षड्विंशः प्रश्नः
१
विश्वास-प्रस्तुतिः
अथायँराजसूयोऽर्धसप्तदशैर्मासैः सन्तिष्ठतेऽर्धषोडशैर्वा
मूलम्
अथायँराजसूयोऽर्धसप्तदशैर्मासैः सन्तिष्ठतेऽर्धषोडशैर्वा
English
Now this Rājasūya sacrifice is concluded after sixteen and a half months or fifteen and a half months.
विश्वास-प्रस्तुतिः
तस्मिन्सोमसँस्थाः पञ्चैकाहा अहीनो द्विरात्रः
मूलम्
तस्मिन्सोमसँस्थाः पञ्चैकाहा अहीनो द्विरात्रः
English
In it the Soma-sacrifices are : five Ekāhas and Ahīna Dvirātra.
विश्वास-प्रस्तुतिः
षट्छाला अष्टौ यूपाः षडु हाग्निष्टोमिका द्विपशौपशुबन्धे सौत्रामण्यामष्टमस्
मूलम्
षट्छाला अष्टौ यूपाः षडु हाग्निष्टोमिका द्विपशौपशुबन्धे सौत्रामण्यामष्टमस्
English
There are six sheds; eight sacrificial posts-six pertaining to the Agniṣṭoma, one pertaining to an Animal-sacrifice of two animals, and the eighth for the Sautrāmaṇī.
विश्वास-प्रस्तुतिः
तावन्त एवावभृथाः
मूलम्
तावन्त एवावभृथाः
English
There are as many (= eight) Avabhṛtha rites.
विश्वास-प्रस्तुतिः
क्व उ खलु हविषो हविर्निरुप्यत इत्यानुमत इत्येव ब्रूयात्
मूलम्
क्व उ खलु हविषो हविर्निरुप्यत इत्यानुमत इत्येव ब्रूयात्
English
When is the oblation of the Havis-sacrifice poured out? At the offering to Anumati, one should say.
विश्वास-प्रस्तुतिः
कृष्णं वासः कृष्णतूषं दक्षिणेति
मूलम्
कृष्णं वासः कृष्णतूषं दक्षिणेति
English
Black piece of cloth and a garment with black border should be the Dakṣiņā.
विश्वास-प्रस्तुतिः
कृष्णदशमित्येवेदमुक्तं भवति
मूलम्
कृष्णदशमित्येवेदमुक्तं भवति
English
The latter means a garment with black fringes - so is it said.
विश्वास-प्रस्तुतिः
काममिष्ट्या पशुबन्धेनेति
मूलम्
काममिष्ट्या पशुबन्धेनेति
English
(One passes on four months) by performing (each day) an Iṣṭi or an animal-sacrifice
विश्वास-प्रस्तुतिः
सन्तन्येष्ट्येष्ट्वाग्रयणेन वा पार्वणेन वा यजेत
मूलम्
सन्तन्येष्ट्येष्ट्वाग्रयणेन वा पार्वणेन वा यजेत
English
after having performed the Saṁtanī sacrifices1 one should perform either the Āgrayaṇa or the Parvan-sacrifice.
विश्वास-प्रस्तुतिः
कथमु खलु साकमेधपरुषीति
मूलम्
कथमु खलु साकमेधपरुषीति
English
What should be the procedure after the Sākamedhaparvan?
विश्वास-प्रस्तुतिः
महारात्रे पूर्वा सन्तनिः श्वो भूत उत्तरा प्रदोषे
मूलम्
महारात्रे पूर्वा सन्तनिः श्वो भूत उत्तरा प्रदोषे
English
The first Saṁtanī sacrifice should be performed at early dawn and the second one in the evening.
विश्वास-प्रस्तुतिः
किमु खल्वसमुदितं भवतीति
मूलम्
किमु खल्वसमुदितं भवतीति
English
Which stage of rite is indicated by the word asamudita2 ?
विश्वास-प्रस्तुतिः
प्रागनूयाजिकात्सम्प्रैषादित्येव ब्रूयाद्बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृह इति
मूलम्
प्रागनूयाजिकात्सम्प्रैषादित्येव ब्रूयाद्बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृह इति
English
Prior to the call pertaining to the Anūyāja-offerings, one should say. One offers cooked rice to Bṛhaspati at the residence of the Brahman :
विश्वास-प्रस्तुतिः
योऽन्यो याजमानासंयुक्तो ब्राह्मणो भवति
मूलम्
योऽन्यो याजमानासंयुक्तो ब्राह्मणो भवति
English
(One should understand thereby) another brāhmana who is related to the sacrificer.3
विश्वास-प्रस्तुतिः
भगाय चरुं वावातायै गृह इति
मूलम्
भगाय चरुं वावातायै गृह इति
English
Cooked rice to Bhaga at the residence of the king’s favourite wife:
विश्वास-प्रस्तुतिः
यान्या महिष्या एव सुभगा भवति
मूलम्
यान्या महिष्या एव सुभगा भवति
English
one who is different from the chief queen (but) is beautiful.
विश्वास-प्रस्तुतिः
नैरृतं चरुं परिवृक्त्यै गृह इति
मूलम्
नैरृतं चरुं परिवृक्त्यै गृह इति
English
Cooked rice to Nirr̥ti at the residence of the abandoned wife:
विश्वास-प्रस्तुतिः
दुर्भगैवैषोक्ता भवति
मूलम्
दुर्भगैवैषोक्ता भवति
English
she is said to be unfortunate.
विश्वास-प्रस्तुतिः
पौष्णं चरुं भागदुघस्य गृह इति
मूलम्
पौष्णं चरुं भागदुघस्य गृह इति
English
Cooked rice to Pūṣan at the residence of the distributor:
विश्वास-प्रस्तुतिः
महानसिक एवैष उक्तो भवत्यथाप्युदाहरन्ति यो भागलाभी दोग्धि स एषैष उक्तो भवति
मूलम्
महानसिक एवैष उक्तो भवत्यथाप्युदाहरन्ति यो भागलाभी दोग्धि स एषैष उक्तो भवति
English
he is said to be the cook. They also say, he is said to be the milker claiming a share.
विश्वास-प्रस्तुतिः
द्वादशाहेन रत्निनाँहवीँषि
मूलम्
द्वादशाहेन रत्निनाँहवीँषि
English
The Ratnins’ offerings are made during twelve days.
विश्वास-प्रस्तुतिः
त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहोऽवशिष्ट एतस्यैव पूर्वपक्षस्य
मूलम्
त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहोऽवशिष्ट एतस्यैव पूर्वपक्षस्य
English
The offering to Mitra-Bṛhaspati is made on the thirteenth day. Two days remain out of this bright half.
विश्वास-प्रस्तुतिः
तस्मिन्सन्तनीभ्यां यजेताथ चेदुक्थ्येऽभिषेचनीयेऽग्निं चिन्वीतैतस्मिन्नेव द्विरात्र आग्निकानि सावित्राणि हुत्वोखाः सम्भृत्य पशुशीर्षाणि च वायव्येन पशुना यजेत १
मूलम्
तस्मिन्सन्तनीभ्यां यजेताथ चेदुक्थ्येऽभिषेचनीयेऽग्निं चिन्वीतैतस्मिन्नेव द्विरात्र आग्निकानि सावित्राणि हुत्वोखाः सम्भृत्य पशुशीर्षाणि च वायव्येन पशुना यजेत १
English
One should perform two Saṁtanī sacrifices on these days. If fire-altar is to be piled up in the Abhiṣecanīya Ukthya sacrifice, one should offer, on these two days, offerings to Savitṛ, prepare the cauldrons, procure the animals’ heads and offer an animal to Vāyu.4
२
विश्वास-प्रस्तुतिः
अपां पतिरसीत्यपाम्पतीयाः
मूलम्
अपां पतिरसीत्यपाम्पतीयाः
English
One procures Apāmpatīya waters with the formula, “Thou art the lord of waters.”
विश्वास-प्रस्तुतिः
समुद्रि याणामेवैता उक्ता भवन्ति
मूलम्
समुद्रि याणामेवैता उक्ता भवन्ति
English
These are said to belong to the ocean.
विश्वास-प्रस्तुतिः
मरुतामोज स्थेति निवेष्ट्या आवर्तानामेवैता उक्ता भवन्ति
मूलम्
मरुतामोज स्थेति निवेष्ट्या आवर्तानामेवैता उक्ता भवन्ति
English
The waters with visible bottom5 with the formula, “You have the splendour of the sun.”
विश्वास-प्रस्तुतिः
सूर्यवर्चस स्थेत्यभिदृश्याः
मूलम्
सूर्यवर्चस स्थेत्यभिदृश्याः
English
These are said to be from still waters.
विश्वास-प्रस्तुतिः
प्रसन्नानामेवैता उक्ता भवन्ति
मूलम्
प्रसन्नानामेवैता उक्ता भवन्ति
English
The uterine liquid6 of a cow with the formula.
विश्वास-प्रस्तुतिः
शक्वरी स्थेति गोरु जरायोरेवैता उक्ता भवन्ति
मूलम्
शक्वरी स्थेति गोरु जरायोरेवैता उक्ता भवन्ति
English
“You are Śakvarī.” These are said to be the uterine liquid.
विश्वास-प्रस्तुतिः
सोऽत्रैवाग्नेयेनाष्टाकपालेन यजेतेति
मूलम्
सोऽत्रैवाग्नेयेनाष्टाकपालेन यजेतेति
English
He offers a cake on eight potsherds to Agni :
विश्वास-प्रस्तुतिः
सद्यः सन्तिष्ठमान उक्थ्य एतत्सूत्रं भवत्यथ चेदतिप्रवर्धेत तदानीमेवाग्नेयेनाष्टाकपालेन यजेत
मूलम्
सद्यः सन्तिष्ठमान उक्थ्य एतत्सूत्रं भवत्यथ चेदतिप्रवर्धेत तदानीमेवाग्नेयेनाष्टाकपालेन यजेत
English
this sūtra refers to the Ukthya sacrifice being concluded on the same day. If the procedure is extended, one should immediately offer a cake on eight potsherds to Agni.
विश्वास-प्रस्तुतिः
श्वो भूते सारस्वतेन
मूलम्
श्वो भूते सारस्वतेन
English
Next day (a cake on eight potsherds) to Sarasvant.
विश्वास-प्रस्तुतिः
दशदशात्र चमसमभिसञ्जानत इति
मूलम्
दशदशात्र चमसमभिसञ्जानत इति
English
Here (in the Daśapeya sacrifice) they concede ten persons to each goblet :
विश्वास-प्रस्तुतिः
होतृचमसे चोद्गातृचमसे च सप्तसप्ताथेतरेषु नवनव
मूलम्
होतृचमसे चोद्गातृचमसे च सप्तसप्ताथेतरेषु नवनव
English
seven each with regard to the Hotr̥’s goblet and the Udgātṛ’s goblet.
विश्वास-प्रस्तुतिः
प्रसर्पणप्रभृतय एवैते भवन्त्यप्सुषोमान्ता अथायं प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रः षोडशिको भवति
मूलम्
प्रसर्पणप्रभृतय एवैते भवन्त्यप्सुषोमान्ता अथायं प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रः षोडशिको भवति
English
Nine each with regard to the others. They are entertained from the entering into the Sadas upto the Apsusoma offering.7
Now the Keśavapanīya Atirātra with Stotras having transverse Stomas is characterised by the Ṣoḍaśin cup.
विश्वास-प्रस्तुतिः
तस्य हाग्निष्टोमिकानि स्तोत्राण्यावृत्तानि भवन्त्येकविँशो बहिष्पवमानः सप्तदशान्याज्यानि माध्यन्दिनश्च पवमानः पञ्चदशानि पृष्ठान्यार्भवश्च पवमानस्त्रिवृद्यज्ञायज्ञियमित्यथ प्रतीचीनस्तोमाय केशवपनीयायातिरात्राय दीक्षते

In it the Stotras of the Agniştoma are turned about the Bahiṣpavamāna has Ekavimśa Stomas; the Ajyastotras and the Madhyamdina Pavamāna have Saptadaśa Stomas; the Prsthastotras and the Ärbhavapavamāna have Pañcadasa Stomas; and the Yajñāyajñīya Stotra has Trivṛt Stoma. One gets initiated for the Kesavapaniya Atirātra with Stotras having transverse Stomas.
विश्वास-प्रस्तुतिः
तस्य षड्दीक्षाः षडुपसदस्त्रयोदश्यां प्रसुतश्चतुर्दश्यामुदवसानम्
मूलम्
तस्य षड्दीक्षाः षडुपसदस्त्रयोदश्यां प्रसुतश्चतुर्दश्यामुदवसानम्
English
It has six Dīkṣā days, six Upasads, the pressing on the thirteenth day and departing (udavasāna) on the fourteenth.
विश्वास-प्रस्तुतिः
अथैतस्मिन्नेव पक्षावशेषे व्युष्टये द्विरात्राय दीक्षते
मूलम्
अथैतस्मिन्नेव पक्षावशेषे व्युष्टये द्विरात्राय दीक्षते
English
In the remaining period of the fortnight the sacrificer gets initiated for Vyuṣṭi Dvirātra sacrifice.
विश्वास-प्रस्तुतिः
स एतां चैकाँरात्रिं पूर्वपक्षस्य दीक्षितो भवति द्वे चापरपक्षस्य
मूलम्
स एतां चैकाँरात्रिं पूर्वपक्षस्य दीक्षितो भवति द्वे चापरपक्षस्य
English
He observes one Dikșă day for one night of the bright fortnight and for two of the next fortnight.
विश्वास-प्रस्तुतिः
तासां द्वादशोपसदोऽथोपवसत्यथोपवसथीयेऽहन्यमावास्यायां पूर्वमहर्भवत्युत्तरस्मिन्नुत्तरमिति
मूलम्
तासां द्वादशोपसदोऽथोपवसत्यथोपवसथीयेऽहन्यमावास्यायां पूर्वमहर्भवत्युत्तरस्मिन्नुत्तरमिति
English
There are twelve Upasads; then the Upavasatha day. On the Upavasatha day which is the new-moon day there is the first pressing day; next day the second.
विश्वास-प्रस्तुतिः
सन्तिष्ठते व्युष्टिर्द्विरात्रोऽथोत्तराँशालामध्यवस्येदथ मथित्वाग्नीन्विहृत्योदयनीयायाग्निष्टोमाय दीक्षते
मूलम्
सन्तिष्ठते व्युष्टिर्द्विरात्रोऽथोत्तराँशालामध्यवस्येदथ मथित्वाग्नीन्विहृत्योदयनीयायाग्निष्टोमाय दीक्षते
English
The Vyuṣṭi Dvirātra thus comes to an end. Then the sacrificer goes to northern shed. After churning out and spreading of the fires, the sacrificer gets initiated for the Udayanīya Agniṣṭoma.
विश्वास-प्रस्तुतिः
तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः
मूलम्
तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः
English
It has three The Dīkṣā days, three Upasads and the pressing of Soma falls on the seventh day.
विश्वास-प्रस्तुतिः
सन्तिष्ठत एष उदयनीयोऽग्निष्टोमः सहस्रदक्षिणोऽथैतस्मिन्नेव पक्षावशेषे क्षत्रस्य धृतिनाभिविधत्ते देविकाहविर्भिस्त्रैधातवीयया सौत्रामण्येति
मूलम्
सन्तिष्ठत एष उदयनीयोऽग्निष्टोमः सहस्रदक्षिणोऽथैतस्मिन्नेव पक्षावशेषे क्षत्रस्य धृतिनाभिविधत्ते देविकाहविर्भिस्त्रैधातवीयया सौत्रामण्येति
English
Udayanīya Agniṣṭoma comes to an end in which a thousand cows are given as Dakṣiņā. On the remaining days of the fortnight he performs the Kṣatrasya Dhṛti Soma-sacrifice, Devikāhavis, Traidhātavīyeṣṭi and the Sautrāmaṇī.
विश्वास-प्रस्तुतिः
सन्तिष्ठते राजसूयोऽर्धसप्तदशैर्मासैरथ शालीकेः केशवपनीयान्तस्
मूलम्
सन्तिष्ठते राजसूयोऽर्धसप्तदशैर्मासैरथ शालीकेः केशवपनीयान्तस्
English
The Rājasūya thus comes to an end after sixteen and a half months. According to Śālīki’s view it ends with the Keśavapanīya sacrifice.
विश्वास-प्रस्तुतिः
तेऽर्धषोडशाः २
मूलम्
तेऽर्धषोडशाः २
English
It makes fifteen and a half months.
३
विश्वास-प्रस्तुतिः
अथातोऽञ्जसवः
मूलम्
अथातोऽञ्जसवः
English
Now the Añjahsava (Rajasüya).
विश्वास-प्रस्तुतिः
प्रसिद्धमेव प्रथमोऽर्धमासः सन्तिष्ठते
मूलम्
प्रसिद्धमेव प्रथमोऽर्धमासः सन्तिष्ठते
English
The first half month terminates as prescribed.
विश्वास-प्रस्तुतिः
पञ्चाहेन चातुर्मास्यानि द्व्यहेन सन्तनी अष्टमेऽहनीन्द्र तुरीयं नवमेऽह्नि पूर्वाणि देविकाहवीँषि दशमेऽह्न्युत्तराण्येकादशे द्वादशे त्रयोदश इति त्रिषंयुक्तैश्चतुर्दशे वैश्वानरो द्वादशकपालः पञ्चदशे वारुणो यवमयश्चरुरिति मासो द्वादशाहेन रत्निनाँहवीँषि त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहेन सन्तनी अर्धमासेनाभिषेचनीय उक्थ्य इति द्वौ मासवर्धमासेन सप्तदशो दशपेयोऽर्धमासं दीक्षिते दीक्षितव्रतीति त्रयो मासा अर्धमासेन प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रोऽर्धमासेन व्युष्टिर्द्विरात्र इति चत्वारो मासा अर्धमासेन क्षत्रस्य धृतिरिति

Then the Cāturmāsyas in five days, the Saṁtanī in two days, the Indraturīya sacrifice on the eighth day, the former Devikāhavis on the ninth day, the latter on the tenth, the Triṣamyukta sacrifice on the eleventh, twelfth and thirteenth, a cake on twelve potsherds to Vaiśvānara Agni on the fourteenth, and cooked barley to Varuṇa on the fifteenth. This makes a month. The Ratnin offerings on twelve days, cooked rice to Mitra-Bṛhaspati on the thirteenth, two Saṁtanī sacrifices on the next two days, and the Abhişecaniya Ukthya in a month-half. That makes two months. Daŝapeya sacrifice with Stotras of seventeen Stomas each, observation of initiation vow for a month-half. That makes three months. Kesavapaniya Atirātra with Stotras of transverse Stomas in a month-half, Vyuști Dvirātra in a month-half. That makes four months. Kṣatrasya Dhṛti in a month-half.
विश्वास-प्रस्तुतिः
तेऽर्धपञ्चमा अथ शालीकेः
मूलम्
तेऽर्धपञ्चमा अथ शालीकेः
English
That makes four and a half months. Now Śālīki’s view.
विश्वास-प्रस्तुतिः
सप्ताहेन पवित्रोऽग्निष्टोमः स एवमेव पक्षावशेषँसिद्धमा वारुणाद्द्वादशाहेन रत्निनाँहवीँषि त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहेन सन्तनी इति मासोऽर्धमासेनाभिषेचनीय उक्थ्योऽर्धमासेन सप्तदशो दशपेय इति द्वौ मासवर्धमासेन प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रोऽर्धमासेन व्युष्टिर्द्विरात्र इति त्रयो मासा अर्धमासेन क्षत्रस्य धृतिरिति

The Pavitra Agniṣṭoma in seven days. The remaining period of the fortnight upto the (offering of) boiled barley to Varuṇa should be gone through as prescribed (in the first view). The Ratnin offerings in twelve days, cooked rice to Mitra-Bṛhaspati on the thirteenth, the Samtanī sacrifices in two days. That makes a month. The Abhiṣecaniya Ukthya in a month-half, the Dašapeya with Stotras of seventeen Stomas each in a month-half. That makes two months. The Keśavapaniya Atirātra with Stotras of transverse Stomas, Vyuṣṭi Dvirātra in a month- half. That makes three months. The Kṣatrasya Dhṛti in a month-half.
विश्वास-प्रस्तुतिः
तेऽर्धचतुर्था अथ पतन्तको द्वादश दीक्षा द्वादशोपसदः
मूलम्
तेऽर्धचतुर्था अथ पतन्तको द्वादश दीक्षा द्वादशोपसदः
English
That makes three and a half months. Now the Patantaka type of Rājasūya : there are twelve Dīkṣā-days and twelve Upasads.
विश्वास-प्रस्तुतिः
सप्ताहोऽहीनो राजसूयो यथावकाशमितरै राजसूयहविर्भिर्यजतेऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
मूलम्
सप्ताहोऽहीनो राजसूयो यथावकाशमितरै राजसूयहविर्भिर्यजतेऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
English
the Rājasūya is an Ahīna sacrifice with seven pressing days. One offers the other Rājasūya offerings suitably; then he offers Devikā offerings. Then he performs the Traidhātavīyeṣṭi and Sautrāmaṇī.
विश्वास-प्रस्तुतिः
सन्तिष्ठते राजसूयः ३
मूलम्
सन्तिष्ठते राजसूयः ३
English
The Rājasūya comes to an end.
४ इष्टिकल्पः
विश्वास-प्रस्तुतिः
अथेममिष्टिकल्पं पञ्चदशसामिधेनीकं च सप्तदशसामिधेनीकं च समामनामस्
मूलम्
अथेममिष्टिकल्पं पञ्चदशसामिधेनीकं च सप्तदशसामिधेनीकं च समामनामस्
English
Now we shall mention together the group of (optional) Iṣṭis involving fifteen Sāmidhenīs.
विश्वास-प्रस्तुतिः
तत्र सिद्धं याजमानं बौधायनस्य कल्पो यथाम्नायँशालीकेस्
मूलम्
तत्र सिद्धं याजमानं बौधायनस्य कल्पो यथाम्नायँशालीकेस्
English
The sacrificer’s duties are to be performed as are prescribed in Baudhāyana’s view.[^1-1659] Śālīki’s view is that only such duties should be performed as are prescribed in the scripture.
[^1-1659] BaudhŚS XXIII.1
विश्वास-प्रस्तुतिः
त्रीँस्तृचाननुब्रूयादिति
मूलम्
त्रीँस्तृचाननुब्रूयादिति
English
“(The Hotṛ) should recite three Trcas (as Sāmidhenīs)”8
विश्वास-प्रस्तुतिः
त्रिः प्रथमामनूच्य तिस्रोऽनन्तरा अनुब्रूया त्त्रि रुत्तमां ताः पञ्चदश
मूलम्
त्रिः प्रथमामनूच्य तिस्रोऽनन्तरा अनुब्रूया त्त्रि रुत्तमां ताः पञ्चदश
English
He should recite the first verse9 three times, the next three10 consecutively and the last one11 three times.
विश्वास-प्रस्तुतिः
पञ्चदशानुब्रूयादित्येकादशेमाः सामिधेन्यः समामनामस्
मूलम्
पञ्चदशानुब्रूयादित्येकादशेमाः सामिधेन्यः समामनामस्
विश्वास-प्रस्तुतिः
तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः पञ्चदश
मूलम्
तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः पञ्चदश
English
Out of these he recites the first and the last three times. That makes fifteen.
विश्वास-प्रस्तुतिः
सप्तदशानुब्रूयादेकविँशतिमनुब्रूयाच्चतुर्विँशतिमनुब्रूयात्त्रिँ शतमनुब्रूयाद्द्वात्रिँशतमनुब्रूयात्षट्त्रिँ शतमनुब्रूयाच्चत्वारिँशतमनुब्रूयाच्चतुश्चत्वारिँ शतमनुब्रूयादष्टाचत्वारिँशतमनुब्रूयादिति धाय्यालोक एता धातव्या भवन्त्य्

He should recite seventeen; he should recite twentyone; he should recite twentyfour; he should recite thirty; he should recite thirtytwo; he should recite thirtysix; he should recite forty; he should recite fortyfour; he should recite forty-eight13 -these additional verses are to be inserted at the point of insertion.
विश्वास-प्रस्तुतिः
आग्नेय्यः सर्वा गायत्र्यः
मूलम्
आग्नेय्यः सर्वा गायत्र्यः
English
All verses addressed to Agni are in Gāyatrī metre.
विश्वास-प्रस्तुतिः
सर्वाणि छन्दाँस्यनुब्रूयादपरिमितमनुब्रूयादिति धाय्यालोक एवैता धातव्या भवन्ति
मूलम्
सर्वाणि छन्दाँस्यनुब्रूयादपरिमितमनुब्रूयादिति धाय्यालोक एवैता धातव्या भवन्ति
English
He should recite the Sāmidhenī verses in all metres;13 he should recite a larger number of Sāmidhenīs? additional verses are to be inserted at the point of insertion.
विश्वास-प्रस्तुतिः
नैताः सर्वा गायत्र्यो गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग्याज्या
मूलम्
नैताः सर्वा गायत्र्यो गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग्याज्या
English
All these are not in Gāyatrī metre. The Puronuvākyā is in Gāyatrī metre, and the yājyā in Triṣṭubh metre.
विश्वास-प्रस्तुतिः
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवत्युपरिष्टाल्लक्ष्मा याज्या
मूलम्
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवत्युपरिष्टाल्लक्ष्मा याज्या
English
The puronuvākyā has indicatory mark in the preceding part;14 the yājyā has it in the subsequent part.14
विश्वास-प्रस्तुतिः
मूर्धन्वती पुरोऽनुवाक्या भवति नियुत्वत्या यजत्युपाँशुयाजमन्तरा यजतीति
मूलम्
मूर्धन्वती पुरोऽनुवाक्या भवति नियुत्वत्या यजत्युपाँशुयाजमन्तरा यजतीति
English
The puronuvākyā contains the word mūrdhan;14 he recites the verse containing the word niyut as the yājyā. (The Adhvaryu) makes the Upāṁśuyāja offering between (the two principal offerings).
विश्वास-प्रस्तुतिः
दर्शपूर्णमासयोरेवैतदुपपद्यते नान्यत्र ४
मूलम्
दर्शपूर्णमासयोरेवैतदुपपद्यते नान्यत्र ४
English
This applies to the Full-moon and the New-moon sacrifices; not elsewhere.
५
विश्वास-प्रस्तुतिः
अथेमाः काम्या इष्टयो निष्पुरीषेणैव प्रयोक्तव्या भवन्ति
मूलम्
अथेमाः काम्या इष्टयो निष्पुरीषेणैव प्रयोक्तव्या भवन्ति
English
Now these optional Iṣṭis are to be performed by the (sacrificer while he is) clean.
विश्वास-प्रस्तुतिः
स संवत्सरं पयोव्रतः स्याद्द्वादशाहं वा यावद्वा शँसीत
मूलम्
स संवत्सरं पयोव्रतः स्याद्द्वादशाहं वा यावद्वा शँसीत
English
He should be consuming Vrata-milk for a year or for twelve days or as many days after which he may think he has become clean.
विश्वास-प्रस्तुतिः
तासां याः समानसंयोजना एकां चेत्तासां निर्वपेत्सर्वा एवैता निर्वप्तव्या भवन्ति यथो एतदनायुक्तोऽग्निपरिचरोऽल्पमुद्धृत्य पुनरप्युद्धरति
मूलम्
तासां याः समानसंयोजना एकां चेत्तासां निर्वपेत्सर्वा एवैता निर्वप्तव्या भवन्ति यथो एतदनायुक्तोऽग्निपरिचरोऽल्पमुद्धृत्य पुनरप्युद्धरति
English
Among the Iṣṭis which serve an identical purpose, if one proposes to perform a single one, he should not rest satisfied with that much, but should perform all of them. In case a subordinate fire-attendent first takes up a few embers, and further takes up more:
विश्वास-प्रस्तुतिः
कथमत्र प्रायश्चित्तँसिद्यती३
न सिध्यती३
इति
मूलम्
कथमत्र प्रायश्चित्तँसिद्यती३
न सिध्यती३
इति
English
is an expiation imminent here, or not?
विश्वास-प्रस्तुतिः
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीति
मूलम्
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीति
English
It is imminent, some say; it is not imminent, say others.
विश्वास-प्रस्तुतिः
निर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोऽन्य इत्युभावु खल्विमावनिर्दिष्टभागौ भवतो नैव सिध्यतीति
मूलम्
निर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोऽन्य इत्युभावु खल्विमावनिर्दिष्टभागौ भवतो नैव सिध्यतीति
English
(Of the two fires) one has its share indicated, the other has not. Thereby both of these do not have their shares indicated. (The expiation therefore) is not imminent.
विश्वास-प्रस्तुतिः
तन्त्रं धृष्टेरादानं गार्हपत्यसकाशाद्धृष्टिमाददीत
मूलम्
तन्त्रं धृष्टेरादानं गार्हपत्यसकाशाद्धृष्टिमाददीत
English
the fire-up Taking up of the fire-stirring stick is combined. One should take stirring stick related to the Gārhapatya.
विश्वास-प्रस्तुतिः
तयाहवनीये वैश्वानरस्य कपालान्युपदध्यात्
मूलम्
तयाहवनीये वैश्वानरस्य कपालान्युपदध्यात्
English
With it he should arrange in the Āhavanīya fire-place the potsherds for the cake to Agni Vaiśvānara.
विश्वास-प्रस्तुतिः
प्रदक्षिणमावृत्य गार्हपत्ये मारुतस्य कृतानि पिष्टानि समुप्य संयुत्य व्यभिमृश्य पिण्डौ कृत्वाग्रेण मारुतस्य पिण्डं पर्याहृत्याहवनीये वैश्वानरमधिपृञ्ज्यात्
मूलम्
प्रदक्षिणमावृत्य गार्हपत्ये मारुतस्य कृतानि पिष्टानि समुप्य संयुत्य व्यभिमृश्य पिण्डौ कृत्वाग्रेण मारुतस्य पिण्डं पर्याहृत्याहवनीये वैश्वानरमधिपृञ्ज्यात्
English
Turning by the right those for the cake to the Maruts in the Gārhapatya fire-place. Having poured the flour (into the pan), having mixed it (with water), having referred them separately, and having turned them into two balls, he should carry around along the front of the ball for the cake to Maruts, place the cake to Agni Vaiśvānara (on potsherds) in the Āhavanīya fire-place.
विश्वास-प्रस्तुतिः
प्रदक्षिणमावृत्य गार्हपत्ये मारुतं त्वचं ग्राहयित्वेमं त्वचं ग्राहयेदमुं पर्यग्नि कृत्वेमं पर्यग्नि कुर्यादमुँश्रपयित्वेमँश्रपयेदपि वोभयमेवोभयत्र कुर्यात्
मूलम्
प्रदक्षिणमावृत्य गार्हपत्ये मारुतं त्वचं ग्राहयित्वेमं त्वचं ग्राहयेदमुं पर्यग्नि कृत्वेमं पर्यग्नि कुर्यादमुँश्रपयित्वेमँश्रपयेदपि वोभयमेवोभयत्र कुर्यात्
English
Turning by the right, he passes his wet fingers on the cake to Maruts placed in the Gārhapatya fire-place, and then on this (cake to Agni Vaiśvānara). Having carried a firebrand around that (for Maruts), he should carry around this (for Agni Vaiśvānara). Having baked that one he should bake this one. Or he should do both the things (carrying firebrand and baking) in respect of each together.
विश्वास-प्रस्तुतिः
तस्य शृतस्यासादनं दक्षिणं परिधिसन्धिमपरं विमुच्य दक्षिणं वा परिधिमग्रेण
मूलम्
तस्य शृतस्यासादनं दक्षिणं परिधिसन्धिमपरं विमुच्य दक्षिणं वा परिधिमग्रेण
English
The placing of the cake for Agni Vaiśvānara should be done at a place having left place for the other one (for Maruts) along the southern conjunction of the enclosing sticks, or should be done in front of the southern enclosing stick.
विश्वास-प्रस्तुतिः
सिद्धमत ऊर्ध्वम्
मूलम्
सिद्धमत ऊर्ध्वम्
English
The subsequent procedure should be as prescribed.
विश्वास-प्रस्तुतिः
एतस्मिन्वा एतौ मृजाते यो विद्विषाणयोरन्नमत्तीतीतरमितरेणेत्येवैष उक्तो भवति
मूलम्
एतस्मिन्वा एतौ मृजाते यो विद्विषाणयोरन्नमत्तीतीतरमितरेणेत्येवैष उक्तो भवति
English
One who eats the food of two persons hating each other, towards him the two wipe out (their sin). Here the talk is of those two who hate each other.
विश्वास-प्रस्तुतिः
यं मृधोऽभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिति
मूलम्
यं मृधोऽभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिति
English
One whom the enemies tremble or whom the subjects attack:
विश्वास-प्रस्तुतिः
प्रतिवेशा राजानो मृधः
मूलम्
प्रतिवेशा राजानो मृधः
English
The enemies are the neighbouring kings.
विश्वास-प्रस्तुतिः
स्व एव जनपदा राष्ट्राणि विशो यो हतमनाः स्वयम्पाप इव स्यादिति
मूलम्
स्व एव जनपदा राष्ट्राणि विशो यो हतमनाः स्वयम्पाप इव स्यादिति
English
Subjects means the people living in one’s own region. One who is dejected or deeming oneself sinful:
विश्वास-प्रस्तुतिः
सति बले हतमनाः स्वयम्पाप इव स्यादिति
मूलम्
सति बले हतमनाः स्वयम्पाप इव स्यादिति
English
Dejected means one who even though having strength thinks himself to be weak.
विश्वास-प्रस्तुतिः
साधुरूपे कुले स्वयम्पापो यस्मै प्रत्तमिव सन्न प्रदीयेतेति
मूलम्
साधुरूपे कुले स्वयम्पापो यस्मै प्रत्तमिव सन्न प्रदीयेतेति
English
Sinful means one who even born in a pious family thinks himself guilty.
विश्वास-प्रस्तुतिः
प्रत्तमनुपाकृतं प्रतिबध्यमानमेवैतद्भवत्यथास्यामध्वरकल्पायामिडान्तं प्रथमं तन्त्रं कुर्याद्तृतीयेन सहावशेषं वर्तयेत्
मूलम्
प्रत्तमनुपाकृतं प्रतिबध्यमानमेवैतद्भवत्यथास्यामध्वरकल्पायामिडान्तं प्रथमं तन्त्रं कुर्याद्तृतीयेन सहावशेषं वर्तयेत्
English
One whom something offered is not actually given: Offered but not presented is indeed denied. In the Adhvarakalpā Iṣṭi one should finish the first component with Iḍā; similarly the second; he should finish the remaining part with the third.
विश्वास-प्रस्तुतिः
कथमत्र भक्षा इति
मूलम्
कथमत्र भक्षा इति
English
What about the consuming of the portions?
विश्वास-प्रस्तुतिः
तत्रतत्र वा भक्षयेदपि वा सर्वासाँसमवदाय हुत्वान्ततो भक्षयेदनड्वान्होत्रा देय इति
मूलम्
तत्रतत्र वा भक्षयेदपि वा सर्वासाँसमवदाय हुत्वान्ततो भक्षयेदनड्वान्होत्रा देय इति
English
One should consume at the respective time; or one should take portions of all oblations, offer them and then consume. An ox to be given by the Hotṛ:
विश्वास-प्रस्तुतिः
यजमानस्यैवैष गौष्ठाद्दातव्यो भवति
मूलम्
यजमानस्यैवैष गौष्ठाद्दातव्यो भवति
English
it is to be given away out of the sacrificer’s stable.
विश्वास-प्रस्तुतिः
वेदिं परिगृह्यार्धमुद्धन्यादर्धं नेति
मूलम्
वेदिं परिगृह्यार्धमुद्धन्यादर्धं नेति
English
Having done the tracing of the altar one should dig out one half, not the other half:
विश्वास-प्रस्तुतिः
दक्षिणं वा वेदेरर्धमपरं वेत्यैन्द्र स्यावदाय वैश्वदेवस्यावद्येदथैन्द्र स्योपरिष्टादिति
मूलम्
दक्षिणं वा वेदेरर्धमपरं वेत्यैन्द्र स्यावदाय वैश्वदेवस्यावद्येदथैन्द्र स्योपरिष्टादिति
English
either the southern half or the northern. Having taken portion (of the cake) for Indra, he should take portion (of the cake) for the Viśve Devas, then again for Indra:
विश्वास-प्रस्तुतिः
द्वे एवैते अवदाने उक्ते भवत उपाधाय्यपूर्वयं वासो दक्षिणेति
मूलम्
द्वे एवैते अवदाने उक्ते भवत उपाधाय्यपूर्वयं वासो दक्षिणेति
English
These are calculated as two portions. A garment with blue or red borders as Dakṣiņā :
विश्वास-प्रस्तुतिः
प्रवेणतो वान्ततो वा ताम्राणि वा नीलानि वा सूत्राण्युपहितानि भवन्त्यपि वोपधानरज्जुरेवैषोक्ता भवत्यथास्याँसज्ञानेष्ट्याँ सकृदेवानुवाचयेत्सकृदाश्रावयेद्द्वे ह्यस्यै याज्यानुवाक्ये भवतः ५
मूलम्
प्रवेणतो वान्ततो वा ताम्राणि वा नीलानि वा सूत्राण्युपहितानि भवन्त्यपि वोपधानरज्जुरेवैषोक्ता भवत्यथास्याँसज्ञानेष्ट्याँ सकृदेवानुवाचयेत्सकृदाश्रावयेद्द्वे ह्यस्यै याज्यानुवाक्ये भवतः ५
English
In it red or blue threads are woven while weaving at the border or at the two ends. Or it is said to be the thread of a pillow. In the Samjñānīșți the Adhvaryu should give only a single call for reciting the puronuvākyā and should cause to announce only once. Here are only a single puronvākyā and a single yājyā.
६
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
In is indeed said,
विश्वास-प्रस्तुतिः
यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति निर्वपेदिति निरुप्योपरमति
मूलम्
यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति निर्वपेदिति निरुप्योपरमति
English
“if (the king) does not win (the subjects) the Adhvaryu should pour out paddy with the formula, “Here do I pour out portion for the Ādityas until this (king) wins these subjects.” Having poured out he waits:
विश्वास-प्रस्तुतिः
परिदानान्तं कर्म कृत्वाथैतान्व्रीहीन्कृष्णाजिने समुप्योत्तरार्धेऽग्न्यगारस्यासञ्जयेदथावगते सँसादयेत्
मूलम्
परिदानान्तं कर्म कृत्वाथैतान्व्रीहीन्कृष्णाजिने समुप्योत्तरार्धेऽग्न्यगारस्यासञ्जयेदथावगते सँसादयेत्
English
“Having gone through the rite of assigning (the oblation to the deities) he should pour the paddy on the skin of black antelope and hang it in the northern part of the firehall. When the king wins, he should put it down,
विश्वास-प्रस्तुतिः
प्रोक्षणप्रभृतिना कर्मणा प्रतिपद्येत
मूलम्
प्रोक्षणप्रभृतिना कर्मणा प्रतिपद्येत
English
and commence the rite beginning with sprinkling (of paddy).
विश्वास-प्रस्तुतिः
सिद्धमत ऊर्ध्वं यथा नखनिर्भिन्नायामेवँशतकृष्णलायाम्पुरा वा तण्डुलानामावपनाद्रुक्ममवदध्याच्छृतमुत्तरमपि वैनँशृतमेव सुवर्णरजताभ्याँरुक्माभ्यां परिगृह्यान्तर्वेद्यासादयेदाग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति

The subsequent procedure is as prescribed.
Just as (for the cooked rice to Nirṛti the grains) are to be husked by means of one’s nails, (not to be pounded with mortar and pestle),15 similarly in the Iṣṭi involving the offering of a hundred Kṛṣṇalas.[^2-1665]
The Adhvaryu should put a (silver) plate into the cooking vessel before pouring rice-grains into it, and place (the golden plate) upon the rice when cooked. Or he should hold the vessel of cooked rice by means of the silver and gold plates, and place it within the altar.
(The Adhvaryu) should mix up the cake for Agni and rice for Soma with the cake for Indra:
[^2-1665] Cf. BaudhŚS XIII.23, the Iṣṭi for one who is afraid of death.
विश्वास-प्रस्तुतिः
व्यभिमृष्टानां पिण्डानां पुराधिपृञ्जनात्समाश्लेषयितव्यं भवति
मूलम्
व्यभिमृष्टानां पिण्डानां पुराधिपृञ्जनात्समाश्लेषयितव्यं भवति
English
after the balls (and rice) have been severally assigned (to the relevant divinities through touchng) (portions of the cake for Agni and rice for Soma) have to be mixed up (with the cake for Indra) before putting on fire.
विश्वास-प्रस्तुतिः
सर्वेषामभिगमयन्नवद्यतीति सदैवतस्य सस्विष्टकृत्तस्येत्येवेदमुक्तं भवत्यथो खलु यावतीः समा एष्यन्मन्येत तावन्मानँस्यादिति
मूलम्
सर्वेषामभिगमयन्नवद्यतीति सदैवतस्य सस्विष्टकृत्तस्येत्येवेदमुक्तं भवत्यथो खलु यावतीः समा एष्यन्मन्येत तावन्मानँस्यादिति
English
(The Adhvaryu) takes portions by piercing through all: it is presumed that the portions cover those for the principal divinity and for Sviṣṭakr̥t. (The ear-ring) should indeed consist of as many mānas (of gold) as the years for which he may aspire to live.
विश्वास-प्रस्तुतिः
त्रिँशद्वर्षश्चेत्स्यात्सप्ततिमानं कुर्वीत
मूलम्
त्रिँशद्वर्षश्चेत्स्यात्सप्ततिमानं कुर्वीत
English
If his age is thirty years, he should prepare it of seventy mānas.
विश्वास-प्रस्तुतिः
चत्वारिँशद्वर्षश्चेत्स्यात्षष्टिमानं कुर्वीतैष एवैतस्याभिवृद्धिकल्पोऽथ वारुणेषु च सञ्ज्ञानेष्ट्यां च सकृदेवानुवाचयेत्सकृदाश्रावयेत्सकृत्प्रदानाः समानदेवता आपोनप्त्रीयं चरुं पुनरेत्य निर्वपेदिति

If his age is forty years, he should prepare it of sixty mānas. This is the procedure of its increase in weight. In respect of (the cakes on one potsherd each) for Varuṇa and in the Samjñānīṣṭi (the Adhvaryu) should make (the Hotr̥) recite a single puronuvākyā, should cause to announce only once; the oblations for a common divinity are to be offered at once. After returning (from the Avabhṛtha at the sacrifice for Varuṇa performed for having received horses as Dakṣiṇā) one should offer cooked rice to Apam Napāt :
विश्वास-प्रस्तुतिः
को नु खल्वपां नपाद्भवतीति
मूलम्
को नु खल्वपां नपाद्भवतीति
English
Who is Apām Napāt?
विश्वास-प्रस्तुतिः
वैद्युत इत्येव ब्रूयात्
मूलम्
वैद्युत इत्येव ब्रूयात्
English
Lightning, one should say.
विश्वास-प्रस्तुतिः
कृष्णामधु चेति
मूलम्
कृष्णामधु चेति
English
Black honey:
विश्वास-प्रस्तुतिः
पौत्तिकमित्येवेदमुक्तं भवत्यनस्त्रिगधमिति
मूलम्
पौत्तिकमित्येवेदमुक्तं भवत्यनस्त्रिगधमिति
English
derived from bees, it is said. A cart with three partitions:
विश्वास-प्रस्तुतिः
त्रिवलीकमित्येवेदमुक्तं भवत्यथाप्युदाहरन्ति त्रिच्छदिष्कमित्येवेदमुक्तं भवति
मूलम्
त्रिवलीकमित्येवेदमुक्तं भवत्यथाप्युदाहरन्ति त्रिच्छदिष्कमित्येवेदमुक्तं भवति
English
with three ridges, it is said. They also say, it means (the cart) with three roofs.
विश्वास-प्रस्तुतिः
यथा त्रिधातावेवँसन्दिग्धपुरोडाशस्यावदानकल्पः ६
मूलम्
यथा त्रिधातावेवँसन्दिग्धपुरोडाशस्यावदानकल्पः ६
English
The procedure of cutting out portions for the accumulated cake should be similar to that in connection with the three cakes on one set of potsherds.
७ औपानुवाक्यम्
विश्वास-प्रस्तुतिः
स सर्पानसृजतेति
मूलम्
स सर्पानसृजतेति
English
He created serpents:
विश्वास-प्रस्तुतिः
मासा एवैत उक्ता भवन्ति
मूलम्
मासा एवैत उक्ता भवन्ति
English
these are months.
विश्वास-प्रस्तुतिः
स वयाँस्यसृजतेति
मूलम्
स वयाँस्यसृजतेति
English
He created animals:
विश्वास-प्रस्तुतिः
छन्दाँस्येवैतान्युक्तानि भवन्ति
मूलम्
छन्दाँस्येवैतान्युक्तानि भवन्ति
English
these are the metres.
विश्वास-प्रस्तुतिः
स वैव स्यादिति
मूलम्
स वैव स्यादिति
English
That itself should be:
विश्वास-प्रस्तुतिः
पुराणगार्हपत्यमभ्युपदिशन्ति
मूलम्
पुराणगार्हपत्यमभ्युपदिशन्ति
English
this denotes the old Gārhapatya.
विश्वास-प्रस्तुतिः
तस्य पशुवेलायामुल्मुकमादाय दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्णियं पर्याहृत्यान्तरेण यूपं चाहवनीयं चोपातिहृत्यान्तरेण चात्वालोत्करावुदङ्ङुपनिर्हृत्य तेन पशुँश्रपयेयुरथ यदाहवनीयादुल्मुकँस्याद्वपया तत्सहाहरेयुः

Having taken its firebrand at the time of offering of the animal, having taken it out by the southern door, having gone round along the south of Sadas, having brought it along the south of the Mārjālīya mound, having brought it between the sacrificial post and the Āhavanīya, having taken it out towards the north between the Catvāla and the rubbish-heap, they should cook the animal with it. If the firebrand has been taken from the Āhavanīya, they should bring it back together with the omentum.
विश्वास-प्रस्तुतिः
किन्देवत्यानि खल्वपाव्यानि भवन्तीति
मूलम्
किन्देवत्यानि खल्वपाव्यानि भवन्तीति
English
Which is the divinity of the Apāvya offerings?
विश्वास-प्रस्तुतिः
द्वे प्राजापत्ये आग्नेयं वायव्यं वैश्वदेवमितीष्टर्गो वा अध्वर्युर्यजमानस्येष्टर्ग इत्युष्णाग्रमित्येवेदमुक्तं भवत्यथाप्युदाहरन्त्यध्वर्युरेवैष उक्तो भवत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इत्यनुव्याहारो ह वा आसन्यो मन्त्रस्

Two are offered to Prajāpati, and one each to Agni, Vāyu and Viśve Devas. The Adhvaryu becomes malevolent towards the sacrificer. The malevolent himself (perishes prior to one falling into misery):16 (The word iṣṭarga) means “having a hot tip.” They also say, the Adhvaryu is meant thereby. (The Adhvaryu makes an offering with the formula) “Do thou guard me against the utterance (of the enemy), from every injury.” The utterance is indeed a curse.
विश्वास-प्रस्तुतिः
तस्मान्मा पाहीत्येवेदमुक्तं भवति
मूलम्
तस्मान्मा पाहीत्येवेदमुक्तं भवति
English
“Do thou guard me against it,” so is it said.
विश्वास-प्रस्तुतिः
तस्माद्यज्ञवास्तु नाभ्यवेत्यमित्यहोरात्रावित्येकं यावदग्नयः शीताः स्युरित्येतदेकं यावदेनमभिवर्षेदित्येतदपरं द्वौ समुद्रौ विततावजूर्यवित्यहोरात्रावेवैतावुक्तौ भवतः
मूलम्
तस्माद्यज्ञवास्तु नाभ्यवेत्यमित्यहोरात्रावित्येकं यावदग्नयः शीताः स्युरित्येतदेकं यावदेनमभिवर्षेदित्येतदपरं द्वौ समुद्रौ विततावजूर्यवित्यहोरात्रावेवैतावुक्तौ भवतः
English
Therefore one should not enter into a sacrificial place: Day and night-this is one view. Until the fires become extinguished this is one view. Until it rains-this is another view. “Two oceans-extensive and imperishable-Day and night are here meant.
विश्वास-प्रस्तुतिः
पर्यावर्तेते जठरेव पादा इत्युदरे पादा इत्येवेदमुक्तं भवति
मूलम्
पर्यावर्तेते जठरेव पादा इत्युदरे पादा इत्येवेदमुक्तं भवति
English
“They come one after the other like the waves in the midst of the ocean.” -The waves in the ocean, so is it said.
विश्वास-प्रस्तुतिः
तयोः पश्यन्तो अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यमित्यहः पश्यन्तो अतियन्ति रात्रिं स्वप्नेन सेतुनातियन्त्यन्यमिति
मूलम्
तयोः पश्यन्तो अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यमित्यहः पश्यन्तो अतियन्ति रात्रिं स्वप्नेन सेतुनातियन्त्यन्यमिति
English
“Out of these two peoples, perceiving, they pass over one. Not perceiving, they pass over the other by means of a bridge” —perceiving they pass over the day; not perceiving they pass over the other (= night) in sleep.
विश्वास-प्रस्तुतिः
द्वे द्र धसी सतती वस्त एक इत्यादित्योऽहोरात्रे वस्त इत्येवेदमुक्तं भवति
मूलम्
द्वे द्र धसी सतती वस्त एक इत्यादित्योऽहोरात्रे वस्त इत्येवेदमुक्तं भवति
English
“One wears two spacious garments”-the sun covers both the day and night.
विश्वास-प्रस्तुतिः
तिरोधायैत्यसितं वसानः शुक्रमादत्ते अनुहाय जार्या इति
मूलम्
तिरोधायैत्यसितं वसानः शुक्रमादत्ते अनुहाय जार्या इति
English
“Wearing a black garment and concealing himself (the sun) moves; leaving away the old garment, he wears a bright garment”
विश्वास-प्रस्तुतिः
रात्रिं वसानस्तिरोधायैति शुक्रमादत्तेऽहरित्येवेदमुक्तं भवति
मूलम्
रात्रिं वसानस्तिरोधायैति शुक्रमादत्तेऽहरित्येवेदमुक्तं भवति
English
-passing by night, he moves covering himself; by day he wears a bright garment, so is it said.
विश्वास-प्रस्तुतिः
कीटावपन्नस्येति
मूलम्
कीटावपन्नस्येति
English
(In respect of the Pṛṣṣadājya) which is spoilt by worms:
विश्वास-प्रस्तुतिः
कतमो नु खल्वयं कीटो भवति
मूलम्
कतमो नु खल्वयं कीटो भवति
English
which is this worm?
विश्वास-प्रस्तुतिः
य एवैष पिण्डान्संवर्तयतीति
मूलम्
य एवैष पिण्डान्संवर्तयतीति
English
That which causes clods.
विश्वास-प्रस्तुतिः
नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयतीति
मूलम्
नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयतीति
English
To the normal formulas for taking (clarified butter) one joins the verse addressed to Viṣṇu:
विश्वास-प्रस्तुतिः
पृषदाज्य एवैषानुवर्तयितव्या भवति ७
मूलम्
पृषदाज्य एवैषानुवर्तयितव्या भवति ७
English
this is to be joined only in respect of Pṛṣadājya
८
विश्वास-प्रस्तुतिः
अथातोऽतिग्राह्यान्व्याख्यास्याम इमे न्वेव पृष्ठ्यातिग्राह्याः पञ्चैन्द्रा वाजपेये
मूलम्
अथातोऽतिग्राह्यान्व्याख्यास्याम इमे न्वेव पृष्ठ्यातिग्राह्याः पञ्चैन्द्रा वाजपेये
English
Now we shall explain the taking up of the Atigrāhya draughts. These are to be taken in the Pr̥ṣṭhya Saḍaha. In the Vājapeya five are to be taken for Indra.
विश्वास-प्रस्तुतिः
परःसामानश्चार्वाक्सामानश्च सौर्यो वैषुवते
मूलम्
परःसामानश्चार्वाक्सामानश्च सौर्यो वैषुवते
English
The sacrifices in which the Stotras are to be chanted with Stomas in successively increasing numbers and also in successively decreasing numbers: On the Viṣuvat day the Atigrāhya draught for Sūrya;
विश्वास-प्रस्तुतिः
वैश्वकर्मणादित्यौ गवामयने
मूलम्
वैश्वकर्मणादित्यौ गवामयने
English
in the Gavām Ayamna those for Visvakamran and Āditya;
विश्वास-प्रस्तुतिः
प्राजापत्यो महाव्रते
मूलम्
प्राजापत्यो महाव्रते
English
in the Mahavrata that for Prajāpati;
विश्वास-प्रस्तुतिः
बार्हस्पत्यो बृहस्पतिसवे
मूलम्
बार्हस्पत्यो बृहस्पतिसवे
English
in the Bṛhaspatisava that for Bṛhaspati;
विश्वास-प्रस्तुतिः
वैमृधे चोद्भिदि च त्विषिमति च वृषा सो अँशुः पवत इति च
मूलम्
वैमृधे चोद्भिदि च त्विषिमति च वृषा सो अँशुः पवत इति च
English
in the Vaimṛdha, Udbhid and Tvişimant with the verse vṛṣā so aṁśuḥ pavate…;17
विश्वास-प्रस्तुतिः
द्वावश्वमेधे महिमानवादेशादेवाश्वस्य वपां महिमाभ्यां परिजुहुयात्
मूलम्
द्वावश्वमेधे महिमानवादेशादेवाश्वस्य वपां महिमाभ्यां परिजुहुयात्
English
in the Aśvamedha two Mahiman draughts. Only under special instruction one should offer the two Mahiman draughts before and after the offering of the omentum (= fat) of the horse.
विश्वास-प्रस्तुतिः
कथमु खलु परःसास्नां भक्षो भवतीति
मूलम्
कथमु खलु परःसास्नां भक्षो भवतीति
English
How are the Soma cups and goblets consumed in the sacrifices in which Stotras are chanted with Stomas in increasing numbers?
विश्वास-प्रस्तुतिः
रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यन्दिनस्य सवनस्य त्रिष्टुप्छन्दसोऽद्भिरोषधीभिः पीतस्यौषधीभिः प्रजाभिः पीतस्य प्रजाभिः प्रजापतिना पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येष एवार्वाक्साम्नामावृत्तो भक्षोऽष्टाप्रूड्ढिरण्यं दक्षिणेत्यष्टापिलकमित्येवेदमुक्तं भवति

They are to be consumed with the formula, “O god Soma, I, acquiesced, consume thee, acquiesced, who hast Rudras for thy troop, who knowest the thought, belonging to the Midday pressing, having Triṣṭubh for the metre, drunk by waters and plants, drunk by plants and progeny, drunk by progeny and Prajāpati and having sweetness.”18 The same formula, turned about, is to be employed while consuming the goblets in the sacrifices with Stotras involving the Stomas in decreasing numbers.
(In the sacrifice of an embryo) aṣṭāprūḍgold is to be given as Dakṣiṇā. It means a piece of gold with eight protuberances.
विश्वास-प्रस्तुतिः
द्वौ चेद्गर्भौ स्यातां द्वादशप्रूट्स्यादेको ह महाकोशः स्याद्द्वाववान्तरकोशौ स्याताम्
मूलम्
द्वौ चेद्गर्भौ स्यातां द्वादशप्रूट्स्यादेको ह महाकोशः स्याद्द्वाववान्तरकोशौ स्याताम्
English
If there were two foetus the golden piece should have twelve protuberances. There should be a big (outer) cover; there should be two intermediate covers.
विश्वास-प्रस्तुतिः
अथास्थिगर्भाया आज्येनैवैतान्यस्थानि समुदायुत्य मध्यमेन पर्णेनान्तःपरिधि निनयेद्भूर्भुवः सुवरिति ८
मूलम्
अथास्थिगर्भाया आज्येनैवैतान्यस्थानि समुदायुत्य मध्यमेन पर्णेनान्तःपरिधि निनयेद्भूर्भुवः सुवरिति ८
English
If the foetus has bones, one should pour clarified butter over them, collect them in the middle leaf of a Palāśa trileaf and put down inside the enclosing sticks with bhür bhuvaḥ suvaḥ ….. .
९
विश्वास-प्रस्तुतिः
यदालब्धायामभ्रो भवतीत्यालब्धायां चेदभ्रः स्यात्सँस्थापयेदेवाथ चेदुपाकृतायामभ्रः स्यादन्यमेतस्मिन्स्थान उपाकृत्योत्तरममेघसम्पन्नमेतयागम्येरन्नित्यथेमे जया अभ्याताना राष्ट्रभृत इत्याहिताग्नेश्चानाहिताग्नेश्चान्यत्र विहाराद्दृष्टा भवन्त्यभिसमारम्भात्त्वेवैनानाचार्याः प्राक्स्विष्टकृत उपजुह्वत्यष्टौ वसव इति

If clouds appear after (the barren she-goat) is immolated: If clouds appear after she has been immolated, one should get through the sacrifice. If clouds appear after she has been formally dedicated, one should dedicate another (she-goat) (offer on the same day) and offer the former one when there are no clouds.. Now these Jaya, Abhyātāṇa and Rāṣtrabhṛt offerings. They are employed in the case of an Ahitāgni at a place other than the sanctuary of fires; they are offered even for one who has not set up fires. If the offerings form part of any rite being performed by an Ahitāgni, they offer them before the Sviṣṭakr̥t offering. The eight Vasus:
विश्वास-प्रस्तुतिः
कतमे नु खल्विमे वसवो भवन्तीति
मूलम्
कतमे नु खल्विमे वसवो भवन्तीति
English
who are these Vasus?
विश्वास-प्रस्तुतिः
पृथिव्यन्तरिक्षं द्यौरग्निर्वायुरादित्यश्चन्द्र मा आप इत्येतेऽष्टौ वसव एतेषु वा इदँसर्वं प्रतिष्ठितं यदिदं किं च
मूलम्
पृथिव्यन्तरिक्षं द्यौरग्निर्वायुरादित्यश्चन्द्र मा आप इत्येतेऽष्टौ वसव एतेषु वा इदँसर्वं प्रतिष्ठितं यदिदं किं च
English
Pṛthivi, Antarikṣa, Dyaus, Agni, Vāyu, Āditya, Candramas and Ap-these are eight Vasus. Whatever exists, rests with these.
विश्वास-प्रस्तुतिः
य एवं वेद प्रत्येव तिष्ठत्येकादश रुद्रा इति
मूलम्
य एवं वेद प्रत्येव तिष्ठत्येकादश रुद्रा इति
English
One who knows this, rests firm. Eleven Rudras:
विश्वास-प्रस्तुतिः
प्राणा एवैत उक्ता भवन्ति
मूलम्
प्राणा एवैत उक्ता भवन्ति
English
these are said to be the Prāņas.
विश्वास-प्रस्तुतिः
द्वादशादित्या इति
मूलम्
द्वादशादित्या इति
English
Twelve Ādityas:
विश्वास-प्रस्तुतिः
मासा एवैत उक्ता भवन्ति
मूलम्
मासा एवैत उक्ता भवन्ति
English
These are said to be the months.
विश्वास-प्रस्तुतिः
पञ्च गृह्यन्ते नवनव गृह्यन्ते पञ्चधा विगृह्यन्ते
मूलम्
पञ्च गृह्यन्ते नवनव गृह्यन्ते पञ्चधा विगृह्यन्ते
English
(The Prāņa draughts) are taken in five parts. Nine are taken each time. They are taken in five parts.
विश्वास-प्रस्तुतिः
नवनवाँशवो भवन्त्य्
मूलम्
नवनवाँशवो भवन्त्य्
English
Nine Soma-shoots each are taken (respectively with nine formulas).
विश्वास-प्रस्तुतिः
अथ य एव दशमो मन्त्र एतेषामेवैषोऽभिग्रहणार्थो दृष्टो भवति
मूलम्
अथ य एव दशमो मन्त्र एतेषामेवैषोऽभिग्रहणार्थो दृष्टो भवति
English
The tenth formula19 is intended for the taking of all these.
विश्वास-प्रस्तुतिः
तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति
मूलम्
तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति
English
One should milk (the Agnihotra-cow) and give her away to a brāhmaṇa whose food he would not enjoy :
विश्वास-प्रस्तुतिः
भैक्षाय प्रत्यवस्थितायैवैषा दातव्या भवति
मूलम्
भैक्षाय प्रत्यवस्थितायैवैषा दातव्या भवति
English
She is to be given away to one who has arrived as a beggar.
विश्वास-प्रस्तुतिः
किन्देवत्या उ खल्वतिरिक्तसोमा भवन्तीति
मूलम्
किन्देवत्या उ खल्वतिरिक्तसोमा भवन्तीति
English
Who are the divinities of the excessive Somas?
विश्वास-प्रस्तुतिः
यंयं ग्रहमभ्यतिरिच्येरँस्तत्तद्देवत्या एव स्युरित्येतदेकम्
मूलम्
यंयं ग्रहमभ्यतिरिच्येरँस्तत्तद्देवत्या एव स्युरित्येतदेकम्
English
They would belong to those divinities which pertain to the preceding draught; this is one view.
विश्वास-प्रस्तुतिः
अथापरम्विज्ञायत उ खल्वेषां ब्राह्मणमथ कस्मादैन्द्रो यज्ञ आ सँ स्थातोरित्येतस्मादैन्द्रा वैष्णवा एव भवन्ति
मूलम्
अथापरम्विज्ञायत उ खल्वेषां ब्राह्मणमथ कस्मादैन्द्रो यज्ञ आ सँ स्थातोरित्येतस्मादैन्द्रा वैष्णवा एव भवन्ति
English
There is also another view. This view is based on the Brāhmaṇa: “How is it that a sacrifice belongs to Indra upto its conclusion”? Therefore sacrifices belong to both Indra and Viṣṇu.
विश्वास-प्रस्तुतिः
तेन शीतीभवता षडहसँस्थां काङ्क्षेयुरिति
मूलम्
तेन शीतीभवता षडहसँस्थां काङ्क्षेयुरिति
English
With the cooling (of the bones of the dead) they await the termination of the Ṣaḍaha. :
विश्वास-प्रस्तुतिः
षडहब्राह्मणमेवैतद्भवत्यथ चेदहःसंयोग एवमापद्येत यथापि नव मध्यमानि सांवत्सरिकाण्यहानि सन्निगच्छेयुस्तदानीमेवैनँशीतीकृत्वा सञ्चिनुयुरथ चेदुदयनीयेऽतिरात्र एतदेव
मूलम्
षडहब्राह्मणमेवैतद्भवत्यथ चेदहःसंयोग एवमापद्येत यथापि नव मध्यमानि सांवत्सरिकाण्यहानि सन्निगच्छेयुस्तदानीमेवैनँशीतीकृत्वा सञ्चिनुयुरथ चेदुदयनीयेऽतिरात्र एतदेव
English
The Brāhmaṇa-text pertaining to the Ṣaḍaha sacrifices prescribes in this manner. If the incident takes place so that the central nine days of the yearly session are involved, one should allow the bones to cool down forthwith and pile them up. (If a Sattrin dies) on the Udayanīya Atirātra day, the procedure should be the same (as originally prescribed).
विश्वास-प्रस्तुतिः
प्रजा वै सत्त्रमासत तपस्तप्यमाना अजुह्वतीरिति
मूलम्
प्रजा वै सत्त्रमासत तपस्तप्यमाना अजुह्वतीरिति
English
The progeny sat for a sacrificiceal session practising penance but without making offerings.
विश्वास-प्रस्तुतिः
तत्पृच्छन्ति कतमत्तत्सत्त्रं भवतीति
मूलम्
तत्पृच्छन्ति कतमत्तत्सत्त्रं भवतीति
English
They ask, which is that sacrificial session?
विश्वास-प्रस्तुतिः
यदेवैतदनाहिताग्नयो वृथाश्रमँश्राम्यन्त्येतत्सत्त्रं भवतीति ९
मूलम्
यदेवैतदनाहिताग्नयो वृथाश्रमँश्राम्यन्त्येतत्सत्त्रं भवतीति ९
English
The sacrificial session is that in which those who have not set up sacred fires exert themselves informally.
१० अश्वमेधः
विश्वास-प्रस्तुतिः
आश्विनं प्रागाश्विनमिति
मूलम्
आश्विनं प्रागाश्विनमिति
English
(The sacrificial place for an Aśvamedha should be) having a distance equal to a day’s journey of a horseman towards the east (towards the south etc.):
विश्वास-प्रस्तुतिः
कियन्नु खल्वाश्विनं भवतीति
मूलम्
कियन्नु खल्वाश्विनं भवतीति
English
how much is the distance equal to a day’s journey of a horseman ?
विश्वास-प्रस्तुतिः
द्वियोजनं वा यावद्वाश्वोऽह्ना गच्छेद्द्विस्तावा वेदिर्भवतीत्याग्निकस्य प्रक्रमस्य चतुरश्रकृतस्याक्ष्णयामानमाददीत
मूलम्
द्वियोजनं वा यावद्वाश्वोऽह्ना गच्छेद्द्विस्तावा वेदिर्भवतीत्याग्निकस्य प्रक्रमस्य चतुरश्रकृतस्याक्ष्णयामानमाददीत
English
Two Yojanas or equal to a distance which a horse would traverse in a day.
The altar (in the Aśvamedha) is Dvistāva : (For its measurement) one should adopt the measure equal to the diagonal of the square of the Prakrama used for piling up a fire-altar.
विश्वास-प्रस्तुतिः
स प्रक्रमः स्यात्
मूलम्
स प्रक्रमः स्यात्
English
that should be the Prakrama.
विश्वास-प्रस्तुतिः
तेन वेदिं विमिमीतापि वा विँशत्याश्च रथाक्षाणामेकविँशत्याश्च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत
मूलम्
तेन वेदिं विमिमीतापि वा विँशत्याश्च रथाक्षाणामेकविँशत्याश्च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत
English
With it one should measure the altar. Or one should take as a Prakrama the twentyfourth part of the length equal to twenty axles of a chariot, twentyone Padas and eight Angulas.
विश्वास-प्रस्तुतिः
स प्रक्रमः स्यात्
मूलम्
स प्रक्रमः स्यात्
English
That should be the Prakrama.
विश्वास-प्रस्तुतिः
तेन वेदिं विमिमीते
मूलम्
तेन वेदिं विमिमीते
English
With it one measures the altar.
विश्वास-प्रस्तुतिः
त्रिस्तावोऽग्निर्भवतीति
मूलम्
त्रिस्तावोऽग्निर्भवतीति
English
The area of the fire-altar is Tristāva.
विश्वास-प्रस्तुतिः
त्र्यः त्रयः सप्तविधाः
मूलम्
त्र्यः त्रयः सप्तविधाः
English
It means three times of the area of seven Puruṣas.
विश्वास-प्रस्तुतिः
स एकविँशतिविधोऽथैतौ ह्रदौ मध्यतो देवयजनस्य जोषयत इति
मूलम्
स एकविँशतिविधोऽथैतौ ह्रदौ मध्यतो देवयजनस्य जोषयत इति
English
That amounts to the area of twentyone Purusas. One approves of two ponds in the midst of the sacrificial place:
विश्वास-प्रस्तुतिः
किमर्थौ खल्विमौ ह्रदौ भवत इत्यश्वप्लावनो ह दक्षिण आवभृथिक उत्तरो द्वौ दासावनुजायै च पुत्रोऽन्वाधेयायै चेति
मूलम्
किमर्थौ खल्विमौ ह्रदौ भवत इत्यश्वप्लावनो ह दक्षिण आवभृथिक उत्तरो द्वौ दासावनुजायै च पुत्रोऽन्वाधेयायै चेति
English
What is the purpose of these ponds? The southern one is intended for the bathing of the horse; the northern one for the Avabhr̥tha. Two attendants the-son of the father’s younger sister and the son of hte mother’s younger sister:
विश्वास-प्रस्तुतिः
योऽस्य पितुरनुजायाः पुत्रः स पुरस्तान्नयत्यथ योऽस्य मातुरन्वाधेयायै पुत्रः सोऽपरो जरत्पूर्वया सव्यं जानु वेष्टयित्वेत्युपधानरज्जुरेवैषोक्ता भवति
मूलम्
योऽस्य पितुरनुजायाः पुत्रः स पुरस्तान्नयत्यथ योऽस्य मातुरन्वाधेयायै पुत्रः सोऽपरो जरत्पूर्वया सव्यं जानु वेष्टयित्वेत्युपधानरज्जुरेवैषोक्ता भवति
English
the son of the father’s younger sister stands in front and the son of the mother’s younger sister stands to the rear.
Having wound round the left knee with a precious thread: this is said to be the thread of a pillow.
विश्वास-प्रस्तुतिः
शतं वै तल्प्या राजपुत्रा इति
मूलम्
शतं वै तल्प्या राजपुत्रा इति
English
A hundred princes worthy of a coach:
विश्वास-प्रस्तुतिः
प्रतिहिता एवैत उक्ता भवन्ति
मूलम्
प्रतिहिता एवैत उक्ता भवन्ति
English
they are said to be the substitutes.
विश्वास-प्रस्तुतिः
शतँराजान उग्रा इति
मूलम्
शतँराजान उग्रा इति
English
A hundred formidable kings:
विश्वास-प्रस्तुतिः
राजन्या एवैते नाभिषेच्या भवन्त्यथ सावित्रमष्टाकपालं प्रातर्निर्वपतीत्येषैव प्रथमा सावित्री
मूलम्
राजन्या एवैते नाभिषेच्या भवन्त्यथ सावित्रमष्टाकपालं प्रातर्निर्वपतीत्येषैव प्रथमा सावित्री
English
these are Rājanyas not worthy of consecratory bath. In the morning one offers a cake on eight potsherds to Savitr̥: this is the first Iṣṭi for Savitr̥.
विश्वास-प्रस्तुतिः
वैश्वदेवपरुषि द्वितीयापराह्णे तृतीयैतदत्रैकाहिकं कर्म जानीयादुत्तरतश्च देवयजनादुदवस्येच्चातुर्मासिकानां पशूनामेवं वायव्याय पशव एवं तूपराय
मूलम्
वैश्वदेवपरुषि द्वितीयापराह्णे तृतीयैतदत्रैकाहिकं कर्म जानीयादुत्तरतश्च देवयजनादुदवस्येच्चातुर्मासिकानां पशूनामेवं वायव्याय पशव एवं तूपराय
English
The second one is in the Vaiśvadevaparvan. The third one in the afternoon. This much should be understood to be the procedure to be finished in a day.
The sacrificer should move towards the north of the sacrificial place for the sacrifices of the animals to be offered in four months and also for the offering of the animal to Vāyu and of the hornless goat.
विश्वास-प्रस्तुतिः
सप्ताहान्येतयेष्ट्या यजत इति
मूलम्
सप्ताहान्येतयेष्ट्या यजत इति
English
One should go on performing this (Agnidīkṣaṇīyeṣṭi) for seven days:
विश्वास-प्रस्तुतिः
कथमत्र भक्षा इति
मूलम्
कथमत्र भक्षा इति
English
how should (the sacrificer) manage for his (Vrata) food?
विश्वास-प्रस्तुतिः
तत्रतत्र वा भक्षयेदपि वा पुरस्तादेवैतस्मै सप्ताहाय
मूलम्
तत्रतत्र वा भक्षयेदपि वा पुरस्तादेवैतस्मै सप्ताहाय
English
He should consume it at the various times; or they should prepare at the outset his food adequate for seven days.
विश्वास-प्रस्तुतिः
यूपमाम्नाये राज्जुदालमग्निष्ठं मिनोतीति
मूलम्
यूपमाम्नाये राज्जुदालमग्निष्ठं मिनोतीति
English
Among the group of sacrificial posts,20 one erects the Rajjudāla post to be in front of the (Āhavanīya) fire:
विश्वास-प्रस्तुतिः
श्लेष्मातक इत्येवेदमुक्तं भवति
मूलम्
श्लेष्मातक इत्येवेदमुक्तं भवति
English
this is said to have been made of Śleşmātaka wood (Cordia latifolia).
विश्वास-प्रस्तुतिः
अथाप्युदाहरन्ति राज्जुदालमग्निष्ठं मिनोति भ्रूणहत्याया अपहत्यै
मूलम्
अथाप्युदाहरन्ति राज्जुदालमग्निष्ठं मिनोति भ्रूणहत्याया अपहत्यै
English
It is said, “One erects the Rājjudāla post in front of the fire for the dispelling of the sin of killing a learned brāhmaṇa.
विश्वास-प्रस्तुतिः
पौतुद्र वावभितो भवतः पुण्यस्य गन्धस्यावरुद्ध्या इति
मूलम्
पौतुद्र वावभितो भवतः पुण्यस्य गन्धस्यावरुद्ध्या इति
English
Two posts of Pūtudru tree (Pinus deodora) are to be erected on both sides for the attainment of fragrance.”
विश्वास-प्रस्तुतिः
तृतीयं दक्षिणानां ददातीत्याग्निकानामु ह तृतीयं कामप्रेण सह तृतीयमतिरात्रे तृतीयं चतुष्टोम एष भवति
मूलम्
तृतीयं दक्षिणानां ददातीत्याग्निकानामु ह तृतीयं कामप्रेण सह तृतीयमतिरात्रे तृतीयं चतुष्टोम एष भवति
English
(The sacrificer) gives away one third of the Dakṣiņās: One third pertaining to the piling up of the fire-altar,21 one third according to his will22 and one third at the Atirātra.23 This (Agniṣṭoma) is (Catuṣṭoma).
विश्वास-प्रस्तुतिः
चतुरुत्ररीय एष चतुष्टोमो भवति १०
मूलम्
चतुरुत्ररीय एष चतुष्टोमो भवति १०
English
This Catuṣṭoma is the one which increases fourfold (in successive stages).24
११
विश्वास-प्रस्तुतिः
एकस्मै स्वाहा द्वाभ्याँस्वाहेति
मूलम्
एकस्मै स्वाहा द्वाभ्याँस्वाहेति
English
“To one Svāhā, to two Svāhā” :
विश्वास-प्रस्तुतिः
कथमु खल्वेताननुवाकाञ्जुहुयादिति
मूलम्
कथमु खल्वेताननुवाकाञ्जुहुयादिति
English
how should one make offerings with these Anuvākas?
विश्वास-प्रस्तुतिः
यथाप्रकृत्यस्तथानन्तरायँहोतव्याश्चतुर्विँशतिँरशना आदाय यूपानभ्यायन्ति चतस्रश्चतस्र इतरे परिकर्मिण इति
मूलम्
यथाप्रकृत्यस्तथानन्तरायँहोतव्याश्चतुर्विँशतिँरशना आदाय यूपानभ्यायन्ति चतस्रश्चतस्र इतरे परिकर्मिण इति
English
The offerings should be made with the formulas in the original order without intervention. Having taken up twentyfour cords, they approach the sacrificial posts, each assistant taking four :
विश्वास-प्रस्तुतिः
कथमेतासु नियुञ्ज्यादित्यश्वस्तूपरो गोमृग इति ते त्रयःसमानरशना रराट्येषु तिस्रः
मूलम्
कथमेतासु नियुञ्ज्यादित्यश्वस्तूपरो गोमृग इति ते त्रयःसमानरशना रराट्येषु तिस्रः
English
how should one adjust (the animals) to the cords? There should be a common cord for the horse, hornless goat and the Gayal; three cords for those animals to be fastened over the forehead,
विश्वास-प्रस्तुतिः
पर्यङ्ग्येषु पञ्चाग्नयेऽनीकवते रोहिताञ्जिरनड्वानित्येतेष्वष्टौ
मूलम्
पर्यङ्ग्येषु पञ्चाग्नयेऽनीकवते रोहिताञ्जिरनड्वानित्येतेष्वष्टौ
English
five for those to be fastened over the limbs (of the horse); eight for those beginning with the red ox with red mark to Anīkavant Agni.
विश्वास-प्रस्तुतिः
सोमाय स्वराज्ञेऽनोवाहावनड्वाहवित्येतेषु सप्ताथैतेषां त्रयस्त्रयः समानरशनार्मुख्यस्यैवैषां चतुर्थी भवति
मूलम्
सोमाय स्वराज्ञेऽनोवाहावनड्वाहवित्येतेषु सप्ताथैतेषां त्रयस्त्रयः समानरशनार्मुख्यस्यैवैषां चतुर्थी भवति
English
Seven for those beginning with oxen carrying a cart for self-ruler Soma. Three each of these have a common cord. The fourth cord belongs to the foremost among these.
विश्वास-प्रस्तुतिः
समानं कर्मा पर्यग्निकरणात्
मूलम्
समानं कर्मा पर्यग्निकरणात्
English
The procedure upto the carrying round of the firebrand is common.
विश्वास-प्रस्तुतिः
पर्यग्निकृतानामेतेषां पशूनामूनविँशतिरुत्सृज्यन्त एकचत्वारिँ शतमतिशिष्यन्ते
मूलम्
पर्यग्निकृतानामेतेषां पशूनामूनविँशतिरुत्सृज्यन्त एकचत्वारिँ शतमतिशिष्यन्ते
English
Ninteen out of these animals around which the fire-brand has been carried are released; fortyone remain back.
विश्वास-प्रस्तुतिः
द्विचत्वारिँशतमेषाँशासा भवन्त्यश्वेऽत्र द्वौ समासं गच्छतोऽथेतरेषां प्रतिपशु सम्पद्यन्त इन्द्रा ग्निभ्यामोजोदाभ्यामुष्टारविति
मूलम्
द्विचत्वारिँशतमेषाँशासा भवन्त्यश्वेऽत्र द्वौ समासं गच्छतोऽथेतरेषां प्रतिपशु सम्पद्यन्त इन्द्रा ग्निभ्यामोजोदाभ्यामुष्टारविति
English
For them there are fortytwo knives; two are required for the horse. For other animals there are respective cords. Two oxen for vigour-giving Indra-Agni these are said to be harnessed with a yoke.
विश्वास-प्रस्तुतिः
प्रासङ्ग्यावेवैतावुक्तौ भवतोऽथैतस्मिञ्छल्मलिशर्च आशुपिष्टानि संयुत्येत्य्
मूलम्
प्रासङ्ग्यावेवैतावुक्तौ भवतोऽथैतस्मिञ्छल्मलिशर्च आशुपिष्टानि संयुत्येत्य्
English
One mixes the flour of rice growing fast in rainy season with the gum of Śalmalia Malabarica (and besmears the horse):
विश्वास-प्रस्तुतिः
आशुकानामेवैतानि व्रीहीणां पिष्टानि शल्मलिश्लेष्मणा संयुतानि भवन्ति
मूलम्
आशुकानामेवैतानि व्रीहीणां पिष्टानि शल्मलिश्लेष्मणा संयुतानि भवन्ति
English
this flour of the rice of paddy growing fast in rainy season is mixed with the gum of Śalmalia Malabarica.
विश्वास-प्रस्तुतिः
पृथक्प्रतिप्रस्थातारोऽवद्यन्ति
मूलम्
पृथक्प्रतिप्रस्थातारोऽवद्यन्ति
English
The Pratiprasthātr̥s take out the portions separaely.
विश्वास-प्रस्तुतिः
तेषां मैत्रावरुणा एवानुब्रूयुश्चत्वार्येवैतानि प्रदानानि भवन्तीलुवर्दाय स्वाहा बलिवर्दाय स्वाहेति
मूलम्
तेषां मैत्रावरुणा एवानुब्रूयुश्चत्वार्येवैतानि प्रदानानि भवन्तीलुवर्दाय स्वाहा बलिवर्दाय स्वाहेति
English
The Maitrāvaruņas should recite verses in that behalf. “To Iluvarda Svāhā; to Balivarda Svāhā”:
विश्वास-प्रस्तुतिः
सूर्याचन्द्र मसावेवैतावुक्तौ भवतोऽथाप्युदाहरन्ति संवत्सरो वा इलुवर्दः परिवत्सरो बलिवर्द इति
मूलम्
सूर्याचन्द्र मसावेवैतावुक्तौ भवतोऽथाप्युदाहरन्ति संवत्सरो वा इलुवर्दः परिवत्सरो बलिवर्द इति
English
These are said to be the sun and the moon. They also say, Iluvarda is the Saṁvatsara; Balivarda is the Parivatsara.
विश्वास-प्रस्तुतिः
तस्य मूर्ध्नि जुहोति जुम्बकाय स्वाहेति
मूलम्
तस्य मूर्ध्नि जुहोति जुम्बकाय स्वाहेति
English
(The Adhvaryu) makes an offering of clarified butter over his head with the formula, “To Jumbaka Svāhā.”
विश्वास-प्रस्तुतिः
किन्देवत्या उ खल्वियमाहुतिर्भवतीति
मूलम्
किन्देवत्या उ खल्वियमाहुतिर्भवतीति
English
To which divinity is this offering made?
विश्वास-प्रस्तुतिः
वारुणीत्येव ब्रूयात्
मूलम्
वारुणीत्येव ब्रूयात्
English
To Varuṇa, one should say.
विश्वास-प्रस्तुतिः
किकिदीविर्विदीगय इति
मूलम्
किकिदीविर्विदीगय इति
English
Kikidīvi and Vidīgaya :
विश्वास-प्रस्तुतिः
विदिदिहीविकीदीह किकिदीविर्भवति
मूलम्
विदिदिहीविकीदीह किकिदीविर्भवति
English
Kikidīvi is vididihīvikīdi.25
विश्वास-प्रस्तुतिः
पृषत उअ पतङ्गो विदीगयोऽथैतान्पशूनुपाकरोत्याग्नेयमैन्द्रा ग्नमाश्विनमिति
मूलम्
पृषत उअ पतङ्गो विदीगयोऽथैतान्पशूनुपाकरोत्याग्नेयमैन्द्रा ग्नमाश्विनमिति
English
Vidīgaya is a spotted butterfly. (The Adhvaryu) dedicates these animals to Agni, Indra-Agni and Aśvins:
विश्वास-प्रस्तुतिः
यमा एवैते छागाः समानयोनयो भवन्ति
मूलम्
यमा एवैते छागाः समानयोनयो भवन्ति
English
these goats are twins born of the same mother.
विश्वास-प्रस्तुतिः
तेषामुक्तं चरणं यथैकादशिनानां पशूनां किन्देवत्या उ खल्वृतुपशवो भवन्तीत्यृतुदेवता इत्येतदेकम्
मूलम्
तेषामुक्तं चरणं यथैकादशिनानां पशूनां किन्देवत्या उ खल्वृतुपशवो भवन्तीत्यृतुदेवता इत्येतदेकम्
English
The procedure of their offering is similar to that of Aikādaśina animals.
Which are the divinities of the animals dedicated to the seasons? The seasons themselves are the divinities-this is one view.
विश्वास-प्रस्तुतिः
अथापरम्
मूलम्
अथापरम्
English
Another view is:
विश्वास-प्रस्तुतिः
आग्नेयाः प्रथमा ऐन्द्रा द्वितीया वैश्वदेवास्तृतीया मैत्रावरुणाश्चतुर्था बार्हस्पत्याः पञ्चमाः सावित्राः षष्ठाः संवत्सराय निवक्षस इति प्राजापत्याः ११
मूलम्
आग्नेयाः प्रथमा ऐन्द्रा द्वितीया वैश्वदेवास्तृतीया मैत्रावरुणाश्चतुर्था बार्हस्पत्याः पञ्चमाः सावित्राः षष्ठाः संवत्सराय निवक्षस इति प्राजापत्याः ११
English
the first ones are dedicated to Agni, the second ones to Indra, the third ones to Viśve Devas, the fourth ones to Mitra-Varuṇa, the fifth ones to Bṛhaspati, the sixth ones to Savitṛ and “those with sunken breast for Saṁvatsara” (TS V.6.23.1) to Prajāpati.
१२ द्वादशाहः
विश्वास-प्रस्तुतिः
अथायं द्वादशाह उभयविधो भवत्यहीनो वा सत्त्रं वा
मूलम्
अथायं द्वादशाह उभयविधो भवत्यहीनो वा सत्त्रं वा
English
Now this Dvādaśāha is of two kinds-an Ahīna or a Sattra.
विश्वास-प्रस्तुतिः
स यद्यु हैको दीक्षतेऽहीनो भवत्यथ यदि बहवः सत्त्रं यदि चैवाहीनो यदि च सत्त्रमुभयथैवोभयतोऽतिरात्रो भवत्यन्यतरतोऽतिरात्रा ह्यहीना भवन्त्युभयतोऽतिरात्राणि सत्त्राण्यादेशादेवोभयतोऽतिरात्रोऽहीनो भवत्यादेशात्तु सत्त्रमनतिरात्रं यथैतदग्निष्टोमायनँसारस्वतमयनं विश्वसृजामयनमिति

If only one person gets initiated, it is an Ahīna. If many, it is a Sattra. Whether it is an Ahīna or a Sattra, in both the cases it can have an Atirātra at both the ends. The Ahīna sacrifices have an Atirātra on either side; the Sattras have Atirātras on both sides. An Ahīna has an Atirātra on both sides only by specific injunction. A Sattra is without an Atirātra only by specific injunction, e.g. Agniṣṭomāyana, Sārasvata Ayana and Viśvasṛjām Ayana.
विश्वास-प्रस्तुतिः
कथमु खल्वेषाँसन्निवापः स्यादिति
मूलम्
कथमु खल्वेषाँसन्निवापः स्यादिति
English
When are the fires of the Sattrins to be put together?
English
सावित्रेभ्यः प्रथमँसन्निवपेरन्
English
They should first put together for Savitr̥a offerings.
विश्वास-प्रस्तुतिः
हुत्वा सावित्राणि विसमारोह्याग्निहोत्राणि जुहुयुरथ वायव्याय पशवे सन्निवपेरन्
मूलम्
हुत्वा सावित्राणि विसमारोह्याग्निहोत्राणि जुहुयुरथ वायव्याय पशवे सन्निवपेरन्
English
After having offered to Savitr̥, they should variously consign their fires into kindling woods, (make them descend) and offer the Agnihotras.
विश्वास-प्रस्तुतिः
वायव्येनेष्ट्वा विसमारोह्यैवाग्निहोत्राणि जुहुयुरथ यदि दीक्षणीयायै सन्निवपेरँस्तेषां तत्सन्न्युप्तान्येव स्युर्व्युदवसानीयाद्द्व्यदवसायैव प्रतिवेशा यज्ञपुच्छानि कुर्वीरन्
मूलम्
वायव्येनेष्ट्वा विसमारोह्यैवाग्निहोत्राणि जुहुयुरथ यदि दीक्षणीयायै सन्निवपेरँस्तेषां तत्सन्न्युप्तान्येव स्युर्व्युदवसानीयाद्द्व्यदवसायैव प्रतिवेशा यज्ञपुच्छानि कुर्वीरन्
English
Then they should put the fires together for the animal-offering to Vāyu. After the offering to Vāyu they should variously consign the fires (should cause them to descend) and offer the Agnihotras.
विश्वास-प्रस्तुतिः
कथमु खलु सन्दीक्षिता विष्णुक्रमान्क्रमेरन्निति
मूलम्
कथमु खलु सन्दीक्षिता विष्णुक्रमान्क्रमेरन्निति
English
When they put their fires together for the Dikṣaṇīyeṣṭi, the fires should remain put together until their dispersal. After having dispersed, they should remain in neighbourhood and accomplish the concluding rites. How should the Sattins, initiated together, take the Viṣṇu-strides?
विश्वास-प्रस्तुतिः
महापाशाभिपरीता वा क्रमेरन्नपि वा पाशानभिसन्धित्वाभिक्रमः स्यादथाह क्रमस्वाथाह क्रमस्वेत्य्
मूलम्
महापाशाभिपरीता वा क्रमेरन्नपि वा पाशानभिसन्धित्वाभिक्रमः स्यादथाह क्रमस्वाथाह क्रमस्वेत्य्
English
They should stride being surrounded by a long rope; or there should be striding one after the other being variously fastened with cords.25 One should say, “Do thou stride,” the next should say, “Do thou stride.”
विश्वास-प्रस्तुतिः
अतिगुरुस्तथा कल्पः स्याद्यथो एतत्सूत्रं भवति षष्ठ्यामुपसद्युत्तरवेदिँ सन्निवपन्त्यपि वैकादश्यामित्यनग्निचय एवैतदुपपद्यते न साग्निचये
मूलम्
अतिगुरुस्तथा कल्पः स्याद्यथो एतत्सूत्रं भवति षष्ठ्यामुपसद्युत्तरवेदिँ सन्निवपन्त्यपि वैकादश्यामित्यनग्निचय एवैतदुपपद्यते न साग्निचये
English
Finally the most distant one. That should be the procedure.25
The sūtra is: on the sixth Upasad day they construct the Uttaravedi; or on the eleventh day. This is possible when there is no piling up of the fire-altar, not in the Dvādaśāha charactrised by Agnicaya.
विश्वास-प्रस्तुतिः
कथमु खल्वेषामहीनसन्ततिर्भवतीति
मूलम्
कथमु खल्वेषामहीनसन्ततिर्भवतीति
English
How is the continuity of the Ahīna-sacrifice achieved in respect of the various priests?
विश्वास-प्रस्तुतिः
वसतीवरीणामभिग्रहणेनाध्वर्युः सन्तनोतीध्माबर्हिषोरुपकल्पनेन च पयसां विशासनेन च वाचो यम्येन ब्रह्मातिप्रैषेण होता पुनरभ्यासेन च सुब्रह्मण्ययोद्गाता यज्ञस्य पुनरालम्भेन यजमानः
मूलम्
वसतीवरीणामभिग्रहणेनाध्वर्युः सन्तनोतीध्माबर्हिषोरुपकल्पनेन च पयसां विशासनेन च वाचो यम्येन ब्रह्मातिप्रैषेण होता पुनरभ्यासेन च सुब्रह्मण्ययोद्गाता यज्ञस्य पुनरालम्भेन यजमानः
English
The Adhvaryu achieves it by the taking up of a part of the old Vasatīvarī-waters, the procuring of sacrificial grass and faggot and the direction in respect of the various milks; the Brahman by restraining speech; the Hotṛ by pronouncing the Atipraișa and the repetition; the Udgātṛ by the Subrahmaṇya and the sacrificer by reciting the fomula for “the reattainment of sacrifice.”
विश्वास-प्रस्तुतिः
प्रचरन्त एवैतद्ध्रुवाज्यँसमाददतेऽथेमानि सवनानि बर्हीँषि सञ्चिनुयुस्
मूलम्
प्रचरन्त एवैतद्ध्रुवाज्यँसमाददतेऽथेमानि सवनानि बर्हीँषि सञ्चिनुयुस्
English
While performing the (concluding) rite they take up the clarified butter from the Dhruva. They should moreover collect together the entire sacrificial grass utilised for the pressings
विश्वास-प्रस्तुतिः
तेषां महारात्र उत्थायाग्नीध्र आज्यानि गृह्णन्तो ज्वलयेरन्निति १२
मूलम्
तेषां महारात्र उत्थायाग्नीध्र आज्यानि गृह्णन्तो ज्वलयेरन्निति १२
English
when they get up at early dawn and take up clarified butter in the ladles; they should burn that grass.
१३
विश्वास-प्रस्तुतिः
कथमु खलु दिवा प्रातरनुवाकस्याह्न उपक्रमो भवतीति
मूलम्
कथमु खलु दिवा प्रातरनुवाकस्याह्न उपक्रमो भवतीति
English
How does the procedure of the (next) pressing day commence by resorting to Prātaranuvāka by day?
विश्वास-प्रस्तुतिः
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसन्ततिं कृत्वा ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्द्धारा यन्त्य्

One should conclude the (preceding) day with the offering of the Patnīsamyājas or the discarding of the heart-pike, fasten (the bundles of) king Soma, take up a part of the old Vasatīvarī waters, achieve the continuity of the Ahīna sacrifice suitably, wash the pressing stones and wooden implements, put the woollen filter and the fringe into the wooden trough and move to the Āgnīdhra chamber. The bringers of firesticks depart.
विश्वास-प्रस्तुतिः
आहृत्य समिध आहवनीय उपसादयन्ति
मूलम्
आहृत्य समिध आहवनीय उपसादयन्ति
English
Having fetched firesticks they put them down by the side of the Āhavanīya.
विश्वास-प्रस्तुतिः
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायाँसवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्य पयाँ सि विशिष्याग्निध्रं द्रुत्वाग्नीध्रे संवेशनरूपाणि कृत्वा प्रातःकर्मणा प्रतिपद्यते
मूलम्
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायाँसवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्य पयाँ सि विशिष्याग्निध्रं द्रुत्वाग्नीध्रे संवेशनरूपाणि कृत्वा प्रातःकर्मणा प्रतिपद्यते
English
After the Vasatīvarī waters have been carried around, the Subrahmaṇya is invoked. The Adhvaryu puts on fire the firesticks related to approaching, fastens the sacrificial grass and faggot, gives directions in respect of the various milks, approaches the Āgnīdhra chamber and performs suitable rites and commences in the morning
विश्वास-प्रस्तुतिः
प्रसिद्धेन महारात्रिकेण
मूलम्
प्रसिद्धेन महारात्रिकेण
English
the rite prescribed to be done at early dawn.
विश्वास-प्रस्तुतिः
सिद्धमत ऊर्ध्वम्
मूलम्
सिद्धमत ऊर्ध्वम्
English
The subsequent procedure is as prescribed.
विश्वास-प्रस्तुतिः
उपस्तम्भनं वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रे पृष्ठानीति
मूलम्
उपस्तम्भनं वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रे पृष्ठानीति
English
“The Atigrāhya cups are indeed the supporting pole, and Pr̥ṣṭhas the wheels (of a chariot).”
विश्वास-प्रस्तुतिः
त्रिवृच्चैकविँशश्च चक्रे आग्नेय उपस्तम्भनम्पञ्चदशश्च त्रिणवश्च चक्रे ऐन्द्र उपस्तम्भनँसप्तदशश्च त्रयस्त्रिँशश्च चक्रे सौर्य उपस्तम्भनं यथो एतद्बौधायनस्य कल्पं वेदयन्ते निर्मन्थ्यो मन्त्रवान्भवतीत्याध्वर्यवा एवात्र मन्त्रा आवर्तन्ते नाग्निमन्थनीयाः

Trivṛt and Ekaviṁśa are the wheels, the Atigrāhya for Agni is the supporting pole; Pañcadasa and Triṇava are the wheels, that for Indra is the supporting pole; Saptadaśa and Trayastriṁśa are the wheels, that for Sūrya is the supporting pole. As for Baudhāyana’s view which they convey namely that the fire obtained by churning is characterised by the relevant formulas: only the formulas to be recited by the Adhvaryu26 are employed here, not the verses to be recited at churning (by the Hotṛ).27
विश्वास-प्रस्तुतिः
स्वयमृतुयाजमेवैतदहर्भवति नैतदहरन्योन्यस्यर्तुयाजं यजतीति १३
मूलम्
स्वयमृतुयाजमेवैतदहर्भवति नैतदहरन्योन्यस्यर्तुयाजं यजतीति १३
English
On this day one recites the R̥tu-yajyā himself. One does not recite the Ṛtu-yājyā of another on this day.
१४
विश्वास-प्रस्तुतिः
आश्राव्याध्वर्युरन्यस्मै ग्रहं प्रदायैतेनैव यथेतमेत्य जघनेन हविर्धाने उपविश्यर्तुसम्प्रैषमुक्त्वोपोत्थाय हुत्वा व्यवनीय प्रदक्षिणमावृत्य यत्रायाक्षीत्तत्प्राङासीनो होतृभक्षं भक्षयेत्प्रत्यङ्ङासीनोऽध्वर्युभक्षम्पारुच्छेपीर्होता शँसति वालखिल्या मैत्रावरुणो विहरति वृषाकपिं ब्राह्मणाच्छँसी शँ सत्येवयामरुतमच्छावाकः

Having made to announce, the Adhvaryu hands over the cup to somebody, returns by the same route by which he had gone, sits down to the rear of the Havirdhāna-carts, gives the Ṛtu-call, stands up, makes the offering, pours a part (into the Hotṛ’s goblet), turns by the right, sits down facing the east at the spot from where he recited the yajya and consumes the portion as the Hotṛ. Sitting facing the west, he consumes the portion as the Adhvaryu. The Hotṛ recites the Parucchepa verses; the Maitrāvaruṇa recites the Vālakhilya verses by intertwining; the Brāhmaṇācchaṁsin recites the Vṛṣākapi hymn; and the Acchāvāka recites the Evayāmarut hymn.
विश्वास-प्रस्तुतिः
किङ्कर्मा तर्ह्यध्वर्युर्भवतीति प्रत्यागृणातीत्येव ब्रूयाद्या एता अध्वर्युरनुष्टुभ उद्धृत्याहरति ताश्चतस्रो गायत्र्यस्तास्तिस्रोऽनुष्टुभः
मूलम्
किङ्कर्मा तर्ह्यध्वर्युर्भवतीति प्रत्यागृणातीत्येव ब्रूयाद्या एता अध्वर्युरनुष्टुभ उद्धृत्याहरति ताश्चतस्रो गायत्र्यस्तास्तिस्रोऽनुष्टुभः
English
Then what does the Adhvaryu do? He utters the response, one should reply. The Anuṣṭubh verses which the Adhvaryu shifts become four Gāyatrī verses which are basically three Anuṣṭubh verses.
विश्वास-प्रस्तुतिः
सोम राजन्नेह्यवरोहेत्येतस्यै गायत्र्यै पदमात्रेण राजानमुपावहरेत्
मूलम्
सोम राजन्नेह्यवरोहेत्येतस्यै गायत्र्यै पदमात्रेण राजानमुपावहरेत्
English
He should take down king Soma with soma rajan nehy avaroha one Pada of the Gāyatrī.
विश्वास-प्रस्तुतिः
कथमु खलु दशममहर्भक्त्या सर्वचतुर्विँशं च भवति त्रिष्टोमं चान्यत्र तूष्णीँस्तोमादिति
मूलम्
कथमु खलु दशममहर्भक्त्या सर्वचतुर्विँशं च भवति त्रिष्टोमं चान्यत्र तूष्णीँस्तोमादिति
English
How does the tenth day become furnished with Stotras characterised by calculation by Caturviṁśastoma even though it is Triṣṭoma excepting the silent reciting?
विश्वास-प्रस्तुतिः
चतुर्विँशो बहिष्पवमानः पञ्चदशं ब्रह्मसाम त्रयस्त्रिँशमग्निष्टोमसाम
मूलम्
चतुर्विँशो बहिष्पवमानः पञ्चदशं ब्रह्मसाम त्रयस्त्रिँशमग्निष्टोमसाम
English
The Bahiṣpavamāna is Caturviṁśa, the Brahmasāman is Pañcadasa and the Agniṣṭomasāman is Trayastriṁśa.
विश्वास-प्रस्तुतिः
तासामु ह नवागच्छन्ति
मूलम्
तासामु ह नवागच्छन्ति
English
Out of them (= thirtythree) nine (Stomas) go (to the fifteen).
विश्वास-प्रस्तुतिः
ताश्चतुर्विँशतिः सम्पद्यन्त एतदेवापि दशममहर्भक्त्या सर्वचतुर्विँशं च भवति त्रिष्टोमं चान्यत्र तूष्णीँस्तोमादित्युपसृजन्मात्रे वत्सं धारयन्धरुणो धयन्निति
मूलम्
ताश्चतुर्विँशतिः सम्पद्यन्त एतदेवापि दशममहर्भक्त्या सर्वचतुर्विँशं च भवति त्रिष्टोमं चान्यत्र तूष्णीँस्तोमादित्युपसृजन्मात्रे वत्सं धारयन्धरुणो धयन्निति
English
So they become twentyfour. In this way the tenth day becomes characterised by twentyfour by calculation even though it is Tristoma excepting the silent reciting. “Let the milker, the supporter, holding the calf release it towards its mother:
विश्वास-प्रस्तुतिः
किन्देवत्या उ खल्वियमाहुतिर्भवतीति
मूलम्
किन्देवत्या उ खल्वियमाहुतिर्भवतीति
English
“To which divinity is this offering made?
विश्वास-प्रस्तुतिः
प्राजापत्येत्येव ब्रूयादिति १४
मूलम्
प्राजापत्येत्येव ब्रूयादिति १४
English
To Prajāpati, one should say.
१५
विश्वास-प्रस्तुतिः
अथेमं द्वादशाहं ग्रहाग्रैरेव प्रतिव्यूहामस्
मूलम्
अथेमं द्वादशाहं ग्रहाग्रैरेव प्रतिव्यूहामस्
English
Now we shall classify this Dvādaśāha in consonance with the priority of the Soma-cups.
विश्वास-प्रस्तुतिः
अथेमं तस्य नवाहानि प्रतिव्यूहं गच्छन्ति यान्यन्यानि प्रायणीयोदयनीयाभ्यां दशमाच्चाह्नोऽथ छन्दोमास्
मूलम्
अथेमं तस्य नवाहानि प्रतिव्यूहं गच्छन्ति यान्यन्यानि प्रायणीयोदयनीयाभ्यां दशमाच्चाह्नोऽथ छन्दोमास्
English
Its nine days, excepting the Prāyaṇīya, the Udayanīya and the tenth day, need classification. There are the (three) Chandomas.
विश्वास-प्रस्तुतिः
तत्षडेव
मूलम्
तत्षडेव
English
There remain six.
विश्वास-प्रस्तुतिः
स्वस्थानो हि प्रथमस्त्रिरात्रो गायत्रीप्रातःसवने प्रथमे त्रिरात्रेऽष्टौ कृत्वोऽग्रे प्रथममुपाँश्वभिषवमभिषुणुयादेकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयम्महाँइन्द्रो नृवदा चर्षणिप्रा इत्येतया त्रिष्टुभा माहेन्द्रं गृह्णीयाददब्धेभिः सवितः पायुभिष्ट्वमित्येतया जगत्या सावित्रम्

The first three days should be as they are. In the morning pressing all verses (in the Stotras and the Śastras) are in Gāyatrī metre28 on the first three days. One should first do the pressing with the Upāṁśusavana stone eight times, eleven times at the second turn, twelve times at the third turn. The Adhvaryu should take up the draught for Mahendra with the Triṣṭubh verse mahān indro nṛvad à carṣaṇiprāḥ… that for Savitr̥ with the Jagatī verse adabdhebhiḥ savitaḥ pāyubhis tuam….
विश्वास-प्रस्तुतिः
अष्टाकपालान्प्रातःसवनीयान्कुर्यादेकादशकपालान्माध्यन्दिनीयान्
मूलम्
अष्टाकपालान्प्रातःसवनीयान्कुर्यादेकादशकपालान्माध्यन्दिनीयान्
English
The cakes at the morning pressing should be on eight potsherds, at the Midday pressing on eleven potsherds
विश्वास-प्रस्तुतिः
द्वादशकपालाँस्तृतीयसवनीयान्
मूलम्
द्वादशकपालाँस्तृतीयसवनीयान्
English
and at the third pressing on twelve potsherds.
विश्वास-प्रस्तुतिः
वसुमद्गणेन गायत्रच्छन्दसा प्रातःसवनीयान्भक्षयेद्रुद्र वद्गणेन त्रिष्टुप्छन्दसा माध्यन्दिनीयान्
मूलम्
वसुमद्गणेन गायत्रच्छन्दसा प्रातःसवनीयान्भक्षयेद्रुद्र वद्गणेन त्रिष्टुप्छन्दसा माध्यन्दिनीयान्
English
One should partake of the goblets at the morning pressing with the formula, vasumadgaṇena gāyatracchandasā… at the Midday pressing with rudravadgaṇena triṣṭupchandasā…
विश्वास-प्रस्तुतिः
आदित्यवद्गणेन जगतीच्छन्दसा तृतीयसवनीयानित्य्
मूलम्
आदित्यवद्गणेन जगतीच्छन्दसा तृतीयसवनीयानित्य्
English
and at the third pressing with adityavadgaṇena jagaticchandasā …
विश्वास-प्रस्तुतिः
अथ जगतीप्रातःसवने द्वितीये त्रिरात्रे द्वादश कृत्वोऽग्रे प्रथममुपाँ श्वभिषवमभिषुण्यादष्टौ कृत्वो द्वितीयम्
मूलम्
अथ जगतीप्रातःसवने द्वितीये त्रिरात्रे द्वादश कृत्वोऽग्रे प्रथममुपाँ श्वभिषवमभिषुण्यादष्टौ कृत्वो द्वितीयम्
English
At the second set of three days the verses (in the Stotras and the Śastras) should be in Jagatī metre. One should press Soma with Upāṁśusavana stone for twelve times in the first turn, eight times in the second turn
विश्वास-प्रस्तुतिः
एकादश कृत्वस्तृतीयम्महाँइन्द्रो य ओजसेत्येतया गायत्र्या माहेन्द्रं ग्रहं गृह्णीयाद्वाममद्य सवितरित्येतया त्रिष्टुभा सावित्रं द्वादशकपालान्प्रातःसवनीयान्कुर्यादष्टाकपालान्माध्यन्दिनीयान्
मूलम्
एकादश कृत्वस्तृतीयम्महाँइन्द्रो य ओजसेत्येतया गायत्र्या माहेन्द्रं ग्रहं गृह्णीयाद्वाममद्य सवितरित्येतया त्रिष्टुभा सावित्रं द्वादशकपालान्प्रातःसवनीयान्कुर्यादष्टाकपालान्माध्यन्दिनीयान्
English
and eleven times in the third turn. The Adhvaryu should take up the draught for Mahendra with the Gāyatrī verse mahān indro ya ojasā… ; that for Savitr̥ with the Triṣṭubh verse, vāmam adya savitar…. One should prepare the cakes on twelve potsherds at the morning pressing, on eight potssherds at the Midday pressing
विश्वास-प्रस्तुतिः
एकादशकपालाँस्तृतीयसवनीयान्
मूलम्
एकादशकपालाँस्तृतीयसवनीयान्
English
and on eleven potsherds at the third pressing.
विश्वास-प्रस्तुतिः
आदित्यवद्गणेन जगतीच्छन्दसा प्रातःसवनीयान्भक्षयेद्वसुमद्गणेन गायत्रच्छन्दसा माध्यन्दिनीयान्
मूलम्
आदित्यवद्गणेन जगतीच्छन्दसा प्रातःसवनीयान्भक्षयेद्वसुमद्गणेन गायत्रच्छन्दसा माध्यन्दिनीयान्
English
One should partake of the goblets at the morning pressing with the formula, adityavadgaṇena jagaticchandasă… at the Midday pressing with vasumadgaṇena gāyatracchandasā …
विश्वास-प्रस्तुतिः
रुद्र वद्गणेन त्रिष्टुप्छन्दसा तृतीयसवनीयानित्यथ त्रिष्टुप्प्रातःसवने तृतीये त्रिरात्र एकादश कृत्वोऽग्रे प्रथममुपाँ श्वभिषवमभिषुणुयाद्द्वादश कृत्वो द्वितीयमष्टौ कृत्वस्तृतीयम्महाँइन्द्रो य ओजसेत्येतां गायत्रीं त्रिरभ्यावर्तयेदनुपयामां सा जगती सम्पद्यते

and at the third pressing with rudravadgaṇena triṣṭupchandasā…. At the third three days the verses (in the Stotras and Śastras) should be in the Triṣṭubh metre. In the first turn one should press Soma with the Upaṁśusavana stone eleven times, in the second turn twelve times and in the third turn eight times. The Adhvaryu should repeat the Gāyatri mahāñ indroya ojasā… three times without repeating the Upayāma-formula. That makes the Jagatī metre.
विश्वास-प्रस्तुतिः
तया माहेन्द्रं गृह्णीयाधिरण्यपाणिमूतय इत्येतया गायत्र्या सावित्रम्
मूलम्
तया माहेन्द्रं गृह्णीयाधिरण्यपाणिमूतय इत्येतया गायत्र्या सावित्रम्
English
With it he should take up the draught for Mahendra. That for Savitr̥ with the Gāyatrī verse hiranyapāņim ūtaye.
विश्वास-प्रस्तुतिः
एकादशकपालान्प्रातःसवनीयान्कुर्याद्द्वादशकपालान्माध्यन्दिनीयान्
मूलम्
एकादशकपालान्प्रातःसवनीयान्कुर्याद्द्वादशकपालान्माध्यन्दिनीयान्
English
One should prepare the cakes on eleven potsherds at the morning pressing, on twelve potsherds at the Middly pressing
विश्वास-प्रस्तुतिः
अष्टाकपालाँस्तृतीयसवनीयान्
मूलम्
अष्टाकपालाँस्तृतीयसवनीयान्
English
and on eight potsherds at the third pressing.
विश्वास-प्रस्तुतिः
रुद्र वद्गणेन त्रिष्टुप्छन्दसा प्रातःसवनीयान्भक्षयेदादित्यवद्गणेन जगतीच्छन्दसा माध्यन्दिनीयान्
मूलम्
रुद्र वद्गणेन त्रिष्टुप्छन्दसा प्रातःसवनीयान्भक्षयेदादित्यवद्गणेन जगतीच्छन्दसा माध्यन्दिनीयान्
English
One should partake of the goblets at the morning pressing with the formula, rudravadgaṇena tristupachandasăā at the midday pressing with adityavadgaṇena jagaticchandasā …
विश्वास-प्रस्तुतिः
वसुमद्गणेन गायत्रच्छन्दसा तृतीयसवनीयानिति १५
मूलम्
वसुमद्गणेन गायत्रच्छन्दसा तृतीयसवनीयानिति १५
English
and at the third pressing with vasumadgaṇena gayatracchandasā….
१६
विश्वास-प्रस्तुतिः
अथायं वैषुवतो लभेत मासगणानामित्येक आहुः सप्तदश दीक्षा द्वादशोपसदो वैषुवतं त्रिँशत्तमं कथमु खलु गोआयुभ्याँस्तोमा भवन्तीति
मूलम्
अथायं वैषुवतो लभेत मासगणानामित्येक आहुः सप्तदश दीक्षा द्वादशोपसदो वैषुवतं त्रिँशत्तमं कथमु खलु गोआयुभ्याँस्तोमा भवन्तीति
English
Now this sacrifice to be performed on the Viṣuvat day assumes the character of month-so they say: seventeen Dīkṣā-days, twelve Upasad-days and the thirtieth day is the Viṣuvat. Which Stomas are to be applied to the Stotras in Go and Āyus sacrifices?
विश्वास-प्रस्तुतिः
गोर्नु खलु पञ्चदशो बहिष्पवमानस्तिवृन्त्याज्यानि सर्वसप्तदशं माध्यन्दिनँ सवनँसर्वैकविँशं तृतीयस्वनँसोक्थ्यम्
मूलम्
गोर्नु खलु पञ्चदशो बहिष्पवमानस्तिवृन्त्याज्यानि सर्वसप्तदशं माध्यन्दिनँ सवनँसर्वैकविँशं तृतीयस्वनँसोक्थ्यम्
English
For the Go sacrifice the Bahiṣpavamāna has Pañcadaśa Stomas, the Ājyastotras are Trivṛt; the midday pressing has Saptadaśa Stomas for all Stotras; the third pressing has Ekaviṁśa Stomas for all Stotras; including the Ukthya Stotras.
विश्वास-प्रस्तुतिः
अथायोस्त्रिवृद्बहिष्पवमानः पञ्चदशान्याज्यानि सर्वसप्तदशं माध्यन्दिनँसवनँ सर्वैकविँशं तृतीयसवनँसोक्थ्यम्
मूलम्
अथायोस्त्रिवृद्बहिष्पवमानः पञ्चदशान्याज्यानि सर्वसप्तदशं माध्यन्दिनँसवनँ सर्वैकविँशं तृतीयसवनँसोक्थ्यम्
English
Now for the Āyus: the Bahiṣpavamāna has Trivṛt Stoma; the Ājyastotras have Pañcadaśa Stomas; the midday pressing has Saptadaśa Stomas for all Stotras; the third pressing has Ekaviṁśa Stomas for all Stotras together with the Ukthyastotras.
विश्वास-प्रस्तुतिः
अथेमौ विश्वजिदभिजितावग्निष्टोमौ सत्त्रगतौ भवतः
मूलम्
अथेमौ विश्वजिदभिजितावग्निष्टोमौ सत्त्रगतौ भवतः
English
The Viśvajit and Abhijit-the Agniṣṭoma sacrifices are a part of a Sattra.
विश्वास-प्रस्तुतिः
के नु खल्वेतयो स्तोमा भवन्तीत्यभि जिन्नु खलु त्र्युदयश्चतुरावृत्तोऽथ विश्वजिच्चतुरुदयस्त्र्यावृत्तः
मूलम्
के नु खल्वेतयो स्तोमा भवन्तीत्यभि जिन्नु खलु त्र्युदयश्चतुरावृत्तोऽथ विश्वजिच्चतुरुदयस्त्र्यावृत्तः
English
Which are the Stomas of their Stotras? Abhijit has three formulations and four repetitions of Stomas.29 Viśvajit has four formulations and three repetitions of Stomas.30
विश्वास-प्रस्तुतिः
कथमु खल्वेकविँशतिगर्भो भवतीत्यभिजितमुपेत्य पृष्ठ्यँषडहमुपेयुरथ त्रीन्परःसाम्नोऽथ वैषुवतमथ त्रीन्प्रत्यक्साम्नोऽथावृत्तं पृष्ठ्यँषडहमथ विश्वजितं कथमु खलु गोआयुषी विहृते जानीयादिति
मूलम्
कथमु खल्वेकविँशतिगर्भो भवतीत्यभिजितमुपेत्य पृष्ठ्यँषडहमुपेयुरथ त्रीन्परःसाम्नोऽथ वैषुवतमथ त्रीन्प्रत्यक्साम्नोऽथावृत्तं पृष्ठ्यँषडहमथ विश्वजितं कथमु खलु गोआयुषी विहृते जानीयादिति
English
How does (the Abhijit sacrifice) become characterised with the Ekaviṁśa stoma being covered? Having performed the Abhijit, they go through the Pr̥ṣṭhyā Ṣaḍaha, then the three Paraḥsāman sacrifices (with increasing Stomas), then the Viṣuvat, then the three Pratyakṣāman sacrifices (with decreasing Stomas), then the Pr̥ṣṭhyā Ṣaḍaha in a reverse order and then the Viśvajit. How should one manage the intertwined Go and Ayus sacrifices?
विश्वास-प्रस्तुतिः
पुरस्तादभिजितो गामुपेयात्स्वस्थान एवायुर्भवतीति
मूलम्
पुरस्तादभिजितो गामुपेयात्स्वस्थान एवायुर्भवतीति
English
One should perform the Go before the Abhijit; the Ayus sacrifice should be in its place.
विश्वास-प्रस्तुतिः
कियन्तो नु खलु गवामयनेऽग्निष्टोमा भवन्तीति
मूलम्
कियन्तो नु खलु गवामयनेऽग्निष्टोमा भवन्तीति
English
How many Agniṣṭomas are there in the Gavām Ayana?
विश्वास-प्रस्तुतिः
ज्योतिरग्निष्टोमस्त्रिवृदग्निष्टोमो विश्वजिदभिजितावग्निष्टोमौ वैषुवतं दशममहर्महाव्रतमिति सप्तेति ह वा इदं गवामयनं प्रज्ञातस्तोमं ब्रुवते
मूलम्
ज्योतिरग्निष्टोमस्त्रिवृदग्निष्टोमो विश्वजिदभिजितावग्निष्टोमौ वैषुवतं दशममहर्महाव्रतमिति सप्तेति ह वा इदं गवामयनं प्रज्ञातस्तोमं ब्रुवते
English
Jyotiragniṣṭoma, Trivṛd Agniṣṭoma, Viśvajit and Abhijit—the two Agniṣṭomas, Viṣuvat, the tenth day and the Mahāvrata-these are seven. They understand this Gavām Ayana as having discerned Stomas.
विश्वास-प्रस्तुतिः
तस्य होत्तरं पक्ष आवृत्तं भवति यदन्यद्गोआयुभ्यां च दशरात्राच्च
मूलम्
तस्य होत्तरं पक्ष आवृत्तं भवति यदन्यद्गोआयुभ्यां च दशरात्राच्च
English
Its latter wing is reversed except Go, Āyus and Daśaratra.
विश्वास-प्रस्तुतिः
त्र्यनीकानत्रावृत्तान्ग्रहान्गृह्णीयात् १६
मूलम्
त्र्यनीकानत्रावृत्तान्ग्रहान्गृह्णीयात् १६
English
Herein the Tryanika draughts should be taken in a reverse order.
१७
विश्वास-प्रस्तुतिः
अथेमा द्वात्रिँशतमेकादशिन्यो गवामयने
मूलम्
अथेमा द्वात्रिँशतमेकादशिन्यो गवामयने
English
Now there are thirtytwo Ekādaśinī rites in Gavām Ayana.
विश्वास-प्रस्तुतिः
तेषां पूर्वस्मिन्पक्षसि षोडश निष्ठीयन्ते सप्तदश एकादशिन्यै बार्हस्पत्यो वैषुवते सवनीयः सम्पद्यते
मूलम्
तेषां पूर्वस्मिन्पक्षसि षोडश निष्ठीयन्ते सप्तदश एकादशिन्यै बार्हस्पत्यो वैषुवते सवनीयः सम्पद्यते
English
Out of these sixteen are performed during the first wing. The seventeenth Ekādaśinī dedicated to Bṛhaspati takes the place of the Savanīya sacrifice in the Vișuvat.
विश्वास-प्रस्तुतिः
तस्य नवाहान्यपशुकान्यतिरिच्यन्त इति
मूलम्
तस्य नवाहान्यपशुकान्यतिरिच्यन्त इति
English
In this (Dasarātra) nine days are left without animals:
विश्वास-प्रस्तुतिः
कतमानि खल्विमान्यहानि भवन्तीति
मूलम्
कतमानि खल्विमान्यहानि भवन्तीति
English
which are these nine days? (They are :)
विश्वास-प्रस्तुतिः
पृष्ठ्यस्य षडहस्योत्तराणि त्रीणि त्रयश्छन्दोमा दशममहर्महाव्रतमुदयनीयोऽतिरात्र इत्यभिप्लवाश्चाक्षीयन्ति च तदङ्गिरसामयनमिति
मूलम्
पृष्ठ्यस्य षडहस्योत्तराणि त्रीणि त्रयश्छन्दोमा दशममहर्महाव्रतमुदयनीयोऽतिरात्र इत्यभिप्लवाश्चाक्षीयन्ति च तदङ्गिरसामयनमिति
English
the last three days of Pr̥ṣṭhyā Ṣaḍaha, three Chandoma days, tenth day, Mahāvrata and Udayanīya Atirātra.
All Abhiplava Ṣaḍahas and the days to complete the Sattra make the Angirasām Ayana :
विश्वास-प्रस्तुतिः
पृष्ठ्यानामत्र स्थानेऽभिप्लवानेव दधाति
मूलम्
पृष्ठ्यानामत्र स्थानेऽभिप्लवानेव दधाति
English
here one replaces the Pr̥ṣṭhyā Ṣaḍahas by Abhiplava Ṣaḍahas.
विश्वास-प्रस्तुतिः
पृष्ठ्याश्चाक्षीयन्ति च तदादित्यानामयनमित्यभिप्लवानामत्र स्थाने पृष्ठ्यानेव दधात्यग्निष्टोमाश्चाक्षीयन्ति च तत्प्रजापतेरयनमित्युभयेषामत्र पृष्ठ्याभिप्लवानाँ स्थानेऽग्निष्टोमानेव दधात्य्
मूलम्
पृष्ठ्याश्चाक्षीयन्ति च तदादित्यानामयनमित्यभिप्लवानामत्र स्थाने पृष्ठ्यानेव दधात्यग्निष्टोमाश्चाक्षीयन्ति च तत्प्रजापतेरयनमित्युभयेषामत्र पृष्ठ्याभिप्लवानाँ स्थानेऽग्निष्टोमानेव दधात्य्
English
The Pr̥ṣṭhyā Sadahas and the days to complete the Sattra make the Ādityānām Ayana : here one replaces the Abhiplava Saḍahas by Pṛsthya Ṣaḍahas. Agniṣṭoma and the days to complete the Sattra make Prajāpater Ayana: one sets the Agniṣṭomas in both the Pr̥ṣṭhyā and Abhiplava Ṣaḍahas.
विश्वास-प्रस्तुतिः
आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्याघाट्योऽह कोलोष्ठा भवन्ति
मूलम्
आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्याघाट्योऽह कोलोष्ठा भवन्ति
English
(The wives sit around the Udgātṛ) taking cymbals, flutes and lutes: the cymbals are known by the word koloṣṭha.31
विश्वास-प्रस्तुतिः
पिञ्छोला उ ह वीणाकाणभ्रशा वीणा उ कर्करीकास्
मूलम्
पिञ्छोला उ ह वीणाकाणभ्रशा वीणा उ कर्करीकास्
English
The flutes are known by the word vīņākāṇabhraśa.32 Lutes are known by the word vīņā.
विश्वास-प्रस्तुतिः
तं काल एव शस्त्र्यातृणत्तीत्यातृन्द्यादित्येवेदमुक्तं भवति १७
मूलम्
तं काल एव शस्त्र्यातृणत्तीत्यातृन्द्यादित्येवेदमुक्तं भवति १७
English
(The Prince) holding the weapon (bow and arrow) pricks (the piece of leather) at the proper time. He should prick it through, so is it said.
१८ अहीनयागः
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is said,
विश्वास-प्रस्तुतिः
ब्रह्मवादिनो वदन्ति स त्वै यजेत योऽग्निष्टोमेन यजमानोऽथ सर्वस्तोमेन यजेतेति
मूलम्
ब्रह्मवादिनो वदन्ति स त्वै यजेत योऽग्निष्टोमेन यजमानोऽथ सर्वस्तोमेन यजेतेति
English
“The experts in Vedic lore say, after having performed the Agniṣṭoma (on the first day) one performs the Atirātra) involving the chanting with all Stomas (on the second day).”33
विश्वास-प्रस्तुतिः
चत्वारि पञ्चदशान्याज्यानि
मूलम्
चत्वारि पञ्चदशान्याज्यानि
English
The four Ajyastotras are with Pañcadasa Stoma.
विश्वास-प्रस्तुतिः
तौ द्वौ त्रिँशद्वर्गौ
मूलम्
तौ द्वौ त्रिँशद्वर्गौ
ll
विश्वास-प्रस्तुतिः
तयोरितरस्मिँस्त्रिँशद्वर्गे तिस्र उपास्यति
मूलम्
तयोरितरस्मिँस्त्रिँशद्वर्गे तिस्र उपास्यति
English
In the latter set of thirty Stomas he inserts three verses;
विश्वास-प्रस्तुतिः
तौ द्वौ त्रिणवत्रयस्त्रिँशौ
मूलम्
तौ द्वौ त्रिणवत्रयस्त्रिँशौ
English
they become the two-Triņava and Trayastriṁśa.
विश्वास-प्रस्तुतिः
गायत्रं पूर्वेऽहन्साम भवति त्रैष्टुभमुत्तर इति होतुराज्यमेतानि सम्पादयेदेवमेवोत्तरेऽह्नि होतुरेवाज्ये
मूलम्
गायत्रं पूर्वेऽहन्साम भवति त्रैष्टुभमुत्तर इति होतुराज्यमेतानि सम्पादयेदेवमेवोत्तरेऽह्नि होतुरेवाज्ये
English
On the preceding day the Sāman is based on Gāyatrī verses; on the succeeding day on Triṣṭubh verses. Thus one should ascertain the Ajyastotra related to the Hotṛ’s Śastra (on the first day). In this manner one should ascertain the Ājyastotra related to the Hotṛ’s Śastra on the next day.
विश्वास-प्रस्तुतिः
अथास्यैषा सहस्रतम्यन्यतएनी कण्डूकृतोपकॢप्ता भवतीति
मूलम्
अथास्यैषा सहस्रतम्यन्यतएनी कण्डूकृतोपकॢप्ता भवतीति
English
The one thousandth cow is procured which has a white spot on any one side of her back and desirous of coupling:
विश्वास-प्रस्तुतिः
सँसेवितेत्येवेदमुक्तं भवति
मूलम्
सँसेवितेत्येवेदमुक्तं भवति
English
Enjoyed by a bull; so is it said.
विश्वास-प्रस्तुतिः
कस्मिन्नु खलु काले लक्ष्मणां पष्ठौहीं वार्त्रघ्नीं दद्यादिति
मूलम्
कस्मिन्नु खलु काले लक्ष्मणां पष्ठौहीं वार्त्रघ्नीं दद्यादिति
English
At what time should the sacrificer give away the spotted heifer killing the enemies?
विश्वास-प्रस्तुतिः
सङ्ग्रामं जित्वा राजन्य एनां दद्यात्
मूलम्
सङ्ग्रामं जित्वा राजन्य एनां दद्यात्
English
After having won a battle the king should give her away.
विश्वास-प्रस्तुतिः
कथमु खलु गर्गत्रिरात्रेणर्तुमुखेषु विहृतेन यजेतेत्याषाढे वा श्रावणे वा पक्षेऽग्निष्टोमेन वा यजेत
मूलम्
कथमु खलु गर्गत्रिरात्रेणर्तुमुखेषु विहृतेन यजेतेत्याषाढे वा श्रावणे वा पक्षेऽग्निष्टोमेन वा यजेत
English
How should one perform the Garga Trirātra in components at the openings of seasons? One should perform the Agniṣṭoma”34 in the (bright) half of Aṣāḍha or Śrāvana.
विश्वास-प्रस्तुतिः
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसन्ततिं कृत्वा ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति

He should finish the sacrifice with Patnīsamyājas or with the discarding of the heart-spike. He should tie up Soma (= bundles), add (a part of old Vasatīvarī waters to new) Vasatīvarī waters at the proper time, accomplish the continuity of the Ahīna sacrifice, wash the pressing stones and wooden goblets, put the woollen filter and the fringe into the wooden trough and move to the Āgnīdhra chamber. The firestick-fetchers go out. They fetch firesticks and put them down by the side of the Āhavanīya.
विश्वास-प्रस्तुतिः
परिहृतासु वसतीवरीष्वाहूतायाँसौब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजेत
मूलम्
परिहृतासु वसतीवरीष्वाहूतायाँसौब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजेत
English
The Vasatīvarī waters are carried around; Subrahmaṇya is invoked. The Adhvaryu puts on the fire the firesticks in relation to sleeping at night, fastens the sacrificial grass and faggot; he does not give directions regarding the various milks. They keep waiting. Next day he performs the Savaneṣṭi.
विश्वास-प्रस्तुतिः
तत स्तम्बयजुर्हरति
मूलम्
तत स्तम्बयजुर्हरति
English
Herein he does not carry the Stambayajus.
विश्वास-प्रस्तुतिः
स एवमेवाहरहर्वसतीवरीः परिहरमाणश्चतुरो मासः सवनेष्ठ्या यजते
मूलम्
स एवमेवाहरहर्वसतीवरीः परिहरमाणश्चतुरो मासः सवनेष्ठ्या यजते
English
In this way, carrying around the Vasatīvarī waters every day, he goes on performing the Savaneṣṭi for four months.
विश्वास-प्रस्तुतिः
नाग्निहोत्रं जुहोति न दर्शपूर्णमासाभ्यां यजतेऽथ चतुर्षु मासेषु पर्यवेतेषु परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायामहरहः संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्य पयाँसि विशिष्योपवसन्ति १८

He does not offer the Agnihotra, nor does he perform the Full-moon and New-moon sacrifices. After four months have passed, one carries around Vasatīvarī waters; Subrahmaṇyā is invoked, firesticks in relation to sleeping at night are put on the fire; sacrificial grass and faggot are fastened; instructions in respect of milks are given, and they keep waiting.
१९
विश्वास-प्रस्तुतिः
अथ श्वो भूत उक्थ्येन यजते
मूलम्
अथ श्वो भूत उक्थ्येन यजते
English
Next day one performs the Ukthya sacrifice.
विश्वास-प्रस्तुतिः
तत्तथैव पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसन्ततिं कृत्वा ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति

He concludes the sacrifice ending with the offering of Patnīsaṁyājas or with the discarding of the heart-spike, fastens the Soma (-bundles), adds (old Vasatīvarī waters to the new) Vasatīvarī waters, accomplishes the continuity of the Ahīna sacrifice, washes the pressing stones and wooden goblets, puts the woollen filter and the fringe into the wooden trough, and moves to the Āgnīdhra chamber. The firestick-fetchers leave. Having brought fire- sticks, they put them down by the side of the Āhavanīya.
विश्वास-प्रस्तुतिः
परिहृतासु वस्तीवरीष्वाहूतायाँसुब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजते
मूलम्
परिहृतासु वस्तीवरीष्वाहूतायाँसुब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजते
English
Vasatīvarī waters are carried around. Subrahmaṇyā is invoked; firesticks in relation to sleeping at night are put on fire; sacrificial grass and faggot are fastened; no instructions are given in respect of milks; and they keep waiting. Next day he performs the Savaneṣṭi;
विश्वास-प्रस्तुतिः
तत्र तथैव न स्तम्बयजुर्हरति
मूलम्
तत्र तथैव न स्तम्बयजुर्हरति
English
herein he does not carry the Stambayajus as he did not carry before.
विश्वास-प्रस्तुतिः
स एवमेवाहरहर्वसीवरीः परिहरमाणोऽपराँश्चतुरो मासः सवनेष्ट्या यजते
मूलम्
स एवमेवाहरहर्वसीवरीः परिहरमाणोऽपराँश्चतुरो मासः सवनेष्ट्या यजते
English
In this way, carrying around Vasatīvarī waters every day, he goes on performing the Savaneṣṭi for four months.
विश्वास-प्रस्तुतिः
नैवाग्निहोत्रं जुहोति न दर्शपूर्णमासाभ्यां यजतेऽथ चतुर्षु मासेषु पर्यवेतेषु परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायामहरहः संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्य पयाँसि विशिष्योपवसन्त्यथ श्वो भूतेऽतिरात्रेण यजते सयज्ञपुच्छेनाथैताँसहस्रतमीं प्राचीं वोदीचीं वावर्तयँस्तया विहारं चात्मानं च न व्यवेयादिति १९

He does not offer Agnihotra, nor does he perform the Full-moon and the New-moon sacrifices. After four months have passed, Vasatīvarī waters are carried around, Subrahmaṇyā is invoked, firesticks are put on fire in relation to sleeping at night every day, sacrificial grass and faggot are tied up, instructions in respect of the milks are given, and they keep waiting. Next day one performs the Atirātra together with “tail of sacrifice” (= concluding rites).
While turning the one thousandth cow towards the east or north, one should not allow her to pass between the sanctuary of fires and self.
२०
विश्वास-प्रस्तुतिः
किन्दक्षिणा उ खल्वहीना भवन्तीत्यहर्गणोऽहर्गणः सहस्रदक्षिणः स्यादित्येतदेकम्
मूलम्
किन्दक्षिणा उ खल्वहीना भवन्तीत्यहर्गणोऽहर्गणः सहस्रदक्षिणः स्यादित्येतदेकम्
English
What should be the Dakṣiņās at the Ahīna sacrifices? In each Ahargaṇa sacrifice a thousand cows should be given as Dakṣiņa-this is one view.
विश्वास-प्रस्तुतिः
एकैकमहः सहस्रदक्षिणँस्यादित्येतदेकं द्वादशशतदक्षिणँस्यादित्येतदेकं यथाश्रद्धदक्षिणँस्यादित्येतदपरमादेशादेवैतस्मिन्नतिरात्रे सहस्रमनुविहितं ददाति
मूलम्
एकैकमहः सहस्रदक्षिणँस्यादित्येतदेकं द्वादशशतदक्षिणँस्यादित्येतदेकं यथाश्रद्धदक्षिणँस्यादित्येतदपरमादेशादेवैतस्मिन्नतिरात्रे सहस्रमनुविहितं ददाति
English
On each day of the Ahargaṇa a thousand cows should be given-this is one view. On each day a hundred and twelve cows should be given this is one view. One should give Dakṣiņās according to his will —this is another view. Only by specific instructions one gives away in this Atirātra a thousand cows in order.
विश्वास-प्रस्तुतिः
द्विरात्रप्रभृतयोऽहीना भवन्त्यैकादशरात्रादथेमान्यहीनाभिपरीतानि सत्त्राणि भवन्ति यथैतत्संवत्सरगर्भ एकादशरात्र उभयविधो हि भरतद्वादशाहो द्वादशाग्निष्टोमा रथन्तरसामानः
मूलम्
द्विरात्रप्रभृतयोऽहीना भवन्त्यैकादशरात्रादथेमान्यहीनाभिपरीतानि सत्त्राणि भवन्ति यथैतत्संवत्सरगर्भ एकादशरात्र उभयविधो हि भरतद्वादशाहो द्वादशाग्निष्टोमा रथन्तरसामानः
English
The Ahīna sacrifices begin with the Dvirātra and end with the Ekädasarātra. There are certain Sattras seized by the Ahīnas, e.g. Ekādaśarātra bearing the notion of the Samvatsarasattra. The Bharatadvādaśāha is of two kinds. There are twelve Agniṣṭomas having Rathantarasāman as the Pṛṣṭhastotra.
विश्वास-प्रस्तुतिः
स ह भरतद्वादशाहोऽथोद्यत्स्तोमेषु त्रिवृत्प्रथममहः स्यात्पञ्चदशं द्वितीयँ सप्तदशं तृतीयमेकविँशं चतुर्थमितीन्न्वेकम्
मूलम्
स ह भरतद्वादशाहोऽथोद्यत्स्तोमेषु त्रिवृत्प्रथममहः स्यात्पञ्चदशं द्वितीयँ सप्तदशं तृतीयमेकविँशं चतुर्थमितीन्न्वेकम्
English
This is called the Bharatadvādaśāha. In the case of the rising numbers of stomas of Stotras the first day (of the Catūrātra) should be Trivṛt, the second Pañcadaśa, the third Saptadaśa, and the fourth Ekaviṁśa. This is one view.
विश्वास-प्रस्तुतिः
अथापरस्त्रिवृत्प्रथमस्याह्नः प्रातःसवनं पञ्चदशं माध्यन्दिनँसवनँसप्तदशं तृतीयसवनम्
मूलम्
अथापरस्त्रिवृत्प्रथमस्याह्नः प्रातःसवनं पञ्चदशं माध्यन्दिनँसवनँसप्तदशं तृतीयसवनम्
English
The second is: the morning pressing of the first day should be Trivṛt, the midday pressing Pañcadasa, and the third pressing Saptadaśa.
विश्वास-प्रस्तुतिः
अथ द्वितीयस्याह्नः पञ्चदशं प्रातःसवनँसप्तदशं माध्यन्दिनँसवनमेकविँशं तृतीयसवनम्
मूलम्
अथ द्वितीयस्याह्नः पञ्चदशं प्रातःसवनँसप्तदशं माध्यन्दिनँसवनमेकविँशं तृतीयसवनम्
English
On the second day the morning pressing should be Pañcadaśa, the midday pressing Saptadaśa and the third pressing Ekaviṁśa.
विश्वास-प्रस्तुतिः
अथ तृतीयस्याह्नः सप्तदशं प्रातःसवनमेकविँशं माध्यन्दिनँसवनं त्रिणवं तृतीयसवनम्
मूलम्
अथ तृतीयस्याह्नः सप्तदशं प्रातःसवनमेकविँशं माध्यन्दिनँसवनं त्रिणवं तृतीयसवनम्
English
On the third day the morning pressing should be Saptadaśa, the midday pressing Ekaviṁśa, the third pressing Triṇava.
विश्वास-प्रस्तुतिः
अथ चतुर्थस्याह्न एकविँशं प्रातःसवनं त्रिणवं माध्यन्दिनँसवनं त्रयस्त्रिँ शं तृतीयसवनम् २०
मूलम्
अथ चतुर्थस्याह्न एकविँशं प्रातःसवनं त्रिणवं माध्यन्दिनँसवनं त्रयस्त्रिँ शं तृतीयसवनम् २०
English
On the fourth day the morning pressing should be Ekaviṁśa, the midday pressing Triṇava, and the third pressing Trayastriṁśa.
२१
विश्वास-प्रस्तुतिः
अथेम औपसदाः पुरोडाशाः शूर्पादानप्रभृतय आप्यान्ताः
मूलम्
अथेम औपसदाः पुरोडाशाः शूर्पादानप्रभृतय आप्यान्ताः
English
Now these cakes to be offered at the Upasads are to be prepared with the formulas employed in the rites beginning with the taking of the winnowing basket and ending with the pouring down of the wash water for the Āpyas.
विश्वास-प्रस्तुतिः
स्रुवाहुत्या चैनान्सह सकृज्जुहुयादौपमन्यवीयेन कल्पेनाग्नेयानेककपालान्
मूलम्
स्रुवाहुत्या चैनान्सह सकृज्जुहुयादौपमन्यवीयेन कल्पेनाग्नेयानेककपालान्
English
One should offer them in one attempt together with the offering of the spoonful. He should offer the cakes on one potsherd to Agni with the procedure laid down by Aupamanyava.
विश्वास-प्रस्तुतिः
अनुसरस्वति प्राञ्चो यान्तीत्याहवनीयसकाशाच्छम्यां प्रास्येत्
मूलम्
अनुसरस्वति प्राञ्चो यान्तीत्याहवनीयसकाशाच्छम्यां प्रास्येत्
English
They proceed towards the east along the stream of the river Sarasvatī. One should throw the yoke-halter from the side of the Āhavanīya.
विश्वास-प्रस्तुतिः
सा यत्र निपतेत्तद्गार्हपत्यस्यायतनँस्यात्प्राचीनं तत आहवनीयोऽथ यद्यपर्याणा अप उपाधिगच्छेयुरपोनप्त्रीयं चरुं तृतीयसवनीयानामनुनिर्वाप्यं कुर्युरथोपोत्तरेद्युः समाप्यत्वेव शम्यां प्रास्येत्
मूलम्
सा यत्र निपतेत्तद्गार्हपत्यस्यायतनँस्यात्प्राचीनं तत आहवनीयोऽथ यद्यपर्याणा अप उपाधिगच्छेयुरपोनप्त्रीयं चरुं तृतीयसवनीयानामनुनिर्वाप्यं कुर्युरथोपोत्तरेद्युः समाप्यत्वेव शम्यां प्रास्येत्
English
The spot where it would fall down should be the place for the Gārhapatya. The Āhavanīya should be to its east. If they meet waters which are unavoidable, cooked rice to Apam Napät should be offered subsequent to the offering of the Savanīyapuroḍāśas at the third pressing. Having crossed waters at a shallow place35 one should throw the yoke-halter.
विश्वास-प्रस्तुतिः
त्र्यहा भवन्ति पञ्चाहा भवन्तीत्यभिप्लवानामेवैतेऽपच्छेदा भवन्त्यष्टमेऽह्नि वाजपेय इति
मूलम्
त्र्यहा भवन्ति पञ्चाहा भवन्तीत्यभिप्लवानामेवैतेऽपच्छेदा भवन्त्यष्टमेऽह्नि वाजपेय इति
English
“Three days are to be observed, five days are to be observed”-these are the components of the Abhiplava Ṣaḍaha.36
The Vājapeya is to be performed on the eighth day.
विश्वास-प्रस्तुतिः
तत्र यदेव सुत्याभिपरीतं वाजपेयिकं कर्म तत्कुर्याद्
मूलम्
तत्र यदेव सुत्याभिपरीतं वाजपेयिकं कर्म तत्कुर्याद्
English
One should go through that part of the Vājapeya which is attached to the Soma-pressing.
विश्वास-प्रस्तुतिः
अथेदँसँसदामयनमच्छन्दोमं भवतीति
मूलम्
अथेदँसँसदामयनमच्छन्दोमं भवतीति
English
This Saṁsadām Ayana is void of Chandomas.
विश्वास-प्रस्तुतिः
विज्ञायत उ खल्वस्य छन्दोमभक्तयश्चतुर्विँशं चतुश्चत्वारिँशमष्टाचतुर्विँ शमिति २१
मूलम्
विज्ञायत उ खल्वस्य छन्दोमभक्तयश्चतुर्विँशं चतुश्चत्वारिँशमष्टाचतुर्विँ शमिति २१
English
It is said, the distributions of the Chandomas are the Caturviṁśastoma, Catuścatvāriṁśastoma and Aṣṭācatvāriṁśastoma.
२२ अतिरात्रः
विश्वास-प्रस्तुतिः
अथायमतिरात्र उभयविधो भवत्यहीनो वैकाहो वापि तु खल्वस्याहीनस्यैव रूपं द्वादशोपसदोऽनेकमहरभिविधत्तेऽथैकाहस्यैव रूपं सकृद्वसतीवरीर्गृह्णाति सकृत्पशूनुपाकरोत्येकं क्रतुकरणं समयाविषिते सूर्ये हिरण्येन षोडशिन स्तोममुपाकरोतीत्यर्धास्तमित इत्येवेदमुक्तं भवति

Now this Atirātra is of two kinds Ahīna or Ekāha. The character of the Ahīna is: There are twelve Upasad days, and the Atirätra goes on over a day. The character of the Ekāha Atirātra is: one takes the Vasatīvarī waters once, and dedicates the animals at one time. The Kratukaraṇa formula is to be employed once. “The Adhvaryu introduces the Stotra related to the Șoḍasi cup by means of a piece of gold when the sun has half set”: when it has half set, so is it said.
विश्वास-प्रस्तुतिः
तस्य चेदनुपाकृत आदित्योऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथ यस्योक्थ्येऽतिरिच्येतातिरात्रं कुर्वीतेत्यतिक्रान्ताः खल्वस्य दीक्षोपसदोऽतिक्रान्तं क्रतुकरणमतिक्रान्तँषोडशिनो ग्रहणम्

If the sun sets while the Stotra is not yet introduced, he should offer three spoonfuls on the Gārhapatya with bhūḥ bhuvaḥ and suvaḥ. “One whose Soma remains excessive in the Ukthya sacrifice should perform the Atiratra”: in his case the Dīkṣā days and the Upasad days have already passed over; the Kratukaraṇa formula is passed over; and the taking up of the Șoḍaśi draught is also passed over.
विश्वास-प्रस्तुतिः
अथ तदानीमेव षोडशिपात्रमुपकल्प्य तिसृभिरृग्भिर्गृह्णीयादथैतेन पुरस्ताद्रा त्रिपर्यायेभ्यश्चरेत्
मूलम्
अथ तदानीमेव षोडशिपात्रमुपकल्प्य तिसृभिरृग्भिर्गृह्णीयादथैतेन पुरस्ताद्रा त्रिपर्यायेभ्यश्चरेत्
English
One should at the very moment procure the Ṣoḍaśi cup, and take up the Ṣoḍaśi draught with three verses,37 and offer it before the nocturnal rounds.
विश्वास-प्रस्तुतिः
तत्रैवमेव सम्प्रैषः प्रतिप्रस्थातराग्रयणतृतीयं गुदतृतीयानि जाघनीः पृषदाज्यं गोपायाग्नीदाश्विनं ते द्विकपालँ शृतमप्यपररात्रेऽस्त्विति
मूलम्
तत्रैवमेव सम्प्रैषः प्रतिप्रस्थातराग्रयणतृतीयं गुदतृतीयानि जाघनीः पृषदाज्यं गोपायाग्नीदाश्विनं ते द्विकपालँ शृतमप्यपररात्रेऽस्त्विति
English
At that time the call should be, “O Pratiprasthātṛ, do you keep an eye on the third portion of the Āgrayaṇa vessel, the third part of anus of each of the animals, the tails, and the Pṛṣadājya, O Agnīdh, let the cake on two potsherds for the Aśvins be cooked and kept ready in the latter part of night.”
विश्वास-प्रस्तुतिः
कस्मिन्नु खलु काल आश्विनो द्विकपालो निरुप्यत इति
मूलम्
कस्मिन्नु खलु काल आश्विनो द्विकपालो निरुप्यत इति
English
At what time is paddy for the cake on two potsherds to the Aśvins poured out?
विश्वास-प्रस्तुतिः
तार्तीयसवनिकैर्वा पुरोडाशैः सहापि वा पुरस्तादुत्तमस्य रात्रिपर्यायस्य
मूलम्
तार्तीयसवनिकैर्वा पुरोडाशैः सहापि वा पुरस्तादुत्तमस्य रात्रिपर्यायस्य
English
Along with the Savanīyapuroḍāśas for the third pressing or before the last nocturnal round.
विश्वास-प्रस्तुतिः
त्रिवृद्वै स्तोमानामवमस्त्रिवृत्परम इत्यतिरात्रब्राह्मणमेवैतद्भवत्यथेयँ सौत्रामणिकी सुरा पादकिण्वा वा भवत्यपि वा पञ्चिका
मूलम्
त्रिवृद्वै स्तोमानामवमस्त्रिवृत्परम इत्यतिरात्रब्राह्मणमेवैतद्भवत्यथेयँ सौत्रामणिकी सुरा पादकिण्वा वा भवत्यपि वा पञ्चिका
English
“Trivṛt is the first among the Stomas, Trivṛt the last”38 -this Brāhmaṇa-injunction relates to the Atirātra.
सौत्रामणी
English
“The Surā to be prepared for the Sautrāmani contains the grains as one fourth part or one fifth part,
विश्वास-प्रस्तुतिः
शष्पाणि च तोक्माणि चेति
मूलम्
शष्पाणि च तोक्माणि चेति
English
sprouting grass and young blades” :
विश्वास-प्रस्तुतिः
यवानामु ह शष्पाणि भवन्ति व्रीहीणामु ह तोक्माणि माषास्तु नग्नहुरथायं कारोतरो दारुमयो वा वैदलो वा मृन्मयो वा चर्मणा त्वेवाभिविदि स्यादयँसुतासुतीति
मूलम्
यवानामु ह शष्पाणि भवन्ति व्रीहीणामु ह तोक्माणि माषास्तु नग्नहुरथायं कारोतरो दारुमयो वा वैदलो वा मृन्मयो वा चर्मणा त्वेवाभिविदि स्यादयँसुतासुतीति
English
The sprouting grass is of barley and young blades are of paddy. Beans are intended for fermentation. Now this filtering basket is wooden or of split bamboo or earthen; it has however a leather spread over it. This (sacrificer) is one who has pressed Sorna and who has also filtered wine.
विश्वास-प्रस्तुतिः
सुतमु हास्यामुत्र भवत्यासुतमु हास्येह भवत्यथास्मिन्दाक्षायणयज्ञे कुर्यादुपाँशुयाजमिति २२
मूलम्
सुतमु हास्यामुत्र भवत्यासुतमु हास्येह भवत्यथास्मिन्दाक्षायणयज्ञे कुर्यादुपाँशुयाजमिति २२
English
The pressing leads him to the younder world; the filtering of wine grants him welfare here. Now in this Dākṣāyaṇayajña one should offer the Upāṁśuyāja.
एकादशिनी
विश्वास-प्रस्तुतिः
अथास्यामेकादशिन्यां यूपाहुतिस्तन्त्रं याग्नौ हूयतेऽथाव्रश्चनजा सञ्चारिणी
मूलम्
अथास्यामेकादशिन्यां यूपाहुतिस्तन्त्रं याग्नौ हूयतेऽथाव्रश्चनजा सञ्चारिणी
English
Now in this Ekādaśinī the offering of clarified butter related to the cutting of the sacrificial post which is to be offered on the fire is to be offered combinedly. The offering which pertains to the cutting of the tree is of course a separate one.
विश्वास-प्रस्तुतिः
सँस्पर्शकं कर्म तद्भवत्यग्निष्ठां प्रथमस्याश्रिँ सकृदाहन्याद्द्विर्द्वितीयस्य त्रिस्तृतीयस्यैवमेवेतरेषामनुपूर्वं छेदनज्ञायाय चाथ वेदिविमानं दशानां च रथाक्षाणामेकादशानां च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत

That action concerns direct touching. One should strike once the corner of the post facing the fire in respect of the first tree; twice of the second; thrice of the third; in this manner serially also of the other trees for isolation. Now the measuring of the Vedi. One should take up the twenty-fourth part of the total length of ten axles of a chariot, eleven Padas and eight Angulas.
विश्वास-प्रस्तुतिः
स प्रक्रमः स्यात्
मूलम्
स प्रक्रमः स्यात्
English
This is the Prakrama.
विश्वास-प्रस्तुतिः
तेन वेदिं विमिमीताथेमावुपस्थावानौ चतुरङ्गुलमात्रेण विकृष्टतमौ स्याताम्
मूलम्
तेन वेदिं विमिमीताथेमावुपस्थावानौ चतुरङ्गुलमात्रेण विकृष्टतमौ स्याताम्
English
One should measure the Vedi with this measurement. The two neighbouring posts (standing on both sides of the central post) should be at a distance of four Aṅgulas (from the central post).
विश्वास-प्रस्तुतिः
अथेतरे रथाक्षान्तराला एव स्युरित्यथ वै भवत्युपरसम्मितां मिनुयात्पितृलोककामस्येति
मूलम्
अथेतरे रथाक्षान्तराला एव स्युरित्यथ वै भवत्युपरसम्मितां मिनुयात्पितृलोककामस्येति
English
The others should each be at a distance of the axle of a chariot. It is indeed said, “For one desiring to attain the Pitr̥loka one should erect the eleven posts by the variation of the height of a post to be buried underground”39 :
विश्वास-प्रस्तुतिः
यावत्यग्निष्ठस्योपर तावन्मात्रा इतरे भवन्ति
मूलम्
यावत्यग्निष्ठस्योपर तावन्मात्रा इतरे भवन्ति
English
The other posts should be of the height equal to the height of the post standing in front of the fire excluding the part to be buried.
विश्वास-प्रस्तुतिः
चषालसम्मितामिन्द्रि यकामस्येति यावदग्निष्ठस्य रशना तावन्मात्रा इतरे भवन्ति
मूलम्
चषालसम्मितामिन्द्रि यकामस्येति यावदग्निष्ठस्य रशना तावन्मात्रा इतरे भवन्ति
English
“For one desiring power their height should be equal to its height excluding the Caṣāla.”39 For others the height should be equal to the point of the cord wound round.
विश्वास-प्रस्तुतिः
सर्वान्समान्प्रतिष्ठाकामस्येति सर्वान्समान्प्रतिष्ठाकामस्य करोति
मूलम्
सर्वान्समान्प्रतिष्ठाकामस्येति सर्वान्समान्प्रतिष्ठाकामस्य करोति
English
“For the sacrificer desiring stability one should make all equal in height.”39 One should prepare all posts equal in height for one desiring stability.
विश्वास-प्रस्तुतिः
ये त्रयो मध्यमास्तान्समान्पशुकामस्येति तान्समान्पशुकामस्य करोति
मूलम्
ये त्रयो मध्यमास्तान्समान्पशुकामस्येति तान्समान्पशुकामस्य करोति
English
“For the sacrificer desiring cattle one should prepare the middle three as equal.”39 One should make them equal in height for one desiring cattle.
विश्वास-प्रस्तुतिः
व्यतिषजेदितरानिति स एवमेव दक्षिणमुत्तरमित्यष्टौ यूपान्व्यतिषजत्यथ वै भवति
मूलम्
व्यतिषजेदितरानिति स एवमेव दक्षिणमुत्तरमित्यष्टौ यूपान्व्यतिषजत्यथ वै भवति
English
“He should interlink the others.” In this very manner he should interlink the eight posts-first the southern one, then the northern one. It is indeed said,
विश्वास-प्रस्तुतिः
यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथ ह्रसीयाँसमित्युत्तरार्ध्यमत्र वर्षिष्ठं मिनोति दक्षिणार्ध्यं ह्रसीयाँसम्
मूलम्
यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथ ह्रसीयाँसमित्युत्तरार्ध्यमत्र वर्षिष्ठं मिनोति दक्षिणार्ध्यं ह्रसीयाँसम्
English
“In respect of one whom he thinks that he may die, one should erect the posts in the manner of the funeral place, the northern one as the highest and (the southern one) as the lower one.39 He erects the northern one to be the highest, and the southern one to be the lower one.
विश्वास-प्रस्तुतिः
एष वै गर्तमिद्यस्यैवं मिनोति ताजक्प्रमीयत इति ब्राह्मणं दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाँसमिति २३
मूलम्
एष वै गर्तमिद्यस्यैवं मिनोति ताजक्प्रमीयत इति ब्राह्मणं दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाँसमिति २३
English
This is the pattern of the funeral place. The sacrificer for whom one erects in this manner, expires instantly,” so is it said. “For the sacrificer desiring heaven, one should erect the southern one to be the highest, (the northern one) as the lower one.”39
२४
विश्वास-प्रस्तुतिः
अङ्गुष्ठपर्वमात्रेणाङ्गुष्ठपर्वमात्रेणोत्तरमुत्तरं यूपँह्रसीयाँसं मिनुयादपि वा यूपावटानामेवैता मात्रा अतिखनेद्कथमु खलु यूपावटाँ श्च परिलिखतो यूपाँश्चोच्छ्रयतः पशूँश्चोपाकुर्वतः सञ्चरी स्यादित्यन्तरेणाग्निष्ठं चोपस्थावानं चोपातीत्य जघनेनोत्तरवेदिं परिक्रम्यान्तरेणाग्निष्ठं चैवोपस्थावानं चोपातीत्यैकैकं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वापि वा यंयं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वा तन्तं न व्यवेयाद्दक्षिणेन दक्षिणमुत्तरेणोत्तरम्

One should erect each northern post successively lower by the phalanx of the thumb. Alternatively one should dig out the holes for the posts successively deeper by that measure. Or while laying down the lying post (upasaya) one may adjust those measurements. What should be the route[^1-1695] of one tracing around the holes for posts, erecting the posts and dedicating the animals? One should pass between the post in front of the fire and its neighbouring post, pass around along the rear of the Uttaravedi, pass between the post in front of the fire and the (second) neighbour- ing post, and trace around the holes one by one, erect the posts one by one, and dedicate the animals one by one. Or one should not pass along the south of the southern one and along the north of the northern one, (the hole) which one may trace around (the post) which one may erect and (the animal) which one may dedicate.
विश्वास-प्रस्तुतिः
अपि वा सर्वानेवाग्रेण यूपान्परीत्यैकैकं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वा
मूलम्
अपि वा सर्वानेवाग्रेण यूपान्परीत्यैकैकं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वा
English
Or having gone around along the front of all posts, he should trace around the holes for posts one by one, erect the posts one by one and dedicate the animals one by one.
विश्वास-प्रस्तुतिः
व्यतिषङ्गं तेन पूर्वाः सम्पद्यन्त एवं व्यतिषक्तानामेवैतेषां पशूनां पञ्च दक्षिणार्ध्यान्पशूनुपक्रम्यैव स्थापयेयुर्
मूलम्
व्यतिषङ्गं तेन पूर्वाः सम्पद्यन्त एवं व्यतिषक्तानामेवैतेषां पशूनां पञ्च दक्षिणार्ध्यान्पशूनुपक्रम्यैव स्थापयेयुर्
English
Thereby they act facing east so as to be connected mutually. Out of these animals mutually connected, one should begin with the five southern animals and make them stand.
विश्वास-प्रस्तुतिः
वारुणं प्रथममत्यानयेयुरथानुपूर्वमितरान्
मूलम्
वारुणं प्रथममत्यानयेयुरथानुपूर्वमितरान्
English
The animal to Varuṇa should be first carried beyond; successively the others.
विश्वास-प्रस्तुतिः
अन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य प्रस्थान्वा निहन्युरपि वा मण्डलीकृतांस्तेषां वपा उत्खिद्याहरेयुर्यथा वपाभिर्विहारं चात्मानं च न व्यवेयुरथायं पात्नीवतोऽङ्गुष्ठपर्वमात्रेणोत्तरार्ध्याद्यूपाद्ध्रसीयान्स्यादपि वा यथाब्राह्मणमवाङ्नाभिमचषालमनवस्तीर्णम्

Having led towards the north between the Cātvāla and the rubbish-heap, they should immolate them in the same order or circularly arranged. Their omenta should be extracted out and should be brought in such a way that the omenta do not intervene between the sanctuary of fires and himself. The post for the Pātnīvata animal should be shorter by a phalanx of the thumb than the northern post. Or it may be, as prescribed in the Brāhmaṇa, with its navel below, without the Caṣāla and not strewn.
सर्पाणाम् अयनम्
विश्वास-प्रस्तुतिः
अथेदँसर्पाणामयनँस्तोमतो विकृतं भवत्यथेदं विश्वसृजामयनं कथमिदानीन्तनेषु स्यादिति
मूलम्
अथेदँसर्पाणामयनँस्तोमतो विकृतं भवत्यथेदं विश्वसृजामयनं कथमिदानीन्तनेषु स्यादिति
English
The Sarpāṇām Ayana is characterised with Stotras having modified Stomas.
विश्वसृजाम् अयनम्
English
How is the Viśvasṛjām Ayana possible with the present generation?
विश्वास-प्रस्तुतिः
शतं दीक्षाः शतमुपसदः सहस्रं प्रसुतः २४
मूलम्
शतं दीक्षाः शतमुपसदः सहस्रं प्रसुतः २४
English
There should be a hundred Dikṣa-days, a hundred Upasad-days and a thousand pressing days.
२५ कुण्डपायिनाम् अयनम्
विश्वास-प्रस्तुतिः
अथेदं कुण्डपायिनामयनमग्निहोत्रपूर्वमेके ब्रुवते सोमपूर्वमुपयन्ति
मूलम्
अथेदं कुण्डपायिनामयनमग्निहोत्रपूर्वमेके ब्रुवते सोमपूर्वमुपयन्ति
English
Some teachers understand this Kuṇḍapāyinām Ayana as beginning with Agnihotra-offering. Others understand it as commencing with Soma-sacrifice.
विश्वास-प्रस्तुतिः
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसन्ततिं कृत्वा ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्य्

The Arambhaṇīya day should be concluded with Patnīsaṁyājas or the discarding of the heart-spike; Soma (-bundles) should be fastened, (old) Vasatīvarī waters should be added to the water, the continuity of the Ahīna-sacrifice should be formally accomplished, pressing stones and wooden goblets should be washed, the woollen filter and the fringe should be put into the wooden trough, and they should move to the Āgnīdhra-chamber. The firestick-fetchers proceed.
विश्वास-प्रस्तुतिः
आहृत्य समिध आहवनीय उपसादयन्ति
मूलम्
आहृत्य समिध आहवनीय उपसादयन्ति
English
Having fetched fire-sticks, they put them down by the side of the Āhavanīya.
विश्वास-प्रस्तुतिः
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूत आमावास्येन हविषा यजते
मूलम्
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूत आमावास्येन हविषा यजते
English
Vasatīvarī wates are carried around, the Subrahmaṇyā is invoked, the fire-sticks relating to the sleeping at night are offered, sacrificial grass and faggot are tied, no instructions are given pertaining to the milks, and they keep waiting. Next day the Adhvaryu performs the New-moon sacrifice.
विश्वास-प्रस्तुतिः
तत्र न स्तम्बयजुर्हरति
मूलम्
तत्र न स्तम्बयजुर्हरति
English
Herein he does not carry the Stambayajus.
विश्वास-प्रस्तुतिः
त एवमेवाहरहर्वसतीवरीः परिहरमाणा अष्टाविँशतिमहान्यामावास्येन हविषा यजन्ते
मूलम्
त एवमेवाहरहर्वसतीवरीः परिहरमाणा अष्टाविँशतिमहान्यामावास्येन हविषा यजन्ते
English
In this way carrying around the Vasatīvarī waters every day, they go on performing the New-moon sacrifice for twenty-eight days.
विश्वास-प्रस्तुतिः
नाग्निहोत्राणि जुह्वति न पौर्णमासीं यजन्ते
मूलम्
नाग्निहोत्राणि जुह्वति न पौर्णमासीं यजन्ते
English
They do not offer Agnihotra; nor do they perform the Full-moon sacrifice.
विश्वास-प्रस्तुतिः
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
मूलम्
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
English
When one spreads fires on the Dhiṣṇiyas for the third pressing, he keeps the fire on the Mārjālīya Dhiṣṇiya lasting.
विश्वास-प्रस्तुतिः
समासन्नेषु हविःषु गार्हपत्ये करम्भपात्राण्यभि पर्यग्नि कृत्वा तैर्मार्जालीये प्रचरति
मूलम्
समासन्नेषु हविःषु गार्हपत्ये करम्भपात्राण्यभि पर्यग्नि कृत्वा तैर्मार्जालीये प्रचरति
English
After the oblations have been placed within the altar, he carries a firebrand around the Karambha-pots over the Gārhapatya, and offers them on the Mārjälīya fire.
विश्वास-प्रस्तुतिः
गार्हपत्य एव पिण्डपितृयज्ञँश्रपयित्वा तेन मार्जालीय एव प्रचरति
मूलम्
गार्हपत्य एव पिण्डपितृयज्ञँश्रपयित्वा तेन मार्जालीय एव प्रचरति
English
Having cooked rice for the Pindapitṛyajña over the Gārhapatya, he offers it on the Marjaliya fire.
विश्वास-प्रस्तुतिः
प्रतिपूरुषमुवेवैषां प्रवरान्प्रवृणीत एकैकस्यैवैषां त्रयस्त्रयः पिण्डास्
मूलम्
प्रतिपूरुषमुवेवैषां प्रवरान्प्रवृणीत एकैकस्यैवैषां त्रयस्त्रयः पिण्डास्
English
The Adhvaryu should pronounce the Pravaras of each of the (five)40 participants. For each one there are three balls (of cooked rice).
विश्वास-प्रस्तुतिः
ते पञ्चदश
मूलम्
ते पञ्चदश
English
They number fifteen.
विश्वास-प्रस्तुतिः
महापितृयज्ञे स्तीर्णं बर्हिर्भवति न वेदिमालिखति न स्तम्बयजुर्हरति नाज्यानि गृह्णीते
मूलम्
महापितृयज्ञे स्तीर्णं बर्हिर्भवति न वेदिमालिखति न स्तम्बयजुर्हरति नाज्यानि गृह्णीते
English
In the Mahāpitṛyajña the sacrificial grass is already spread (within the altar); the Adhvaryu does not dig out the altar; he does not carry the Stambayajus, he does not take up clarified butter (into the ladles).
विश्वास-प्रस्तुतिः
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
मूलम्
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
English
When he spreads fires over the Dhiṣṇiyas for the third pressing, he keeps the Mārjālīya fire lasting.
विश्वास-प्रस्तुतिः
समासन्नेषु हविःषु गार्हपत्ये महापितृयज्ञहवीँषि श्रपयित्वा तैर्मार्जालीये प्रचरेदाहवनीये मारुत्या प्रचरेदन्तमेवावभृथः परीयाद्वितृतीया वेदिर्भवति प्रक्रमाणामु ह तृतीयं नवमस्तु भूमेर्भागो भवतीति २५

After the oblations have been placed within the altar, having cooked the oblations for the Mahāpitṛyajña over the Gārhapatya, he offers them on the Mārjālīya fire. He offers (the Āmikṣā) for the Maruts on the Āhavanīya. The Avabhṛtha rite should be gone through. The Vedi is one third in area. One third of a Prakrama should be adopted. The ground covered is the ninth part.
२६ उत्सर्गिणामयनम्, तपश्चिताम् अयनम्
विश्वास-प्रस्तुतिः
अथ पञ्चहविषमिष्टिमिष्ट्वान्वहं पुनरावृत्तमेकैकेन हविषा यजेतैकं चेद्द्वे वा हविषी पर्यवेते स्यातामथ संवत्सरः समाप्येत कथं तत्र कुर्यादिति
मूलम्
अथ पञ्चहविषमिष्टिमिष्ट्वान्वहं पुनरावृत्तमेकैकेन हविषा यजेतैकं चेद्द्वे वा हविषी पर्यवेते स्यातामथ संवत्सरः समाप्येत कथं तत्र कुर्यादिति
English
Having performed the Iṣṭi of five oblations, one should go on repeating the Iṣṭi by offering successively one oblation each day. Supposing the year comes to a conclusion after one or two oblations have been offered, how should one act?
विश्वास-प्रस्तुतिः
प्रतिकृष्यैतस्य पक्षस्य पञ्चहविषमिष्टिं निर्वपेदथ संवत्सरतमेऽह्नि पञ्चहविः स्यादिति
मूलम्
प्रतिकृष्यैतस्य पक्षस्य पञ्चहविषमिष्टिं निर्वपेदथ संवत्सरतमेऽह्नि पञ्चहविः स्यादिति
English
He should bring the fortnight to a close and perform the Iṣṭi of five oblations. Thus the Işţi of five oblations will take place on the last day of the year.
विश्वास-प्रस्तुतिः
प्रथमे द्वादशाहेऽग्निं चिन्वीतेति
मूलम्
प्रथमे द्वादशाहेऽग्निं चिन्वीतेति
English
“In the first Dvādaśāha sacrifice one should pile up the fire”:
विश्वास-प्रस्तुतिः
प्रथमे द्वादशाहेऽग्निं चिन्वानश्चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमयाष्टाहोनँसंवत्सरमुत्तमयाथेतराँश्चतुरहोनाँ श्चतुरहोनानेकैकया चतुरश्चतुरो मासान्प्रत्याददीत
मूलम्
प्रथमे द्वादशाहेऽग्निं चिन्वानश्चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमयाष्टाहोनँसंवत्सरमुत्तमयाथेतराँश्चतुरहोनाँ श्चतुरहोनानेकैकया चतुरश्चतुरो मासान्प्रत्याददीत
English
one, who is going to pile up fire in the first Dvādaśäha sacrifice, should perform the first Upasad rite for four days, the middle one for four days, and the last one for a year less by eight days. In regard to the other years each less by four days, one should adjust the Upasads with four months each less by four days.
विश्वास-प्रस्तुतिः
चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयापि वा चतुरश्चतुर एव मासानेकैकयोपसदा गच्छेदित्युत्तमे द्वादशाहेऽग्निं चिन्वीतेत्युत्तमे द्वादशाहेऽग्निं चिन्वानोऽष्टाहोनँसंवत्सरं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयाथेतराँश्चतुरहोनानेकैकया चतुरश्चतुरहोनान्मासान्प्रत्याददीत

For four days one should perform the first Upasad, next four days the middle one and the next four days the last one. Or one may perform each Upasad rite for each four months. “One should pile up the fire in the last Dvādašāha”: one who is going to pile up the fire in the last Dvādasäha sacrifice, should go on performing the first Upasad rite for a year less by eight days, four days the middle one, and four days the last one. In regard to the other years each one less by four days, one should adjust the Upasads with four months each less by four days.
विश्वास-प्रस्तुतिः
चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयापि वा चतुरश्चतुर एव मासानेकैकयोपसदा गच्छेदिति २६
मूलम्
चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयापि वा चतुरश्चतुर एव मासानेकैकयोपसदा गच्छेदिति २६
English
For four days one should perform the first Upasad, next four days the middle one and the next four days the last one. Or one may perform each Upasad rite for four months each.
२७ अहरहश्चयनम्
विश्वास-प्रस्तुतिः
अथ लोकम्पृणा इष्टका उपदधन्मासमेतीति
मूलम्
अथ लोकम्पृणा इष्टका उपदधन्मासमेतीति
English
“For one month one goes on piling the Lokampṛṇā bricks”:
विश्वास-प्रस्तुतिः
लोकम्पृणा इष्टका उपदधन्मासं गत्वा त्रिँशत्तमस्यामहः सर्वं प्रच्छादं प्रच्छादयेदपि वा त्रिँशतोऽवकाशं कृत्वा लोकम्पृणा इष्टका उपदधन्मासमेतीति
मूलम्
लोकम्पृणा इष्टका उपदधन्मासं गत्वा त्रिँशत्तमस्यामहः सर्वं प्रच्छादं प्रच्छादयेदपि वा त्रिँशतोऽवकाशं कृत्वा लोकम्पृणा इष्टका उपदधन्मासमेतीति
English
having gone over a month piling up Lokampṛṇā bricks, one should pile up the entire area on the thirtieth day. Or leaving away on the first day adequate space for the bricks to be piled up on the remaining twentynine days, one piles up on the first day and goes on piling suitably upto the end of the month.
विश्वास-प्रस्तुतिः
कथमेतं मासं गच्छेदितीष्टिः प्रथमाथ पूर्वाह्णिके प्रवर्ग्योपसदावथेष्टका अथापराह्णिके प्रवर्ग्योपसदौ मासि वसोर्धारेति
मूलम्
कथमेतं मासं गच्छेदितीष्टिः प्रथमाथ पूर्वाह्णिके प्रवर्ग्योपसदावथेष्टका अथापराह्णिके प्रवर्ग्योपसदौ मासि वसोर्धारेति
English
How should one pass the month? Iṣṭi at the beginning, then the morning Pravargya and Upasad, then the bricks, then the afternoon Pravargya and Upasad, and Vasor dhārā at the end of the month.
विश्वास-प्रस्तुतिः
मासं पुरीषेण यन्तीति
मूलम्
मासं पुरीषेण यन्तीति
English
They pass on a month by piling earth.
विश्वास-प्रस्तुतिः
कथमेतं मासं गच्छेदितीष्टिः प्रथमाथ पूर्वाह्णिके प्रवर्ग्योपसदावथ पुरीषमथापराह्णिके प्रवर्ग्योपसदौ
मूलम्
कथमेतं मासं गच्छेदितीष्टिः प्रथमाथ पूर्वाह्णिके प्रवर्ग्योपसदावथ पुरीषमथापराह्णिके प्रवर्ग्योपसदौ
English
How should one pass the month? Iṣṭi at the beginning, then the morning Pravargya and Upasad, then the earth, then the afternoon Pravargya and Upasad.
विश्वास-प्रस्तुतिः
चतुरो मास उपसद्भिरेतीति
मूलम्
चतुरो मास उपसद्भिरेतीति
English
One goes on performing the Upasad rite for four months.
विश्वास-प्रस्तुतिः
यदमुत्र मासेन करोति तदिह दशरात्रेण करोति
मूलम्
यदमुत्र मासेन करोति तदिह दशरात्रेण करोति
English
The rites which are performed there41 in a month are performed here for ten days.
विश्वास-प्रस्तुतिः
चतुरो मासः सुनोतीति
मूलम्
चतुरो मासः सुनोतीति
English
One presses Soma for four months:
विश्वास-प्रस्तुतिः
कतमे नु खल्विमे मासा भवन्तीति
मूलम्
कतमे नु खल्विमे मासा भवन्तीति
English
which are these months?
विश्वास-प्रस्तुतिः
गवामयनस्य प्रथमोत्तमौ च मासौ यौ चाभितो विषुवतः सह वैषुवतेन
मूलम्
गवामयनस्य प्रथमोत्तमौ च मासौ यौ चाभितो विषुवतः सह वैषुवतेन
English
The first and the last months of the Gavām Ayana and the two on both sides of the Viṣuvat together with the Vaișuvata day.
उपरिष्टान्मासम्, पुरस्तान्मासम्, ब्रह्मणोऽयनम्
विश्वास-प्रस्तुतिः
वसतीवरीषु मृत्पिण्डमन्ववधायेति
मूलम्
वसतीवरीषु मृत्पिण्डमन्ववधायेति
English
“Having put down a lump of clay into the Vasatīvarī waters” :
विश्वास-प्रस्तुतिः
किमर्थो नु खल्वयं मृत्पिण्डो भवतीति
मूलम्
किमर्थो नु खल्वयं मृत्पिण्डो भवतीति
English
What is the purpose of the lump of clay?
विश्वास-प्रस्तुतिः
सन्तन्यर्थ एष भवतीति
मूलम्
सन्तन्यर्थ एष भवतीति
English
It is meant for continuity.
विश्वास-प्रस्तुतिः
भिन्ने कुम्भेऽन्यस्मिन्कुम्भ एतं मृत्पिण्डमन्ववधायाप आनयेत्
मूलम्
भिन्ने कुम्भेऽन्यस्मिन्कुम्भ एतं मृत्पिण्डमन्ववधायाप आनयेत्
English
If the pitcher (in which the lump was put) breaks off, one should put the lump in another pitcher and bring waters.
विश्वास-प्रस्तुतिः
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसन्ततिं कृत्वा ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति
मूलम्
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसन्ततिं कृत्वा ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति
English
One should conclude the procedure of that day with Patnīsaṁyājas or with the disposal of the heart-spike, Soma (-bundles) should be fastened, old Vasatīvarī waters should be added to the new one, accomplish the continuity of the Ahīna sacrifice, pressing stones and wooden goblets should be washed, the woollen filter and the fringe should be put into the wooden trough, and the Adhvaryu should enter the Āgnīdhra chamber; the firestick-fetchers should go out. Having fetched the firesticks, they should put them down by the side of the Āhavanīya.
विश्वास-प्रस्तुतिः
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजन्ते
मूलम्
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायाँसंवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्याविशिष्य पयाँस्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजन्ते
English
The Vasatīvarī waters should be carried around; the Subrahmaṇya should be invoked; the Adhvaryu should put on the fire the firesticks relating to sleeping at night, should fasten the sacrificial grass and faggot; he should not give instructions relating to the milks, and they keep waiting. The next day the Savaneṣṭi should be performed.
विश्वास-प्रस्तुतिः
तत्र न स्तम्बयजुर्हरति
मूलम्
तत्र न स्तम्बयजुर्हरति
English
Herein he should not carry the Stambayajus.
विश्वास-प्रस्तुतिः
त एवमेवाहरहर्वसतीवरीः परिहरमाणाः संवत्सरँसवनेष्ट्या यजन्ते
मूलम्
त एवमेवाहरहर्वसतीवरीः परिहरमाणाः संवत्सरँसवनेष्ट्या यजन्ते
English
In this way, carrying around the Vasatīvarī waters every day, they go on performing the Savaneṣṭi for a year.
विश्वास-प्रस्तुतिः
नाग्निहोत्राणि जुह्वति न दर्शपूर्णमासाभ्यां यजन्तेऽथ संवत्सरतम्यां पर्यवेतायां परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायामहरहः संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः सन्नह्य पयाँसि विशिष्योपवसन्त्यथ श्वो भूतेऽभिजितेष्ट्वोत्तिष्ठन्ति २७

They do not offer the Agnihotras, nor do they perform the Full-moon and New-moon sacrifices. After (the Savaneṣṭi) of the last day of the year has passed over, the Vasatīvarī waters should be carried around, the Subrahmaṇya should be invoked, fire-sticks relating to sleeping at night should be put every day, sacrificial grass and faggot should be fastened, instructions pertaining to the milks should be given, and then they keep waiting. Next day they perform the Abhijit sacrifice and rise from the sacrificial session.
२८ वैकल्पिकचितिः
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said in the Brahmaņa;
विश्वास-प्रस्तुतिः
छन्दश्चितं चिन्वीत पशुकाम इत्यभ्र्यादानप्रभृतीन्मन्त्रान्साधयेदा वायव्यात्
मूलम्
छन्दश्चितं चिन्वीत पशुकाम इत्यभ्र्यादानप्रभृतीन्मन्त्रान्साधयेदा वायव्यात्
English
“One who is desirous of cattle, should pile up Chandaściti.”42 One should (merely) pronounce the formulas beginning with the one for taking up the hoe and ending with that pertaining to the animal for Vāyu.
विश्वास-प्रस्तुतिः
स प्रत्यक्षं वायव्येन पशुना यजेत प्रत्यक्षं दीक्षणीययोखाप्रवृञ्जनप्रभृतीन्मन्त्रान्साधयेदा वात्सप्रविष्णुक्रमेभ्यः
मूलम्
स प्रत्यक्षं वायव्येन पशुना यजेत प्रत्यक्षं दीक्षणीययोखाप्रवृञ्जनप्रभृतीन्मन्त्रान्साधयेदा वात्सप्रविष्णुक्रमेभ्यः
English
One should actually offer the animal to Vāyu, actually perform the Dīkṣanīyeṣṭi. One should pronounce the formulas beginning with that for baking the cauldron upto the Viṣṇukrama and Vātsapra.43
विश्वास-प्रस्तुतिः
प्रत्यक्षं वात्सप्रविष्णुक्रमैः क्रमित्वा निगदेदेवेतरान्मन्त्रान्
मूलम्
प्रत्यक्षं वात्सप्रविष्णुक्रमैः क्रमित्वा निगदेदेवेतरान्मन्त्रान्
English
he sacrificer should actually stride the Viṣṇu-strides44 and pray with the Vātsapra Anuvāka and merely pronounce the other formulas.
विश्वास-प्रस्तुतिः
विहरेदग्निं रूपाणि दर्शयेद्गच्छेदिरिणं तत्र नैरृतान्मन्त्रान्निगदेत्
मूलम्
विहरेदग्निं रूपाणि दर्शयेद्गच्छेदिरिणं तत्र नैरृतान्मन्त्रान्निगदेत्
English
He should spread out the fire; should refer to the various forms of Agni. One should go to a desert place; and should pronounce there the formulas addressed to Nirṛti.44
विश्वास-प्रस्तुतिः
स प्रत्यक्षं गार्हपत्यमुपतिष्ठेत
मूलम्
स प्रत्यक्षं गार्हपत्यमुपतिष्ठेत
English
The sacrificer should actually pray to the Gārhapatya;
विश्वास-प्रस्तुतिः
प्रत्यक्षं प्रायणीयया
मूलम्
प्रत्यक्षं प्रायणीयया
English
should actually perform the Prāyaṇīyeṣṭi
विश्वास-प्रस्तुतिः
प्रत्यक्षमातिथ्यया
मूलम्
प्रत्यक्षमातिथ्यया
English
and the Ātithya.
विश्वास-प्रस्तुतिः
कार्ष्णाजिनीप्रभृतीन्मन्त्रान्साधयेदा कर्षणवपनाभ्याम्प्रत्यक्षं कर्षणवपने
मूलम्
कार्ष्णाजिनीप्रभृतीन्मन्त्रान्साधयेदा कर्षणवपनाभ्याम्प्रत्यक्षं कर्षणवपने
English
He should pronounce the formulas beginning with those for wearing the footwear made of the skin of black antelope upto those for tilling and sowing.45 Tilling and sowing should be actually done.
विश्वास-प्रस्तुतिः
प्रथमां चितिँसपुरीषां निगदेद्
मूलम्
प्रथमां चितिँसपुरीषां निगदेद्
English
He should pronounce all the formulas related to the piling of the first layer together with the spreading of earth.
विश्वास-प्रस्तुतिः
एवं द्वितीयामेवं तृतीयां सर्वां चितिँसपुरीषाँसवण्डां चितिँसपुरीषां निगदेद्या अहान्तःशालीका आहुतयः स्युर्जुहुयादेव ता अथ य औत्तरवेदिका मन्त्राः स्युर्निगदेदेव तान् २८
मूलम्
एवं द्वितीयामेवं तृतीयां सर्वां चितिँसपुरीषाँसवण्डां चितिँसपुरीषां निगदेद्या अहान्तःशालीका आहुतयः स्युर्जुहुयादेव ता अथ य औत्तरवेदिका मन्त्राः स्युर्निगदेदेव तान् २८
English
Similarly the second layer, similarly the third. He should pronounce the formulas related to all layers and also the Vanḍaciti together with the spreading of earth. He should however actually offer those offerings which may intervene the Soma-days. He should merely pronounce those formulas which pertain to the Uttaravedi.
२९
विश्वास-प्रस्तुतिः
अग्निहोत्रं वै दशहोतुर्निदानं दर्शपूर्णमासौ चतुर्होतुरित्येक आनुपूर्व्यं ब्रुवतेऽथाप्युदाहरन्त्याग्न्याधेयं पूर्वस्यां ततावेकादशप्रयाजँसर्व ँ! सहोत्पन्नम्
मूलम्
अग्निहोत्रं वै दशहोतुर्निदानं दर्शपूर्णमासौ चतुर्होतुरित्येक आनुपूर्व्यं ब्रुवतेऽथाप्युदाहरन्त्याग्न्याधेयं पूर्वस्यां ततावेकादशप्रयाजँसर्व ँ! सहोत्पन्नम्
English
Agnihotra is the source of Daśahotṛ-formulas; Full-moon and New-moon sacrifices of the Caturhotṛ-some teachers propose such order. It is also said, the setting up of fires is prescribed in the first series; all rituals involving the offering of eleven Prayājas are homogeneous;
विश्वास-प्रस्तुतिः
ऋतवः षड्ढोतेति
मूलम्
ऋतवः षड्ढोतेति
English
the (six) seasons form the source of the Ṣaḍḍhotr̥-formulas.
विश्वास-प्रस्तुतिः
षाण्मास्य एष पशुबन्ध उक्तो भवत्यथाप्युदाहरन्ति षट्सुषट्सु मासेष्वाहिताग्निना पशुना यष्टव्यं भवत्युभे काष्ठे अभियजेत
मूलम्
षाण्मास्य एष पशुबन्ध उक्तो भवत्यथाप्युदाहरन्ति षट्सुषट्सु मासेष्वाहिताग्निना पशुना यष्टव्यं भवत्युभे काष्ठे अभियजेत
English
the Animal-sacrifice is said as being performed every six months. It is said, an Ahitāgni should perform an Animal-sacrifice every six months. One should perform (the Animal-sacrifices) at both the ends.
विश्वास-प्रस्तुतिः
माघमासे धनिष्ठाभिरुत्तरेणैति भानुमानर्धाश्लेषस्य श्रावणस्य दक्षिणेनोपनिवर्तत इत्येते काष्ठे भवतस्
मूलम्
माघमासे धनिष्ठाभिरुत्तरेणैति भानुमानर्धाश्लेषस्य श्रावणस्य दक्षिणेनोपनिवर्तत इत्येते काष्ठे भवतस्
English
The sun advances (northwards) in the month of Magha towards the north of the constellation Dhaniṣṭha, and comes again (southwards) in the month of Śrāvana towards halfthe advance in the constellation Aśleṣā. They form the two ends of the course of the sun.
विश्वास-प्रस्तुतिः
तदन्ततोऽनीजानस्य संवत्सरो नातीयाद्
मूलम्
तदन्ततोऽनीजानस्य संवत्सरो नातीयाद्
English
The year should not pass without one’s sacrifice by the end.
विश्वास-प्रस्तुतिः
अथ चातुर्मास्येषु सोमेषु पञ्चहोता सप्तहोतु स्थानं प्रत्येत्यथ य एष चातुर्मास्यसंयोजनो निर्मन्थ्य उत्सीदत्येष पशुसंयोजनेव भवति
मूलम्
अथ चातुर्मास्येषु सोमेषु पञ्चहोता सप्तहोतु स्थानं प्रत्येत्यथ य एष चातुर्मास्यसंयोजनो निर्मन्थ्य उत्सीदत्येष पशुसंयोजनेव भवति
English
In the Caturmãsya Somas the Pañcahotr̥-formulas take the place of the Saptahotṛ. The churning out of fire which even though associated with the Cāturmāsya, is excluded herein, is however associated with the ritual of the animal- offering.
विश्वास-प्रस्तुतिः
परिधौ पशून्नियुञ्जीतेति ब्राह्मणमेतद्यूपा एव तदस्माकं भवन्त्यथ महापितृयज्ञे स्तीर्णं बर्हिर्भवति न वेदिमालिखति न स्तम्बयजुर्हरति नाज्यानि गृह्णीते
मूलम्
परिधौ पशून्नियुञ्जीतेति ब्राह्मणमेतद्यूपा एव तदस्माकं भवन्त्यथ महापितृयज्ञे स्तीर्णं बर्हिर्भवति न वेदिमालिखति न स्तम्बयजुर्हरति नाज्यानि गृह्णीते
English
One should fasten the animals to an enclosing stick-this is a Brāhmaṇa injunction. For our sacrifice the animals have the enclosing.stick for the sacrificial post. In the Mahāpitr̥yajña the sacrificial grass is (already) spread out. (Therefore) one does not trace the altar; does not carry the Stambayajus; does not take up clarified butter (into the ladles).
विश्वास-प्रस्तुतिः
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
मूलम्
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
English
When one spreads out fires on the Dhiṣṇiyas at the third pressing, one retains the fire on the Mārjālīya mound.
विश्वास-प्रस्तुतिः
महाहविर्भिश्चरित्वा समासन्नेषु हविःषु गार्हपत्ये महापितृयज्ञहवीँषि श्रपयित्वा तैर्मार्जालीये प्रचरेदाहवनीये मारुत्या प्रचरेदन्तमेवावभृथः परीयात्
मूलम्
महाहविर्भिश्चरित्वा समासन्नेषु हविःषु गार्हपत्ये महापितृयज्ञहवीँषि श्रपयित्वा तैर्मार्जालीये प्रचरेदाहवनीये मारुत्या प्रचरेदन्तमेवावभृथः परीयात्
English
When the Mahāvis sacrifice is being performed, when the oblations have been placed within the altar, one should bake the oblations for the Mahapitryajña over the Gārhapatya, and should offer them on the Mārjälīya fire. One should offer (the Āmikṣā) for the Maruts on the Āhavanīya. The Avabhṛtha rite should be concluded (at the proper time).
विश्वास-प्रस्तुतिः
तस्य प्रथमा चितिः पुरीषवती मन्त्रवती भवतीति
मूलम्
तस्य प्रथमा चितिः पुरीषवती मन्त्रवती भवतीति
English
“His first Citi is provided with a layer of earth and with bricks piled up to the accompaniment of formulas”46 :
विश्वास-प्रस्तुतिः
प्रथमैवास्य चितिः पुरीषवती मन्त्रवती भवत्यथेतरास्तूष्णीका यांयां चितिँ सपुरीषां ब्रुवते सासैवास्य चितिः पुरीषवती मन्त्रवती भवत्यथेतरास्तूष्णीकाः २९
मूलम्
प्रथमैवास्य चितिः पुरीषवती मन्त्रवती भवत्यथेतरास्तूष्णीका यांयां चितिँ सपुरीषां ब्रुवते सासैवास्य चितिः पुरीषवती मन्त्रवती भवत्यथेतरास्तूष्णीकाः २९
English
his first Citi alone is provided with a layer of earth and with bricks piled up to the accompaniment of formulas. Other layers are to be piled up silently. Whichever of the layers is said to have been provided with a layer of earth is provided with a layer of earth and is piled with bricks to the accompaniment of formulas. Other layers are to be piled up silently.
३० एकाहाः
विश्वास-प्रस्तुतिः
अथेम एकाहास्
मूलम्
अथेम एकाहास्
English
Now these Ekāha sacrifices.
विश्वास-प्रस्तुतिः
तेषां यान्यहान्यनादिष्टान्यग्निष्टोमा इत्येव तानि जानीयादथाहीनरात्रिसत्त्रेषु यान्यहान्यनादिष्टान्युक्थ्या इत्येव तानि जानीयाद्माध्यन्दिनीया एवैनं चमसा निमृजन्तो यन्तीति
मूलम्
तेषां यान्यहान्यनादिष्टान्यग्निष्टोमा इत्येव तानि जानीयादथाहीनरात्रिसत्त्रेषु यान्यहान्यनादिष्टान्युक्थ्या इत्येव तानि जानीयाद्माध्यन्दिनीया एवैनं चमसा निमृजन्तो यन्तीति
English
One should understand as Agniṣṭomas those sacrifices out of these whose character is not specificially mentioned. One should understand as Ukthyas those sacrifices among the the Ahīnas and the Rātrisattras whose character is not specifically mentioned. “The goblets pertaining to the midday pressing are passed on after touching”:
विश्वास-प्रस्तुतिः
सदस्यासीनं माध्यन्दिनीया एवैनं चमसा निमृजन्तो यन्ति भक्षार्थाश्चतुर्विँश एष भवति
मूलम्
सदस्यासीनं माध्यन्दिनीया एवैनं चमसा निमृजन्तो यन्ति भक्षार्थाश्चतुर्विँश एष भवति
English
The goblets pertaining to the midday pressing are passed on to the Camasins for consuming after they are touched by the sacrificer seated in the Sadas. This (Bṛhaspatisava) is a Caturviṁśastoma sacrifice.
विश्वास-प्रस्तुतिः
शुक्रामन्थिनोः सँस्रावेणाभिषिञ्चतीति
मूलम्
शुक्रामन्थिनोः सँस्रावेणाभिषिञ्चतीति
English
The Adhvaryu sprinkles (the royal sacrificer) with the remnants of the Śukra and Manthin cups.
विश्वास-प्रस्तुतिः
यजमानायतन आसीनँशुक्रामन्थिनोः सँस्रावँसमानीयाभिषिञ्चति
मूलम्
यजमानायतन आसीनँशुक्रामन्थिनोः सँस्रावँसमानीयाभिषिञ्चति
English
The Adhvaryu brings in the remnants of the Śukra and Manthin cups, and sprinkles with them the sacrificer seated on the sacrificer’s seat.
विश्वास-प्रस्तुतिः
चतुष्टोम एष भवति
मूलम्
चतुष्टोम एष भवति
English
This sacrifice is a Catuṣṭoma (Sthapatisava).
विश्वास-प्रस्तुतिः
सप्त हवीँषि प्रातःसवनीयाननुवर्तन्त इत्याग्नेयोऽष्टाकपालः पौष्णश्चरुः सावित्रो द्वादशकपालस्त्वाष्ट्रोऽष्टाकपालो वारुणो दशकपालो वैश्वदेवश्चरुर्मारुतः सप्तकपाल इत्यष्टौ हवीँषि प्रातःसवनीयाननुवर्तन्त इत्याग्नेयोऽष्टाकपालः सौम्यश्चरुः सावित्रो द्वादशकपालो बार्हस्पत्यश्चरुरग्नीषोमीय एकादशकपालः सारस्वतश्चरुर्वारुणो दशकपालो द्यावापृथिव्य एककपाल इति

Seven oblations follow (the offerings of the Savanīya-puroḍāšas) at the morning pressing (in Sthapatisava): (they are) a cake on eight potsherds to Agni, cooked rice to Puşan, a cake on twelve potsherds to Savitr̥, a cake on eight potsherds to Tvaṣṭr̥, a cake on ten potsherds to Varuṇa, cooked rice to Viśve Devas, and a cake on seven potsherds to Maruts. “Eight oblations follow (the offerings of the Savanīyapuroḍāśas) at the morning pressing (of the Sütasava)”: (they are) a cake on eight potsherds to Agni, cooked rice to Soma, a cake on twelve potsherds to Savitr̥, cooked rice to Bṛhaspati, a cake on eleven potsherds to Agni-soma, cooked rice to Sarasvatī, a cake on ten potsherds to Varuṇa, and a cake on one potsherd to Dyāvāpr̥thivī.
विश्वास-प्रस्तुतिः
यत्किं च राजसूयमृतेसोमं तत्सर्वं भवतीति
मूलम्
यत्किं च राजसूयमृतेसोमं तत्सर्वं भवतीति
English
“Whatever is prescribed in the Rājasūya excepting the Soma-libations, all that is observed in this (Somasava)” :
विश्वास-प्रस्तुतिः
मारुतं चात्रैकविँशतिकपालं प्रतिषेधयत्यौपसदाश्चेष्टीरर्धचतुर्दशैरेष मासैः सन्तिष्ठते
मूलम्
मारुतं चात्रैकविँशतिकपालं प्रतिषेधयत्यौपसदाश्चेष्टीरर्धचतुर्दशैरेष मासैः सन्तिष्ठते
English
here are excluded the cake on twentyone potsherds to Maruts and the Upasad-rites.
विश्वास-प्रस्तुतिः
यत्किं च राजसूयमनुत्तरवेदीकं तत्सर्वं भवतीति
मूलम्
यत्किं च राजसूयमनुत्तरवेदीकं तत्सर्वं भवतीति
English
“Whatever is prescribed in the Rājasūya excepting the ritès pertaining to the Uttaravedi, all that is observed (in this Pṛthisava)”:
विश्वास-प्रस्तुतिः
द्विपशुं चात्र पशुबन्धं प्रतिषेधयति चातुर्मास्यानि चाध्यर्धेनैष मासेन सन्तिष्ठते
मूलम्
द्विपशुं चात्र पशुबन्धं प्रतिषेधयति चातुर्मास्यानि चाध्यर्धेनैष मासेन सन्तिष्ठते
English
The sacrifice of two animals and also the Cāturmāsyas are excluded here. This sacrifice is concluded after one and a half month.
विश्वास-प्रस्तुतिः
सिँहे व्याघ्र उत या पृदाकाविति
मूलम्
सिँहे व्याघ्र उत या पृदाकाविति
English
“(May the divine and fortunate brilliance) which lies in a lion, in a tiger, in a bos constrictor …”:
विश्वास-प्रस्तुतिः
किन्देवत्या उ खल्वियमाहुतिर्भवतीति ३०
मूलम्
किन्देवत्या उ खल्वियमाहुतिर्भवतीति ३०
English
To which divinity this offering is made?
३०
विश्वास-प्रस्तुतिः
इन्द्रा णीदेवतेत्येव ब्रूयात्
मूलम्
इन्द्रा णीदेवतेत्येव ब्रूयात्
English
Indrāṇī, one should say.
विश्वास-प्रस्तुतिः
सप्तदशिना पशुबन्धेनेष्ट्वोखाः सम्भृत्य पशुशीर्षाणि च वायव्येन पशुना यजेतापि वा पुरस्तादेव तूष्णीँसम्भृताः सम्भृत्य मन्त्रवतीं मृदँसम्भृत्य तयानुप्रलिप्य
मूलम्
सप्तदशिना पशुबन्धेनेष्ट्वोखाः सम्भृत्य पशुशीर्षाणि च वायव्येन पशुना यजेतापि वा पुरस्तादेव तूष्णीँसम्भृताः सम्भृत्य मन्त्रवतीं मृदँसम्भृत्य तयानुप्रलिप्य
English
Having performed the sacrifice of seventeen animals, having prepared cauldrons and having procured heads of animals, one should offer an animal to Vāyu (in the Pañcaśaradīya sacrifice). Or one should silently prepare cauldrons, procure earth with the relevant formula and should besmear the cauldrons with it.
विश्वास-प्रस्तुतिः
नियुनक्त्युक्थ्यस्योपयामगृहीतोऽस्यग्नये त्वा बृहद्वते वयस्वत उक्थ्यायुवे यत्ते अग्ने बृहद्वयस्तस्मै त्वा विष्णवे त्वा जुष्टं गृह्णामीति
मूलम्
नियुनक्त्युक्थ्यस्योपयामगृहीतोऽस्यग्नये त्वा बृहद्वते वयस्वत उक्थ्यायुवे यत्ते अग्ने बृहद्वयस्तस्मै त्वा विष्णवे त्वा जुष्टं गृह्णामीति
English
(In the Agniṣṭut sacrifice) the Adhvaryu employs the suitable formula for the Ukthya draught: “Thou art taken with a suspport; for Agni praised with Bṛhatsāman, possessing food, praiseworthy thee; O Agni, I take up the draught dear to thee who hast ample food, and also to Viṣṇu.”
विश्वास-प्रस्तुतिः
परिमृज्य सादयत्येष ते योनिरग्नये त्वोक्थायुव इति
मूलम्
परिमृज्य सादयत्येष ते योनिरग्नये त्वोक्थायुव इति
English
Having wiped around, he places it with the formula, “This is thy birth-place, for praiseworthy Agni thee.”
विश्वास-प्रस्तुतिः
नियुनक्ति ध्रुवस्य मूर्धानं दिवो अरतिं पृथिव्यार्मघवन्तमृताय जातमग्निम्। कविँसम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
मूलम्
नियुनक्ति ध्रुवस्य मूर्धानं दिवो अरतिं पृथिव्यार्मघवन्तमृताय जातमग्निम्। कविँसम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
English
(In the Indrastut sacrifice) he employs the suitable formula for the Dhruva draught. “The head of the heaven, moving on the earth, bountiful, born for the holy order, Agni the sage, the king, the guest of men; the gods have produced as a cup for their mouths.
विश्वास-प्रस्तुतिः
उपयामगृहीतोऽसीन्द्रा य त्वा मघवते जुष्टं गृह्णामीति
मूलम्
उपयामगृहीतोऽसीन्द्रा य त्वा मघवते जुष्टं गृह्णामीति
विश्वास-प्रस्तुतिः
Thou art taken with a support; I take thee dear to bountiful Agni.”47
मूलम्
Thou art taken with a support; I take thee dear to bountiful Agni.”47
विश्वास-प्रस्तुतिः
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा मघवत इति
मूलम्
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा मघवत इति
विश्वास-प्रस्तुतिः
नियुनक्ति पात्नीवतस्योपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्द्रो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णामीन्द्रा ३
पत्नीवा३
इति
मूलम्
नियुनक्ति पात्नीवतस्योपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्द्रो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णामीन्द्रा ३
पत्नीवा३
इति
English
He employs the suitable formula for the Pātnīvata (Indra) draught. “Thou art taken with a support; O Soma, I take thee a draught for Patnīvant Indra out of the powerful Soma pressed for Bṛhaspati, O Patnīvant Indra.”
विश्वास-प्रस्तुतिः
नियुनक्ति हारियोजनस्योपयामगृहीतोऽसि रोहिदसि रोहिद्योजनो रोह्यो स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य रोहिद्वन्तं ग्रहं गृह्णामि रोही स्थ रोह्योर्धानाः सहसोमा अग्नये स्वाहेति ॥

He employs the suitable formula for the Hāriyojana draught. “Thou art taken with a support; thou art ared mare, yoking red mares, the driver of female deers, bearer of a thunderbolt, leader of the spotted deer; O god Soma, I take the draught granting red mares out of thee, offered with a formula, praised with a Stotra, and praised with a Śastra. You are female deers, parched grains for female deers together with Soma. Svāhā to Agni.
विश्वास-प्रस्तुतिः
योऽग्निष्टुतीन्द्र स्पर्शस्तमुत्सादयेद्य इन्द्र स्तुत्यग्निस्पर्शस्तमुत्सादयेद्नित्या अन्या देवताः
मूलम्
योऽग्निष्टुतीन्द्र स्पर्शस्तमुत्सादयेद्य इन्द्र स्तुत्यग्निस्पर्शस्तमुत्सादयेद्नित्या अन्या देवताः
English
He should remove the reference to Agniṣṭut; he should remove the reference to Agni in the Indrastut. Other divinities should stand.
विश्वास-प्रस्तुतिः
किन्देवत्यानि खल्वतिरिक्तस्तोत्राणि भवन्तीत्याश्विनानीत्येव ब्रूयाद्यच्च किं च रात्रिमुपातिरिच्यते सर्वं तदाश्विनमितीन्न्वेकम्
मूलम्
किन्देवत्यानि खल्वतिरिक्तस्तोत्राणि भवन्तीत्याश्विनानीत्येव ब्रूयाद्यच्च किं च रात्रिमुपातिरिच्यते सर्वं तदाश्विनमितीन्न्वेकम्
English
What should be the divinity of the excessive Stotras (in the Aptoryāma sacrifice)? They should be addressed to the Aśvins —one should say. Whatever passes beyond the night, all that belongs to the Aśvins. This is one view.
विश्वास-प्रस्तुतिः
अथापरम्
मूलम्
अथापरम्
English
The other view is:
विश्वास-प्रस्तुतिः
आग्नेयं प्रथममैन्द्रं द्वितीयं वैश्वदेवं तृतीयं वैष्णवं चतुर्थमिति ३१
मूलम्
आग्नेयं प्रथममैन्द्रं द्वितीयं वैश्वदेवं तृतीयं वैष्णवं चतुर्थमिति ३१
English
the first Stotra should be addressed to Agni, the second to Indra, the third is to Viśve Devas and the fourth to Viṣṇu.
३२
विश्वास-प्रस्तुतिः
स ग्रीष्मस्य जघन्याहःसु प्रजहितेषु यवेष्विति
मूलम्
स ग्रीष्मस्य जघन्याहःसु प्रजहितेषु यवेष्विति
English
“In the latter part of the summer after the barley has been abandoned” :
विश्वास-प्रस्तुतिः
प्रमृदितेष्वित्येवेदमुक्तं भवत्यधिकरणेनेत्येवेदमुक्तं भवत्यृत्विजः पदेनाह्वापयतीति तत्पूर्वं वेत्यथैनमभ्यज्य पवयित्वोदानयतीति
मूलम्
प्रमृदितेष्वित्येवेदमुक्तं भवत्यधिकरणेनेत्येवेदमुक्तं भवत्यृत्विजः पदेनाह्वापयतीति तत्पूर्वं वेत्यथैनमभ्यज्य पवयित्वोदानयतीति
English
This means when it has been trampled down. This is with reference to the receptacle (= Sadyaskrī). “He causes the priests to be addressed with the words” : (he does so even beforehand). “He gives (the sacrificer) a bath, purifies him and brings him in”:
विश्वास-प्रस्तुतिः
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादोत्तरस्मादुपघातादेतस्मिँश्च काले त्रीणि बर्हीँषि यजुषा कुर्याद्दीक्षणीयायाः प्रायणीयाया आतिथ्याया इत्य्
मूलम्
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादोत्तरस्मादुपघातादेतस्मिँश्च काले त्रीणि बर्हीँषि यजुषा कुर्याद्दीक्षणीयायाः प्रायणीयाया आतिथ्याया इत्य्
English
the procedure pertaining to the Agniṣṭoma should be as prescribed until the next violation. At this time one should ceremonially procure three sets of sacrificial grass-for the Dīkṣaṇīyeṣṭi, Prāyaṇīyeṣṭi and Ātithyeṣṭi.
विश्वास-प्रस्तुतिः
अथ निर्वपेद्दीक्षणीयां प्रायणीयामातिथ्यादाज्येन वर्तयेद्यावद्र था आगच्छेयुः सहनिरुप्तमाज्यं तिसृषु स्थालीषु विगृह्णीयाद्या दीक्षणीयायै सँस्था तया दीक्षणीयाँसन्तिष्ठापयिषेत्
मूलम्
अथ निर्वपेद्दीक्षणीयां प्रायणीयामातिथ्यादाज्येन वर्तयेद्यावद्र था आगच्छेयुः सहनिरुप्तमाज्यं तिसृषु स्थालीषु विगृह्णीयाद्या दीक्षणीयायै सँस्था तया दीक्षणीयाँसन्तिष्ठापयिषेत्
English
Then he should pour out paddy for the Dikṣaṇīyā, Prāyaṇīyā and Ātithya, and also pour out clarified butter. When the chariots arrive, one should distribute into three vessels the clarified butter poured jointly. One should decide to conclude the Dikṣaṇīyā as is normally concluded.
विश्वास-प्रस्तुतिः
प्रणीताभिः प्रायणीयस्य प्रतिपद्येतैष एवातिथ्याया उपक्रमो भवतीति
मूलम्
प्रणीताभिः प्रायणीयस्य प्रतिपद्येतैष एवातिथ्याया उपक्रमो भवतीति
English
He should commence the Prāyaṇīya with the carrying forth of the Praṇītā waters. This also is the starting point of the Atithyā.
विश्वास-प्रस्तुतिः
त्रिवत्सेन साण्डेन वत्सतरेण राजानं क्रीत्वोह्यातिथ्यं निर्वपतीति
मूलम्
त्रिवत्सेन साण्डेन वत्सतरेण राजानं क्रीत्वोह्यातिथ्यं निर्वपतीति
English
“One purchases Soma in exchange for a weaned calf of three years age, carries it and performs the Ātithyeṣṭi”:
विश्वास-प्रस्तुतिः
त्रिहायणेनेत्येवेदमुक्तं भवति
मूलम्
त्रिहायणेनेत्येवेदमुक्तं भवति
English
Trivatsa means “of three years’ age.”
विश्वास-प्रस्तुतिः
कथमु खल्वस्य मन्त्रानभिनमयेद्चिदसि मनोऽसि धीरसि दक्षिणोऽसि यज्ञियोऽसि क्षत्रियोऽस्यदितिरस्युभयतःशिराः स नः सुप्राङ्सम्भवेत्येकगणा उपसदो भवन्तीति
मूलम्
कथमु खल्वस्य मन्त्रानभिनमयेद्चिदसि मनोऽसि धीरसि दक्षिणोऽसि यज्ञियोऽसि क्षत्रियोऽस्यदितिरस्युभयतःशिराः स नः सुप्राङ्सम्भवेत्येकगणा उपसदो भवन्तीति
English
How should one modify the relevant formulas? (They should be) “Thou art cognition, thou art devotion; thou art talent; thou art diligent; thou art worthy of sacrifice; thou art a noble man; thou art invulnerable with heads on both sides; do thou be going straight forward and going straight westwards. “The Upasads are of a single variety”:
विश्वास-प्रस्तुतिः
पूर्वाह्णिका एवैता उक्ता भवन्ति
मूलम्
पूर्वाह्णिका एवैता उक्ता भवन्ति
English
it means they are morning Upasads.
विश्वास-प्रस्तुतिः
खलेवाली यूपो भवतीत्येतामेवैषां मेथीं कुर्वन्ति
मूलम्
खलेवाली यूपो भवतीत्येतामेवैषां मेथीं कुर्वन्ति
English
“The sacrificial post is erected on the threshing floor” : The shaft itself is deemed to be the splinter.
विश्वास-प्रस्तुतिः
स खलेवाली यूपस्
मूलम्
स खलेवाली यूपस्
English
This is the post on the threshing floor.
विश्वास-प्रस्तुतिः
तस्यै कटे परमिव चषालभाजनं भवतीत्याकुट्ट इत्येवेदमुक्तं भवत्यथैतान्पशूनुपाकरोत्यग्नीषोमीयमाग्नेयमनूबन्ध्यमिति
मूलम्
तस्यै कटे परमिव चषालभाजनं भवतीत्याकुट्ट इत्येवेदमुक्तं भवत्यथैतान्पशूनुपाकरोत्यग्नीषोमीयमाग्नेयमनूबन्ध्यमिति
English
“On it is set the Caṣāla implement placed upon a twist of grass”: this means the threshing spot. “He dedicates the animals to Agni-Soma, Agni and Anūbandhyā”:
विश्वास-प्रस्तुतिः
यमा एवैते छागाः समानयोनयो भवन्ति
मूलम्
यमा एवैते छागाः समानयोनयो भवन्ति
English
these goats are twins being born of the same womb.
विश्वास-प्रस्तुतिः
तेषामुक्तं चरणम्
मूलम्
तेषामुक्तं चरणम्
English
The procedure of their offering is already laid down.
विश्वास-प्रस्तुतिः
अथास्याँसद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियामवभृथप्रभृत्यस्तमिते यज्ञपुच्छं तासां प्रथमैव सरथा प्रथमा चित्ससोमक्रयणी प्रथमाग्निहोत्रोच्छेषणव्रताथास्याँ सद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियां त्रिस्तनद्विस्तनैकस्तनव्रतस्य रूपाणि कुर्वन्ति

For this Sadyaskrī, Anukri, Parikri and Atikri”48 “the tail of the sacrifice” is performed after sunset beginning with the Avabhṛtha. Out of these the first alone is provided with the ritual of the chariot, in the first there is the Soma- purchasing cow, in the first the sacrificer is to take only the remnants of the Agnihotra-milk as his Vrata-food. In this Sadyaskri, Anukri, Parikri and Atikri the rule of three udders, two udders and one udder is observed.
विश्वास-प्रस्तुतिः
क्व उ खल्वेकाहे दृष्टः सन्निवापो भवतीति
मूलम्
क्व उ खल्वेकाहे दृष्टः सन्निवापो भवतीति
English
In which Ekāha sacrifice does one come across pouring together of oblation- materials?
विश्वास-प्रस्तुतिः
व्रात्यस्तोमे चेन्द्रा ग्न्योश्च कुलाय इत्येव ब्रूयादथास्मिन्व्रात्यस्तोमे बहव एकस्मै दीक्षन्तेऽदीक्षिता एवैनान्याजयन्ति
मूलम्
व्रात्यस्तोमे चेन्द्रा ग्न्योश्च कुलाय इत्येव ब्रूयादथास्मिन्व्रात्यस्तोमे बहव एकस्मै दीक्षन्तेऽदीक्षिता एवैनान्याजयन्ति
English
In the Vrātyastoma and Indragnyoḥ Kulaya,49 one should say. In the Vrātyastoma many entrust initiation to one person. Those who are not initiated cause one50 to offer.
विश्वास-प्रस्तुतिः
दण्डोपानहँशामुलाजिनमिति
मूलम्
दण्डोपानहँशामुलाजिनमिति
English
“Footwear and staff, woollen garment and the skin of black antelope”:
विश्वास-प्रस्तुतिः
शामुलकानामुह दभ्रमिश्राः कम्बला भवन्ति स च भवति श्वेतं चौरभ्राजिनम् ३२
मूलम्
शामुलकानामुह दभ्रमिश्राः कम्बला भवन्ति स च भवति श्वेतं चौरभ्राजिनम् ३२
English
woollen blankets are made of woollen threads woven together. There should be such a blanket and a white skin of a ram.
३३
विश्वास-प्रस्तुतिः
स एष ज्येष्ठानामग्निष्टोम एष एव सन्कनीयसामुक्थ्यश्चतुष्टोमं पूर्वमहर्भवति पञ्चस्तोममुत्तरं रथो हविर्धानं कुर्यात्तल्परूपमुत्तरं हविर्धानम्
मूलम्
स एष ज्येष्ठानामग्निष्टोम एष एव सन्कनीयसामुक्थ्यश्चतुष्टोमं पूर्वमहर्भवति पञ्चस्तोममुत्तरं रथो हविर्धानं कुर्यात्तल्परूपमुत्तरं हविर्धानम्
English
This is the Agniṣṭoma of the seniormost. This itself is the Ukthya of the juniors. The first day has its Stotras with Catusṭoma; the next is with Pañcastoma.
(In the Isu sacrifice) a chariot (is the southern) Havirdhāna cart; a bed is northern Havirdhāna cart.
विश्वास-प्रस्तुतिः
उत्सीदेयुः शकटमन्त्रा द्वौ त्रयस्त्रिँशौ मध्यत स्तोमौ भवत इति
मूलम्
उत्सीदेयुः शकटमन्त्रा द्वौ त्रयस्त्रिँशौ मध्यत स्तोमौ भवत इति
English
The formulas pertaining to the moving of the Havirdhāna carts are left out. The two middle Stomas (in the Saṁdaṁśa sacrifice) are Trayastriṁśa Stomas:
विश्वास-प्रस्तुतिः
पृष्ठ्यस्तोमावेवैतावितश्चामुतश्च प्रतिलोमौ भवतोऽथामावास्यायां प्रतिसमस्य चान्द्र मसं पिण्डपितृयज्ञं दद्यात्
मूलम्
पृष्ठ्यस्तोमावेवैतावितश्चामुतश्च प्रतिलोमौ भवतोऽथामावास्यायां प्रतिसमस्य चान्द्र मसं पिण्डपितृयज्ञं दद्यात्
English
These are the Pr̥ṣṭhastomas which are employed in the reverse order on two sides.48
(In the Duraśa sacrifice) one should pull back the offering of cooked rice to Candramas on the new-moon day and should offer the Piṇḍapitṛyajña in the evening.
विश्वास-प्रस्तुतिः
तं ब्रह्मणः सन्तं पर्युपविश्य भक्षयन्ति यदृतं मन्यन्ते तेन ब्राह्मणम्ब्राह्मणो वै वर्णानाँ श्रेष्ठोऽग्निर्देवानामित्येतेन वा भक्षयेदपि वा व्याहृतीभिश्चतुष्टोम एष भवतीति चतुरुत्तरीय एष दिशां चतुष्टोमो भवत्य्

Even though (that rice in the Iṣṭi for Candramas) belongs to the Brahman, all the priests sit around it and consume it with the formula, “In that they honour truth, thereby (the oblation) belongs to Brahman”: Alternatively the Brahman should consume it with the formula, “The brāhmaṇa is superior among the castes, Agni among the gods,” or with the Vyāhr̥tis. This sacrifice is Catuṣṭoma. Increasing by four (in Stomas), it becomes “Diśām Catuṣṭoma.”
विश्वास-प्रस्तुतिः
अथास्मिन्कानान्धयज्ञेऽवभृथप्रभृत्यस्तमिते यज्ञपुच्छं तस्य दशसु बहिष्पवमानः शते सहस्रेऽयुते नियुते प्रयुतेऽर्बुदे न्यर्बुदे समुद्रे मध्येऽन्ते परार्धे पद्वे पल्वे नित्यमुक्त्वा मनसैव स्तुवानो मन्यत एतावति मे स्तुतमित्यथ सकृत्प्रवर्ग्य एकमेवाग्निहोत्रम्

In this Kānāndhayajña “the tale of sacrifice” beginning with the Avabhṛtha takes place after sunset.
In his (Yamastoma) the Bahiṣpavamāna Stotra comprises ten (Stomas or) a hundred, a thousand, ten thousand, a lakh, ten lakhs, crore, ten crores, a hundred crores, a thousand crores, ten thousand crores, a lakh crores or ten lakh crores. Having chanted the normal number of Stomas, he mentally thinks, “I have chanted in such and such a number.” One performs the Pravargya once. There is a single Agnihotra-offering..
विश्वास-प्रस्तुतिः
अथास्मिञ्छुनस्कर्णयज्ञे
मूलम्
अथास्मिञ्छुनस्कर्णयज्ञे
English
In this Śunaskarṇa sacrifice
विश्वास-प्रस्तुतिः
तिलमिश्रमशित्वा मत्स्यान्खादित्वा क्षारमात्रं पिबेदथ सामपथे संविशेत्
मूलम्
तिलमिश्रमशित्वा मत्स्यान्खादित्वा क्षारमात्रं पिबेदथ सामपथे संविशेत्
English
the sacrificer should eat food mixed with sesame, should eat fish and drink only salt water. He should lie down in the region destined for Saman-chanting.
विश्वास-प्रस्तुतिः
स्वप्नादेव स्वप्ने गच्छति
मूलम्
स्वप्नादेव स्वप्ने गच्छति
English
He becomes asleep and attains (permnant) sleep.
विश्वास-प्रस्तुतिः
राशिकृतं धान्यं ददाति मरायकृतं धान्यं ददातीति
मूलम्
राशिकृतं धान्यं ददाति मरायकृतं धान्यं ददातीति
English
“The sacrificer gives away a heap of grains (as Dakṣiņā); gives away a woven basket full of grains”:
विश्वास-प्रस्तुतिः
मूतकृतमित्येवेदमुक्तं भवति
मूलम्
मूतकृतमित्येवेदमुक्तं भवति
English
This means the grains collected in a woven basket.
विश्वास-प्रस्तुतिः
प्रचरन्ति प्राञ्चः प्रत्यञ्चः प्रचरन्तीति
मूलम्
प्रचरन्ति प्राञ्चः प्रत्यञ्चः प्रचरन्तीति
English
“(In the Viṣūcīnaśāla sacrifice) they perform the rites towards the east and also towards the west”:
विश्वास-प्रस्तुतिः
यः प्रत्यङ्विहारो दक्षिणतौपचार एष भवत्येतेनैवापि सर्वतोमुखो व्याख्यात एतेन सहस्रशालोऽथैनमिह पवयित्वामुत्र पवयन्तीति
मूलम्
यः प्रत्यङ्विहारो दक्षिणतौपचार एष भवत्येतेनैवापि सर्वतोमुखो व्याख्यात एतेन सहस्रशालोऽथैनमिह पवयित्वामुत्र पवयन्तीति
English
in the sanctuary which is towards the west the movements should be along the south. The ritual of the Sarvatomukha should be understood as explained hereby, also the Sahasraśāla sacrifice. Having first purified the sacrificer here one purifies him yonder.
विश्वास-प्रस्तुतिः
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादुत्तरस्यैव शालायै
मूलम्
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादुत्तरस्यैव शालायै
English
The procedure pertaining to the Agniṣṭoma to be adopted in the northern wing should be as prescribed.
विश्वास-प्रस्तुतिः
स द्वौ त्रिरात्रौ कुरुत एकं च द्विरात्रमिति
मूलम्
स द्वौ त्रिरात्रौ कुरुत एकं च द्विरात्रमिति
English
“(Among the Peya sacrifices) one performs two Trirātra sacrifices and one Dvirātra:
विश्वास-प्रस्तुतिः
दीक्षोपसद्भिरेवास्यैतान्यहान्यभिविधत्तेऽहीनविधोऽति यज्ञं दद्यात्
मूलम्
दीक्षोपसद्भिरेवास्यैतान्यहान्यभिविधत्तेऽहीनविधोऽति यज्ञं दद्यात्
English
one should bring these sacrifices in contact by means of Dīkṣā and Upasad days. A sacrifice of the Ahīna character marks continuity with the succeeding sacrifice.
विश्वास-प्रस्तुतिः
तदिदं प्रोक्तं यदकॢप्तँसूत्रतः
मूलम्
तदिदं प्रोक्तं यदकॢप्तँसूत्रतः
English
Here (in the Karmśntasūtra) is explained what is not directly prescribed in the principal Sūtra-text.
विश्वास-प्रस्तुतिः
सामयिकं त्वेव क्रतुयोगं यज्ञे यज्ञमुपलक्षयेतेति बौधायनो यज्ञे यज्ञमुपलक्षयेतेति बौधायनः ३३
मूलम्
सामयिकं त्वेव क्रतुयोगं यज्ञे यज्ञमुपलक्षयेतेति बौधायनो यज्ञे यज्ञमुपलक्षयेतेति बौधायनः ३३
English
One should pay attention in a sacrifice to the ritual which may be required to be added by context. So says Baudhāyana.
CHAPTER XXVI ENDS.
END OF THE KARMĀNTASŪTRA.
-
An Iṣṭi for Indra Sutraman and the next day another for Indra Amhomuc. cf. BaudhŚS XII.2. ↩︎
-
Cf. BaudhŚS XV 6; 9; XVIII.5; 6; XIX 5 ↩︎
-
Caland reads yājamānāsaṁyukto which he says to be uncertain. The variants have been recorded, I propose yajamānasaṁyukto. ↩︎
-
Cf. BaudhŚS X.1-10 ↩︎
-
The text has abhidrsyah while the original sūtra-text reads atidṛsyāḥ. ↩︎
-
The printed text reads gor u. The original sūtra reads gor ulbyā. ↩︎
-
Cf. BaudhŚS VIII.17 ↩︎
-
pra vo vājā… TBr. III.5.2 ↩︎
-
agna āyāhi vitaye etc. TBr. III.5.2 ↩︎
-
tvam Varuṇa TBr. III.5.2 ↩︎
-
TBr III.5.2 ↩︎
-
TS II.6.2; TBr III.5.7. agnir mūṛdhā divaḥ kakut … is the puronuvākjā, and bhuvoyajñasya rajasaś ca netā… is the. ↩︎ ↩︎ ↩︎
-
For the cooked rice to be offered at the residence of the abandoned wife of the royal sacrificer, cf. BaudhŚS XII.5. Ratnin’s offerings in Rājasūya. ↩︎
-
Cf. BaudhŚS XIV.4 ↩︎
-
TBr. II.4.5.1 ↩︎
-
TS III.2.5 ↩︎
-
TS IV.3.2 ↩︎
-
The text yūpamāmnāze is doubtful. ↩︎
-
Cf. Baudh$S XV.18 ↩︎
-
Cf. BaudhŚS XV.32 ↩︎
-
BaudhŚS XV.36 ↩︎
-
Cf. TāṇḍBr XIX.5 ↩︎
-
agner janitram asi etc. Cf. BaudhŚS IV.5. ↩︎
-
abhi tvā deva savitar. etc. ↩︎
-
The text reads gāyatrīprātaḥsavane. Bhavasvāmin reads gāyatrīḥ. ↩︎
-
Three formulations of the stomas of the twelve stotras of Agnişṭoma would be: (i) 9, 15, 17,21 (ii) 15, 17, 21, 27 (iii) 17, 21, 27, 33 cf. TāṇḍBr. XVI 4.12. The ĀrṣeyaKalpa (II.1.7) mentions four formulations. ↩︎
-
Four formulations of the Stomas of the twelve Stotras of Agniṣṭoma would be: (i) 9, 15, 17 (ii) 15, 17, 21 (iii) 17,21, 27 (iv) 21, 27, 33. cf. TaṇḍBr. XVI 4,13. The ĀrṣeyaKalpa (II.7.1) mentions three formulations. ↩︎
-
? . ↩︎
-
? . ↩︎
-
TS VII.1.3.1 ↩︎
-
The text reads agniṣṭomena vā ↩︎
-
The text is corrupt. ↩︎
-
This is obscure. ↩︎
-
Namely, à tiṣṭha vṛtrahan ratham… (TS 1.4.37), mahāñ indro vajrabāhuḥ… (TS I.4.41) and asăvi soma indra te… (TSI.4.39) or sarvasya pratiśīvarī … (TSI.4.40) with which the Ṣoḍaśi draught is respectively to be taken at the morning, midday and third pressings. ↩︎
-
TS VII.1.3.3 The Bahiṣpavamānastotra-the opening stotra has Trivṛtstoma; the last Saṁdhistotra of the Atirātra has Trivṛtstoma. ↩︎
-
Namely, the Adhvaryu, the Pratiprasthātṛ, the Brahman, the Hotṛ and the Āgnīdhra. ↩︎
-
In the Tapaścitām Ayana. ↩︎
-
TS V.4.11.1 ↩︎
-
TS IV.2.1.2 ↩︎
-
BaudhŚS X.23 ff ↩︎
-
According to Bhavasvāmin’s Vivaraṇa, this prescription pertains to the Citi piled up with three thousand bricks. As the style indicates, the Sūtrakāra has referred here to an earlier prescription which, however, is not traced. Probably this refers to the normal triple Citi optionally prescribed for the Aśvamedha cf. präkṛto vä triguṇah, BaudhŚS V.21. ↩︎
-
BaudhŚS XVIII. 24-26 TāṇḍBr. XIX.15 ↩︎
-
The text reads adīkṣitā evai’nān yājayanti. It is difficult to construe enân. ↩︎