as a substitute.
विश्वास-प्रस्तुतिः
तस्यालाभे जर्तिलतैलम्
मूलम्
तस्यालाभे जर्तिलतैलम्
English
In its absence one should use the oil of wild sesamum.
विश्वास-प्रस्तुतिः
अतसीकुसुम्भसर्षपवार्क्षस्नेहा इति शिष्टप्रामाण्यादत ऊर्ध्वमलाभे यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाद्भिः सँ सृज्याज्यार्थे प्रयुञ्जीत
मूलम्
अतसीकुसुम्भसर्षपवार्क्षस्नेहा इति शिष्टप्रामाण्यादत ऊर्ध्वमलाभे यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाद्भिः सँ सृज्याज्यार्थे प्रयुञ्जीत
English
Oils prepared out of linseed or safflower or mustard are also allowed under the sanction of the wise. If these are not available, one may use flour of barley or paddy or Panicum frumentaceum mixed with water in place of clarified butter.
विश्वास-प्रस्तुतिः
कुशा स्तरणार्थे
मूलम्
कुशा स्तरणार्थे
English
The grass of Poa cynosuroides should be used for spreading.
विश्वास-प्रस्तुतिः
तेषामलाभे शरमयकुतपाश्ववालमुञ्जसुगन्धितेजनार्जुनादारदूर्वाश्यामाकाः क्षीरवृक्षा इक्षव इत्येतेभ्यः
मूलम्
तेषामलाभे शरमयकुतपाश्ववालमुञ्जसुगन्धितेजनार्जुनादारदूर्वाश्यामाकाः क्षीरवृक्षा इक्षव इत्येतेभ्यः
English
If that is not available, one may used Saccharum Sara or Kutapa or Saccharum spontaneum, or Sacchurum Muñja, or the fragrant grass, or arjuna or ādāra or Dūrvā or Panicum frumentaceum, or twigs of milky trees or sugarcane
विश्वास-प्रस्तुतिः
प्रस्तरबर्हिर्विधृतिपवित्रयूपरशनाशालाकपरिस्तरणान्तर्धानासनशयनस्तोत्रोपाकरणार्थाः कार्याः सर्वतृणेभ्यो वा शुष्कशुण्ठिनलबल्बजकृष्णतूलतृणवर्जम्पालाशः खादिरो वेध्मस्तयोरलाभे याज्ञिकानां वा वृक्षाणामन्यतमस्तेषामलाभेऽररुकपित्थकोविदारशल्मलिश्लेष्मातकनीपनिम्बतिलकवाधकविभीतकराजवृक्षकरञ्जपलाण्डुवर्जं

for the Prastara, Barhis, separating blades, strainer, cord for the sacrificial post, sticks, strewing grass, concealment, seat, bed and introduction of a Stotra. Or one may prepare these out of any grass except dry ginger, nala, balbaja and the grass having black tufts. The sacrificial faggot should be of Butea frondosa or Acasia catechu. If both these are not available, one may procure from any sacrificial tree; if it is not available, one may procure from any tree except araru, kapittha, kovidāra, Śalmali, Śleṣmātaka, Nipa, Nimba, Tilaka, Bādhaka, Vibhītaka, Rājavṛkṣa, Karañja and Palāṇḍu.
विश्वास-प्रस्तुतिः
सर्ववनस्पतीनामिध्मो भवतीत्येके
मूलम्
सर्ववनस्पतीनामिध्मो भवतीत्येके
English
According to some teachers one may procure the faggot from any tree.
विश्वास-प्रस्तुतिः
दक्षिणानां काले गौर्हिरण्यं वासस्
मूलम्
दक्षिणानां काले गौर्हिरण्यं वासस्
English
At the giving away of Dakṣiņā one should give a cow or a piece of cloth.
विश्वास-प्रस्तुतिः
तेषामलाभे फलानां मूलानां भक्ष्याणां दद्याद्न त्वेव न यजेत
मूलम्
तेषामलाभे फलानां मूलानां भक्ष्याणां दद्याद्न त्वेव न यजेत
English
If these are not available, one may give fruits or roots or other eatables. It should however not happen that one does not perform a sacrifice (because he has nothing to give away as Dakṣiņā).
विश्वास-प्रस्तुतिः
नित्यं नित्येषु युक्तः स्यात्तथैवाजस्रिकेषु च ।
मूलम्
नित्यं नित्येषु युक्तः स्यात्तथैवाजस्रिकेषु च ।
English
One should always be devoted to the obligatory rites and also to the ceaseless maintenance of the fires.
विश्वास-प्रस्तुतिः
यस्य नित्यानि लुप्तानि तथैवाजस्रिकाणि च ॥
मूलम्
यस्य नित्यानि लुप्तानि तथैवाजस्रिकाणि च ॥
English
One whose obligatory rites are discontinued and permanent fires are not maintained, becomes deprived of the right path;
विश्वास-प्रस्तुतिः
विपथस्थो न स स्वर्गं गच्छते पतितो हि सः ।
मूलम्
विपथस्थो न स स्वर्गं गच्छते पतितो हि सः ।
English
he does not reach the heaven; he becomes sinful.
विश्वास-प्रस्तुतिः
तस्मान्मूलैः फलैर्वापि मधुना तरसेन वा ।
नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत्॥
मूलम्
तस्मान्मूलैः फलैर्वापि मधुना तरसेन वा ।
नित्यं नित्यानि कुर्वीत न च नित्यानि लोपयेत्॥
English
Therefore one should always perform the obligatory rites by means of roots, fruits, honey or flesh.
विश्वास-प्रस्तुतिः
न च नित्यानि लोपयेदिति १३
मूलम्
न च नित्यानि लोपयेदिति १३
English
One should not discontinue obligatory rites.
CHAPTER XXVIII ENDS.
-
TS VII.5.22 ↩︎
-
Namely, samidhyamāno adhvare … and samiddho agna āhutaḥ … TBr III.5.2. ↩︎ ↩︎
-
TS IV.6.1.3 ↩︎
-
TBr II.4.1.6 ↩︎
-
TBr I.4.8.2 ↩︎
-
RV IX.101.2; AšvŚS II.12.3 ↩︎
-
RV IX.17.4; ÁśvŚS II.12.4 ↩︎
-
TS IV.7.15; cf BaudhŚS XV.37 ↩︎
-
TBr 1.4.8 ↩︎
-
TBr III.7.12 ↩︎
-
BaudhŚS III.14: also cf. BaudhŚS XXIX.9 ↩︎
-
At the offering the Adhvaryu and the Hotṛ pronounce the name of the divinity to oneself and the Hotṛ recites the puronuvákyǎ and the yajyä to oneself. ↩︎ ↩︎ ↩︎ ↩︎
-
Namely, samidhyamāno adhvare… and samiddho agna āhutaḥ…. TBr III.5.2; BaudhŚS XXVIII.1. ↩︎ ↩︎
-
TS IV.6.1.3 ↩︎
-
TBr II.4.1.6; BaudhŚS XXVIII.1 ↩︎
-
TBr I.4.8.2 ↩︎
-
RV IX.101.2; AśvŚS II.12.3; BaudhŚS XXVIII.1 ↩︎
-
RV IX.17.4; AšvŚS II.12.4 ↩︎
-
TS I.6.6.2 ↩︎
-
TBr II.4.9 ↩︎
-
TS III.4.11.2 ↩︎
-
TS I.3.14.9 ↩︎
-
TBr II.4.7.6 ↩︎
-
TS I.1.14.4 ↩︎
-
TS II.2.12.5 ↩︎
-
TS I.5.11.1 ↩︎
-
TS I.5.11.4 ↩︎
-
“Thou art injury; may I be uninjured, may I injure N.N.” cf. BaudhŚS III.18. ↩︎
-
TBr I.4.8 ↩︎
-
TBr II.4.1.1 ↩︎
-
RV V.1.8 ↩︎
-
TBr III.7.12.1 ↩︎
-
TBr III.1.4-6 ↩︎
-
TBr II.4.5.3 ↩︎
-
TBr II.4.8.1 ↩︎
-
TS IV.3 13.5 ↩︎
-
TS I.5.5.1 ↩︎
-
TS IV.4.4.1 ↩︎
-
TBr III.1.4-6 ↩︎
-
TS IV.2.5.2 ↩︎
-
BaudhŚS XV.8 ↩︎
-
The text is doubtful; the translation is tentative. ↩︎
-
Offering of clarified butter in place of the organs of the animal, cf. BaudhŚS XVII.15. ↩︎
-
Namely, Indra, Yama, Varuṇa and Soma. ↩︎
-
This verse is not traced anywhere. ↩︎
-
TBr III.7.10.1 ↩︎
-
The mantra is not traced anywhere. ↩︎
-
TBr III.6.1.1 ↩︎
-
TBr I.5.6 ↩︎
-
In the sequel, cf. BaudhŚS XXVIIL12 ↩︎
-
TBr III.7.11.1-4; BaudhŚS XXVII.1 ↩︎
-
cf. MS I.4.4; IV. 8.9 ↩︎
-
cf. ĀpŚS X. 13.10 ↩︎
-
cf. Bhār Paris 69; ĀpŚS X.14.1 ↩︎
-
One may favourably compare with this mantra which is partly corrupt, AV VIL 100. ↩︎
-
TBr III.7.9.7 ↩︎
-
TS IV.2.11.2 ↩︎
-
TS III.5.5.1 ↩︎
-
Namely, mano jyotir juṣatām… TS 1.5.3.2; BaudhŚS XXVIL9 ↩︎
-
TA X.1.16 ↩︎
-
TS IV.1.2.2 ↩︎
-
cf. BaudhŚS XXIV.8 ↩︎