२५ चातुर्मास्यानि

पञ्चविंशः प्रश्नः

विश्वास-प्रस्तुतिः

कथमु खल्व्यावज्जीवप्रयुक्तानां चातुर्मास्यानामनुप्रयोगो भवतीति

मूलम्

कथमु खल्व्यावज्जीवप्रयुक्तानां चातुर्मास्यानामनुप्रयोगो भवतीति

English

How are the Cāturmāsyas, being performed throughout one’s life, performed serially?

विश्वास-प्रस्तुतिः

फाल्गुन्यां वा चैत्र्यां वा पौर्णमास्याँशुनासीरीयपरुषा यजेताथ वैश्वदेवायोपवसेद्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेताथ चेदिष्ट्या पशुना सोमेन वा यजेत कथं तत्र कुर्यादिति

मूलम्

फाल्गुन्यां वा चैत्र्यां वा पौर्णमास्याँशुनासीरीयपरुषा यजेताथ वैश्वदेवायोपवसेद्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेताथ चेदिष्ट्या पशुना सोमेन वा यजेत कथं तत्र कुर्यादिति

English

One should perform the Sunāsīrīyaparvan on the full-moon day of Phālguna or Caitra. Then he should observe the Upavasatha day for the Vaiśvadevaparvan. He should perform the Vaiśvadevaparvan and subsequently perform the Full-moon sacrifice and the Vaimṛdheșṭi. If one proposes to perform the Iṣṭi or an Animal-sacrifice or a Soma-sacrifice, what procedure should one follow?

विश्वास-प्रस्तुतिः

प्रतिकृष्यैतस्य पक्षस्य शुनासीरीयपरुषा यजेताथैतेषामेकेन यजेताथ वैश्वदेवायोपवसेद्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेतेति

मूलम्

प्रतिकृष्यैतस्य पक्षस्य शुनासीरीयपरुषा यजेताथैतेषामेकेन यजेताथ वैश्वदेवायोपवसेद्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेतेति

English

One should anticipate the fortnight and perform the Śunāsīrīyaparvan,1 and then perform any of these. then he should observe the Upavasatha of the Vaiśvadevaparvan.

विश्वास-प्रस्तुतिः

यथो एतद्बौधायनस्य कल्पं वेदयन्ते यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तर्मिथुनानि

मूलम्

यथो एतद्बौधायनस्य कल्पं वेदयन्ते यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तर्मिथुनानि

English

As for (the fact that the teachers) convey the view of Baudhāyana, namely, that the Cāturmāsya to be performed throughout one’s life, that sexual intercourse is permissible within the intervening period,

विश्वास-प्रस्तुतिः

प्रथमे त्वेव संवत्सरे व्रतं चरेदिति कथमत्रेष्टिपशुबन्धा इति

मूलम्

प्रथमे त्वेव संवत्सरे व्रतं चरेदिति कथमत्रेष्टिपशुबन्धा इति

English

that one should observe vow only in the first year: how are the Iṣṭis and Animal-sacrifices[^2-1593] to be performed?

[^2-1593]{} Whether obligatory, or optional or incidental.

विश्वास-प्रस्तुतिः

काममिष्ट्या कामं पशुबन्धेनेति

मूलम्

काममिष्ट्या कामं पशुबन्धेनेति

English

One may perform the Iṣṭi or the Animal-sacrifice (on the appointed day).

विश्वास-प्रस्तुतिः

क्व उ खलु चातुर्मास्यानि समासं गच्छन्तीति

मूलम्

क्व उ खलु चातुर्मास्यानि समासं गच्छन्तीति

English

With which sacrifices are the Cāturmāsya associated?

विश्वास-प्रस्तुतिः

राजसूये च चातुर्मास्येषु च सोमेष्वित्येव ब्रूयादथाप्युदाहरन्ति द्वादशाहेऽपि चातुर्मास्यैर्यजेत

मूलम्

राजसूये च चातुर्मास्येषु च सोमेष्वित्येव ब्रूयादथाप्युदाहरन्ति द्वादशाहेऽपि चातुर्मास्यैर्यजेत

English

With Rajasuya and Saumika Caturmāsays. It is also said that one should associate the Cāturmāsya even with the Dvādaśāha.

विश्वास-प्रस्तुतिः

वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैरष्टम्यां च नवम्यां च साकमेधैर्द्वादश्याँशुनासीरीयपरुषा यजेतेति

मूलम्

वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैरष्टम्यां च नवम्यां च साकमेधैर्द्वादश्याँशुनासीरीयपरुषा यजेतेति

English

Having performed the Vaiśvadevaparvan (on the first day), one should perform the Varuṇapraghasas on the fourth day, the Sākamedhaparvan on the eighth and the ninth and the Śunāsīrīyaparvan on the twelfth.

विश्वास-प्रस्तुतिः

विज्ञायते संवत्सरप्रतिमा वै द्वादशरात्रयो भवन्तीति

मूलम्

विज्ञायते संवत्सरप्रतिमा वै द्वादशरात्रयो भवन्तीति

English

It is said, twelve nights are equal to a year.

विश्वास-प्रस्तुतिः

त्रिवृद्बर्हिर्भवतीति

मूलम्

त्रिवृद्बर्हिर्भवतीति

English

(In the Vaiśvadevaparvan) the sacrificial grass is tied in three bunches.

विश्वास-प्रस्तुतिः

तूष्णीकानि हान्तराणि भवन्तीति मन्त्रवदुहबाह्यम्

मूलम्

तूष्णीकानि हान्तराणि भवन्तीति मन्त्रवदुहबाह्यम्

English

These initially tied bunches are tied silently. The external binding2 is to be done with the relevant formula.3

विश्वास-प्रस्तुतिः

एतदेव सदन्यत्रेष्टिसन्निपाते विपरीतं भवतीति

मूलम्

एतदेव सदन्यत्रेष्टिसन्निपाते विपरीतं भवतीति

English

If any Iṣṭi is being performed combinedly, the procedure should be reverse.4

विश्वास-प्रस्तुतिः

क्व उ खलु करम्भपात्राणि प्रथमं मन्त्रं लभन्त इति

मूलम्

क्व उ खलु करम्भपात्राणि प्रथमं मन्त्रं लभन्त इति

English

When indeed do the Karambha-pots have mantras employed for the first time?

विश्वास-प्रस्तुतिः

प्रोक्षण इत्येव ब्रूयात्

मूलम्

प्रोक्षण इत्येव ब्रूयात्

English

At the sprinkling, one should say.

विश्वास-प्रस्तुतिः

सह हविर्भिः करम्भपात्राण्यभिपर्यग्निकुर्यात्

मूलम्

सह हविर्भिः करम्भपात्राण्यभिपर्यग्निकुर्यात्

English

One should carry fire around the Karambha-pots along with the oblations.

विश्वास-प्रस्तुतिः

किन्देवत्यानि नु खलु करम्भपात्राणि भवन्तीति

मूलम्

किन्देवत्यानि नु खलु करम्भपात्राणि भवन्तीति

English

Which is the divinity for offering the Karambha-pots ?

विश्वास-प्रस्तुतिः

वारुणानीत्येव ब्रूयाद्विज्ञायतेऽन्यमेव वरुणमवयजत इत्यस्तं प्रेत सुदानव इति गृहान्प्रेक्षेतेत्येवेदमुक्तं भवति

मूलम्

वारुणानीत्येव ब्रूयाद्विज्ञायतेऽन्यमेव वरुणमवयजत इत्यस्तं प्रेत सुदानव इति गृहान्प्रेक्षेतेत्येवेदमुक्तं भवति

English

Varuṇa, one should say. (By offering them) one gets rid of another Varuṇa through offering. When it is said, astam preta sudānavaḥ,5 it is suggested that one should gaze at his house.

विश्वास-प्रस्तुतिः

तौ व्यतिचारँस्तम्बयजुषी हरेयातामितश्चामुतश्च यन्तं प्रतिप्रस्थाताध्वर्युं परिगृह्णीयात्

मूलम्

तौ व्यतिचारँस्तम्बयजुषी हरेयातामितश्चामुतश्च यन्तं प्रतिप्रस्थाताध्वर्युं परिगृह्णीयात्

English

They (the Adhvaryu and the Pratiprasthatṛ) carry the Stambayajus moving in opposite directions. The Pratiprasthātṛ should meet the Adhvaryu moving to and fro.

विश्वास-प्रस्तुतिः

सहनिरुप्तस्य प्रतिप्रस्थातापो निःषिच्याध्वर्योराज्यस्य वाचयेदथेध्मयोरतिप्रणयनादादायाध्वर्युः स्वमिध्ममपक्रम्यैव तिष्ठति १

मूलम्

सहनिरुप्तस्य प्रतिप्रस्थातापो निःषिच्याध्वर्योराज्यस्य वाचयेदथेध्मयोरतिप्रणयनादादायाध्वर्युः स्वमिध्ममपक्रम्यैव तिष्ठति १

English

The Pratiprasthātṛ who, after having poured down the water (for the Āpyas) has taken out half of the clarified butter out of the total quantity poured out by the Adhvaryu, should cause the sacrificer’s wife to recite the relevant formula (namely, mahīnām payo’si …) over his portion of the clarified butter.

Out of the two faggots put on the fire, the Adhvaryu takes out his burning fire and stands up.

विश्वास-प्रस्तुतिः

अथायं प्रतिप्रस्थातान्तरेणेध्मं चाहवनीयं चोपातीत्य स्वमिध्ममाददीत

मूलम्

अथायं प्रतिप्रस्थातान्तरेणेध्मं चाहवनीयं चोपातीत्य स्वमिध्ममाददीत

English

The Pratiprasthātṛ comes up between the Āhavanīya fire and the faggot (in the Adhvaryu’s hand) and takes up his own faggot.

विश्वास-प्रस्तुतिः

तावपसलैः पर्यावृत्येध्मौ हरेयाताम्

मूलम्

तावपसलैः पर्यावृत्येध्मौ हरेयाताम्

English

The two, turning up by the left, carry forth their respective faggots.

विश्वास-प्रस्तुतिः

अथामुतः प्रदक्षिणमाऋत्येध्मौ प्रतिष्ठाप्यैतेनैव यथेतमेत्य प्रतिनिर्वेष्टयते प्रतिप्रस्थातान्तरेण वेदी प्राचीनमुपयमनीहारोऽथेमा अध्वर्योः प्रोक्षण्यो दक्षिणेन प्रतिप्रस्थातारं परिगृह्यासादयेदेवमेताभिरनभिपरिहृतो भवत्यथेयं मारुती दक्षिणां वेदिं गच्छति सप्तमी हविषामधिश्रीयते

From there they turn by the right, and put the two burning faggots (as the Āhavanīya fires in their respective fire-places). They return by the same say by which they had gone. (The Āgnīdhra) should carry forth the Prokṣaṇī-water to be used by the Adhvaryu from towards the south of the Pratiprasthātṛ and place them (within the Adhvaryu’s altar). Thus the Pratiprasthātṛ does not have the Prokṣaṇī-water taken up in front of him.

Now the Āmikṣā intended for the Maruts goes to the southern altar, while it is the seventh among the oblations which are put over the fire.

विश्वास-प्रस्तुतिः

कथमेतयाव्यवेतानि भवन्तीति

मूलम्

कथमेतयाव्यवेतानि भवन्तीति

English

In what way do they become unseparated by this (Āmikṣā)?

विश्वास-प्रस्तुतिः

प्रतिकृष्यैनामग्रेण दक्षिणेन हवीँष्यनभिघारितामुद्वासयेदथैनां पुनरधिश्रित्याभिघारितामुद्वास्यान्तर्वेद्यासादयेदेवमेतान्यव्यवेतानि भवन्त्यथायं प्रतिप्रस्थाता मारुत्यै दैवतस्य सकृदेवानुवाचयेत्सकृदाश्रावयेदथान्यत्राध्वर्योः कृतानुकारो भवतीति

The Pratiprasthātṛ should take out this (Āmikṣā) along the front and place it to the south of the oblations without having poured Vajina over it. (Thereafter the Adhvaryu should take down from over the fire the six oblations).Then (the Pratiprasthātṛ) should again place the Âmikṣā for the Maruts (over the Gārhapatya fire), take it down from over the fire, pour Vajina over it, and place it within the (southern) altar. In this way these (oblations) remain unseparated.

विश्वास-प्रस्तुतिः

तद्यदिहाश्रावयतीह यजतीति तत्प्रतिप्रस्थाता कृतानुकार एव भवत्यथेदं मारुत्यै मेक्षणमग्रेणौत्तरवेदिकमग्निं परिगृह्यानुप्रहरेद्यथो एतदौपमन्यवस्य कल्पं वेदयन्ते तुषैश्च निष्कासेन चावभृथमवेयादिति दैवतं प्रदाय स्विष्टकृतं प्रयच्छेत्तुषान्सम्प्रकीर्योदकान्तं प्रत्यस्येत्

The Pratiprasthatṛ should cause the Hotṛ only once to recite the puronuvākyā for the divinity and give out a call only once in connection with the offering of Āmikṣā to the Maruts. On other occasions he is understood to have (himself) done what the Adhvaryu has actually done. When in these rites (the Adhvaryu) gives out a call or asks the Hotr̥ to recite the yajyā, the Pratiprathātṛ is to be understood to do (these things himself). (The Pratiprasthātṛ) should bring the stirring stick pertaining to the Āmikṣā for the Maruts along the front of the fire on the northern altar, and throw it (on the southern fire). As for Aupamanyava’s view made known, namely, that one should proceed for the Avabhṛtha with the husks of paddy and scrapings (of the Āmikṣā for Varuṇa, it is implied that) after having made the principal offering, one should offer the Sviṣṭakr̥t. He should scatter the husks (over the water) and push back the margin of water.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम्

मूलम्

सिद्धमत ऊर्ध्वम्

English

The subseqent procedure is as prescribed.

विश्वास-प्रस्तुतिः

अथायं गृहमेधीय आज्यभागप्रतिपत्केडान्तः सन्तिष्ठते

मूलम्

अथायं गृहमेधीय आज्यभागप्रतिपत्केडान्तः सन्तिष्ठते

English

Now this sacrifice to the Gṛhamedhin Maruts begins with the Ājyabhāgas and is concluded with Iḍā.

विश्वास-प्रस्तुतिः

तत्र नास्ति प्राशित्रं तूष्णीँ समक्ताञ्छाकलान्परिधीनग्नावनुप्रहरेदभिवान्यायामविद्यमानायाँ सन्धिनीक्षीरं दोहयेदिति २

मूलम्

तत्र नास्ति प्राशित्रं तूष्णीँ समक्ताञ्छाकलान्परिधीनग्नावनुप्रहरेदभिवान्यायामविद्यमानायाँ सन्धिनीक्षीरं दोहयेदिति २

English

There is no Prāśitra. One should besmear the chips used as enclosing sticks, and put them over the fire silently. If (in the Mahāpitṛyajña) a cow feeding an adopted calf is not available, one should procure the milk of a cow in heat.

विश्वास-प्रस्तुतिः

अथायं महापितृयज्ञस्

मूलम्

अथायं महापितृयज्ञस्

English

Now this Mahāpitṛyajña.

विश्वास-प्रस्तुतिः

तस्य कः कर्मण उपक्रमो भवतीति

मूलम्

तस्य कः कर्मण उपक्रमो भवतीति

English

What is its procedure ?

विश्वास-प्रस्तुतिः

बर्हिर्यजुषा कुर्याद्देवानां पितृणां परिषूतमसि देवपितृबर्हिर्मा त्वान्वङ्मा तिरक्पर्व ते राध्यासमित्यपहतोऽररुः पृथिव्यै देवपितृयजन्या इत्यपहतोऽररुः पृथिव्या अदेवपितृयजन इत्येवमेतेष्वधिकरणेषु कुर्याद्यत्र देवाश्च पितरश्च सन्निगच्छेयुः

One should procure the sacrificial grass with the relevant formulas. He should employ on the relevant occasions when gods and Pitr̥s meet together the following formulas: “Thou art grasped for the gods and Pitṛs;” “O Barhis for the gods and Pitr̥s, let me not hit thee along nor across; may I get at the joint.”6 “Araru is smitten away from the earth, the place of sacrifice for gods and Pitr̥s” “Araru who does not offer to gods and Pitr̥s is smitten away.”7

विश्वास-प्रस्तुतिः

पाणी सम्मृशीत

मूलम्

पाणी सम्मृशीत

English

(The Adhvaryu) should touch his palms together;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

strew around (the fire-places and the altar);

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँस्फ्यं निदध्यात्

मूलम्

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँस्फ्यं निदध्यात्

English

should cleanse the implements and put them down; should seat the Brahman to the south; put down the water-pot to the north; keep the wooden sword to the rear of the Gārhapatya;

विश्वास-प्रस्तुतिः

स्फ्योपरि पात्रीम्पात्र्यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आप्यान्तो जघनेन गार्हपत्यमाप्येभ्यो निनयेद्विपरिक्रामन्त्येत ऋत्विजोऽध्वर्युरनन्तरोऽग्नेः स्यादथ यजमानोऽथ ब्रह्माथाग्नीध्रोऽपि वाग्नीध्र एवानन्तरोऽग्नेः स्यादथ यजमानोऽथ ब्रह्माथाध्वर्युर्

a pan upon the wooden sword; should pour paddy into the pan. The procedure beginning with the taking of the winnowing basket and ending with the pouring down of wash-water for the Āpyas is gone through. He should pour down (the wash-water) for the Āpyas to the rear of the Gārhapatya. The priests walk around. The Adhvaryu should be close to the fire (while walking towards the south along the front). Then the sacrificer, then the Brahman; then the Āgnīdhra. Or the Āgnīdhra should remain close to the fire; then the sacrificer; then the Brahman; and then the Adhvaryu.

विश्वास-प्रस्तुतिः

विपरिहरन्ति हवीँष्यग्रेण पुरोडाशं धाना जघनेन धानाः करम्भमित्येवं विपरिहृतानामेवैतेषाँहविषामेकैकमुद्वासयेत्

मूलम्

विपरिहरन्ति हवीँष्यग्रेण पुरोडाशं धाना जघनेन धानाः करम्भमित्येवं विपरिहृतानामेवैतेषाँहविषामेकैकमुद्वासयेत्

English

The oblations are carried around (towards the south); the roasted barley-grains along the front of the cake and the Karambha along the rear of the roasted barley-grains. (The Adhvaryu) should take down the oblations one by one after they have been carried round.

विश्वास-प्रस्तुतिः

क्व उ खलु त्रैयम्बका निरुप्यन्त इत्युद्वास्य हवीँषि रुद्रा याम्बिकायै जुष्टं निर्वपामीति यस्य मन्त्रवन्तः

मूलम्

क्व उ खलु त्रैयम्बका निरुप्यन्त इत्युद्वास्य हवीँषि रुद्रा याम्बिकायै जुष्टं निर्वपामीति यस्य मन्त्रवन्तः

English

When is (the paddy for) the Tryambaka cakes poured out? After having taken down the oblations (of the Mahāpitṛyajña) from over the fire, (the Adhvaryu) should pour out with the formula, “I pour out (paddy) dear to Rudra and Ambikā” provided they are to be prepared while reciting the relevant formulas.

विश्वास-प्रस्तुतिः

कायेति कायं निर्वपेत्

मूलम्

कायेति कायं निर्वपेत्

English

He should pour out (paddy) for a cake to Ka with the formula, “I pour out to dear Ka."

विश्वास-प्रस्तुतिः

कायानुब्रूहीत्यनुब्रूयात्

मूलम्

कायानुब्रूहीत्यनुब्रूयात्

English

(The Hotr̥) should recite the puronuvākyā (when the Adhvaryu gives out the call), “Do you recite the puronuvākyā for Ka.”

विश्वास-प्रस्तुतिः

कं यजेति यजेत्

मूलम्

कं यजेति यजेत्

English

He should recite the yajyā (when the Adhvaryu gives out the call) “Do you recite the yājyā for Ka."

विश्वास-प्रस्तुतिः

क्व उ खलु त्रैयम्बकाणाँसौविष्टकृतं भवतीति

मूलम्

क्व उ खलु त्रैयम्बकाणाँसौविष्टकृतं भवतीति

English

When does the Sviṣṭakṛt offering of the Tryambaka cakes take place?

विश्वास-प्रस्तुतिः

यदेवातो मूत आसजतीत्यसमुदित ऋषभं ददातीति

मूलम्

यदेवातो मूत आसजतीत्यसमुदित ऋषभं ददातीति

English

When one puts them into a wicker basket.
As for the injunction that (the sacrificer) gives away a bull (as Dakṣiņā) before the conversation (between the Adhvaryu and the Āgnīdhra) :

विश्वास-प्रस्तुतिः

महाहविषामेवैषोऽसमुदिते दातव्यो भवति

मूलम्

महाहविषामेवैषोऽसमुदिते दातव्यो भवति

English

it is to be given away before the conversation at the Mahāhavis sacrifice.

विश्वास-प्रस्तुतिः

सर्वमेव याजमानं पितृयज्ञ उत्सीदेत्पशुबन्धे सौम्येऽध्वरेऽन्यत्रतत्रोत्पत्तिवचनात्

मूलम्

सर्वमेव याजमानं पितृयज्ञ उत्सीदेत्पशुबन्धे सौम्येऽध्वरेऽन्यत्रतत्रोत्पत्तिवचनात्

English

Excepting those directly prescribed in the respective ritual, no other duties of the sacrificer are intended in the Mahāpitṛyajña, the Animal-sacrifice and the Soma-sacrifice.

विश्वास-प्रस्तुतिः

सर्व एवाग्निर्याजमानोऽग्निचये सर्वमेवाग्न्याधेयच्छन्दो याजमानमग्न्याधेये ३

मूलम्

सर्व एवाग्निर्याजमानोऽग्निचये सर्वमेवाग्न्याधेयच्छन्दो याजमानमग्न्याधेये ३

English

Whatever duties a sacrificer is required to perform in respect of the piling up of the altar, are laid down in the Agnicayana itself.

Whatever duties a sacrificer is required to perform in respect of the setting up of fires, are laid down in the Agnyādheya itself.

४ अग्निष्टोमः

विश्वास-प्रस्तुतिः

अग्निष्टोमेन यक्ष्यमाणः प्रज्यमात्मानं कुर्वीत

मूलम्

अग्निष्टोमेन यक्ष्यमाणः प्रज्यमात्मानं कुर्वीत

English

One who is going to perform the Agniṣṭoma should prepare himself.

विश्वास-प्रस्तुतिः

येनास्याकुशलँस्यात्तेन कुशलं कुर्वीत

मूलम्

येनास्याकुशलँस्यात्तेन कुशलं कुर्वीत

English

He should establish good relations with one with whom he is in disharmony.

विश्वास-प्रस्तुतिः

यान्यृणान्युत्थितकालानि स्युस्तानि व्यवहरेदनुज्ञापयीत वा

मूलम्

यान्यृणान्युत्थितकालानि स्युस्तानि व्यवहरेदनुज्ञापयीत वा

English

He should either settle such debts as have become due for payment or have the time for repayment extended.

विश्वास-प्रस्तुतिः

स पुरस्तादेवोपकल्पयते प्रभूतं ऋणवँशं पश्वाज्यँस्थाल्यमत्रं कुम्बं च कुरीरं चेति

मूलम्

स पुरस्तादेवोपकल्पयते प्रभूतं ऋणवँशं पश्वाज्यँस्थाल्यमत्रं कुम्बं च कुरीरं चेति

English

He procures beforehand ample grass and bamboo, animals, clarified butter, earthen vessels and ots, a Kumba and a Kurīra.

विश्वास-प्रस्तुतिः

विदलमु ह कुम्बं भवति जालमु कुरीरं द्वादशशतं दक्षिणानाम्विज्ञायते छन्दोगब्राह्मणं वीरहा वा एष देवानां यः सोममभिषुणोतीति

मूलम्

विदलमु ह कुम्बं भवति जालमु कुरीरं द्वादशशतं दक्षिणानाम्विज्ञायते छन्दोगब्राह्मणं वीरहा वा एष देवानां यः सोममभिषुणोतीति

English

Kumba is split (bamboo) and Kurira is a woven web. A hundred and twelve cows as Dakṣiņā. The Chandoga Brāhmaṇa8 says, “One who presses Soma is the killer of the hero among the gods.

विश्वास-प्रस्तुतिः

शतेन वीरं निरवदयते

मूलम्

शतेन वीरं निरवदयते

English

By a hundred (cows) he gives the hero his share.

विश्वास-प्रस्तुतिः

दशभिर्दश प्राणान्यैकादशी तयात्मानं यैव द्वादशी सा दक्षिणेत्यथ हैक एकविँ शतिदक्षिणेन यजन्त एकविँशं यज्ञायज्ञियमिति वदन्तोऽथ हैके सप्तगुना यजन्ते सोमक्रयण्यतिथिगव्यनूबन्ध्याश्चतस्रो मध्यतस्

मूलम्

दशभिर्दश प्राणान्यैकादशी तयात्मानं यैव द्वादशी सा दक्षिणेत्यथ हैक एकविँ शतिदक्षिणेन यजन्त एकविँशं यज्ञायज्ञियमिति वदन्तोऽथ हैके सप्तगुना यजन्ते सोमक्रयण्यतिथिगव्यनूबन्ध्याश्चतस्रो मध्यतस्

English

With ten he gives to the Praņas their share. With the eleventh (cow) he gives the share of himself.The twelfth (cow) is indeed the Dakṣiņā. Some perform the sacrifice in which twentyone cows are given as Dakṣiņā, because the Yajñāyajñīya Stotra (the last one in the Agniṣṭoma) comprises twentyone Stomas. Some perform the Soma-sacrifice with seven cows as Dakṣiņā-the first cow for purchase of Soma, the second offered to the guest Soma, the third as Anūbandhyā and four (as Dakṣiņā) in the middle.

विश्वास-प्रस्तुतिः

तदपि दाशतये विज्ञायते प्र सप्तगुमृतधीतिं सुमेधामिति ४

मूलम्

तदपि दाशतये विज्ञायते प्र सप्तगुमृतधीतिं सुमेधामिति ४

English

It is said in the R̥gveda,9 “(Saptagu Angirasa says) the will to praise (gods) comes to me-Saptagu doing pious deeds and intelligent …

विश्वास-प्रस्तुतिः

अथातो देवयजनकल्पः

मूलम्

अथातो देवयजनकल्पः

English

Now the procedure (of the selection) of the sacrificial place.

विश्वास-प्रस्तुतिः

स एतद्देवयजनकल्पं जोषयते पुरस्तादुदकमनूषरमनुपहितमविसृग्दार्यनिरिणमसुषिरमभङ्गुरमवल्मीकं बहुलौषधि यत्रान्याअन्या ओषधयो व्यतिषक्ताः स्युः प्रागुदक्प्रवणं यथा चात्वालसारिणीरापः स्युर्नातिप्रवणं यस्मादन्यत्पुरस्तात्समन्तिकं देवयजनं न विन्देयुस्

He chooses such a sacrificial place which has water to the east, which does not have saline soil, is not of a mixed nature, not fissured, not barren, without holes, without cracks, without anthills, with ample vegetation, where various plants are intermixed, is sloping towards the north-east so that the water should be flowing towards the Cātvāla, not too much sloping, in whose front another sacrificial place bordering to the selected one would not be sought.

विश्वास-प्रस्तुतिः

तदेतां प्राचीनवँशाँशालां मापयन्ति

मूलम्

तदेतां प्राचीनवँशाँशालां मापयन्ति

English

Here an eastward-pointing shed is measured.

विश्वास-प्रस्तुतिः

कृत्तिकाः खल्विमाः प्राचीं दिशं न परिजहति

मूलम्

कृत्तिकाः खल्विमाः प्राचीं दिशं न परिजहति

English

The constellation Kṛttikā (Pleiades) does not swerve from the east.

विश्वास-प्रस्तुतिः

तासाँसन्दर्शनेन मापयेदित्येतदेकं श्रोणासन्दर्शनेन मापयेदित्येतदेकं चित्रास्वात्योरन्तरेणेत्येतदपरं दिक्ष्वतीकाशा भवतीति

मूलम्

तासाँसन्दर्शनेन मापयेदित्येतदेकं श्रोणासन्दर्शनेन मापयेदित्येतदेकं चित्रास्वात्योरन्तरेणेत्येतदपरं दिक्ष्वतीकाशा भवतीति

English

One should measure at their sight- this is one view. One should measure at the sight of the constellation Śravaṇa- this is one view. There is another view that one should measure at the sight of the interval of the constellations Citrā and Svāti.

विश्वास-प्रस्तुतिः

द्वार्भिरेवैषा दिक्ष्वतीकाशा भवत्यथाप्युदाहरन्ति वँ शानामेवातीकाशान्कुर्यादिति

मूलम्

द्वार्भिरेवैषा दिक्ष्वतीकाशा भवत्यथाप्युदाहरन्ति वँ शानामेवातीकाशान्कुर्यादिति

English

As for the injunction that (the shed) has openings towards the quarters10 : It is said that one should make the openings of bamboo.

विश्वास-प्रस्तुतिः

द्वौ स्तोमौ प्रातःसवनं वहत इति

मूलम्

द्वौ स्तोमौ प्रातःसवनं वहत इति

English

As for the injunction that “two varieties of Stomas accomplish the morning pressing:”11

विश्वास-प्रस्तुतिः

त्रिवृत्पञ्चदशौ प्रातःसवनं वहतः

मूलम्

त्रिवृत्पञ्चदशौ प्रातःसवनं वहतः

English

The Trivṛt and Pañcadaśa Stomas accomplish the morning pressing.

विश्वास-प्रस्तुतिः

पञ्चदशसप्तदशौ माध्यन्दिनँसवनं सप्तदशैकविँशौ तृतीयसवनम्

मूलम्

पञ्चदशसप्तदशौ माध्यन्दिनँसवनं सप्तदशैकविँशौ तृतीयसवनम्

English

The Pañcadasa and Saptadaśa Stomas accomplish the Midday pressing. The Saptadaśa and Ekaviṁśa Stomas accomplish the third pressing.

विश्वास-प्रस्तुतिः

एष एव सँश्चतुष्टोमो भवति

मूलम्

एष एव सँश्चतुष्टोमो भवति

English

Thus the Jyotiṣṭoma is characterised by four varieties of Stomas; because there are four varieties of Stomas.

विश्वास-प्रस्तुतिः

द्वादश हि स्तोत्राणि भवन्ति

मूलम्

द्वादश हि स्तोत्राणि भवन्ति

English

This again comprises twelve Stomas; because there are twelve Stotras.

विश्वास-प्रस्तुतिः

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तादेवैतत्त्रैविध्यगतेषु देवयजनमध्यवस्येद्विज्ञायते सा वा इयँसर्वैव वेदिरिति ५

मूलम्

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तादेवैतत्त्रैविध्यगतेषु देवयजनमध्यवस्येद्विज्ञायते सा वा इयँसर्वैव वेदिरिति ५

English

As for the view of Aupamanyava which they convey, namely, that (the sacrificer) should enter into the sacrificial place before the fires have been spread into three fireplaces: it is said that this entire (earth) is the altar.

विश्वास-प्रस्तुतिः

अथेममाग्नावैष्णवमेके प्रागप्सुदीक्षायै ब्रुवत उपरिष्टाद्वा

मूलम्

अथेममाग्नावैष्णवमेके प्रागप्सुदीक्षायै ब्रुवत उपरिष्टाद्वा

English

The offering to Agni-Viṣṇu is prescribed to be made before or after the initiation in water (apsudīkṣā).

विश्वास-प्रस्तुतिः

क्व उ खलु दीक्षणीयायै बर्हिर्यजुषा कुर्यादिति व्युपनिधाय सम्भारान्प्राक्पाणिसम्मर्शनाद्न यजमानं व्रतमुपनयति न पत्नीँसन्नह्यतीत्यध्वरदीक्षायै व्रतं प्रणुदते

मूलम्

क्व उ खलु दीक्षणीयायै बर्हिर्यजुषा कुर्यादिति व्युपनिधाय सम्भारान्प्राक्पाणिसम्मर्शनाद्न यजमानं व्रतमुपनयति न पत्नीँसन्नह्यतीत्यध्वरदीक्षायै व्रतं प्रणुदते

English

When is the sacrifical grass to be formally procured for the Dikṣaṇiyeṣți? One should procure it after having variously placed the substances and before the touching up of the palms. The Adhvaryu does not administer the vow to the sacrificer, does not gird the sacrificer’s wife; he leaves out the vow in favour of the initiation for a Soma-sacrifice.

विश्वास-प्रस्तुतिः

सर्वैवैषा व्रतोपायनीया भवतीष्टिरग्रमु पत्नीसन्नहनं न यजमानभागं करोति न ब्रह्मभागमित्याशीःसंयोजनावेवैतावुक्तौ भवतः

मूलम्

सर्वैवैषा व्रतोपायनीया भवतीष्टिरग्रमु पत्नीसन्नहनं न यजमानभागं करोति न ब्रह्मभागमित्याशीःसंयोजनावेवैतावुक्तौ भवतः

English

The entire Iṣṭi takes the place of the administration of the vow, and the subsequent girding of the sacrificer’s wife. The Adhvaryu does not provide for the sacrificer’s portion nor for the Brahman’s portion because these two are said to be effecting the blessing.

विश्वास-प्रस्तुतिः

किमुपक्रममाणो यज्ञमाशिषं वदेदित्यथापि सुभिक्षो व्रतोपायनीयस्य भवतीति

मूलम्

किमुपक्रममाणो यज्ञमाशिषं वदेदित्यथापि सुभिक्षो व्रतोपायनीयस्य भवतीति

English

And how can one introducing the sacrifice utter the blessing? The sacrificer who is worthy of being administered the vow has already consumed heavy food.

विश्वास-प्रस्तुतिः

कस्मै किँसुभिक्षायावद्येद्यजमानभागस्य खलूत्सादनाद्ब्रह्मभाग उत्सीदति

मूलम्

कस्मै किँसुभिक्षायावद्येद्यजमानभागस्य खलूत्सादनाद्ब्रह्मभाग उत्सीदति

English

What is the point in giving a portion to one who has consumed heavy food? Because the sacrificer’s portion is suspended, the Brahman’s portion also becomes suspended.

विश्वास-प्रस्तुतिः

संयुक्तौ ह्येतौ यजमानभागब्रह्मभागाविति

मूलम्

संयुक्तौ ह्येतौ यजमानभागब्रह्मभागाविति

English

The sacrificer’s portion and the Brahman’s portion are indeed joined together.

विश्वास-प्रस्तुतिः

न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं याचतीति

मूलम्

न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं याचतीति

English

As for the injunction that the Adhvaryu does not keep the cake on the Barhis; the sacrificer does not ask for the Anvāhārya cooked rice:[^1-1602]

विश्वास-प्रस्तुतिः

दक्षिणोक्तावेवैतावुक्तौ भवतोऽन्या उ खल्विह दक्षिणाः प्रतिख्याता भवन्ति

मूलम्

दक्षिणोक्तावेवैतावुक्तौ भवतोऽन्या उ खल्विह दक्षिणाः प्रतिख्याता भवन्ति

English

Those two are said to be the Dakṣiņā. Here separate Dakṣiņās are spoken of.

विश्वास-प्रस्तुतिः

न फलीकरणहोमेन चरति न समिष्टयजुर्जुहोतीत्यन्तपरिक्रमिणावेवैतावुक्तौ भवतः

मूलम्

न फलीकरणहोमेन चरति न समिष्टयजुर्जुहोतीत्यन्तपरिक्रमिणावेवैतावुक्तौ भवतः

English

As for the injunction that the Adhvaryu does not offer the chaff of rice, nor the Samiṣṭayajus:[^1-1602] These two rites indicate the termination of a sacrifice.

विश्वास-प्रस्तुतिः

किमुपक्रममाणो यज्ञमन्तं परिणयेदिति

मूलम्

किमुपक्रममाणो यज्ञमन्तं परिणयेदिति

English

How is it that while one is commencing a sacrifice, he should conclude it?

विश्वास-प्रस्तुतिः

न पूर्णपात्रे यजमानं वाचयति न विष्णुक्रमान्क्रमत इत्यवभृथोक्तः खलु पूर्णपात्रो भवत्य्

मूलम्

न पूर्णपात्रे यजमानं वाचयति न विष्णुक्रमान्क्रमत इत्यवभृथोक्तः खलु पूर्णपात्रो भवत्य्

English

As for the injunction that the Adhvaryu does not make the sacrificer recite the formula at the pouring down of the Praṇītā goblet : the sacrificer does not stride the Viṣṇu-steps.[^1-1602]

[^1-1602] BaudhŚS VI.3

विश्वास-प्रस्तुतिः

अन्यः खल्विहावभृथः प्रतिख्यातो भवत्यन्तपरिक्रमिणो विष्णुक्रमाः

मूलम्

अन्यः खल्विहावभृथः प्रतिख्यातो भवत्यन्तपरिक्रमिणो विष्णुक्रमाः

English

The pouring down of the Praṇīta-goblet is said to be the Avabhṛtha-rite. Here an independent Avabhṛtha is prescribed. The Viṣṇu-steps indicate the conclusion.

विश्वास-प्रस्तुतिः

किमुपक्रममाणो यज्ञमन्तं परिणयेदिति ६

मूलम्

किमुपक्रममाणो यज्ञमन्तं परिणयेदिति ६

English

How is it that while one is commencing a sacrifice, he should at the same time conclude it?

विश्वास-प्रस्तुतिः

द्वादश वात्सबन्धान्युदयच्छन्निति

मूलम्

द्वादश वात्सबन्धान्युदयच्छन्निति

English

The Brāhmaṇa says, “The twelve Vātsabandha (words) lifted up (the sacrifice).12

विश्वास-प्रस्तुतिः

कतमानि खल्विमानि वात्सबन्धानि भवन्तीत्येता एव स्रुवाहुतीरन्यत्र स्वाहाकारादित्यथाप्युदाहरन्ति समानसङ्ख्यानोऽग्निरृचि तिस्रो देवतास्तानि द्वादशाथेदं कृष्णाजिनं नौरुक्तं भवत्याच्य जान्वेतत्पार्श्वत एवाभिसर्पेद्दक्षिणं प्रति रन्ध्रं यथा नावं नक्तं चेदमेध्यं पश्येदाहवनीयमेवैतेन यजुषोपतिष्ठेताथेमानि दैक्षाणि व्रतानि सायमुपक्रमाणि प्रातरपवर्गाण्यथौपसदानि प्रातरुपक्रमाणि सायमपवर्गाण्यथेदं दैक्षं व्रतं परिश्रित्यैव व्रतयेदाहवनीय एवैतत्पुराग्निहोत्रँहूयते स मानुष्यास्यतीति ७

Which are these Vātsabandhas ? (The words) except svāhā (in the four formulas employed) for the offerings of spoonfuls. It is further said, Agni is common (to all the four formulas ākūtyai prayuje etc. There are eight divinities in these four formulas. This makes nine). In the verse (āpo devīr bṛhatīr …) there are three divinities. That makes twelve.[^2-1603]

The skin of black antelope is said to be a boat. Having bent his knee (the sacrificer) should crawl over it by the side towards the southern hole (i.e. fold of the foreleg) as one gets into a boat.

If (the sacrificer) gazes at an impure substance at night, he should pray to the Āhavanīya with this formula.13 Now these vows pertaining to the initiation are to be commenced in the evening and to be terminated in the morning. Those pertaining to the Upasads are to be commenced in the morning and to be terminated in the evening. (The sacrificer) should consume the milk pertaining to the initiation under an enclosure. The Agnihotra is first to be offered into the Āhavanīya “lest he would bear a grudge with me.”

[^2-1603] Sāyaṇa in his commentary on TS 1.2.2.1 understands by the word dvādaŝa the twelve When the Brāhmaṇa words constituting the Anuṣṭubh verse viśve devasya netur…. speaks about the Anuṣṭubh Rc consisting of twelve words, why should the Karmânta speak about the twelve divinities mentioned in the Yajus-formulas ? Bhatta Bhāskara calls this verse as catuṣpadā,

विश्वास-प्रस्तुतिः

अथायं प्रायणीयस्

मूलम्

अथायं प्रायणीयस्

English

Now this Prāyaṇīyeṣṭi.

विश्वास-प्रस्तुतिः

तस्य कः कर्मण उपक्रमो भवतीति

मूलम्

तस्य कः कर्मण उपक्रमो भवतीति

English

How is its procedure commenced?

विश्वास-प्रस्तुतिः

बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँस्यात्

मूलम्

बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँस्यात्

English

(The sacrificer) should formally fetch the sacrificial grass if it is formerly fetched in an informal manner.

विश्वास-प्रस्तुतिः

पाणी सम्मृशीत

मूलम्

पाणी सम्मृशीत

English

He should rub his palms against each other.

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

He should strew around the fire-places.

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हप्तयँस्फ्यं निदध्यात्

मूलम्

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हप्तयँस्फ्यं निदध्यात्

English

He should cleanse the implements and put them down. He should seat the Brahman towards the south, keep a pot full of water towards the north, and place the wooden sword to the rear of the Gārhapatya fire.

विश्वास-प्रस्तुतिः

स्फ्योपरि पात्रीम्पात्र्यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आ प्रस्कन्दनात्

मूलम्

स्फ्योपरि पात्रीम्पात्र्यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आ प्रस्कन्दनात्

English

A pan upon the wooden sword; he should pour paddy into the pan. The procedure from taking up of the winnowing basket upto the dropping of the husks is gone through as usual.

विश्वास-प्रस्तुतिः

प्रस्कन्दनान्तं कर्म कृत्वाहवनीये स्रुवाहुतिँहुत्वोपनिष्क्रम्य सम्प्रैषमुक्त्वाभिप्रपद्य तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वा स्फ्यहस्तः प्राङेत्य स्तम्बयजुर्हरेत्

Having done the rite ending with the dropping of the husks, he should offer a spoonful on the Āhavanīya, go out, give out the call, come back, pour water (into the cooking vessel) across the strainers,keep the vessel over the fire, and pour the paddy into it across the strainers. He should pour out clarified butter (into the vessel); keep (the vessel of clarified butter over the fire. He should carry fire round both (the clarified butter and rice), take the wooden sword, move towards the east and carry the Stambayajus.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं शंय्वन्तः प्रायणीयः सन्तिष्ठते

मूलम्

सिद्धमत ऊर्ध्वं शंय्वन्तः प्रायणीयः सन्तिष्ठते

English

The subsequent ritual is as prescribed. The Prāyaṇīyeṣṭi is concluded with the Saṁyuvāka.

विश्वास-प्रस्तुतिः

को नु खल्वस्य कर्मणोऽवशेषो भवतीत्या स्रुचां विमोकाद्न चरुहविषामाप्यनिनयनं विद्यत इति

मूलम्

को नु खल्वस्य कर्मणोऽवशेषो भवतीत्या स्रुचां विमोकाद्न चरुहविषामाप्यनिनयनं विद्यत इति

English

Which part of this rite is held back? The pouring down of wash-water in respect of the cooked rice and oblations does not take place until the ‘release’ of the ladles.

विश्वास-प्रस्तुतिः

स्थालीभिश्चैव चरुं निर्वपेदिति नु बौधायनस्य कल्पः

मूलम्

स्थालीभिश्चैव चरुं निर्वपेदिति नु बौधायनस्य कल्पः

English

The Adhvaryu should pour out paddy with vessels this is Baudhāyana’s view.

विश्वास-प्रस्तुतिः

किन्देवत्या उ खलु पदाहुतिर्भवतीत्याग्नेयीत्येके

मूलम्

किन्देवत्या उ खलु पदाहुतिर्भवतीत्याग्नेयीत्येके

English

Which is the divinity for the offering over the foot-print (of the Soma-purchasing cow)? Agni, some say;

विश्वास-प्रस्तुतिः

वैष्णवीत्येके

मूलम्

वैष्णवीत्येके

English

Viṣṇu, others;

विश्वास-प्रस्तुतिः

प्राजापत्येत्येके

मूलम्

प्राजापत्येत्येके

English

Prajāpati, still others.

विश्वास-प्रस्तुतिः

वाग्देवत्येत्येव ब्रूयात्

मूलम्

वाग्देवत्येत्येव ब्रूयात्

English

Vāg is its divinity, one should say.

विश्वास-प्रस्तुतिः

कृष्णयोर्णास्तुकया सोमविक्रयिणमन्तरेण भ्रूमके विध्यति

मूलम्

कृष्णयोर्णास्तुकया सोमविक्रयिणमन्तरेण भ्रूमके विध्यति

English

One strikes the Soma-seller inbetween his eye-brows with the black tuft of wool.

विश्वास-प्रस्तुतिः

राजानं प्रत्यपोर्णुते यजमानः ८

मूलम्

राजानं प्रत्यपोर्णुते यजमानः ८

English

The sacrificer covers the Soma.

विश्वास-प्रस्तुतिः

वयः सुपर्णा उपसेदुरिन्द्र मित्येतयाथ यदि न सोमविक्रयी स्यादग्रेण यूपावटकालं पलाशशाखां निहत्य समुपनह्य राजानं पलाशशाखायाँ समासज्योपासीताथ यदि कश्चित्प्रसवसंयुक्तं व्याहरेत्क्षिप्रमिति वा त्वरध्वमिति वा कुरुतेति वा तद्रा जानमाददीत

With the verse, “(The sages) bearing the form of strong-winged bird (approached Indra…14 If there is no Soma-seller, one should fix a twig of Butea frondosa in front of the spot for raising the sacrificial post, tie up the Soma, hang it upon the twig of Butea frondosa and sit by its side. When some one calls out “quick,” “hurry up,’ “start,” one should take up the Soma.

विश्वास-प्रस्तुतिः

न संवादा आवर्तेरन्

मूलम्

न संवादा आवर्तेरन्

English

The conversation should not take place.

विश्वास-प्रस्तुतिः

स सोमविक्रयी स्यादथेयं प्रथमा सुब्रह्मण्यॐकारान्तैवैषोक्ता भवत्यथायमातिथ्यस्

मूलम्

स सोमविक्रयी स्यादथेयं प्रथमा सुब्रह्मण्यॐकारान्तैवैषोक्ता भवत्यथायमातिथ्यस्

English

That person should be taken to be the Soma-seller. Now this first Subrahmaṇya. It is pronounced so as to end with the utterance om. Now this Ātithyeṣṭi.

विश्वास-प्रस्तुतिः

तस्य कः कर्मण उपक्रमो भवतीति

मूलम्

तस्य कः कर्मण उपक्रमो भवतीति

English

How does its procedure commence ?

विश्वास-प्रस्तुतिः

बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँस्यात्

मूलम्

बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँस्यात्

English

(The Adhvaryu) should formally procure the sacrificial grass if it is formerly procured informally;

विश्वास-प्रस्तुतिः

पाणी सम्मृशीत

मूलम्

पाणी सम्मृशीत

English

should rub his palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

should strew (the fire-places);

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्य दक्षिणमनड्वाहं विमुच्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँस्फ्यं निदध्यात्

मूलम्

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्य दक्षिणमनड्वाहं विमुच्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँस्फ्यं निदध्यात्

English

should cleanse the implements and put them down; should seat the Brahman to the south; should release the south-side ox (of the Soma-cart); keep a pot full of water towards the north; should keep down the wooden sword to the rear of the Gārhapatya;

विश्वास-प्रस्तुतिः

स्फोपरि पात्रीम्पात्र्यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आ प्रस्कन्दनात्

मूलम्

स्फोपरि पात्रीम्पात्र्यां व्रीहीनावपेद्शूर्पादानप्रभृति कर्मान्तस्तायत आ प्रस्कन्दनात्

English

keep a pan upon the wooden sword and should pour paddy in to the pan. The procedure is gone through from the taking up of the winnowing basket until the dropping (of the husks).

विश्वास-प्रस्तुतिः

प्रस्कन्दनान्तं कर्म कृत्वोत्तरमनड्वाहं विमुच्य राजानं प्रपादयेत्

मूलम्

प्रस्कन्दनान्तं कर्म कृत्वोत्तरमनड्वाहं विमुच्य राजानं प्रपादयेत्

English

He should go through the procedure ending with the dropping of the husks, release the north-side ox, and bring in king Soma (into the Pragvamsa shed).

विश्वास-प्रस्तुतिः

सिद्धमत्राग्निष्टोमिकं कर्म जानीयादा सम्प्रैषात्

मूलम्

सिद्धमत्राग्निष्टोमिकं कर्म जानीयादा सम्प्रैषात्

English

Further rite of the Agniṣṭoma should be understood as prescribed until the call.[^2-1605]

[^2-1605] cf. BaudhŚS VI.17 : mā rājānam cā’havaniyam că’ntareṇa etc.

विश्वास-प्रस्तुतिः

कृष्णाजिनावधवनेनैवातिथ्यं प्रतिपद्यते

मूलम्

कृष्णाजिनावधवनेनैवातिथ्यं प्रतिपद्यते

English

The rite pertaining to (the preparation of the oblation for) the Ātithyeṣṭi commences with the shaking of the skin of black antelope.15

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम् ९

मूलम्

सिद्धमत ऊर्ध्वम् ९

English

The subsequent rite is as prescribed.

१०

विश्वास-प्रस्तुतिः

स दर्भपुञ्जीलमुद्वृह्येति

मूलम्

स दर्भपुञ्जीलमुद्वृह्येति

English

(As for the Brāhmaṇa)[^1-1607] “Having rooted out a bunch of Darbha-blades”:

विश्वास-प्रस्तुतिः

कतरन्नु खल्विदं दर्भपुञ्जीलं भवतीति

मूलम्

कतरन्नु खल्विदं दर्भपुञ्जीलं भवतीति

English

how big indeed should this bunch be?

विश्वास-प्रस्तुतिः

यदेवैतद्गोदानयोर्निदधातीति

मूलम्

यदेवैतद्गोदानयोर्निदधातीति

English

It should be so big as the Adhvaryu holds over the hair near the ears of the sacrificer.

विश्वास-प्रस्तुतिः

सप्त गिरीन्भित्त्वेति

मूलम्

सप्त गिरीन्भित्त्वेति

English

(As for the Brāhmaṇa)[^1-1607] “having rent the seven mountains” :

English

कतमे नु खल्विमे गिरयो भवन्तीति

English

which indeed are these mountains?

विश्वास-प्रस्तुतिः

प्रयाजानूयाजा एवैता उक्ता भवन्तीति दीक्षणीयायाः प्रायणीयाया आतिथ्याया अग्नीषोमीयस्येत्य्

मूलम्

प्रयाजानूयाजा एवैता उक्ता भवन्तीति दीक्षणीयायाः प्रायणीयाया आतिथ्याया अग्नीषोमीयस्येत्य्

English

The Prayājas and the Anūyājas themselves of the Dikṣaṇīyeṣti, the Prāyaṇīyeṣṭi, the Ātithyeṣṭi and the Agnīṣomīya animal-sacrifice are intended here.

विश्वास-प्रस्तुतिः

अथाप्युदाहरन्ति दीक्षणीया प्रायणीयातिथ्योपसदोऽग्नीषोमीयः सप्तम इति

मूलम्

अथाप्युदाहरन्ति दीक्षणीया प्रायणीयातिथ्योपसदोऽग्नीषोमीयः सप्तम इति

English

It is also said that (the Prayājas and Anuyājas of) the Dīkṣanīyeṣṭi, the Prāyaṇīyeṣṭi, the Ātithyeṣṭi, (three) Upasads (constitute the six mountains, and those of) the Agnīṣomīya animal-sacrifice the seventh.

विश्वास-प्रस्तुतिः

यज्ञो देवेभ्यो निलायतेति

मूलम्

यज्ञो देवेभ्यो निलायतेति

English

(As for the Brāhmaṇa):[^1-1607] “the sacrifice concealed itself from the gods”:

विश्वास-प्रस्तुतिः

कतमो नु खल्वयं यज्ञो भवतीति

मूलम्

कतमो नु खल्वयं यज्ञो भवतीति

English

which sacrifice indeed is this?

विश्वास-प्रस्तुतिः

य एवैष इडान्त आतिथ्यः सन्तिष्ठते

मूलम्

य एवैष इडान्त आतिथ्यः सन्तिष्ठते

English

It is this Ātithyeṣṭi which is concluded with the Iḍā.

विश्वास-प्रस्तुतिः

तं देवा हस्तान्सँरभ्यैच्छन्निति

मूलम्

तं देवा हस्तान्सँरभ्यैच्छन्निति

English

(As for the Brahmaṇa)[^2-1607] “the gods desired him, holding together their hands”

विश्वास-प्रस्तुतिः

यदेवैतत्तानूनप्त्रँसमवमृशन्तीति

मूलम्

यदेवैतत्तानूनप्त्रँसमवमृशन्तीति

English

(this is symbolised in) that they together touch the Tānūnaptra clarified butter.

विश्वास-प्रस्तुतिः

तमिन्द्र उपर्युपर्यत्यक्रामदिति

मूलम्

तमिन्द्र उपर्युपर्यत्यक्रामदिति

English

(As for the Brāhmaṇa)[^2-1607] “Indra stepped beyond high above”:

विश्वास-प्रस्तुतिः

यदेवैतदुपसद्भिश्चरन्तीति

मूलम्

यदेवैतदुपसद्भिश्चरन्तीति

English

(this is symbolised in) that they perform the Upasads.

विश्वास-प्रस्तुतिः

तमेभ्यो यज्ञ एव यज्ञमाहरदिति

मूलम्

तमेभ्यो यज्ञ एव यज्ञमाहरदिति

English

(As for the Brāhmaṇa)[^1-1607] “The sacrifice itself brought forth sacrifice unto them”:

विश्वास-प्रस्तुतिः

कतमो नु खल्वयं यज्ञो यज्ञमाहरदिति

मूलम्

कतमो नु खल्वयं यज्ञो यज्ञमाहरदिति

English

Which sacrifice indeed is this which brought forth sacrifice?

विश्वास-प्रस्तुतिः

दीक्षणीया प्रायणीयातिथ्यैष एव यज्ञो यज्ञमाहरदिति

मूलम्

दीक्षणीया प्रायणीयातिथ्यैष एव यज्ञो यज्ञमाहरदिति

English

(It is) the Dikṣaṇiyești, the Prāyaṇīyeṣṭi and the Âtithyești. This sacrifice itself brought forth the sacrifice.

विश्वास-प्रस्तुतिः

वराहोऽयं वाममोष इति

मूलम्

वराहोऽयं वाममोष इति

English

(As for the Brāhmaṇa)[^1-1607] “This boar is the plunderer of the desirable (wealth)” :

विश्वास-प्रस्तुतिः

सुत्यमह्नां वर्षिष्ठं तद्यजमानं वामं वसु मुष्णातीति

मूलम्

सुत्यमह्नां वर्षिष्ठं तद्यजमानं वामं वसु मुष्णातीति

English

The Soma-pressing day is the most pre-eminent of the days (of a Soma-sacrifice). It robs the sacrificer of the most desirable wealth.

विश्वास-प्रस्तुतिः

के नु खल्वातिथ्यस्यानूयाजा भवन्तीत्युपसद इत्येव ब्रूयात्

मूलम्

के नु खल्वातिथ्यस्यानूयाजा भवन्तीत्युपसद इत्येव ब्रूयात्

English

Which indeed are the Anūyājas of the Ātithyeṣṭi? One should reply, they are verily the Upasads.

विश्वास-प्रस्तुतिः

किन्देवत्या उ खलूपसदो भवन्तीत्याग्नेय्य इत्येव ब्रूयात्

मूलम्

किन्देवत्या उ खलूपसदो भवन्तीत्याग्नेय्य इत्येव ब्रूयात्

English

Which is the divinity of the Upasads? Agni, one should say.

विश्वास-प्रस्तुतिः

कथमु खलूपसदामुपक्रमो भवतीति

मूलम्

कथमु खलूपसदामुपक्रमो भवतीति

English

How does the procedure of the Upasads commence ?

विश्वास-प्रस्तुतिः

बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँस्यात्

मूलम्

बर्हिर्यजुषा कुर्याद्यदि पुरस्तादयजुष्कृतँस्यात्

English

One should formally procure the sacrificial grass, if one has formerly procured it informally;

विश्वास-प्रस्तुतिः

पाणी सम्मृशीत

मूलम्

पाणी सम्मृशीत

English

should rub the palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

should strew around (the fire-places,

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेद्मदन्तीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्या पर्यग्नि कृत्वा स्फ्यहस्तः प्राङेत्य स्तम्बयजुर्हरेत्

मूलम्

पात्राणि निर्णिज्य सँसादयेद्मदन्तीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्या पर्यग्नि कृत्वा स्फ्यहस्तः प्राङेत्य स्तम्बयजुर्हरेत्

English

cleanse the implements and put them down; should heat water and sprinkle the implements; pour out clarified butter (into the vessel); put (the vessel) over the fire, carry fire around it; take up the wooden sword, move eastwards, and carry the Stambayajus.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं यथा प्रकृत्यामेवं प्रथमायामुपसदि स्रुचः सादयेद्

मूलम्

सिद्धमत ऊर्ध्वं यथा प्रकृत्यामेवं प्रथमायामुपसदि स्रुचः सादयेद्

English

The subsequent procedure is as prescribed. He should place the ladles in the first Upasad in the manner in which he placed in the norm.

विश्वास-प्रस्तुतिः

अभ्यूढा द्वितीयस्यामभ्यूढतरास्तृतीयस्यां सन्त्वरमाणा इवोपसद्भिः प्रचरेयुर्नाकृतमाद्रि येरन्

मूलम्

अभ्यूढा द्वितीयस्यामभ्यूढतरास्तृतीयस्यां सन्त्वरमाणा इवोपसद्भिः प्रचरेयुर्नाकृतमाद्रि येरन्

English

Farther in the second Upasad and still farther in the third. They should proceed with the Upasad rite hurriedly. They should not care if something is left out.

विश्वास-प्रस्तुतिः

समग्राङ्गुलिः स्रुवमादायास्यन्निवोपसदं जुहुयादिति १०

मूलम्

समग्राङ्गुलिः स्रुवमादायास्यन्निवोपसदं जुहुयादिति १०

English

The Adhvaryu should hold up the spoon with finger-tips, and offer the Upasad- oblation as if throwing.

११

विश्वास-प्रस्तुतिः

क्व उ खल्वग्नीषोमीयस्य बर्हिर्यजुषा कुर्यादित्युद्वास्य प्रवर्ग्यं प्रागाहवनीयस्य प्रणयनात्

मूलम्

क्व उ खल्वग्नीषोमीयस्य बर्हिर्यजुषा कुर्यादित्युद्वास्य प्रवर्ग्यं प्रागाहवनीयस्य प्रणयनात्

English

When should one formally procure the sacrificial grass? After having disposed of the Pravargya-utensils and before the carrying forth of the Āhavanīya.

विश्वास-प्रस्तुतिः

सवनीयेभ्यश्च वत्सानुपाकुर्याद्व्यवच्छिन्न आहवनीये गार्हपत्ये पदतृतीयमुपवपेदेवमुपयमनीष्वथेयमौदुम्बरी स्थूणा यजमानेन सम्मिता कार्या भवत्यथायं यूपो यजमानस्यारत्निभिर्विमितो भवति

मूलम्

सवनीयेभ्यश्च वत्सानुपाकुर्याद्व्यवच्छिन्न आहवनीये गार्हपत्ये पदतृतीयमुपवपेदेवमुपयमनीष्वथेयमौदुम्बरी स्थूणा यजमानेन सम्मिता कार्या भवत्यथायं यूपो यजमानस्यारत्निभिर्विमितो भवति

English

He should moreover drive away the calves from their mothers for the milk for the Savanīyapuroḍāśas. After the Āhavanīya fire has been divided, the Adhvaryu should put into the Gārhapatya fire-place one-third of the earth of the foot-print of the Soma-purchasing cow, and another one-third into the supporting earth (for the Āhavanīya to be carried forth). The post of Ficus glomeratais to be made as high as the sacrificer. The sacrificial post is to be measured by means of the elbow of the sacrificer.

विश्वास-प्रस्तुतिः

सहोपर इत्येकेऽत्रो हैवैतानि कुर्याद्यूपावटं तु परिलिख्य पाणी सम्मृशीत

मूलम्

सहोपर इत्येकेऽत्रो हैवैतानि कुर्याद्यूपावटं तु परिलिख्य पाणी सम्मृशीत

English

According to some teachers it is to be measured including the underground portion. He should do these things at this stage. After having traced the hole for the sacrificial post, the Adhvaryu should rub his palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

he should strew around (the fire-places);

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेत्

मूलम्

पात्राणि निर्णिज्य सँसादयेत्

English

he should cleanse the implements and put them down;

विश्वास-प्रस्तुतिः

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः सम्मार्ष्टि

मूलम्

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः सम्मार्ष्टि

English

he should sanctify the Prokṣaṇī-water and sprinkle the implements. He should pour out clarified butter (into the vessel), place (the vessel) over the fire, carry fire around it, and cleanse the ladles.

विश्वास-प्रस्तुतिः

ता उत्तरवेदिँहरन्ति प्रोक्षणीश्चाथ प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेनाथैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

मूलम्

ता उत्तरवेदिँहरन्ति प्रोक्षणीश्चाथ प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेनाथैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

विश्वास-प्रस्तुतिः

These and the Prokṣaṇī- ladle are carried towards the Uttaravedi. The Pratiprasthātṛ should put the girdle round the waist of the sacrificer’s wife with the formula from the Pauroḍāśikakāṇḍa.16 He should make her gaze at the Gārhapatya and at the clarified butter, and carry forth the clarified butter.

पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः

He should take hold with “thou art lustre17 of the clarified butter gazed at by the sacrificer’s wife. Supporting it with a chip of wood, he should carry it with the formula, “Do thou follow the lustre.”17 He should place it over the Āhavanīya with the formula, “Let Agni not remove thy lustre.”17 He should carry it, place to the north of the Prokṣaṇī-water, gaze at it, and purify the Prokṣaṇī-water by means of the two strainers with which clarified butter has been purified.

विश्वास-प्रस्तुतिः

प्रसिद्धमाहवनीयसकाशे पृषदाज्यवन्त्याज्यानि गृह्णीतेति

मूलम्

प्रसिद्धमाहवनीयसकाशे पृषदाज्यवन्त्याज्यानि गृह्णीतेति

English

He should take up into the ladles clarified butter together with the Pr̥ṣadājya.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं यथो एतच्छालीकेः कल्पं वेदयन्ते पत्नीशाल एवाग्नीषोमस्याज्यानि गृह्णीयात्तानि खरे सादयेदिति

मूलम्

सिद्धमत ऊर्ध्वं यथो एतच्छालीकेः कल्पं वेदयन्ते पत्नीशाल एवाग्नीषोमस्याज्यानि गृह्णीयात्तानि खरे सादयेदिति

English

The subsequent procedure is as prescribed. As for Śālīki’s view made known, namely, that the sacrificer should take up clarified butter into the ladles in the shed of the sacrificer’s wife itself and place them on the mound:

विश्वास-प्रस्तुतिः

समन्वानीय वासमन्वानीय वा पुराणगार्हपत्यं पाणी सम्मृशीत

मूलम्

समन्वानीय वासमन्वानीय वा पुराणगार्हपत्यं पाणी सम्मृशीत

English

(the procedure to be followed is that) the Adhvaryu may or may not put a part of the (old) Gārhapatya fire into the Āhavanīya (i.e. new Gārhapatya); he should rub his palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

should strew around (the fire-places);

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेत्

मूलम्

पात्राणि निर्णिज्य सँसादयेत्

English

should cleanse the implements and place them;

विश्वास-प्रस्तुतिः

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः सम्मार्ष्टि

मूलम्

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः सम्मार्ष्टि

English

should sanctify Prokṣaṇī-water and it sprinkle the implements; should pour out clarified butter (into the vessel), put over the fire, carry a firebrand around, and cleanse the ladles.

विश्वास-प्रस्तुतिः

ता अत्रैव सह सँसादयन्ति प्रोक्षणीश्च

मूलम्

ता अत्रैव सह सँसादयन्ति प्रोक्षणीश्च

English

The ladles and the Prokṣaṇī - water are placed together.

विश्वास-प्रस्तुतिः

न प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेन

मूलम्

न प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेन

English

The Pratiprasthātṛ should not put a girdle round the waist of the sacrificer’s wife with the formula from the Pauroḍāśikakāṇda.

विश्वास-प्रस्तुतिः

नैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

मूलम्

नैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

English

He should not make her gaze at the Gārhapatya. He should make her gaze at the clarified butter, and should carry forth the clarified butter.

विश्वास-प्रस्तुतिः

पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्यथैनद्गार्हपत्येऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण् प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः प्रसिद्धं गार्हपत्यसकाशे पृषदाज्यवन्त्याज्यानि गृहीत्वा ११

After the sacrificer’s wife has gazed at it, he should take hold of it with “Thou art lustre.”17 He should support it with a chip and carry forth with “Do thou follow the lustre.”17 He should heat it over the Gārhapatya with “Let not the fire deprive thee of the lustre.”17 He should carry it, place to the north of the Prokṣaṇī-water; should gaze at it and purify the Prokṣaṇī-water by means of the two strainers with which he has purified the clarified butter. He should take up into the ladles clarified butter together with the Pṛṣaḍājya near the Gārhapatya.

१२

विश्वास-प्रस्तुतिः

परिक्रमिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छेत्

मूलम्

परिक्रमिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छेत्

English

He should hand them over to the assistants and the Soma to the Brahman.

विश्वास-प्रस्तुतिः

सम्प्रच्छन्नेषु स्रुवाहुती जुहुयात्

मूलम्

सम्प्रच्छन्नेषु स्रुवाहुती जुहुयात्

English

After a canopy has been held over (the heads of the sacrificer and his relatives), he should offer two spoonfuls.

विश्वास-प्रस्तुतिः

सम्प्रच्छन्नाश्चैव गच्छेयुराहवनीयाद्रा जा दक्षिणार्ध्यः स्यादथाग्निरथ ग्रावोवायव्यान्युत्तरार्ध्यान्याज्यान्यपि वाग्निर्दक्षिणार्ध्यः स्यादथ राजाथ ग्रावोवायव्यान्युत्तरार्ध्यान्येवाज्यानि

मूलम्

सम्प्रच्छन्नाश्चैव गच्छेयुराहवनीयाद्रा जा दक्षिणार्ध्यः स्यादथाग्निरथ ग्रावोवायव्यान्युत्तरार्ध्यान्याज्यान्यपि वाग्निर्दक्षिणार्ध्यः स्यादथ राजाथ ग्रावोवायव्यान्युत्तरार्ध्यान्येवाज्यानि

English

With the canopy held over, they should proceed upto the Āhavanīya. Soma should be on the southern side, then the fire, then the pressing stones and wooden cups; the ladles of clarified butter on the northern side. Or the fire may be on the southern side, then Soma, then pressing stones and wooden cups and the ladles on the northern side.

विश्वास-प्रस्तुतिः

पूर्वया द्वारोपनिष्क्रम्योत्तरेण सदः परीत्याग्नीध्रागारेऽग्निं निधायाभिहुत्य प्रोक्षणीहस्त उत्तरेणाग्नीध्रीयं धिष्णियं प्रतिपद्यतेऽन्वञ्च आज्यैराहवनीये हुत्वेध्मं प्रोक्ष्य वेदिं प्रोक्ष्य बर्हिः प्रोक्ष्य बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृहीत्वा पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मयमयान्परिधीन्परिधायोर्ध्वे समिधावभ्याधाय बर्हिर्मुष्टिं विधृती प्रस्तरमित्येतत्समादाय प्रदक्षिणमावृत्य पूर्वया द्वारा हविर्धानं प्रपद्योत्तरार्धे खरस्य बर्हिर्मुष्टिँस्तृणीयाद्बर्हिषि विधृती

The Adhvaryu should go out by the eastern door, move round along the north of the Sadas, put the fire into the Āgnīdhrīya fire, make an offering upon it, hold the ladle in his hand and proceed along the north of the Āgnīdhra-chamber. Those holding the ladles follow him. The Adhvaryu makes an offering on the Āhavanīya, sprinkles the faggot, sprinkles the altar, sprinkles the sacrificial grass, sprinkles the sacrificial grass which he has put down, pours down (the Prokṣaṇī-water), takes out from the front the Prastara of the reed Saccharum spontaneum, and spreads out the sacrificial grass in five rows. He should move ahead with the Prastara in hand, lay down the enclosing sticks of the tree Gmelina arborea, keep erect two fire-sticks, take up a handful of grass, two separating darbha-blades and the Prastara, turn by the right, enter into the Havirdhāna shed through the eastern door and spread the handful of grass on the northern part of the mound, two separating darbha-blades upon the grass,

विश्वास-प्रस्तुतिः

विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्याप उपस्पृश्य ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयेदात्मानमभिपरिहरमाण इव

मूलम्

विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्याप उपस्पृश्य ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयेदात्मानमभिपरिहरमाण इव

English

and the Prastara of the reed Saccharum spontaneum on the separating darbha-blades, the Juhū-ladle on the Prastara, and other ladles on the sacrificial grass. He should touch them together with the formula, “These are placed …,”18 touch water, take back Soma from the Brahman and bring him in the Havirdhāna shed by the eastern door carrying him around himself.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम् १२

मूलम्

सिद्धमत ऊर्ध्वम् १२

English

The subsequent procedure is as prescribed.

१३

विश्वास-प्रस्तुतिः

क्व उ खलु शिल्पवदिध्माबर्हिरपवर्गं गच्छतीत्यग्नीषोमीय इत्येव ब्रूयात्

मूलम्

क्व उ खलु शिल्पवदिध्माबर्हिरपवर्गं गच्छतीत्यग्नीषोमीय इत्येव ब्रूयात्

English

Where is the fetching of the specific sacrificial grass and faggot terminated? In the Agniṣomīya animalsacrifice, one should say.

विश्वास-प्रस्तुतिः

क्व उ खल्वग्नीषोमीयः सुत्यमहरनुसमेतीति

मूलम्

क्व उ खल्वग्नीषोमीयः सुत्यमहरनुसमेतीति

English

In which sacrifice does the Agnīṣomīya animal-sacrifice19 follow the pressing day?

विश्वास-प्रस्तुतिः

सद्यस्क्रियामित्येव ब्रूयात्

मूलम्

सद्यस्क्रियामित्येव ब्रूयात्

English

In the Sadyaskri sacrifice,” one should say.

विश्वास-प्रस्तुतिः

क्व उ खलु प्रवर्ग्यः सुत्यमहरनुसमेतीति

मूलम्

क्व उ खलु प्रवर्ग्यः सुत्यमहरनुसमेतीति

English

In which sacrifice does the Pravargya follow the pressing day?

विश्वास-प्रस्तुतिः

सद्यस्क्रियामित्येव ब्रूयात्

मूलम्

सद्यस्क्रियामित्येव ब्रूयात्

English

In the Sadyaskri sacrifice itself, one should say.

विश्वास-प्रस्तुतिः

का उ खलु देवता सुब्रह्मण्या प्रथमाहूयत इति

मूलम्

का उ खलु देवता सुब्रह्मण्या प्रथमाहूयत इति

English

Which divinity is first invoked as the Subrahmaṇya?

विश्वास-प्रस्तुतिः

वागेव वाचमाह्वयतीति

मूलम्

वागेव वाचमाह्वयतीति

English

Speech itself invokes speech.

विश्वास-प्रस्तुतिः

क्व उ खलु पितापुत्रीया सुब्रह्मण्या प्रथमाहूयत इत्यग्नीषोमीयस्य हुतायां वपायां परिहृतासु वसतीवरीषु द्वितीया

मूलम्

क्व उ खलु पितापुत्रीया सुब्रह्मण्या प्रथमाहूयत इत्यग्नीषोमीयस्य हुतायां वपायां परिहृतासु वसतीवरीषु द्वितीया

English

At what time is the Pitāputrīyā Subrahmaṇya first invoked? (First) after the omentum has been offered in the Agnīṣomīya animal-sacrifice. Secondly after the Vasatīvarī waters have been carried around.

विश्वास-प्रस्तुतिः

प्रातरनुवाके तृतीया

मूलम्

प्रातरनुवाके तृतीया

English

Thirdly at the Prātaranuvāka.

विश्वास-प्रस्तुतिः

दक्षिणानामु ह काल एक आह्वयन्तीत्यथ यो वीडितः कुम्भस्तं याचतीति दृढ इत्येवेदमुक्तं भवति

मूलम्

दक्षिणानामु ह काल एक आह्वयन्तीत्यथ यो वीडितः कुम्भस्तं याचतीति दृढ इत्येवेदमुक्तं भवति

English

Some invoke her (also) at the giving away of Dakṣiņās. As for the injunction that one asks for what is a vidita pitcher: It means a strong one.

विश्वास-प्रस्तुतिः

पयश्च सक्तूँश्च कुरुतेति श्रयणार्थे एवैते उक्ते भवतश्चतस्रो रशनाश्चतस्रो वपाश्रपणीर्द्वयमिध्माबर्हिरिति सवनीयस्य चानूबन्ध्यस्य चैतानि भवन्ति

मूलम्

पयश्च सक्तूँश्च कुरुतेति श्रयणार्थे एवैते उक्ते भवतश्चतस्रो रशनाश्चतस्रो वपाश्रपणीर्द्वयमिध्माबर्हिरिति सवनीयस्य चानूबन्ध्यस्य चैतानि भवन्ति

English

As for the injunction that “do you procure milk and flour of parched barley”— these are intended for mixing (with Soma). Four cords, four omentum-forks and two sets of sacrificial grass and faggot- these are for the Savanīya and Anūbandhyā animal-sacrifices.

विश्वास-प्रस्तुतिः

काश्चतस्र स्थालीर्वायव्याः सोमग्रहणीरित्यादित्यस्थाल्युक्थ्यस्थाल्याग्रयणस्थाली ध्रुवस्थालीत्यथेमानि द्वादशोर्ध्वपात्राणि भवन्ति दधिग्रहपात्रमपाँ श्वन्तर्यामयोर्द्विदेवत्यानाँशुक्रामन्थिनोरृतुपात्रे आदित्यस्थाल्या औपशयं पात्रमुक्थ्यस्थाल्या औपशयं पात्रम्

Which are the four vessels —the Soma-receptacles belonging to Vāyu? (They are) Āditya-vessel, Ukthya-vessel, Āgrayaṇa-vessel, and Dhruva-vessel. These are the twelve elevated cups: the Dadhigraha, the Upāṁśu and Antaryāma cups, three cups belonging to the dual divinities, the Śukra and Manthin, the two R̥tu-cups, the cup accessory to the Āditya-vessel and the cup accessory to the Ukthya-vessel.

विश्वास-प्रस्तुतिः

अथेम एकादश चमसा भवन्ति यजमानस्य ब्रह्मणो होतुरुद्गातुर्मैत्रावरुणस्य ब्राह्मणाच्छँसिनोऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुरिति

मूलम्

अथेम एकादश चमसा भवन्ति यजमानस्य ब्रह्मणो होतुरुद्गातुर्मैत्रावरुणस्य ब्राह्मणाच्छँसिनोऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुरिति

English

These are the eleven goblets of the sacrificer, of the Brahman, of the Hotr̥, of the Udgatṛ, of theMaitrāVaruṇa, of the Brāhmaṇacchamsin, of the Acchāvāka, of the Sadasya, of the Āgnīdhra, of the Potṛ, and of the Neṣṭr̥.

विश्वास-प्रस्तुतिः

तेषां त्सरूणि सरूपाणि कारयेन्नैयग्रोधानाम्विज्ञायत उत्तरस्यां ततौ यदत्सरुकैश्चमसैर्भक्षयन्ति न्यग्रोधचमसैरित्येतस्मान्नैयग्रोधा एव भवन्ति

मूलम्

तेषां त्सरूणि सरूपाणि कारयेन्नैयग्रोधानाम्विज्ञायत उत्तरस्यां ततौ यदत्सरुकैश्चमसैर्भक्षयन्ति न्यग्रोधचमसैरित्येतस्मान्नैयग्रोधा एव भवन्ति

English

For these (goblets) made of the wood of Ficus Indica one shold get prepared uniform handles. It is said in the Brāhmaṇa cited in the Uttarā tati.20 “In that they consume (Soma) in handleless goblets made of the wood of Ficus Indica.” Therefore the goblets are made of wood of Ficus Indica.

विश्वास-प्रस्तुतिः

रश्मिश्च म इत्यदाभ्य एवैष उक्तो भवत्यधिपतिश्च म इति प्राजापत्य एष दधिग्रहो भवति

मूलम्

रश्मिश्च म इत्यदाभ्य एवैष उक्तो भवत्यधिपतिश्च म इति प्राजापत्य एष दधिग्रहो भवति

English

By the formula, “May the ray be shared by me (through the sacrifice)”20 the Adabhya cup is spoken of. By the formula, “May the overlord …,”20 is mentioned the Dadhigraha to be offered to Prajāpati.

विश्वास-प्रस्तुतिः

सारस्वतश्च मे पौष्णश्च म इति वसतीवरीरित्येक आहुरथ हैक आहू राजसूयिक एष महाग्रहो भवति

मूलम्

सारस्वतश्च मे पौष्णश्च म इति वसतीवरीरित्येक आहुरथ हैक आहू राजसूयिक एष महाग्रहो भवति

English

By the formula, “May the Sārasvata cup, may the cup for Pūṣan…”21 are meant the Vasatīvarī waters according to some teachers; others deem it to be a big cup used in the Rājasūya.

विश्वास-प्रस्तुतिः

पोषणादु ह पौष्णो भवति ग्रहणादु सारस्वत इति १३

मूलम्

पोषणादु ह पौष्णो भवति ग्रहणादु सारस्वत इति १३

English

It is called Pauṣṇa because it feeds; it is caled Sārasvata because it is taken.

१४

विश्वास-प्रस्तुतिः

अथेदं महारात्रिकं कर्म

मूलम्

अथेदं महारात्रिकं कर्म

English

Now this ritual, to be gone through at early dawn.

विश्वास-प्रस्तुतिः

तस्य कः कर्मण उपक्रमो भवतीति

मूलम्

तस्य कः कर्मण उपक्रमो भवतीति

English

What is its procedure?

विश्वास-प्रस्तुतिः

हस्तपादान्प्रक्षाल्यान्तरेण चात्वालोत्करौ देवयजनमभि प्रपद्यन्ते

मूलम्

हस्तपादान्प्रक्षाल्यान्तरेण चात्वालोत्करौ देवयजनमभि प्रपद्यन्ते

English

Having washed hands and feet, the priests enter the sacrificial place between the Catvāla and the rubbish-heap.

विश्वास-प्रस्तुतिः

तेषां यथासम्प्रैषं विहितानि कर्माणि भवन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमित्यथैष आग्नीध्रः पूर्वः पत्नीशालं द्रुत्वाग्नीनुपसमाधाय सम्परिस्तीर्य पात्राणि निर्णिज्य सँसाद्याज्यं विलाप्योपास्तेऽपरः प्रतिप्रस्थाता प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्रुचः सम्मार्ष्टि

They act as per the calls given to them. The Adhvaryu should touch the Āgnīdhra-chamber reciting a verse addressed to Agni; the Havirdhāna reciting a verse addressed to Viṣṇu. He then waits. The Āgnīdhra first hastens to the shed of the sacrificer’s wife, enkindles the fires, strews them around, cleanses the implements, puts them down, melts the clarified butter and stands by. The Pratiprasthātṛ sanctifies the Prokṣaṇī-water and sprinkles the implements. He pours out clarified butter (into the vessel), puts it over fire, carries a firebrand around it and cleanses the ladles.

विश्वास-प्रस्तुतिः

ता उत्तरवेदिँहरन्ति प्रोक्षणीश्चाथाध्वर्युराग्नेय्यर्चा स्रुचोऽभिमृशति

मूलम्

ता उत्तरवेदिँहरन्ति प्रोक्षणीश्चाथाध्वर्युराग्नेय्यर्चा स्रुचोऽभिमृशति

English

The ladles and the Prokṣaṇī-water are carried towards the Uttaravedi The Adhvaryu touches the ladles reciting the verse ad- dressed to Agni.

विश्वास-प्रस्तुतिः

सम्मृष्टानि द्विधा पात्राण्यभिम्रक्ष्यन्त इति

मूलम्

सम्मृष्टानि द्विधा पात्राण्यभिम्रक्ष्यन्त इति

English

The implements which have been cleansed are touched in two parts.

विश्वास-प्रस्तुतिः

वायव्यया वायव्यान्यैन्द्र् या सदोऽथैष उन्नेता ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरोऽक्षँसँ सादयत्युपकल्पयते प्रतिप्रस्थाता पृषदाज्याय दध्याग्नीध्र इध्माबर्हिरुपसादयत्यथ प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेनाथैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

He touches the utensils belonging to Vāyu with the verse addressed to Vāyu; the Sadas with the verse addressed to Indra. The Unnetṛ washes pressing stones and the implements belonging to Vāyu, keeps the woollen filter into the Droṇakalaśa, and places (the Dronakalaśa) in front of the axle of the southern Havirdhāna cart. The Pratiprasthātṛ procures curds for preparing Pṛṣadājya. The Āgnīdhra places the sacrificial grass and faggot at their places. The Pratiprasthātṛ puts a girdle round the waist of the sacrificer’s wife with the verse22 from the Pauroḍāśikakāṇḍa; he makes her gaze at the Gārhapatya, and then at the clarified butter.

विश्वास-प्रस्तुतिः

पत्न्या तदेवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छशलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः प्रसिद्धमाहवनीयसकाशे पृषदाज्यवन्त्याज्यानि गृह्णीते सिद्धमत ऊर्ध्वम् १४

He should lift up the clarified butter gazed at by the sacrificer’s wife with the formula “Thou art lustre.”23 Having supported it with a chip, he should carry it with “Do thou follow the clarified butter.”23 He should heat it over the Āhavanīya with the formula, “Let Agni not deprive thee of thy lustre.”23 He should carry it, place it to the north of the Prokṣaṇī-ladle and gaze at it. He should purify the Prokṣaṇī-water by means of the strainers with which he had purified the clarified butter. He takes up into the ladies clarified butter together with the Pr̥ṣadājya. The subsequent procedure is as prescribed.

१५

विश्वास-प्रस्तुतिः

अथ शालीकेरेवमेवैषां यथासम्प्रैषं विहितानि कर्माणि भवन्त्यथाध्वर्युराग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमित्यथोपरमत्यथैष आग्नीध्रः पूर्वः पत्नीशालं द्रुत्वाग्निमुपसमाधाया सम्परिस्तीर्य पात्राणि निर्णिज्य सँसाद्याज्यं विलाप्योपास्तेऽपरः प्रतिप्रस्थाता प्रोक्षणीः सँ स्कृत्य पात्राणि प्रोक्षेदाज्यं निरुपयाधिश्रित्य पर्यग्नि कृत्वा स्रुचः सम्मार्ष्टि

Now the view of Śālīki. The priests do their respective acts as per the calls. The Adhvaryu touches the Āgnīdhra-chamber with the verse addressed to Agni, and the Havirdhāna-shed with the verse addressed to Viṣṇu, and waits. the Āgnīdhra hastens to the shed of the sacrificer’s wife, enkindles the fires, strews them around, cleanses the implements, places them, melts the clarified butter and stands by. The Pratiprasthātṛ sanctifies the Prokṣaṇī-water and sprinkles the implements. He pours out the clarified butter (into the vessel), puts it over the fire, carries a firebrand around it and cleanses the ladles.

विश्वास-प्रस्तुतिः

ता आग्नीध्रँहरन्ति प्रोक्षणीश्चाथाध्वर्युराग्नेय्यर्चा स्रुचोऽभिमृशति

मूलम्

ता आग्नीध्रँहरन्ति प्रोक्षणीश्चाथाध्वर्युराग्नेय्यर्चा स्रुचोऽभिमृशति

English

These and the Prokṣaṇī-ladle are carried into the Āgnīdhra-chamber. The Adhvaryu touches the ladles with the verse addressed to Agni.

विश्वास-प्रस्तुतिः

सम्मृष्टानि द्विधा पात्राण्यभिम्रक्ष्यन्त इति

मूलम्

सम्मृष्टानि द्विधा पात्राण्यभिम्रक्ष्यन्त इति

English

The implements which have been cleansed are touched in two parts.

विश्वास-प्रस्तुतिः

वायव्यया वायव्यान्यैन्द्र् या सदोऽथैष उन्नेता ग्रावोवायव्यँसम्प्रक्षाल्य द्रो णकलशे दशापवित्रे समवधाय दक्षिणस्य हविर्धानस्य पुरोऽक्षँसँ सादयत्युपकल्पयते प्रतिप्रस्थाता पृषदाज्याय दध्याग्नीध्र इध्माबर्हिरुपसादयति

He touches the utensils belonging to Vāyu with the verse addressed to Vāyu and the Sadas with the verse addressed to Indra. The Unnetṛwashes pressing stones and the utensils belonging to Vāyu, puts the woollen filter into the Droṇakalaśa and places it in front of the axle of the southern Havirdhāna cart. The Pratiprasthātṛ procures curds for preparing the Pṛṣadājya. The Āgnīdhra places the sacrificial grass and faggot at their places.

विश्वास-प्रस्तुतिः

न प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेन

मूलम्

न प्रतिप्रस्थाता पत्नीमभिसन्नह्येत्पौरोडाशिकेन

English

The Pratiprasthātṛ should not put the girdle round the waist of the sacrificer’s wife with the verse from the Pauroḍāšikakāṇḍa.

विश्वास-प्रस्तुतिः

नैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

मूलम्

नैनां गार्हपत्यमीक्षयेदथैनामाज्यमवेक्षयित्वाज्येनाद्र वेत्

English

He should not cause her to gaze at the Gārhapatya. He should make her gaze at the clarified butter and proceed taking up the clarified butter.

विश्वास-प्रस्तुतिः

पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्य्

मूलम्

पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेत्तेजोऽनु प्रेहीत्य्

English

He should support the clarified butter gazed at by the sacrificer’s wife with “Thou art lustre.”17 Having supported it with a chip he should carry it with “Do thou follow the lustre.”17

विश्वास-प्रस्तुतिः

अथैनदाग्नीध्रीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः

मूलम्

अथैनदाग्नीध्रीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षेतोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीः

English

He should heat it over the Āgnīdhrīya fire with “Let not Agni deprive thee of thy lustre.”17 He should carry it, put it down to the north of the Prokṣaṇī-water and gaze at it. He should purify the Prokṣaṇī-water with the strainers with which clarified butter was purified.

विश्वास-प्रस्तुतिः

प्रसिद्धमाग्नीध्रीयसकाशे पृषदाज्यवन्त्याज्यानि गृहीत्वा परिकर्मिभ्य उत्प्रदाय प्रोक्षणीहस्त उत्तरेणाग्नीध्रीयं धिष्णियं प्रतिपद्यतेऽन्वञ्च आज्यैरथेध्मं प्रोक्ष्य वेदिं प्रोक्ष्य बर्हिः प्रोक्ष्य बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरं गृहीत्वैकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्यौदुम्बरान्परिधीन्परिधायोर्ध्वे समिधावभ्याधाय बर्हिर्मुष्टिं विधृती प्रस्तरमित्येतत्समादाय प्रदक्षिणमावृत्य पूर्वया द्वारा हविर्धानं प्रपद्योत्तरार्धे खरस्य बर्हिर्मुष्टिँस्तृणीयाद्बर्हिषि विधृती

He takes up in the vicinity of the Āgnīdhrīya fire clarified butter and Pṛṣadājya into the various ladles, hands over the ladles to the assistants, and taking the Prokṣaṇī-ladle in his hand, proceeds along the north of the Āgnīdhrīya mound. The assistants follow him with the ladles of clarified butter. He spinkles the faggot, sprinkles the altar, sprinkles the sacrificial grass, sprinkles the sacrificial grass placed on the ground, pours down (the Prokṣaṇī-water), takes out the Prastara from the front, spreads sacrificial grass in one row, moves ahead taking the Prastara in his hand, lays down the enclosing sticks of Ficus glomerata, keeps erect two fire-sticks, takes up a handful of grass, two separating blades and the Prastara, turns by the right, enters the Havirdhāna-shed, and spreads the handful on the northern half of the mound.

विश्वास-प्रस्तुतिः

विधृत्योः प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य योगेन युनक्ति

मूलम्

विधृत्योः प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य योगेन युनक्ति

English

He arranges the two separating blades on the grass, the Prastara upon the separating blades and the Juhū-ladles upon the Prastara. He arranges the other ladles on the sacrificial grass. He touches all these together with the formula, “These have sat down;”24 he sets right (the enclosing sticks) with the Yoga verse.25

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम् १५

मूलम्

सिद्धमत ऊर्ध्वम् १५

English

The subsequent procedure is as prescribed.

१६

विश्वास-प्रस्तुतिः

किमग्निहोत्रो दीक्षितः किमौपसदः किम्प्रसुत इति

मूलम्

किमग्निहोत्रो दीक्षितः किमौपसदः किम्प्रसुत इति

English

Which is the Agnihotra-offering of the sacrificer when he becomes initiated? Which when he offers the Upasads? Which when he offers Soma?

विश्वास-प्रस्तुतिः

विज्ञायते व्रतमेव दीक्षितस्याग्निहोत्रो घर्मोच्छिष्टमौपसदस्योपाँ श्वन्तर्यामौ प्रसुतस्य

मूलम्

विज्ञायते व्रतमेव दीक्षितस्याग्निहोत्रो घर्मोच्छिष्टमौपसदस्योपाँ श्वन्तर्यामौ प्रसुतस्य

English

It is said, (consuming) Vrata-milk is the Agnihotra of the sacrificer when he is initiated. When he is performing the Upasads, (partaking of) the remnants of the Gharma (is the Agnihotra). When he is pressing the Soma, the Upāṁśu and Antaryāma cups (form the Agnihotra).

विश्वास-प्रस्तुतिः

यो हानुदिते स सायमग्निहोत्रभक्तिर्य उदिते स प्रातरग्निहोत्रभक्तिः

मूलम्

यो हानुदिते स सायमग्निहोत्रभक्तिर्य उदिते स प्रातरग्निहोत्रभक्तिः

English

(The Upāṁśu cup which is offered) before sunrise represent the evening Agnihotra. (The Antaryāma cup which is offered) after sunrise represents the morning Agnihotra.

विश्वास-प्रस्तुतिः

किन्दर्शपूर्णमास इति

मूलम्

किन्दर्शपूर्णमास इति

English

Which are his Full-moon and New-moon sacrifices?

विश्वास-प्रस्तुतिः

विज्ञायते पौर्णमासं यज्ञमग्नीषोमीयं पशुमकुर्वत दार्शं यज्ञमाग्नेयं पशुमकुर्वतेति

मूलम्

विज्ञायते पौर्णमासं यज्ञमग्नीषोमीयं पशुमकुर्वत दार्शं यज्ञमाग्नेयं पशुमकुर्वतेति

English

It is said, “as the Full-moon sacrifice they offered the Agnīṣomīya animal- sacrifice; as the New-moon sacrifice they offered the animal to (Savanīya) Agni.

विश्वास-प्रस्तुतिः

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते प्रातःसवन एव सर्वेभ्यः सवनेभ्यः सवनीयान्निर्वपेत्सकृदुपहितान्येव कपालानि स्युरा समभिवासनात्सँसृष्टं कर्म तायते

मूलम्

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते प्रातःसवन एव सर्वेभ्यः सवनेभ्यः सवनीयान्निर्वपेत्सकृदुपहितान्येव कपालानि स्युरा समभिवासनात्सँसृष्टं कर्म तायते

English

In that they convey Aupamanyava’s view, namely, that one should pour out paddy for the Savanīyapuroḍāśas for all the pressings at the morning pressing itself, the procedure should be that the potsherds should be laid down at once. The act should be combined upto the covering (of the cakes with ashes and embers).

विश्वास-प्रस्तुतिः

तेषामेकैकमुद्वासयेदनुसवनं येनयेन प्रचरिष्यन्स्यादपि वा व्यभिमृष्टानां पिण्डानां परिशाययीतेतरयोः सवनयोर्यद्येककपालश्चिकीर्षितः स्यात्प्रातःसवनिकैरेव वर्तयेत्कृतान्तात्पौरोडाशिकं कर्म प्रत्याददीतेतरयोः सवनयोरनुसवनमङ्गाराध्यूहनेनैव कपालेषु प्रतिपद्येत

One should take down the cakes one at a time which he might be offering. Or he may retain the balls of dough indicated separately for the remaining two pressings. If a cake on one potsherd is to be prepared, one should go through its procedure along with the cakes at the morning pressing. He should resume the action prescribed in the Pauroḍisika Brāhmaṇa subsequent to what is accomplished at each pressing in respect of the other two pressings. He should resume the covering with embers in respect of the potsherds.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम् १६

मूलम्

सिद्धमत ऊर्ध्वम् १६

English

The subsequent procedure is as prescribed.

१७

विश्वास-प्रस्तुतिः

यथो एतद्बौधायनस्य कल्पं वेदयन्त उभयतःशुक्रा आदित्यवतीर्वसतीवरीर्गृह्णीयात्ताः शुक्रास्ताभिराप्याययेत्ताभिरभिषुणुयादित्युपर्यधँर्होतृचमसं कृत्वेत्येतेनैवापि तृतीयेन वर्तयेत्

मूलम्

यथो एतद्बौधायनस्य कल्पं वेदयन्त उभयतःशुक्रा आदित्यवतीर्वसतीवरीर्गृह्णीयात्ताः शुक्रास्ताभिराप्याययेत्ताभिरभिषुणुयादित्युपर्यधँर्होतृचमसं कृत्वेत्येतेनैवापि तृतीयेन वर्तयेत्

English

In that they convey Baudhāyana’s view, namely, that one should take up Vasatīvarī waters which are bright on both sides, that is, taken in sunrays; they are regarded as bright; one should swell the Vasatīvarī waters with them; one should press Soma therewith: (what is implied is that) he should fill in the Hotṛ’s goblet more than half and pour out onethird of it into the Vasatīvarī vessel.

विश्वास-प्रस्तुतिः

त्रयीरपः पूर्वया द्वारा हविर्धानं प्रपादयेद्धोतृचमसीया वसतीवरीया मैत्रावरुणचमसीया इति दक्षिणेन होतारं परिगृह्यापरया द्वारैकधनान्

मूलम्

त्रयीरपः पूर्वया द्वारा हविर्धानं प्रपादयेद्धोतृचमसीया वसतीवरीया मैत्रावरुणचमसीया इति दक्षिणेन होतारं परिगृह्यापरया द्वारैकधनान्

English

He should bring in into the Havirdhāna-shed by the eastern door, three waters - the water in Hotr̥’s goblet, the Vasatīvarī water and the water in the Maitrāvaruṇa’s goblet- taking them round along the south of the Hotr̥; one should bring in the Ekadhana pitchers by the western door.

विश्वास-प्रस्तुतिः

एतस्मिँश्च काले सर्वश एव मैत्रावरुणचमसीयाः पर्यस्येत्तृतीयं वसतीवरीणामवनयेत्तृतीयमेकधनानाम्

मूलम्

एतस्मिँश्च काले सर्वश एव मैत्रावरुणचमसीयाः पर्यस्येत्तृतीयं वसतीवरीणामवनयेत्तृतीयमेकधनानाम्

English

He should then pour (into the Hotṛ’s goblet) the entire quantity of waters from the Maitrāvaruņa’s goblet, pour down one third from the Vasatīvarī vessel and one third water from the Ekadhana pitchers.

विश्वास-प्रस्तुतिः

एवमस्य प्राक्केवलः शुक्रो भवति

मूलम्

एवमस्य प्राक्केवलः शुक्रो भवति

English

Thus the Hotṛ’s goblet becomes predominently bright.

विश्वास-प्रस्तुतिः

सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येत्यनिरुप्तस्यैवैष राज्ञो ग्रहीतव्यो भवति

मूलम्

सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येत्यनिरुप्तस्यैवैष राज्ञो ग्रहीतव्यो भवति

English

As for the statement that one should take a Soma-cup26 for the sacrificer desiring splendour derived out of Vedic studies. This is to be taken out of the unspecified portion of Soma.

विश्वास-प्रस्तुतिः

का उ खलु देवताः प्रथमँसोमं भक्षयन्तीत्याप इत्येव ब्रूयाद्विज्ञायत पहूताः सोमस्य पिबतोपहूतो युष्माकँसोमः पिबत्विति

मूलम्

का उ खलु देवताः प्रथमँसोमं भक्षयन्तीत्याप इत्येव ब्रूयाद्विज्ञायत पहूताः सोमस्य पिबतोपहूतो युष्माकँसोमः पिबत्विति

English

Which divinities indeed consume the Soma first? Āp, one should say. It is said, “Invited, do you drink Soma; invited, may Soma drink you.

विश्वास-प्रस्तुतिः

क्व उ खलु सोमस्य सोमपीथो भवतीति

मूलम्

क्व उ खलु सोमस्य सोमपीथो भवतीति

English

Where does Soma himself partake of Soma?

विश्वास-प्रस्तुतिः

विज्ञायते यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेत्येष एवापि सोमस्य सोमपीथस्

मूलम्

विज्ञायते यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेत्येष एवापि सोमस्य सोमपीथस्

English

It is said, (he consumes when it is offered to him with the formula) “O Soma, this is the offering to thee, Soma, whose name is invulnerable and ever alert, svāhā.”27 This is the Soma-drink by Soma.

विश्वास-प्रस्तुतिः

तेषाँसन्निपतितानामानुपूर्वतेति

मूलम्

तेषाँसन्निपतितानामानुपूर्वतेति

English

When the Soma-drinks fall together, they are to be consumed serially.

विश्वास-प्रस्तुतिः

निग्राभ्यासु वाचयित्वादाभ्येन चरेदथोपाँशुसवनमाददीताथ राजानं निर्वपेत्

मूलम्

निग्राभ्यासु वाचयित्वादाभ्येन चरेदथोपाँशुसवनमाददीताथ राजानं निर्वपेत्

English

After having made the sacrifcer recite (the relevant formulas) in order that the water should be rendered nigrābhya, the Adhvaryu should offer the Adabhya cup. He should then take up the Upāṁśusavana pressing stone; he should pour Soma-shoots.

विश्वास-प्रस्तुतिः

सिद्धमत्राग्निष्टोमिकं कर्म जानीयादा फलकयोरभिमर्शनात्

मूलम्

सिद्धमत्राग्निष्टोमिकं कर्म जानीयादा फलकयोरभिमर्शनात्

English

The procedure pertaining to the Agniṣṭoma should be understood as prescribed upto the touching of the pressing boards.

विश्वास-प्रस्तुतिः

फलके अभिमृश्य पृश्निभिश्चरेदथ प्राणग्रहैश्चरेदथाँशूनुपसङ्गृह्णीयादथाँ शुना चरेदथोपाँशुना

मूलम्

फलके अभिमृश्य पृश्निभिश्चरेदथ प्राणग्रहैश्चरेदथाँशूनुपसङ्गृह्णीयादथाँ शुना चरेदथोपाँशुना

English

While he is touching the pressing boards, he recites the Pṛśni formulas[^3-1621] and also the Prāṇagraha formulas.28 He should catch hold of the shoots. He should offer the Aṁśu cup and then the Upāṁśu cup;

[^3-1621] TS III.3.5

विश्वास-प्रस्तुतिः

कालेऽन्तर्यामेण

मूलम्

कालेऽन्तर्यामेण

English

the Antaryāma cup at the proper time.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम् १७

मूलम्

सिद्धमत ऊर्ध्वम् १७

English

The subsequent procedure is as prescribed.

१८

विश्वास-प्रस्तुतिः

यथो एतद्बौधायनस्य कल्पं वेदयन्त आग्रयणस्य ग्रहणे द्वयोर्धारयोः प्रातःसवने गृह्णीयात्तिसृणां माध्यन्दिने सवने चतसृणां तृतीयसवन इत्युपाँश्वन्तर्यामयोश्च सँस्रावः सन्ततश्च शुक्र एते द्वे प्रातःसवने

In that they convey Baudhāyana’s view in connection with the taking up of the Āgrayaṇa draught, namely, that he takes it in two streams at the morning pressing, three at the Midday pressing and four at the third pressing, (the procedure is that) the drops of the Upāṁśu and Antaryāma cups and the continuous bright stream- these two at the morning pressing;

विश्वास-प्रस्तुतिः

सन्ततश्चैव शुक्र आग्रयणश्चोदचनेन च तृतीया माध्यन्दिने सवन

मूलम्

सन्ततश्चैव शुक्र आग्रयणश्चोदचनेन च तृतीया माध्यन्दिने सवन

English

the continuous bright stream, (a portion from) the Āgrayaṇa vessel and the third by means of the drawing spoon (from the Droṇakalaśa) at the Midday pressing;

विश्वास-प्रस्तुतिः

आदित्यस्थाल्यामतिशिष्टो राजादित्यग्रहस्य च सँस्राव आग्रयणश्चैवोदचनेन च चतुर्थी तृतीयसवने

मूलम्

आदित्यस्थाल्यामतिशिष्टो राजादित्यग्रहस्य च सँस्राव आग्रयणश्चैवोदचनेन च चतुर्थी तृतीयसवने

English

the Soma-juice remaining in the Āditya vessel, drops of the Āditya cup, (a portion from) the Āgrayaṇa vessel and the fourth stream by means of the drawing spoon (from the Droṇakalaśa) at the third pressing.

विश्वास-प्रस्तुतिः

सम्पूतँराजानं त्रयेण श्रिणीयात्पयसा सक्तुभिर्हिरण्येनेति

मूलम्

सम्पूतँराजानं त्रयेण श्रिणीयात्पयसा सक्तुभिर्हिरण्येनेति

English

He should mix up the purified Soma with three things-milk, flour of parched barley and gold.

विश्वास-प्रस्तुतिः

स यं कं चन ग्रहं गृह्णात्युभयत उदबुध्नँहिरण्यश्रयणमेवैनं करोति

मूलम्

स यं कं चन ग्रहं गृह्णात्युभयत उदबुध्नँहिरण्यश्रयणमेवैनं करोति

English

Whichever draught he may take up, he should wipe it by means of water on both sides before and after taking Soma; thereby he renders it as mixed with gold.

विश्वास-प्रस्तुतिः

तिष्ठता ग्रहा होतव्या अन्यत्र प्राजापत्याच्च मन्थिसँस्रावाच्चेति

मूलम्

तिष्ठता ग्रहा होतव्या अन्यत्र प्राजापत्याच्च मन्थिसँस्रावाच्चेति

English

The draughts should be offered while standing except the Prājāpatya draught and the remnants of the Manthin draught.29

विश्वास-प्रस्तुतिः

यथो एतच्छालीकेः कल्पं वेदयन्ते द्र प्सानुमन्त्रणीयास्विति स्रुवाहुतीरेवैता जुहुयात्कस्मिन्नु खल्वेनाः काले जुहुयादिति

मूलम्

यथो एतच्छालीकेः कल्पं वेदयन्ते द्र प्सानुमन्त्रणीयास्विति स्रुवाहुतीरेवैता जुहुयात्कस्मिन्नु खल्वेनाः काले जुहुयादिति

English

In that they convey Śālīki’s view in connection with the following of the drops through recitation, namely, that one should offer spoonfuls: at what time should one make the offerings?

विश्वास-प्रस्तुतिः

सन्तनीर्हुत्वैतस्मिन्नेनाः काले जुहुयादित्यथोन्नेतरित्याह प्राञ्चँराजानं पूतभृतमभि सम्पवयताद्दशाभिराधवनीयं मृष्ट्वा न्युब्जतादित्युक्तसम्प्रैष एष शेत आवकाशेभ्योऽवकाशैरुपस्थाय दशाभिरेवैनं मृष्ट्वा न्युब्जति १८

He should make these offerings after having offered the Saṁtanī.30
(The Adhvaryu) says, “O Unnetr̥, do thou filter Soma (from the Ādhavanīya) into the Pūtabhṛt jar lying towards the east; do thou cleanse the Ādhavanīya by means of the fringes (of the filter) and put it down with the opening turned downwards.” This Ādhavanīya jar about which the call has been given remains as it is until the Avakāśa prayers.31 After the Avakāśa prayers have been made, (the Unnetr̥) wipes it with fringes and puts it upsidedown.

१९

विश्वास-प्रस्तुतिः

समानं कर्माश्विनाद्ग्रहादित्या धिष्णियव्याघारणसम्पातादित्येष समुद्देशो भवति

मूलम्

समानं कर्माश्विनाद्ग्रहादित्या धिष्णियव्याघारणसम्पातादित्येष समुद्देशो भवति

English

(When it is said) “The procedure upto the taking up of the draught for Aśvins is similar,” the intention is to confine the procedure to the pouring of Aghāras over the Dhiṣṇiyas.

विश्वास-प्रस्तुतिः

कथमु खलु धिष्णियानां यथान्युप्तं व्याघारणं भवतीति

मूलम्

कथमु खलु धिष्णियानां यथान्युप्तं व्याघारणं भवतीति

English

How is the continuous pouring of clarified butter to be made over the Dhiṣṇiyas in the order in which they are raised?

विश्वास-प्रस्तुतिः

विभुवे प्रवाहणाय स्वाहेति व्याघार्य रौद्रे णानीकेन पाहि माग्ने पिपृहि मा मा मा हिँसीरिति

मूलम्

विभुवे प्रवाहणाय स्वाहेति व्याघार्य रौद्रे णानीकेन पाहि माग्ने पिपृहि मा मा मा हिँसीरिति

English

One should pour with vibhuve pravāhaṇāya svāhā and (then merely recite the remaining portion) raudreṇā’nikena pāhi mā’gne pipṛhi mā mā mā hiṁsīḥ.

विश्वास-प्रस्तुतिः

सप्त वृणीत इति

मूलम्

सप्त वृणीत इति

English

“(The Adhvaryu) chooses seven (Hotṛs).”

विश्वास-प्रस्तुतिः

होतैवैषाँसप्तमो भवत्यहर्गण उत्तरेष्वहःसु प्रातःसवनिकं प्रसर्पणं कथँ स्यादित्याहवनीयोपस्थानप्रभृतीत्येव ब्रूयात्सकृत्स्फ्यविघनानामुपस्थानं कथमु खल्वेषां विसँस्थितसञ्चरः स्यादित्यन्तरेण होतुश्च धिष्णियं ब्राह्मणाच्छँसिनश्च येऽधिष्णिया अथ धिष्णियवन्तः स्वँस्वमेव धिष्णियमुत्तरेण परिक्रामेयुरथेमावध्वर्यू अचमसौ भवतः

The Hotṛ is the seventh among them.
In an Ahargaņa, from the second day onwards in what manner does the entering (by the priests) into the Sadas at the morning pressing take place? It should begin with the prayer to the Āhavanīya, one should say. The praying to the wooden sword and to the levelling hammer takes place only on one day.

How should be the movement of these (priests) before the closing of Soma-pressing? For those who are without a Dhiṣṇiya (the movement should be) between the Dhiṣṇiyas of the Hotṛ and the Brāhmaṇācchaṁsin. Those having Dhiṣṇiyas should move along the north of their respective Dhiṣṇiyas.

The two Adhvaryus are without goblets.

विश्वास-प्रस्तुतिः

क्व उ खल्वेतयोर्भक्षो भवतीति

मूलम्

क्व उ खल्वेतयोर्भक्षो भवतीति

English

Then how do they consume the remnants of Soma?

विश्वास-प्रस्तुतिः

होतृचमस इत्येव ब्रूयात्

मूलम्

होतृचमस इत्येव ब्रूयात्

English

They consume from the Hotṛ’s goblet, one should say.

विश्वास-प्रस्तुतिः

क उ खल्वृत्विजामेकाहे सोमं न भक्षयन्तीत्युन्नेता ग्रावस्तुत्सुब्रह्मण्य इत्येव ब्रूयात्

मूलम्

क उ खल्वृत्विजामेकाहे सोमं न भक्षयन्तीत्युन्नेता ग्रावस्तुत्सुब्रह्मण्य इत्येव ब्रूयात्

English

Who the among the priests in an Ekāha sacrifice do not partake of Soma? The Unnetṛ, Grāvastut and the Subrahmaṇya, one should say.

विश्वास-प्रस्तुतिः

क्व उ खलु सत्त्रे दीक्षिता भक्षयेयुरिति

मूलम्

क्व उ खलु सत्त्रे दीक्षिता भक्षयेयुरिति

English

How do those initiated in a Sattra partake of Soma ?

विश्वास-प्रस्तुतिः

नेष्टुश्चमस उन्नेता भक्षयेदच्छावाकचमसे ग्रावस्तुदुद्गातृचमसे सुब्रह्मण्योऽपि वा सर्व एवाग्नीध्रचमसे भक्षयेयुर्विज्ञायत उत्तरस्यां ततौ तेषां य एवाग्नीध्रः स ग्रावस्तुत्स सुब्रह्मण्यः स उन्नेतेति १९

The Unnetṛ should partake from the Neṣṭr̥’s goblet; the Grāvastut from that of Acchāvāka; and the Subrahmaṇya from the Udgātṛ’s goblet. Alternatively, all these should partake of the Āgnīdhra’s goblet. It is said in the Uttara tati32 that among those one who is the Āgnīdhra is to be deemed as the Grāvastut, as the Subrahmaṇya and as the Unnetṛ.

२०

विश्वास-प्रस्तुतिः

यथो एतद्बौधायनस्य कल्पं वेदयन्ते समानपात्र्यामेव सवनीयानुद्वासयेत्पुरोडाशस्यैवैषोऽलङ्कारो दृष्टो भवति

मूलम्

यथो एतद्बौधायनस्य कल्पं वेदयन्ते समानपात्र्यामेव सवनीयानुद्वासयेत्पुरोडाशस्यैवैषोऽलङ्कारो दृष्टो भवति

English

In that they convey Baudhāyana’s view namely that one should take down all the Savanīya oblations in a common pan, because (these oblations) are indeed the decoration of the cake itself:

विश्वास-प्रस्तुतिः

मध्यतः पुरोडाशमुपस्तीर्णाभिघारितमुद्वासयेत्पुरस्ताद्धाना दक्षिणतः करम्भं पश्चात्परिवापमामिक्षामुत्तरतः

मूलम्

मध्यतः पुरोडाशमुपस्तीर्णाभिघारितमुद्वासयेत्पुरस्ताद्धाना दक्षिणतः करम्भं पश्चात्परिवापमामिक्षामुत्तरतः

English

One should take down in the middle the cake with clarified butter spread below and poured above; parched paddy in front, flour of parched barley mixed with curds towards the south, parched barley to the rear and Āmikṣā towards the north.

विश्वास-प्रस्तुतिः

कथमु खल्वेषाँसञ्चरी स्यादिति

मूलम्

कथमु खल्वेषाँसञ्चरी स्यादिति

English

How should the Savanīya oblations be brought in?

विश्वास-प्रस्तुतिः

प्रज्ञातो हविष्पथोऽथापरम्पूर्वया द्वारोपनिर्हृत्यापरया द्वारा सदः प्रपाद्याग्रेण कर्तॄन्जघनेन धिष्णियानुत्तरेणाच्छावाकस्य धिष्णियं पर्याहृत्यान्यस्मै प्रदायैतेनैव यथेतमेत्योत्तरेण सदः परीत्य पूर्वया द्वारोपनिर्हृत्योत्तरेणाग्नीध्रीयं पर्याहृत्यान्तर्वेद्यासादयेदध्वर्युश्चेद्धविर्धानं प्रपन्नः स्यादुपनिष्क्राम मा त्वाभिपरिहारिषमित्येव ब्रूयाद्यथो एतद्बौधायनस्य कल्पं वेदयन्ते द्विदेवत्येषूत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्य प्रयच्छतीति यदाध्वर्युः पुरोडाशान्प्रत्यङ्हरेत्तद्धविर्धानं प्रपद्यमानं प्रतिप्रस्थातारं परिगृह्णीयाद्ग्रहावादायोपनिष्क्रामत्युपनिष्क्रान्तस्यैवाध्वर्युर्ग्रहावादत्तेऽपरेण परिक्रान्तायोत्तरतस्तिष्ठते प्रतिप्रस्थात्रे प्रतिनिर्ग्राह्यं प्रयच्छतीति

The route of the oblations is well-known. Another way is: one should take them out by the eastern door, carry to the Sadas by the western door, carry along the front of the seated priests and along the rear of the Dhiṣṇiyas, along the north of the Acchāvāka’s Dhiṣṇiya, hand over to an assistant, return by the route bywhich he had gone, go round along the north of the Sadas, carry (the oblations out of the Sadas) by the eastern door, carry round along the north of the Āgnīdhrīya fire, and place within the altar. If the Adhvaryu has entered the Havirdhāna shed, he should say to him, “Do you go out, let me not carry round (the oblations) around you.” In that they convey Baudhāyana’s view that the Adhvaryu hands over the corresponding cup out of the Dvidevatya cups to the Pratiprasthātṛ standing to the north, (it is to be noted that) when the Adhvaryu carries the Savanīya oblations towards the west, he should cover the Pratiprasthātṛ entering the Havirdhāna. (The Pratiprasthātṛ) takes the two (Dvidevatya) cups and goes (out of the Havirdhāna shed); the Adhvaryu takes from him the two cups, and hands over the corresponding cup to the Pratiprasthātṛ standing to the north. They make the offering, and pour remnants in each other’s cup.

विश्वास-प्रस्तुतिः

हुत्वा व्यवनीय प्रदक्षिणमावृत्य प्रतिप्रस्थाताध्वर्युं परिगृह्णीयादथाध्वर्युः प्रतिप्रस्थातारं प्रत्यङ्द्र वन्पात्रेण

मूलम्

हुत्वा व्यवनीय प्रदक्षिणमावृत्य प्रतिप्रस्थाताध्वर्युं परिगृह्णीयादथाध्वर्युः प्रतिप्रस्थातारं प्रत्यङ्द्र वन्पात्रेण

English

Having poured by the right, the Pratiprasthātṛ covers the Adhvaryu while going. The Adhvaryu while moving westwards taking the cup covers the Pratiprasthātṛ.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम्

मूलम्

सिद्धमत ऊर्ध्वम्

English

The subsequent procedure is as prescribed.

विश्वास-प्रस्तुतिः

अथेमे द्विदेवत्या अननुवषट्कारा भवन्ति

मूलम्

अथेमे द्विदेवत्या अननुवषट्कारा भवन्ति

English

The Dvidevatya offerings are without the second Vaṣaṭ-utterance.

विश्वास-प्रस्तुतिः

क्व उ खल्वेषामनुवषट्कारो भवतीति

मूलम्

क्व उ खल्वेषामनुवषट्कारो भवतीति

English

Which is their second Vaṣaṭ-utterance?

विश्वास-प्रस्तुतिः

विज्ञायते द्विदेवत्यानृतुयाजान्यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्स्म मानुवषट्कृथा इति

मूलम्

विज्ञायते द्विदेवत्यानृतुयाजान्यश्च पात्नीवतो ग्रहः । आदित्यग्रहसावित्रौ तान्स्म मानुवषट्कृथा इति

English

It is said, “(O Hotṛ) do you not pronounce the second Vaṣaṭ- utterance in regard to the offerings of the Dvidevatya cups, Ṛtuyājas, Pātnīvata draught, Āditya draught and Sāvitra draught.33

विश्वास-प्रस्तुतिः

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते द्विदेवत्येषु दीर्घभक्षेणैवैनान्भक्षयेद्भक्षेहि माविशेति प्रतिपद्य क्रत्वे दक्षाय रायस्पोषाय सुवीरताया इत्यातः

मूलम्

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते द्विदेवत्येषु दीर्घभक्षेणैवैनान्भक्षयेद्भक्षेहि माविशेति प्रतिपद्य क्रत्वे दक्षाय रायस्पोषाय सुवीरताया इत्यातः

English

In that they convey Aupamanyava’s alternative view namely that (the Adhvaryu) should consume these (Dvidevatya cups) with the Dīrghabhakṣa formula beginning with bhakṣe’hi mā’viśa34 and ending with kratve dakṣāya rāyaspoṣāya suvīratāyai.

विश्वास-प्रस्तुतिः

प्रत्यभिमृशते मा मा राजन्विबीभिषो मा मे हर्दि त्विषा वधीः । वृषणे शुष्मायायुषे वर्चस इत्यथानुसवनभक्षेणैव सवनमुखीयान्भक्षयेदिति २०

मूलम्

प्रत्यभिमृशते मा मा राजन्विबीभिषो मा मे हर्दि त्विषा वधीः । वृषणे शुष्मायायुषे वर्चस इत्यथानुसवनभक्षेणैव सवनमुखीयान्भक्षयेदिति २०

English

He should touch himself with the verse, “O king Soma, do thou not frieghten me; do not injure my heart with thy violence so that I may attain power, might, long life and vigour.”34 He should partake of the goblets pertaining to the Savanamukha with the (relevant) Anusavanabhakṣa formula34 (at each pressing).

२१

विश्वास-प्रस्तुतिः

क्व उ खलु वसतीवरस्य स्तोत्रभक्तिर्भवति शस्त्रभक्तिश्चेति

मूलम्

क्व उ खलु वसतीवरस्य स्तोत्रभक्तिर्भवति शस्त्रभक्तिश्चेति

English

How is the taking up of Vasatīvarī waters associated with a Stotra and a Śastra?

विश्वास-प्रस्तुतिः

विश्वरूपासु हास्य स्तोत्रभक्तिर्भवति प्रातरनुवाके ह शस्त्रभक्तिः

मूलम्

विश्वरूपासु हास्य स्तोत्रभक्तिर्भवति प्रातरनुवाके ह शस्त्रभक्तिः

English

Through the chanting of the Viśvarūpās35 and the reciting of the Prātaranuvāka.36

विश्वास-प्रस्तुतिः

क्व उ खलूपाँश्वन्तर्यामयोर्द्विदेवत्यानाँस्तोत्रशस्त्रभक्तिर्भवतीति

मूलम्

क्व उ खलूपाँश्वन्तर्यामयोर्द्विदेवत्यानाँस्तोत्रशस्त्रभक्तिर्भवतीति

English

How are the offerings of Upāṁśu draught, Antaryāma draught and the Dvidevatya cups associated with Stotra and Śastra?

विश्वास-प्रस्तुतिः

यदुपाँशु शँसति तदुपाँश्वन्तर्यामयोः

मूलम्

यदुपाँशु शँसति तदुपाँश्वन्तर्यामयोः

English

When the Hotṛ recites in a low tone (a part of the Ājyaśastra), it is (the association with the Śastra);

विश्वास-प्रस्तुतिः

प्रौग उक्थे द्विदेवत्यानाम्

मूलम्

प्रौग उक्थे द्विदेवत्यानाम्

English

in respect of the Dvidevatya cups (the association is) in the Praügasastra.

विश्वास-प्रस्तुतिः

अथायं प्रतिप्रस्थातर्तुग्रहेष्वध्वर्योरुत्तरतःसेवी भवतीतश्चामुतश्च यन्तं प्रतिप्रस्थाताध्वर्युं प्रैगृह्णीयादथाध्वर्युः प्रतिप्रस्थातारं प्रत्यङ्द्र वन्पात्रेण

मूलम्

अथायं प्रतिप्रस्थातर्तुग्रहेष्वध्वर्योरुत्तरतःसेवी भवतीतश्चामुतश्च यन्तं प्रतिप्रस्थाताध्वर्युं प्रैगृह्णीयादथाध्वर्युः प्रतिप्रस्थातारं प्रत्यङ्द्र वन्पात्रेण

English

In the course of the R̥tu-cup offerings, the Pratiprasthātṛ stands to the north of the Adhvaryu. The Pratiprasthātṛ should cover the Adhvaryu going to and fro. Similarly the Adhvaryu while going to the west taking the cup should cover the Pratiprasthātṛ.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं किन्देवत्या उ खल्वृतुयाजा भवन्तीत्यृतुदेवता इत्येतदेकम्

मूलम्

सिद्धमत ऊर्ध्वं किन्देवत्या उ खल्वृतुयाजा भवन्तीत्यृतुदेवता इत्येतदेकम्

English

The subsequent procedure is as prescribed. What are the divinities of the Ṛtuyājas? R̥tus themselves are the divinities-this is one view.

विश्वास-प्रस्तुतिः

अथापरम्

मूलम्

अथापरम्

English

Another view is:

विश्वास-प्रस्तुतिः

इन्द्र ँहोता यजति

मूलम्

इन्द्र ँहोता यजति

English

The Hotṛ recites the yājyā for Indra;

विश्वास-प्रस्तुतिः

मरुतः पोता यजति

मूलम्

मरुतः पोता यजति

English

the Potr recites the yājyā for the Maruts;

विश्वास-प्रस्तुतिः

ग्नावो नेष्टा यजत्यग्निमाग्नीध्रो यजतीन्द्रं ब्राह्मणाच्छँसी यजति

मूलम्

ग्नावो नेष्टा यजत्यग्निमाग्नीध्रो यजतीन्द्रं ब्राह्मणाच्छँसी यजति

English

the Neṣṭr̥ recites the yājyā for the Gnās; the Āgnīdhra recites the yājyā for Agni; the Brāhmaṇācchaṁsin recites the yajyā for Indra;

विश्वास-प्रस्तुतिः

मित्रावरुणौ मैत्रावरुणो देवं द्र विणोदां चत्वारोऽश्विनाध्वर्यू अध्वर्यू

मूलम्

मित्रावरुणौ मैत्रावरुणो देवं द्र विणोदां चत्वारोऽश्विनाध्वर्यू अध्वर्यू

English

the Maitrāvaruṇa for Mitra-Varuṇa; the four37 for wealth-giving god (Dravinodas); the Adhvaryu and the Pratiprasthātṛ recite the yājyā for Aśvinādhvaryū;

विश्वास-प्रस्तुतिः

अग्निं गृहपतिं गृहपतिः

मूलम्

अग्निं गृहपतिं गृहपतिः

English

the Gṛhapati recites the yājyā for Gṛhapati Agni.

विश्वास-प्रस्तुतिः

क्व उ खल्वैन्द्रा ग्नस्य स्तोत्रभक्तिर्भवतीति

मूलम्

क्व उ खल्वैन्द्रा ग्नस्य स्तोत्रभक्तिर्भवतीति

English

How is the offering of Soma for Indra-Agni associated with a Stotra?

विश्वास-प्रस्तुतिः

बहिष्पवमान इत्येव ब्रूयाद्ये के चन ग्रहा अस्तोत्राः पवमान एव तेषाँ स्तोत्राणि भवन्ति

मूलम्

बहिष्पवमान इत्येव ब्रूयाद्ये के चन ग्रहा अस्तोत्राः पवमान एव तेषाँ स्तोत्राणि भवन्ति

English

In Bahiṣpavamāna, one should say. Whichever draughts are without a Stotra they have their Stotras in the Bahiṣpavamāna.

विश्वास-प्रस्तुतिः

क्व उ खलु माध्यन्दिनीयाः सवनीया निरुप्यन्त इति

मूलम्

क्व उ खलु माध्यन्दिनीयाः सवनीया निरुप्यन्त इति

English

When are paddy and barley poured out for the Savanīya oblations at the Midday pressing?

विश्वास-प्रस्तुतिः

क्षुल्लकवैश्वदेवस्य स्तोत्र इत्येव ब्रूयात्

मूलम्

क्षुल्लकवैश्वदेवस्य स्तोत्र इत्येव ब्रूयात्

English

At the chanting of the Stotra pertaining to the initial draught for the Viśve Devas, one should say.

विश्वास-प्रस्तुतिः

क्व तृतीयसवनीयार्माहेन्द्र स्य स्तोत्र इत्येव ब्रूयात् २१

मूलम्

क्व तृतीयसवनीयार्माहेन्द्र स्य स्तोत्र इत्येव ब्रूयात् २१

English

When are paddy and barley poured out for Savanīya oblations at the third pressing? At the chanting of the stotra for Mahendra, one should say.

२२

विश्वास-प्रस्तुतिः

नाराशँसमुपदस्तँहुतादेवैनँहोतृचमसाद्गृह्णीयाद्

मूलम्

नाराशँसमुपदस्तँहुतादेवैनँहोतृचमसाद्गृह्णीयाद्

English

If the Nārāśaṁsa goblet becomes exhausted, one should fill it from the Hour’s goblet which has been offered.

विश्वास-प्रस्तुतिः

द्विनाराशँसं प्रातःसवनं च माध्यन्दिनसवनं चैकनाराशँसं तृतीयसवनं चत्वार्युन्नीयमानसूक्तानि भवन्तीति

मूलम्

द्विनाराशँसं प्रातःसवनं च माध्यन्दिनसवनं चैकनाराशँसं तृतीयसवनं चत्वार्युन्नीयमानसूक्तानि भवन्तीति

English

In the morning pressing and also in the Midday pressing the goblets which are partaken of and again filled in are deemed as Nārāśaṁsa on two occasions; in the third pressing on one occasion. Four hymns are to be recited (by the Hotṛ) in connection with the filling (of the goblets) namely one each at one each of the three Soma-pressings

विश्वास-प्रस्तुतिः

सवनमुखेषु चाच्छावाकचमसे च

मूलम्

सवनमुखेषु चाच्छावाकचमसे च

English

and one at the filling of the Acchāvāka’s goblet.

विश्वास-प्रस्तुतिः

त्रयो दीर्घभक्षाः

मूलम्

त्रयो दीर्घभक्षाः

English

The Dīrghabhakṣa formula38 is to be recited on three occasions.

विश्वास-प्रस्तुतिः

क्व उ खलु प्रवर्ग्यः सुत्यमहरनुसमेतीति

मूलम्

क्व उ खलु प्रवर्ग्यः सुत्यमहरनुसमेतीति

English

How does the Pravargya rite become associated with the pressing day?

विश्वास-प्रस्तुतिः

दधिघर्म इत्येव ब्रूयात्

मूलम्

दधिघर्म इत्येव ब्रूयात्

English

In the form of the Dadhigharma rite, one should say.

विश्वास-प्रस्तुतिः

किमुपसदां सौम्यस्य परीज्येति

मूलम्

किमुपसदां सौम्यस्य परीज्येति

English

How do the Upasads (become associated with the pressing day) ? (In the form of) the offering (of clarified butter) on both sides of the offering of cooked rice to Soma.

विश्वास-प्रस्तुतिः

तिरश्चर्मन्फलके ग्राव्णोद्वादयतीति

मूलम्

तिरश्चर्मन्फलके ग्राव्णोद्वादयतीति

English

He makes the two pressing boards sound by means of a stone across the skin.

विश्वास-प्रस्तुतिः

शुष्काभिषव इत्येतदाचक्षते

मूलम्

शुष्काभिषव इत्येतदाचक्षते

English

This is called “dry pressing.”

विश्वास-प्रस्तुतिः

कथमु खलु रथन्तरपृष्ठे माहेन्द्रं ग्रहं गृह्णीयाद्महाँइन्द्रो य ओजसेत्येतया गायत्र्या माहेन्द्रं गृह्णीयादथ बृहत्पृष्ठे महाँइन्द्रो नृवदा चर्षणिप्रा इत्येतया त्रिष्टुभा माहेन्द्र म्

मूलम्

कथमु खलु रथन्तरपृष्ठे माहेन्द्रं ग्रहं गृह्णीयाद्महाँइन्द्रो य ओजसेत्येतया गायत्र्या माहेन्द्रं गृह्णीयादथ बृहत्पृष्ठे महाँइन्द्रो नृवदा चर्षणिप्रा इत्येतया त्रिष्टुभा माहेन्द्र म्

English

With which mantra should the Adhvaryu take up the draught for Mahendra when the Rathantara-pṛstha is adopted? He should take up the Mahendra draught with the Gāyatrī vrse, mahāñ indro ya ojasā…. In the case of the Bṛhatpṛstha he should take it with the Triṣṭubh verse, mahāñ indro nṛvad ā carṣaṇiprāḥ….

विश्वास-प्रस्तुतिः

अथोभयपृष्ठे यया पृष्ठं तया गृह्णीयात्पुरोरुचमितरां कुर्यादिति २२

मूलम्

अथोभयपृष्ठे यया पृष्ठं तया गृह्णीयात्पुरोरुचमितरां कुर्यादिति २२

English

In the case of the adoption of both the Pr̥ṣṭhas he should take up with that verse on which the Prstha is based, and employ the other verse as the Puroruc.

२३

विश्वास-प्रस्तुतिः

कथमु खलु सवनीयस्य पशोश्चर्याया उपक्रमो भवतीतीडसूनँसँस्तीर्य पृषदाज्यं विहत्य जुह्वाँसमानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य संवदेताभिघारयेदासादयेत्पशुं पञ्चहोत्रा चतसृषूपस्तृणीते

मूलम्

कथमु खलु सवनीयस्य पशोश्चर्याया उपक्रमो भवतीतीडसूनँसँस्तीर्य पृषदाज्यं विहत्य जुह्वाँसमानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य संवदेताभिघारयेदासादयेत्पशुं पञ्चहोत्रा चतसृषूपस्तृणीते

English

How does the procedure of the Savanīya animal-offering commence ? One should lay down the plank for cutting, take up Pṛṣadājya into the ladle by dipping the spoon), go out towards the north between the Catvāla and the rubbish-heap, have a dialogue (with the Śamitr̥), pour clarified butter over (the cooked organs) and put them down (within the altar). (The adhvaryu) spreads clarified butter on four (implements the Juhū, the Upabhṛt, the Iḍā-pan and the vessel for oily part of flesh).

विश्वास-प्रस्तुतिः

मनोताप्रभृतिनेडान्तेन चरेत्

मूलम्

मनोताप्रभृतिनेडान्तेन चरेत्

English

He should go through the rites beginning with the recitation of the Manotā-hymn and ending with the invocation of Iḍā.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वम्

मूलम्

सिद्धमत ऊर्ध्वम्

English

The subsequent procedure is as prescribed.

विश्वास-प्रस्तुतिः

अथोक्थ्यविग्रहेषु य एव प्रातःसवनिको ग्रहणमन्त्रः स एव माध्यन्दिनीयः स तृतीयसवनिको

मूलम्

अथोक्थ्यविग्रहेषु य एव प्रातःसवनिको ग्रहणमन्त्रः स एव माध्यन्दिनीयः स तृतीयसवनिको

English

The formula39 is employed in taking up a third part of the Soma from the Ukthya vessel at the morning pressing, is employed also at the second pressing and also at the third pressing.

विश्वास-प्रस्तुतिः

देवतामेव व्यञ्जयेद्चमसायचमसायैव त्रीँस्त्रीन्पुरोडाशशकलानुपास्येन्नव होतृचमस इति

मूलम्

देवतामेव व्यञ्जयेद्चमसायचमसायैव त्रीँस्त्रीन्पुरोडाशशकलानुपास्येन्नव होतृचमस इति

English

One should mention the relevant divinity. One should place by the side of each goblet three pieces of the cake; nine by the side of the Hotr̥’ goblet, (because)

विश्वास-प्रस्तुतिः

त्रयाणामेवैष उक्तो भवत्यथायमाग्रयणस्त्रयस्त्रिँशतो देवतानां गृह्यते

मूलम्

त्रयाणामेवैष उक्तो भवत्यथायमाग्रयणस्त्रयस्त्रिँशतो देवतानां गृह्यते

English

it is meant for three (priests).40 This (part of the) Argrayana-vessel is taken for thirtythree divinities.

विश्वास-प्रस्तुतिः

क्व उ खल्वेताः प्रदाने विज्ञायन्त इति

मूलम्

क्व उ खल्वेताः प्रदाने विज्ञायन्त इति

English

How are these recognised in the offering (of the draught)?

विश्वास-प्रस्तुतिः

पात्नीवते

मूलम्

पात्नीवते

English

In the Pātnīvata offering.

विश्वास-प्रस्तुतिः

विज्ञायते पत्नीवतस्त्रिँशतं त्रीँश्च देवानिति

मूलम्

विज्ञायते पत्नीवतस्त्रिँशतं त्रीँश्च देवानिति

English

It is said, “thirtythree gods together with their wives….”41

विश्वास-प्रस्तुतिः

कथमु खलु पात्नीवतं भक्षयेदादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दसोऽग्निना वैश्वानरेण पत्नीवता त्वष्ट्रा पीतस्य मधुमत उपहूयस्योपहूतो भक्षयामीति २३

मूलम्

कथमु खलु पात्नीवतं भक्षयेदादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दसोऽग्निना वैश्वानरेण पत्नीवता त्वष्ट्रा पीतस्य मधुमत उपहूयस्योपहूतो भक्षयामीति २३

English

How should one partake of the Pātnīvata cup? (One should partake of with the formula) “O god Soma, I, invited, partake of thee, invited, having Ādityas for the troops, appreciating the praise, pertaining to the third pressing, having Jagatī for the metre, drunk by Vaiśvānara Agni together with his wife, by Tvaṣṭr̥, and mixed with honey.”42

२४

विश्वास-प्रस्तुतिः

कथमु खल्वन्तरुक्थ्यो भवतीति

मूलम्

कथमु खल्वन्तरुक्थ्यो भवतीति

English

How is the ‘internal’ Ukthya43 achieved?

विश्वास-प्रस्तुतिः

प्रसिद्धं तृतीयसवन आग्रयणं गृहीत्वोक्थ्यं गृह्णीयादथैनं ध्रुवमुपस्थाप्य त्रिषूर्ध्वपात्रेषु विगृह्णीयातुपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा वरुणाभ्यां जुष्टं गृह्णामीति

Having taken at the third pressing the Āgrayaṇa draught, one takes the Ukthya draught. Having caused the sacrificer to pray to the Druva vessel,44 he should take into three cups portions of the Ukthya draught (first) with the formula, “Thou art taken with a support for gods deserving praise; I take thee eager to meet gods, eager for praise, for the fulfilment of sacrifice and dear to Indra-Varuṇa.”

विश्वास-प्रस्तुतिः

पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति

मूलम्

पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति

English

He touches back the Ukthya vessel with the formula, “Thou art a recurring oblation.”45

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिरिन्द्रा वरुणाभ्यां त्वेति

मूलम्

परिमृज्य सादयत्येष ते योनिरिन्द्रा वरुणाभ्यां त्वेति

English

Having wiped (the cup) around, he puts it down with the formula, “This is thy birth-place; for Indra-Varuṇa thee.”

विश्वास-प्रस्तुतिः

तदानीमेवापरं गृह्णात्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा बृहस्पतिभ्यां जुष्टं गृह्णामीति

मूलम्

तदानीमेवापरं गृह्णात्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थायुवं यज्ञस्यायुष इन्द्रा बृहस्पतिभ्यां जुष्टं गृह्णामीति

English

At the same time he takes up a second one with the formula, “Thou art taken with a support for gods deserving praise. I take thee eager to meet gods, eager for praise, for the fulfilment of sacrifice and dear to Indra-Bṛhaspati.”

विश्वास-प्रस्तुतिः

पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति

मूलम्

पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति

English

He touches back the Ukthya vessel with the formula, “Thou art a recurring oblation.”

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिरिन्द्रा बृहस्पतिभ्यां त्वेति

मूलम्

परिमृज्य सादयत्येष ते योनिरिन्द्रा बृहस्पतिभ्यां त्वेति

English

Having wiped around, he puts it down with the formula, “This is thy birth-place; for Indra-Bṛhaspati thee.”

विश्वास-प्रस्तुतिः

तदानीमेवापरं गृह्णात्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थ्यायुवं यज्ञस्यायुष इन्द्रा विष्णुभ्यां जुष्टं गृह्णामीति

मूलम्

तदानीमेवापरं गृह्णात्युपयामगृहीतोऽसि देवेभ्यस्त्वा देवायुवमुक्थ्येभ्य उक्थ्यायुवं यज्ञस्यायुष इन्द्रा विष्णुभ्यां जुष्टं गृह्णामीति

English

At the same time he takes up still another one with the formula, “Thou art taken with a support for gods deserving praise. I take thee eager to meet gods, eager for praise for the fulfilment of sacrifice and dear to Indra-Viṣṇu.”

विश्वास-प्रस्तुतिः

नात्र पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति

मूलम्

नात्र पुनर्हविरसीत्युक्थ्यस्थालीं प्रत्यभिमृशति

English

He does not touch back the Ukthya vessel with the formula. “Thou art a recurring oblation.”

विश्वास-प्रस्तुतिः

दशाभिरेवैनां मृष्ट्वा न्युब्जति

मूलम्

दशाभिरेवैनां मृष्ट्वा न्युब्जति

English

He cleanses it with fringes and keeps it upsidedown.

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिरिन्दाविष्णुभ्यां त्वेत्यथैनान्ध्रुवेऽवनीय होतृचमसेऽवनयेत्

मूलम्

परिमृज्य सादयत्येष ते योनिरिन्दाविष्णुभ्यां त्वेत्यथैनान्ध्रुवेऽवनीय होतृचमसेऽवनयेत्

English

Having wiped it around, he places it with the formula, “This is thy birth-place; for Indra-Viṣṇu thee.” He should pour them into the Dhruva vessel and then again pour into the Hotṛ’s goblet.

विश्वास-प्रस्तुतिः

स्तोत्रे स्तोत्राण्यावपेच्छस्त्रे शस्त्राणि

मूलम्

स्तोत्रे स्तोत्राण्यावपेच्छस्त्रे शस्त्राणि

English

(The Udgātṛs) should add (three) Stotras to the (twelve) Stotras. (The Hotrakas) should add (three) Śastras to the (twelve) Śastras.

विश्वास-प्रस्तुतिः

तस्य प्रत्तस्य भक्ष इन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येतेनैव वा भक्षयेदपि वा नित्यपूर्वेणादित्यवद्गणस्य सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रा वरुणाभ्यामिन्द्रा बृहस्पतिभ्यामिन्द्रा विष्णुभ्यामग्निना वैश्वानरेण मरुद्भिः पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति

The formula for partaking of the Soma which is offered is: “I, invited, partake of Soma, invited, sweet, offered to Indra-Varuṇa (in the first Ukthya draught), Indra-Bṛhaspati (in the second Ukthya draught), Indra- Viṣṇu (in the third Ukthya draught) drunk by Agni Vaiśvānara and the Maruts.” Or with the normal one, “O god Soma, I, invited, partake of thee, invited, having Ādityas for the troops, appreciating the praise, pertaining to the third pressing, having Jagatī for thy metre, drunk by Vaiśvānara Agni and the Maruts offered to Indra-Varuṇa (in the first Ukthya draught), Indra-Bṛhaspati (in the second Ukthya draught), Indra-Viṣṇu (in the third Ukthya draught).

विश्वास-प्रस्तुतिः

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तान्मिन्दाहुती जुहुयाद्मिन्दाहुती हुत्वा हारियोजनं ग्रहं गृह्णीयादित्यथ हैके चात्वालदेशेऽवभृथं निधाय दध्ना पयसा मधुमिश्रेण नैष्ट्ययनैरृजीषमभिजुह्वति यत्ते ग्राव्णा चिच्छिदुः सोम राजन्नित्य्

In that they convey Aupamanyava’s alternative view namely that the sacrificer should first offer two Mindāhutis: after the Mindāhutis have been offered (the Unnetr̥) should take up the Hāriyojana. Some teachers place near the Catvāla the Avabhṛtha-materials and offer over the sediment of Soma curds and mik mixed with honeywith the thirteen Naistyayana verses46 beginning with “O king Soma, in that they crushed thee by means of a pressing stone …” (The Brāhmaṇa says)

विश्वास-प्रस्तुतिः

अवभृथयजूँषि जुहोतीति

मूलम्

अवभृथयजूँषि जुहोतीति

English

“One offers the Avabhṛtha oblations.”47

विश्वास-प्रस्तुतिः

कतमानि खल्विमान्यवभृथयजूँषि भवन्तीति

मूलम्

कतमानि खल्विमान्यवभृथयजूँषि भवन्तीति

English

Which are those Avabhṛtha oblations?

विश्वास-प्रस्तुतिः

यदेवैनदाहवनीये शाकलैश्चरन्ति देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसीत्यवभृथाहुताविति

मूलम्

यदेवैनदाहवनीये शाकलैश्चरन्ति देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसीत्यवभृथाहुताविति

English

They say: Wooden chips are put o the Āhavanīya with the formulas, “Thou art the removal through offering, of the evil done towards men; thou art the removal through offering, of the evil done towards the Pitr̥s.”48

विश्वास-प्रस्तुतिः

कतमा उ खल्वियमवभृथाहुतिर्भवतीत्यप उद्गृह्य जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम स्वाहेति

मूलम्

कतमा उ खल्वियमवभृथाहुतिर्भवतीत्यप उद्गृह्य जुहोति यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम स्वाहेति

English

As for the Avabhṛtha offering which is this Avabhṛtha offering? The Adhvaryu takes up water into his palms and offers it (into the water itself) with the formula, “O lord of sacrifice, may we worship thee with oblations at the Sūktavāka and Namovāka, svāhā”49

विश्वास-प्रस्तुतिः

तिष्ठन्त एवावभृतेन प्रचरेयुः

मूलम्

तिष्ठन्त एवावभृतेन प्रचरेयुः

English

Standing, they perform the Avabhṛtha rite.

विश्वास-प्रस्तुतिः

पराङावृत्तः प्रपदेनोदकान्तं प्रत्यस्येत्सिद्धमत ऊर्ध्वम् २४

मूलम्

पराङावृत्तः प्रपदेनोदकान्तं प्रत्यस्येत्सिद्धमत ऊर्ध्वम् २४

English

Turning away, one should toss back the bordering water by the front part of the foot. The subsequent procedure is as prescribed.

२५

विश्वास-प्रस्तुतिः

अथायमुदयनीयस्

मूलम्

अथायमुदयनीयस्

English

Now this Udayanīya Iṣṭi.

विश्वास-प्रस्तुतिः

तस्य कः कर्मण उपक्रमो भवतीति

मूलम्

तस्य कः कर्मण उपक्रमो भवतीति

English

What is its procedure?

विश्वास-प्रस्तुतिः

बर्हिर्यजुषा कुर्यात्

मूलम्

बर्हिर्यजुषा कुर्यात्

English

One should formally procure the sacrificial grass;

विश्वास-प्रस्तुतिः

पाणी सम्मृशीत

मूलम्

पाणी सम्मृशीत

English

should rub the palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

should strew (the fire-places).

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँस्फ्यं निदध्यात्

मूलम्

पात्राणि निर्णिज्य सँसादयेद्ब्रह्माणं दक्षिणत उपवेश्यात्रैवोत्तरत उदपात्रं निधाय जघनेन गार्हपत्यँस्फ्यं निदध्यात्

English

One should cleanse the utensils and put them down; should seat the Brahman towards the south; put down a pot full of water to the north; should put down the wooden sword to the rear of the Gārhapatya;

विश्वास-प्रस्तुतिः

स्फ्योपरि पात्रीम्पात्र्यां व्रीहीनावपेच्छूर्पादानप्रभृति क्रमान्तस्तायत आ प्रस्कन्दनात्

मूलम्

स्फ्योपरि पात्रीम्पात्र्यां व्रीहीनावपेच्छूर्पादानप्रभृति क्रमान्तस्तायत आ प्रस्कन्दनात्

English

a pan upon the wooden sword; should pour paddy into the pan. The procedure is followed from the taking of the winnowing basket upto the dropping of husks.

विश्वास-प्रस्तुतिः

प्रस्कन्दनान्तं कर्म कृत्वा तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वा जघनेन गार्हपत्यमौपसदायां वेद्याँस्तम्बयजुर्हरेत्

मूलम्

प्रस्कन्दनान्तं कर्म कृत्वा तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वा जघनेन गार्हपत्यमौपसदायां वेद्याँस्तम्बयजुर्हरेत्

English

Having performed the rite ending with the dropping of husks, one should pour water into the vessel across the strainers, place (the vessel) over the fire and pour into it rice-grains across the strainers. Then he should pour out clarified butter (into the vessel) and place it over the fire. He should carry a firebrand around both of them and carry Stambayajus from the altar used for the Upasads to the rear of the Gārhapatya.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं तस्य शृतस्यासादनं दक्षिणं परिधिसन्धिमपरं विमुच्य दक्षिणं वा परिधिमग्रेण प्राञ्चं प्रायणीयमासादयेत्प्रत्यञ्चमुदयनीयम्

मूलम्

सिद्धमत ऊर्ध्वं तस्य शृतस्यासादनं दक्षिणं परिधिसन्धिमपरं विमुच्य दक्षिणं वा परिधिमग्रेण प्राञ्चं प्रायणीयमासादयेत्प्रत्यञ्चमुदयनीयम्

English

The subsequent procedure is as prescribed. When cooked, the rice is placed (within the altar). Leaving some space to the rear of the southern conjunction of the enclosing sticks or in the forefront of the southern conjunction of the enclosing sticks, one should place the scrapings of the cooked rice at the Prayanïyești in the eastern area and the Udayanīya oblation in the western area.

विश्वास-प्रस्तुतिः

अग्निमुखा अत्र देवता इज्यन्ते

मूलम्

अग्निमुखा अत्र देवता इज्यन्ते

English

Offerings are made to divinities with Agni as the first.

विश्वास-प्रस्तुतिः

शय्वन्त उदयनीयः सन्तिष्ठते २५

मूलम्

शय्वन्त उदयनीयः सन्तिष्ठते २५

English

The Udayanīya Iṣṭi is concluded with the Śaṁyuvāka.

२६

विश्वास-प्रस्तुतिः

अथ यदि पशुरुपकृप्तः स्यात्पाणी सम्मृशीत

मूलम्

अथ यदि पशुरुपकृप्तः स्यात्पाणी सम्मृशीत

English

If an animal is procured (for the Anūbandhyā sacrifice), the Adhvaryu should rub his palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

should strew around (the fire-places);

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेत्

मूलम्

पात्राणि निर्णिज्य सँसादयेत्

English

should cleanse the utensils and put them down;

विश्वास-प्रस्तुतिः

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्फ्यमाददीत

मूलम्

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदाज्यं निरुप्याधिश्रित्य पर्यग्नि कृत्वा स्फ्यमाददीत

English

should sanctify Prokṣaṇī-water and sprinkle the utensils; should pour out clarified butter (into the vessel), put the vessel over the fire, carry a friebrand around (the utensils and the clarified butter) and take up the wooden sword.

विश्वास-प्रस्तुतिः

सम्प्रैषप्रभृति पाशुबन्धिकं कर्म तायते

मूलम्

सम्प्रैषप्रभृति पाशुबन्धिकं कर्म तायते

English

The procedure of the Animal-sacrifice commences with the call (for cleansing the ladles etc. BaudhŚS IV.3).

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं यथो एतच्छालीकेः कल्पं वेदयन्ते मैत्रावरुण्यामिक्षया यजेतेति तस्यै सह सवनीयैर्वत्सापाकरणँसह सायन्दोहम्

मूलम्

सिद्धमत ऊर्ध्वं यथो एतच्छालीकेः कल्पं वेदयन्ते मैत्रावरुण्यामिक्षया यजेतेति तस्यै सह सवनीयैर्वत्सापाकरणँसह सायन्दोहम्

English

The subsequent procedure is as pre-scribed.
As for Śālīki’s alternative view which the teachers convey, namely, that one should offer Āmikṣā to Mitra-Varuṇa, calves should be driven away from their mothers for the Amīkṣā side by side with Savanīyapuroḍāśas, and evening milking should also be done simultaneously:

विश्वास-प्रस्तुतिः

उदयनीयेन चरित्वा पाणी सम्मृशीत

मूलम्

उदयनीयेन चरित्वा पाणी सम्मृशीत

English

After having performed the Udayanīyeṣṭi, the Adhvaryu should rub his palms;

विश्वास-प्रस्तुतिः

परिस्तृणीयात्

मूलम्

परिस्तृणीयात्

English

should strew around (the fire-places);

विश्वास-प्रस्तुतिः

पात्राणि निर्णिज्य सँसादयेत्

मूलम्

पात्राणि निर्णिज्य सँसादयेत्

English

should cleanse the utensils and put them down;

विश्वास-प्रस्तुतिः

प्रोक्षणीः सँस्कृत्य पात्राणि प्रोक्षेदथ प्रातर्दोहं धेनूर्दोहयेदथैनां गार्हपत्ये श्रपयित्वानभिघारितामुद्वासयेदथाज्यं निर्वपेदथाज्यमधिश्रयेदुभयं पर्यग्नि कृत्वाहवनीये वैदलकान्परिधीन्परिधायाथैनां पुनरधिश्रित्याभिघारितामुद्वास्यान्तर्वेद्यासादयेदाज्यभागान्तं कर्म कृत्वा दक्षिणे वेद्यन्ते केशश्मश्रु वपते नखानि निकृन्ततेऽथाज्यभागप्रतिपत्केडान्ता सन्तिष्ठतेऽथेयमुदवसानीयोपाँशु भवति पुनराधेयधर्म हि

should sanctify Prokṣaṇī-water and sprinkle the utensils; should cause the morning milk to be milked; should boil this (Āmikṣā) over the Gārhapatya and take it down without pouring clarified butter over it, should pour out clarified butter (in the vessel) and place the vessel over the fire. He should carry a firebrand around both (the clarified butter and Āmikṣā), lay around the Āhavanīya enclosing sticks of split bamboo, again place the Āmikṣā over fire, pour clarified butter over, take down and place within the altar. Then he should offer the Ajyabhāgas to Agni and Soma. Having gone through the procedure ending with the Ajyabhāgas, the sacrificer should get his hair and beard shaved on the southern border of the altar, and get his nails pared. The Iṣṭi comes to an end with the invocation of Idā.

The Udavasāniyeşți is performed with the mantras recited in a low tone; it follows the rule of Punarādheya.

विश्वास-प्रस्तुतिः

सकृन्महावेद्यै स्तम्बयजुषो हरणम्

मूलम्

सकृन्महावेद्यै स्तम्बयजुषो हरणम्

English

The Stambayajus is carried from the Mahāvedi once only.

विश्वास-प्रस्तुतिः

असन्नद्धा पत्नी यज्ञपुच्छमन्वास्ते २६

मूलम्

असन्नद्धा पत्नी यज्ञपुच्छमन्वास्ते २६

English

The sacrificer’s wife attends the “tail of the sacrifice” without being girded round the waist.

२७ अग्निचयनम्

विश्वास-प्रस्तुतिः

अथेममग्निचयं त्र्युपसत्कँषडुपसत्कं द्वादशोपसत्कमिति चिन्वते

मूलम्

अथेममग्निचयं त्र्युपसत्कँषडुपसत्कं द्वादशोपसत्कमिति चिन्वते

English

The Agnicaya is piled up involving three or six or twelve Upasad days.

विश्वास-प्रस्तुतिः

स यदि साहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

मूलम्

स यदि साहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

English

If one is going to pile up a Citi of a thousand bricks with three Upasad days, he should perform the Pravargya and Upasad rites in the early part of the day, pile up the first Citi together with the spreading of earth and offer two Saṁcita offerings.50

विश्वास-प्रस्तुतिः

द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

मूलम्

द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

English

Having piled up the second Citi together with the spreading of earth, he makes two Saṁcita offerings.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चतुर्थीं चितिं पञ्चमीं चितिँषष्ठीं चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोत्यौपवसथिकैव तृतीयाथ यदि साहस्रँषडुपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

Next day having performed the Pravargya and Upasad, he piles up the third, fourth, fifth and sixth Citis, each one together with the spreading of earth and makes two Saṁcita offerings. The third Citi (together with the subseqent Citis) is piled up on the Upavasatha day. If he is going to pile up a thousand bricks involving six Upasad days, he performs the Pravargya and Upasad in the early part of the day, piles up the first Citi together with spreading of earth, and makes Saṁcita offerings.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

मूलम्

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती जुहोति

English

Next morning he performs Pravargya and Upasad, piles up the second Citi together with the spreading of earth and offers the Saṁcita offerings.

विश्वास-प्रस्तुतिः

स एवमेव पञ्चाहम्

मूलम्

स एवमेव पञ्चाहम्

English

Similarly he goes on for five days.

विश्वास-प्रस्तुतिः

औपवसथिकैव षष्ठ्यथ यदि साहस्रं द्वादशोपसत्कं चेष्यमाणो भवति यथासूत्रं तथाथ यदि द्विषाहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वाहार्या ँर्सपुरीषामुपदधाति

The sixth Citi comes on the Upasatha day. If he is going to pile up a thousand bricks with twelve Upasad days, he adopts the procedure as prescribed in the main Sūtra. If he is going to pile up two thousand bricks with three Upasad days, he should perform the Pravargya and Upasad in the early part of the day, pile up the first Citi together with the spreading of earth, offer the Saṁcita offerings, and pile up an additional Citi together with the spreading of earth.

विश्वास-प्रस्तुतिः

द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वाहायाँर्! सपुरीषामुपदधाति

मूलम्

द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वाहायाँर्! सपुरीषामुपदधाति

English

Further he piles up the second Citi together with the spreading of earth, offers Saṁcita offerings and piles up an additional Citi together with the spreading of earth.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चतुर्थीं चितिं पञ्चमीं चितिँषष्ठीं चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वाहार्या ँर्सपुरीषामुपदधात्यौपवसथिकैव तृतीयाथ यदि द्विषाहस्रँषडुपसत्कं चेष्यमानो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय सञ्चिताहुती हुत्वाहायाँर्सपुरीषामुपदधाति

Next morning he performs the Pravargya and Upasad, and piles up the third, fourth, fifth and sixth Citis each one together with the spreading of earth, and offers the Saṁcita offerings and piles up an additional Citi together with the spreading of earth. The third Citi (together with subsequent Citis) takes place on the Upavasatha day. If one is going to pile up two thousand bricks with six Upasad days, he performs Pravargya and Upasad in the early part of the day, piles up the first Citi together with the spreading of earth. First tite together with spreading of Earth, offrs the Saṁcita offerings and piks up an addtional eite together with the spreading of earth.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वाहायाँर्सपुरीषामुपदधाति

मूलम्

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वाहायाँर्सपुरीषामुपदधाति

English

Next morning he performs Pravargya and Upasad, piles up the second Citi together with the spreading of earth, offers the Saṁcita offerings and piles up an additional Citi together with the spreading of earth.

विश्वास-प्रस्तुतिः

स एवमेव पञ्चाहम्

मूलम्

स एवमेव पञ्चाहम्

English

Similarly he goes on for five days.

विश्वास-प्रस्तुतिः

औपवसथिकैव षष्ठ्यथ यदि द्विषाहस्रं द्वादशोपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिमुपधायाध्यस्तपुरीष एताँरात्रिं वसति

मूलम्

औपवसथिकैव षष्ठ्यथ यदि द्विषाहस्रं द्वादशोपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिमुपधायाध्यस्तपुरीष एताँरात्रिं वसति

English

The sixth Upasad falls on the Upavasatha day. If he is going to pile up two thousand bricks with twelve Upasad days, he performs Pravargya and Upasad in the early part of the day, piles up the first Citi, spreads up earth and stays on for the night.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य पुरीषमुपधाय सञ्चिताहुती हुत्वाहार्या ँर्सपुरीषामुपदधाति

मूलम्

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य पुरीषमुपधाय सञ्चिताहुती हुत्वाहार्या ँर्सपुरीषामुपदधाति

English

Next day he performs the Pravargya and Upasad, spreads earth, offers the Saṁcita offerings, and piles up an additional Citi together with the spreading of earth.

विश्वास-प्रस्तुतिः

स एवमेव यथासूत्रं तथा वर्तमानः पुरीषम्पुरीषमुपधाय सञ्चिताहुती हुत्वाहायाँ र्सपुरीषामुपदधात्यौपवसथिकैव द्वादशी २७

मूलम्

स एवमेव यथासूत्रं तथा वर्तमानः पुरीषम्पुरीषमुपधाय सञ्चिताहुती हुत्वाहायाँ र्सपुरीषामुपदधात्यौपवसथिकैव द्वादशी २७

English

He adopts the procedure as laid down in the main sūtra, spreads earth each time, offers Saṁcita offerings each time, and piles up an additional Citi together with the spreading of earth. The twelfth Upasad falls on the Upavasatha day.

२८

विश्वास-प्रस्तुतिः

अथ यदि त्रिषाहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

मूलम्

अथ यदि त्रिषाहस्रं त्र्युपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँ सपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

English

If one is going to pile up three thousand bricks with three Upasad days, he performs the Pravargya and Upasad in the early part of the day, piles up the first Citi together with the spreading of earth, offers two Saṁcita offerings and piles up two additional Citis-each one together with the spreading of earth.

विश्वास-प्रस्तुतिः

द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

मूलम्

द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

English

He then piles up the second Citi together with the spreading of earth, offers two Saṁcita offerings and piles up two additional Citis-each one together with the spreading of earth.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चतुर्थीं चितिं पञ्चमीं चितिँषष्ठीं चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वेद्वे आहार्ये सपुरीषे उपदधात्यौपवसथिकैव तृतीयाथ यदि त्रिषाहस्रँ षडुपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

Next day he performs the Pravargya and Upasad, piles up the third, fourth, fifth and sixth Citis together with the spreading of earth, offers Saṁcita offerings, and piles up with each Citi two additional Citis together with the spreading of earth. The third Upasad day falls on the Upavasatha day. If one is going to pile up three thousand bricks with six Upasad days, he performs the Pravargya and Upasad in the early part of the day, piles up the first Citi together with the spreading of earth, offers the Saṁcita offerings and piles up two additional Citis together with the spreadings of earth.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

मूलम्

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिँसपुरीषामुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

English

Next day he performs the Pravargya and Upasad, piles up the second Citi together with the spreading of earth, offers the Saṁcita offerings, and piles up two additional Citis together with the spreadings of earth.

विश्वास-प्रस्तुतिः

स एवमेव पञ्चाहम्

मूलम्

स एवमेव पञ्चाहम्

English

Similarly he goes on for five days.

विश्वास-प्रस्तुतिः

औपवसथिकैव षष्ठ्यथ यदि त्रिषाहस्रं द्वादशोपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिमुपधायाध्यस्तपुरीष एताँरात्रिं वसति

मूलम्

औपवसथिकैव षष्ठ्यथ यदि त्रिषाहस्रं द्वादशोपसत्कं चेष्यमाणो भवति पूर्वाह्णे प्रवर्ग्योपसद्भ्यां प्रचर्य प्रथमां चितिमुपधायाध्यस्तपुरीष एताँरात्रिं वसति

English

The sixth Upasad day falls on the Upavasatha day. If one is going to pile up three thousand bricks with twelve Upasad days, he performs the Pravargya and Upasad in the early part of the day, piles up the first Citi, spreads up earth and stays on for the night.

विश्वास-प्रस्तुतिः

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य पुरीषमुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

मूलम्

श्वो भूते प्रवर्ग्योपसद्भ्यां प्रचर्य पुरीषमुपधाय सञ्चिताहुती हुत्वा द्वे आहार्ये सपुरीषे उपदधाति

English

Next day he performs the Pravargya and Upasad, spreads earth, offers Saṁcita offerings, and piles up two additional Citis together with the spreadings of earth.

विश्वास-प्रस्तुतिः

स एवमेव यथासूत्रं तथा वर्तमानः पुरीषम्पुरीषमुपधाय सञ्चिताहुती हुत्वा द्वेद्वे आहार्ये सपुरीषे उपदधात्य्

मूलम्

स एवमेव यथासूत्रं तथा वर्तमानः पुरीषम्पुरीषमुपधाय सञ्चिताहुती हुत्वा द्वेद्वे आहार्ये सपुरीषे उपदधात्य्

English

He adopts the procedure laid down in the main Sūtra, spreads earth each time, offers Saṁcita offerings, and piles up two additional Citis together with the spreading of earth.

विश्वास-प्रस्तुतिः

औपवसथिकैव द्वादशी

मूलम्

औपवसथिकैव द्वादशी

English

The twelfth Upasad day falls on the Upavasatha day.

विश्वास-प्रस्तुतिः

कथमु खल्वन्तरुपसत्कं बहिरुपसत्कमन्तर्बहिरुपसत्कमिति विजानीयाद्दैक्षस्य संवत्सरस्य द्वादशावशिष्य राजानं क्रीणीयात्सोऽन्तरुपसत्कः

मूलम्

कथमु खल्वन्तरुपसत्कं बहिरुपसत्कमन्तर्बहिरुपसत्कमिति विजानीयाद्दैक्षस्य संवत्सरस्य द्वादशावशिष्य राजानं क्रीणीयात्सोऽन्तरुपसत्कः

English

How should one know (the Agnicaya) with the Upasads to be inside, to be outside, and to be both inside and outside? Leaving twelve days out of the year of initiation, one should purchase Soma. This is (the Agnicaya) with the Upasads to be inside.

विश्वास-प्रस्तुतिः

संवत्सरे पर्यवेते राजानं क्रीणीयात्स बहिरुपसत्को दैक्षस्य संवत्सरस्य षडवशिष्य राजानं क्रीणीयात्ताश्चोपसदः स्युरुत्तरश्च षड्रात्रः सोऽन्तर्बहिरुपसत्कः २८

मूलम्

संवत्सरे पर्यवेते राजानं क्रीणीयात्स बहिरुपसत्को दैक्षस्य संवत्सरस्य षडवशिष्य राजानं क्रीणीयात्ताश्चोपसदः स्युरुत्तरश्च षड्रात्रः सोऽन्तर्बहिरुपसत्कः २८

English

After the initiation-year has passed, one should purchase Soma. This is (the Agnicaya) with the Upasads to be outside. Leaving six days out of the initiation- year, one should purchase Soma. (The remaining six days) and the next six days would be the Upasads. This is (the Agnicaya) with Upasads both inside and outside.

२९

विश्वास-प्रस्तुतिः

मृदमेताँसमां बिलेन करोतीति

मूलम्

मृदमेताँसमां बिलेन करोतीति

English

As for the statement that “One should make the earth equal to the opening (of the pit)”:

विश्वास-प्रस्तुतिः

समां भूम्यां निदधातीत्येवेदमुक्तं भवत्यथैतावश्वगर्दभावुत्तरत उपस्थापयति पुरस्ताद्वा प्रत्यञ्चौ

मूलम्

समां भूम्यां निदधातीत्येवेदमुक्तं भवत्यथैतावश्वगर्दभावुत्तरत उपस्थापयति पुरस्ताद्वा प्रत्यञ्चौ

English

This means he makes it level on the ground. As for the statement that he makes the horse and ass stand towards the north or towards the east facing west:

विश्वास-प्रस्तुतिः

स यदि पुरस्तात्प्रत्यञ्चौ दक्षिणोऽश्व उत्तरतो गर्दभोऽथ यद्युत्तरतः पूर्वोऽश्वोऽपरो गर्दभोऽग्निभ्यः पशूनालभत इति

मूलम्

स यदि पुरस्तात्प्रत्यञ्चौ दक्षिणोऽश्व उत्तरतो गर्दभोऽथ यद्युत्तरतः पूर्वोऽश्वोऽपरो गर्दभोऽग्निभ्यः पशूनालभत इति

English

if they are towards the east facing the west, the horse should be to the south and the ass to the north. If they are towards the north, the horse should be to the east, the ass to the west. As for the injunction: “One offers animals to Agnis.”51

विश्वास-प्रस्तुतिः

पञ्चानां पशूनां ब्राह्मणं भवति

मूलम्

पञ्चानां पशूनां ब्राह्मणं भवति

English

The Brāhmaṇa tells about the five animals.

विश्वास-प्रस्तुतिः

स यद्यु हैतान्पशूनुपाकरोत्या बर्हिष उपासनात्पशुबन्धिकं कर्म वर्तयित्वा शिराँसि प्रच्छिद्यापो देहानभ्यवहरेयुरपो देहानभ्यवहरन्तीति विज्ञायते

मूलम्

स यद्यु हैतान्पशूनुपाकरोत्या बर्हिष उपासनात्पशुबन्धिकं कर्म वर्तयित्वा शिराँसि प्रच्छिद्यापो देहानभ्यवहरेयुरपो देहानभ्यवहरन्तीति विज्ञायते

English

When one dedicates these animals, he goes through the procedure of the animal-sacrifice upto the laying down of darbha-blades, their heads are cut and the bodies are disposed in water. “They dispose the bodies into water,” so is it said.

विश्वास-प्रस्तुतिः

मासमेतं ब्रह्मचर्यं चरति

मूलम्

मासमेतं ब्रह्मचर्यं चरति

English

The sacrificer observes the vow of celibacy for one month.

विश्वास-प्रस्तुतिः

सोऽधःसंवेश्यमाँसाश्यस्त्र्युपायो भवति पूर्वदीक्षेत्येतामाचक्षते

मूलम्

सोऽधःसंवेश्यमाँसाश्यस्त्र्युपायो भवति पूर्वदीक्षेत्येतामाचक्षते

English

He sleeps on the ground, does not consume flesh, and does not approach a woman. This is called the initial initiation.

विश्वास-प्रस्तुतिः

त्रयोदशमेवैतं मासमभि दीक्षमाणो मन्यतेऽत्र कृष्णाजिने यजमानं वाचयति मुष्टी चैव न करोति वाचं च न यच्छतीति

मूलम्

त्रयोदशमेवैतं मासमभि दीक्षमाणो मन्यतेऽत्र कृष्णाजिने यजमानं वाचयति मुष्टी चैव न करोति वाचं च न यच्छतीति

English

He deems himself as observing initiation during the thirteenth month. (The Adhvaryu) makes the sacrificer recite (the relevant formulas) while being seated on the skin of black antelope; the sacrificer does not close his fists and does not restrain speech:

विश्वास-प्रस्तुतिः

कृष्णाजिनप्रभृति कर्मान्त एष भवत्यावेदनात्

मूलम्

कृष्णाजिनप्रभृति कर्मान्त एष भवत्यावेदनात्

English

The rite beginning with the seating of the sacrificer on the skin of black antelope comes to an end with the announcement (of the sacrificer’s initiation).

विश्वास-प्रस्तुतिः

प्रथमायामुपसदि वेदिं विमिमीते स्तम्बयजुर्हरतीति

मूलम्

प्रथमायामुपसदि वेदिं विमिमीते स्तम्बयजुर्हरतीति

English

On the first Upasad-day the Adhvaryu measures the Vedi; he carries the Stambayajus:

विश्वास-प्रस्तुतिः

कर्मवशकारितमेवैतद्भवत्यथ सम्भारेषूषान्निवपन्यददश्चन्द्र मसि कृष्णं तन्मनसा ध्यायेत्तदपीहेति २९

मूलम्

कर्मवशकारितमेवैतद्भवत्यथ सम्भारेषूषान्निवपन्यददश्चन्द्र मसि कृष्णं तन्मनसा ध्यायेत्तदपीहेति २९

English

this is done by necessity. While pouring down saline soil among the substances (the Adhvaryu also recites the formula) “That which is the black in the moon;” he should mentally think “let it be here.”

३०

विश्वास-प्रस्तुतिः

उत्तरमुत्तरं प्रति बलीवर्दमुत्तरामुत्तराँसीतां कृषन्सर्वौषधं वपन्स्वयमातृण्णावकाशं नावक्रामेदित्यथ हैके पुरुषे च स्वयमातृण्णायां च साम गायन्ति

मूलम्

उत्तरमुत्तरं प्रति बलीवर्दमुत्तरामुत्तराँसीतां कृषन्सर्वौषधं वपन्स्वयमातृण्णावकाशं नावक्रामेदित्यथ हैके पुरुषे च स्वयमातृण्णायां च साम गायन्ति

English

While turning each successive ox for ploughing each successive furrow and while sowing all seeds, (the Adhvaryu) should not trespass the spot for the naturally perforated stone. Some (priests) chant a Saman while (laying down) the golden man and while piling up the naturally perforated stone.

विश्वास-प्रस्तुतिः

किमु खलु स्वयमातृण्णानिकोतं भवतीति

मूलम्

किमु खलु स्वयमातृण्णानिकोतं भवतीति

English

Which is the group related to the naturally perforated stone?

विश्वास-प्रस्तुतिः

हिरण्येष्टका मण्डलेष्टका रेतःसिगित्येव ब्रूयाद्यंयमिष्टकागणमुपदध्यात्तन्तं न व्यवेयाद्दक्षिणेन दक्षिणमुत्तरेणोत्तरं स यदि दक्षिणतः पुरस्ताद्वेष्टका उपदध्यादपसलैरत्रावर्तेताथ यद्युत्तरतः पश्चाद्वा प्रदक्षिणमावृत्य स्वयमातृण्णामेवाभिमुख इष्टका उपदध्यात्

One should understand by this term the golden bricks, Mandala bricks and the Retaḥsic bricks. One should not pass between those bricks which one piles up in a group. One should pass along the south of the group piled up towards the south, along the north of the group piled up towards the north. If he is piling towards the south or east, he should turn by the left. If towards the north or west, he should turn by the right, and pile up bricks facing the naturally perforated stone.

विश्वास-प्रस्तुतिः

कृत्तिका उपदधातीति

मूलम्

कृत्तिका उपदधातीति

English

He should pile up the Kṛttikā bricks.

विश्वास-प्रस्तुतिः

कतमा उ खल्विमाः कृत्तिका भवन्तीति

मूलम्

कतमा उ खल्विमाः कृत्तिका भवन्तीति

English

Which are these Kṛttikās?

विश्वास-प्रस्तुतिः

विद्युत इत्येव ब्रूयादस्रवणार्थे बौधायनस्याग्नावग्नौ पुनश्चितिः

मूलम्

विद्युत इत्येव ब्रूयादस्रवणार्थे बौधायनस्याग्नावग्नौ पुनश्चितिः

English

The lightning, one should say. Baudhāyana’s view is that, in order that the fruit of the Citi should not ooze out, one should perform the Punaściti.

विश्वास-प्रस्तुतिः

सह सा न पुरीषचितिः षष्ठ्या वृद्धिजेति

मूलम्

सह सा न पुरीषचितिः षष्ठ्या वृद्धिजेति

English

(He should further pile up the normal Punaściti). He should pile up the sixth Citi of earth for prosperity.

विश्वास-प्रस्तुतिः

वृद्धिजैवेति शालीकिः

मूलम्

वृद्धिजैवेति शालीकिः

English

Śālīki holds that the Punaściti should be piled up only for prosperity.

विश्वास-प्रस्तुतिः

षष्ठं प्रच्छादमाहरमाणः कस्मिन्नु खल्वेनत्काल आहरेदिति

मूलम्

षष्ठं प्रच्छादमाहरमाणः कस्मिन्नु खल्वेनत्काल आहरेदिति

English

At which time should one pile up the sixth Citi of earth?

विश्वास-प्रस्तुतिः

नक्षत्रेष्टका उपधायेत्येव ब्रूयात्

मूलम्

नक्षत्रेष्टका उपधायेत्येव ब्रूयात्

English

After having piled up the Nakṣatra bricks,52 one should say.

विश्वास-प्रस्तुतिः

स त्रिभिः कर्मभिरभिप्रैति पुरीषस्योपधानेन साहस्रवता प्रोक्षणेन धेनुकरणेनेति

मूलम्

स त्रिभिः कर्मभिरभिप्रैति पुरीषस्योपधानेन साहस्रवता प्रोक्षणेन धेनुकरणेनेति

English

One proceeds with three rites53 spreading of earth, sprinkling with a thousand pieces of gold and deeming the bricks as cows.

विश्वास-प्रस्तुतिः

सोऽष्टाभिः कर्मभिरभिप्रैत्युत्तमे सञ्चिताहुती शतरुद्री यं नमस्काराः परिषेचनं विकर्षणँसर्पाहुतीः सामभिरुपस्थानमनुशँसनमिति ३०

मूलम्

सोऽष्टाभिः कर्मभिरभिप्रैत्युत्तमे सञ्चिताहुती शतरुद्री यं नमस्काराः परिषेचनं विकर्षणँसर्पाहुतीः सामभिरुपस्थानमनुशँसनमिति ३०

English

He then proceeds with eight rites54 —two Saṁcita offerings, Satarudriya offering, Namaskāra formulas, sprinkling around, drawing along (of the frog etc.), Sarpa-offerings, praying with Saman-chanting, and praying to Agni.

३१

विश्वास-प्रस्तुतिः

अथ किं नानाबीजानां निर्वपणे तन्त्रमिति

मूलम्

अथ किं नानाबीजानां निर्वपणे तन्त्रमिति

English

What is the combined procedure in respect of the pouring out of grains (for Devasu oblations)?

विश्वास-प्रस्तुतिः

स्रुगादानं तन्त्रँशूर्पादानं तन्त्रं धूःप्रभृतयः शकटमन्त्राः सर्वे तन्त्रं भवत्या सावित्राद्बीजम्बीजमभ्यावर्तते सावित्रं तन्त्रं दशहोताभिप्रव्रजनं परिदानमिति तन्त्रं भवति

मूलम्

स्रुगादानं तन्त्रँशूर्पादानं तन्त्रं धूःप्रभृतयः शकटमन्त्राः सर्वे तन्त्रं भवत्या सावित्राद्बीजम्बीजमभ्यावर्तते सावित्रं तन्त्रं दशहोताभिप्रव्रजनं परिदानमिति तन्त्रं भवति

English

Taking of the ladle is common; taking of the winnowing basket is common; the formula pertaining to the cart beginning with dhur asi are common upto the formula devasya tvā ….. nirvapāmi.55 This Sāvitra formula is repeated at each grain. The Dasahotṛ formulas, (the formulas for) approaching, giving over (to divinities) are common.

विश्वास-प्रस्तुतिः

तन्त्रं कृष्णाजिनावधवनं तन्त्रमुलूखलाध्यूहनं तन्त्रं पुरोडाशीयानामावपनं तन्त्रं मुसलस्यावधानं तन्त्रँशूर्पस्योपोहनं तन्त्रँहविष्कृद्

मूलम्

तन्त्रं कृष्णाजिनावधवनं तन्त्रमुलूखलाध्यूहनं तन्त्रं पुरोडाशीयानामावपनं तन्त्रं मुसलस्यावधानं तन्त्रँशूर्पस्योपोहनं तन्त्रँहविष्कृद्

English

(The formulas for) shaking the skin of black antelope, keeping the mortar (upon the skin), pouring the grains, putting in of the pestle, winnowing by the basket, and the call to the pounder are common.

विश्वास-प्रस्तुतिः

आवपनप्रभृतिमन्त्रो बीजम्बीजमभ्यावर्तते प्रस्कन्दनान्तो यथो एतच्छालीकेः कल्पं वेदयन्ते सह स्विष्टकृतात्याक्रामेदित्येकादशप्रयाज एवैतदुपपद्यते न पञ्चप्रयाजे

मूलम्

आवपनप्रभृतिमन्त्रो बीजम्बीजमभ्यावर्तते प्रस्कन्दनान्तो यथो एतच्छालीकेः कल्पं वेदयन्ते सह स्विष्टकृतात्याक्रामेदित्येकादशप्रयाज एवैतदुपपद्यते न पञ्चप्रयाजे

English

The formulas for the rites beginning with the pouring of paddy into the mortar and ending with winnowing are repeated in respect of each corn. In that they convey Śālīki’s view namely that the Adhvaryu should cross over taking the Sviṣṭakr̥t oblation, this applies to the ritual involving eleven Prayājas, not five Prayājas.

विश्वास-प्रस्तुतिः

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तात्स्विष्टकृतो यावदाम्नातेनाभिषिञ्चेन्नात्र कृष्णाजिनं न रुक्मौ न पार्थानि भवन्ति कुशानेव सँस्तीर्य तेष्वेनमभिषिञ्चेदिति

मूलम्

यथो एतदौपमन्यवस्य कल्पं वेदयन्ते पुरस्तात्स्विष्टकृतो यावदाम्नातेनाभिषिञ्चेन्नात्र कृष्णाजिनं न रुक्मौ न पार्थानि भवन्ति कुशानेव सँस्तीर्य तेष्वेनमभिषिञ्चेदिति

English

In that they convey Aupamanyava’s view namely that one should give consecratory bath (to the sacrificer) prior to the Sviṣṭakr̥t offering only with the prescribed materials: there is no skin of black antelope, no sheets (of precious metal), no offerings with Pārtha formulas;56 one should spread Kusa grass, seat him on it and give the bath.

विश्वास-प्रस्तुतिः

कथमु खलु सत्त्रिणामभिषेक आवर्तत इत्यभिषेक आवेदनं प्रथमेऽह्न्यभिषेकः प्रथमेऽह्न्यश्वस्यावघ्रापणमादितश्चान्ततश्च बहिष्पवमानमास्तावे स्तुवीरन्नहरहर्यज्ञायज्ञियस्य स्तोत्रे द्वाभ्यामभिमृशेदिति ३१

What should be the order of the consecratory bath of the Sattrins? The announcement of the consecratory bath on the first day, the bath again on the first day, making the horse smell on the first day, the chanting of the Bahiṣpavamāna should be done in the Astāva on the opening and closing days; the Adhvaryu should touch with two verses each day at the chanting of the Yajñāyajñiya Stotra.

३२

विश्वास-प्रस्तुतिः

कथमु खल्वेकादशिनानां पशूनां चर्याया उपक्रमो भवतीतीडसूनँसँस्तीर्य पृषदाज्यं विहत्य जुह्वाँसमानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य संवदेताभिघारयेदासादयेत्पशुं पञ्चहोत्रा चतसृषूपस्तृणीते

How does the procedure of the offering of Ekādaśinī animals commence ? One should spread the Iḍasūna plank, take Pṛṣadājya into the ladle by dipping the spoon, go out towards the north passing between the Catvāla and the rubbish-heap, have a dialogue (with the Samitr), pour clarified butter over (the cooked organs), place the organs (within the altar) reciting the Pañcahotr̥-formulas, and spread clarified butter in four (implements).

विश्वास-प्रस्तुतिः

मुख्यस्य पशोर्दैवतमवदाय वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्णुयाद्

मूलम्

मुख्यस्य पशोर्दैवतमवदाय वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्णुयाद्

English

He takes up portions of cooked organs of the foremost animal, puts the perinephric fat into the broth and covers the ladle with it, sprinkles broth, and pours clarified butter.

विश्वास-प्रस्तुतिः

यूष्णोपसिच्याभिघारयेदथोपभृति स्विष्टकृते सर्वेषां त्र्यङ्गाणाँ सकृत्सकृत्स्विष्टकृते समवदाय वृक्यमेदो यूषन्नवधाय तेनोपभृतं प्रोर्णुयाद्यूष्णोपसिच्य नाभिघारयेदथ हृदयं जिह्वां वक्षस्तनिम मतस्नौ वनिष्ठुमिति पात्र्याँसमवधाय यूष्णोपसिच्य नाभिघारयेदथ कँसे वा चमसे वा वसाहोमं गृहीत्वा यूष्णोपसिच्याथाभिघारयेत्

He takes into the Upabhṛt for the Sviṣṭakr̥t offering a portion of each of the three organs,57 puts the perinephric fat into the broth and covers the Upabhṛt with it. He sprinkles the broth over it, but does not spread clarified butter. He places together into the pan the heart, tongue, sternum, liver, two kidneys and the large intestine, sprinkles with broth, and does not pour clarified butter. He takes up in a bronze or a goblet oily portion of flesh, sprinkles broth over it and pours clarified butter.

विश्वास-प्रस्तुतिः

सम्मृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँस्तः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्

मूलम्

सम्मृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँस्तः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्

English

He should touch together (the portions of) the animal. He should stir the oily portion of flesh by means of the head of the right-side rib.58 Having gone round along the rear of the Uttaravedi, he should cause to announce. When half of the yājya-verse has been recited (by the Hotṛ), the Pratiprasthātṛ should offer the oily part of flesh.

विश्वास-प्रस्तुतिः

परिशिँष्याच्च दिग्भ्योऽथेतरद्वसाहोमहवन्याँसमवनयेद्वषट्कृते हविर्जुहोति

मूलम्

परिशिँष्याच्च दिग्भ्योऽथेतरद्वसाहोमहवन्याँसमवनयेद्वषट्कृते हविर्जुहोति

English

He should keep back a part of it for the offerings to the quarters; and pour down the remaining quantity into the Vasāhomahavanī. He makes the offerings at the Vaṣaṭ-utterance.

विश्वास-प्रस्तुतिः

सोऽनिष्ट्वैव स्विष्टकृतमुदङ्ङत्याक्रम्य जुह्वां चैव वसाहोमहवन्यां चोपस्तृणीते

मूलम्

सोऽनिष्ट्वैव स्विष्टकृतमुदङ्ङत्याक्रम्य जुह्वां चैव वसाहोमहवन्यां चोपस्तृणीते

English

Before offering the Sviştakṛt he crosses beyond towards the north and spreads clarified butter into the Juhū and the Vasāhomahavanî.

विश्वास-प्रस्तुतिः

द्वितीयस्य पशोर्दैवतमवदाय वृक्यमेदो यूषन्नवधाय तेन जुहूं प्रोर्ण्याद्यूष्णोपसिच्याभिघारयेदथोपभृति स्विष्टकृते अर्वेषां त्र्यङ्गाणाँसकृत्सकृत्समवदाय वृक्यमेदो यूषन्नवधाय तेनोपभृतं प्रोर्णुयात्

He takes portions of organs of the second animal into the ladle, dips the perinephric fat into the broth and covers the ladle with it. He should sprinkle broth over it and pour clarified butter. He should take into the Upabhṛt for the Sviṣṭakr̥t one portion each of the three organs, dip perinephric fat into the broth and cover the Upabhṛt with it.

विश्वास-प्रस्तुतिः

समवत्तमेतद्यूष्णोपसिच्य नाभिघारयेत्

मूलम्

समवत्तमेतद्यूष्णोपसिच्य नाभिघारयेत्

English

He should sprinkle all this with broth, but should not pour clarified butter.

विश्वास-प्रस्तुतिः

अथैव कँसे वा चमसे वा वसाहोमं गृह्णीयाद्यूष्णोपसिञ्चेदथाभिघारयेत्

मूलम्

अथैव कँसे वा चमसे वा वसाहोमं गृह्णीयाद्यूष्णोपसिञ्चेदथाभिघारयेत्

English

In a similar manner he should take oily portion of flesh into a bronze or a goblet, sprinkle broth over it and pour clarified butter.

विश्वास-प्रस्तुतिः

सम्मृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँसतः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्

मूलम्

सम्मृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँसतः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्

English

He should touch together (all the portions of) the animal. He should stir the oily portion of flesh by means of the head of the right-side rib. Having gone round along the rear of the Uttaravedi, he should cause to announce. the Pratiprasthātṛ should offer the oily part of flesh.

विश्वास-प्रस्तुतिः

परिशिँष्याच्च दिभ्यो वषट्कृते हविर्जुहोति

मूलम्

परिशिँष्याच्च दिभ्यो वषट्कृते हविर्जुहोति

English

When the Hotr̥ has recited the half yājyā-verse, he should keep back a part for the offerings to the quarters. the Adhvaryu makes the offering at the Vaṣaṭ-utterance.

विश्वास-प्रस्तुतिः

स एवमेव सर्वेषां पशूनां स यत्र वारुणस्य स्विष्टकृतेऽवद्येत्तद्द्विरभिघारयेत्

मूलम्

स एवमेव सर्वेषां पशूनां स यत्र वारुणस्य स्विष्टकृतेऽवद्येत्तद्द्विरभिघारयेत्

English

In this manner he makes the offerings of all animals. When he takes portions for the Sviṣṭakr̥t of (the animal for) Varuṇa, he pours (clarified butter) twice.

विश्वास-प्रस्तुतिः

सम्वत्तमेवैतद्यूष्णोपसिच्याभिघारयेत्

मूलम्

सम्वत्तमेवैतद्यूष्णोपसिच्याभिघारयेत्

English

Having sprinkled broth over the portions of all animals, he should pour over.

विश्वास-प्रस्तुतिः

तथैव कँसे वा चमसे वा वसाहोम गृह्णीयाद्यूष्णोपसिच्याभिघारयेत्

मूलम्

तथैव कँसे वा चमसे वा वसाहोम गृह्णीयाद्यूष्णोपसिच्याभिघारयेत्

English

Similarly he should take oily portion of flesh in a bronze or a goblet, sprinkle broth over it and pour over.

विश्वास-प्रस्तुतिः

सम्मृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँस्तः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्

मूलम्

सम्मृशेत्पशुम्पार्श्वेन वसाहोमं प्रयौयान्मँस्तः कुम्बतो जघनेनोत्तरवेदिं परिक्रम्याश्रावयेद्याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहुयात्

English

He should touch together the entire portion of the animal. he should keep back a portion for the offerings to the quarters, and pour the remaining portion into the Vasāhomahavanī ladle.

विश्वास-प्रस्तुतिः

परिशिँष्याच्च दिग्भ्योऽथेतरद्वसाहोमहवन्याँसमवनयेद्वषट्कृते हविर्जुहोत्यजथ पुरस्ताद्वनस्पतेः समान्यो दिशः प्रतियजेदथ वनस्पतिना चरेदथ स्विष्टकृता

मूलम्

परिशिँष्याच्च दिग्भ्योऽथेतरद्वसाहोमहवन्याँसमवनयेद्वषट्कृते हविर्जुहोत्यजथ पुरस्ताद्वनस्पतेः समान्यो दिशः प्रतियजेदथ वनस्पतिना चरेदथ स्विष्टकृता

English

The Adhvaryu should make the offering at the Vaṣaṭ-utterance. Before the offering to Vanaspati he should offer similarly to the quarters. Then he should offer to Vanaspati, then the Sviṣṭakr̥t.

विश्वास-प्रस्तुतिः

सिद्धमत ऊर्ध्वं यथो एतदौ पमन्यवस्य कल्पं वेदयन्ते मैत्रावरुण्यामिक्षया निरूढया यजेतेति सिद्धमत्रौपवसथिकं कर्म जानीयाद्यथामावास्यायाँ सन्नयतोऽन्यत्र पिण्डपितृयज्ञात्

मूलम्

सिद्धमत ऊर्ध्वं यथो एतदौ पमन्यवस्य कल्पं वेदयन्ते मैत्रावरुण्यामिक्षया निरूढया यजेतेति सिद्धमत्रौपवसथिकं कर्म जानीयाद्यथामावास्यायाँ सन्नयतोऽन्यत्र पिण्डपितृयज्ञात्

English

The subsequent procedure is as prescribed. As for the alternative view of Aupamanyava which they convey, namely, that one should perform, as a separate procedure, an Iṣṭi with the oblation of Amikṣā for Mitra-Varuṇa : One should understand the rite to be performed on the Upavasatha day as prescribed just as is done for a sacrificer offering Samnayya in the New-moon sacrifice except the Piṇḍapitṛyajña.

विश्वास-प्रस्तुतिः

संवत्सरं न कञ्चन प्रत्यवरोहेन्न शीर्षमाँसं खादेन्न वयसां माँसं नाग्निं चित्वा रामामुपेयान्नाग्निचिद्वर्षति धावेद्यदि धावेदुपावर्तेतान्नाद्यमेवाभ्युपावर्तत इति ब्राह्मणम् ३२

मूलम्

संवत्सरं न कञ्चन प्रत्यवरोहेन्न शीर्षमाँसं खादेन्न वयसां माँसं नाग्निं चित्वा रामामुपेयान्नाग्निचिद्वर्षति धावेद्यदि धावेदुपावर्तेतान्नाद्यमेवाभ्युपावर्तत इति ब्राह्मणम् ३२

English

One (who has piled up the Agni) should not stand up in honour of anybody, should not consume the flesh of the head, nor of birds. One who has piled up Agni should not appraoch a woman, should not run in rains. Ifhe runs, he should return. “Thereby he turns towards food,” so says that Brāhmaṇa.

३३ वाजपेयः

विश्वास-प्रस्तुतिः

अथास्मिन्वाजपेये सप्तदशानाँरथानां त्रयस्त्रयोऽश्वास्

मूलम्

अथास्मिन्वाजपेये सप्तदशानाँरथानां त्रयस्त्रयोऽश्वास्

English

In the Vājapeya three horses are yoked to each of the seventeen chariots.

विश्वास-प्रस्तुतिः

ते एकपञ्चाशतम्

मूलम्

ते एकपञ्चाशतम्

English

Their total is fiftyone.

विश्वास-प्रस्तुतिः

उत्तरतः प्रष्टिं नियुञ्ज्याद्चतुर्विँशतिं पशूनित्यग्नीषोमीयश्चानूबन्ध्यश्च चतुर्विँशौ भवतोऽथ वै भवति

मूलम्

उत्तरतः प्रष्टिं नियुञ्ज्याद्चतुर्विँशतिं पशूनित्यग्नीषोमीयश्चानूबन्ध्यश्च चतुर्विँशौ भवतोऽथ वै भवति

English

The third horse should be yoked towards the north. As for the twentyfour animals: the Agnīṣomīya and the Anūbandhya make twentyfour. It is said,

विश्वास-प्रस्तुतिः

सावित्रं जुहोति कर्मणःकर्मणः पुरस्तादिति

मूलम्

सावित्रं जुहोति कर्मणःकर्मणः पुरस्तादिति

English

“One makes an offering to Savitr̥ before each rite.”

विश्वास-प्रस्तुतिः

दीक्षणीयां निर्वप्स्यन्सावित्रं जुहोतीति

मूलम्

दीक्षणीयां निर्वप्स्यन्सावित्रं जुहोतीति

English

One who is going to pour out paddy for the Dikṣaṇīyeşti should make an offering to Savitr̥.

विश्वास-प्रस्तुतिः

सावित्रादेव सावित्रं भवति

मूलम्

सावित्रादेव सावित्रं भवति

English

After one offering to Savitṛ another offering to Savitr̥ is made.

विश्वास-प्रस्तुतिः

दीक्षाहुतीर्होष्यन्सावित्रं जुहोतीति

मूलम्

दीक्षाहुतीर्होष्यन्सावित्रं जुहोतीति

English

“One who is going to offer Dikṣāhutis should make an offering to Savitr̥”:

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा दीक्षाहुतीर्जुहुयात्

मूलम्

सावित्रँहुत्वा दीक्षाहुतीर्जुहुयात्

English

(This means) after having offered to Savitṛ one should offer Dīkṣāhutis.

विश्वास-प्रस्तुतिः

प्रायणीयां निर्वप्स्यन्सावित्रं जुहोतीति

मूलम्

प्रायणीयां निर्वप्स्यन्सावित्रं जुहोतीति

English

“One who is going to pour out paddy for Prāyaṇīyeṣṭi should make an offering to Savitṛ.”

विश्वास-प्रस्तुतिः

सावित्रादेव सावित्रं भवत्यन्तर्हिरण्याँहोष्यन्सावित्रं जुहोतीति सावित्रँहुत्वान्तर्हिरण्यां जुहुयात्

मूलम्

सावित्रादेव सावित्रं भवत्यन्तर्हिरण्याँहोष्यन्सावित्रं जुहोतीति सावित्रँहुत्वान्तर्हिरण्यां जुहुयात्

English

After one offering to Savitṛ another offering to Savitṛ is made. “One who is going to make an offering after having put a piece of gold into the ladle.” (This means) one should first make an offering to Savitr̥ and then make an offering with the ladle containing a piece of gold.

विश्वास-प्रस्तुतिः

पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वप्स्यन्सावित्रं जुहोतीति

मूलम्

पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वप्स्यन्सावित्रं जुहोतीति

English

“One should collect earth of the seventh footprint of the Soma-purchasing cow, purchase the Soma, carry it forward and when he is going to pour out paddy for the Ātithyeṣṭi, he makes an offering to Savitṛ.”

विश्वास-प्रस्तुतिः

सवित्रादेव सावित्रं भवति

मूलम्

सवित्रादेव सावित्रं भवति

English

After one offering to Savitṛ another offering to Savitr̥ is made.

विश्वास-प्रस्तुतिः

प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरिष्यन्सावित्रं जुहोतीति

मूलम्

प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरिष्यन्सावित्रं जुहोतीति

English

“When one is going to perform the first Pravargya and the first Upasad, he should make an offering to Savitṛ.”

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरेद्महावेद्यै पूर्वं परिग्राहं परिग्रहीष्यन्सावित्रं जुहोतीति

मूलम्

सावित्रँहुत्वा प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरेद्महावेद्यै पूर्वं परिग्राहं परिग्रहीष्यन्सावित्रं जुहोतीति

English

(This means) having first made an offering to Savitr̥ he should perform the first Pravargya and the first Upasad. “When one is going to do the first tracing of the Mahāvedi, he offers to Savitr̥.”

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा स्फ्यमाददीताहवनीयं प्रणेष्यन्सावित्रं जुहोतीति

मूलम्

सावित्रँहुत्वा स्फ्यमाददीताहवनीयं प्रणेष्यन्सावित्रं जुहोतीति

English

(This means) having offered to Savitṛ one should take up the wooden sword. “When one is going to carry forth the Āhavanīya, he offers to Savitr̥.”

विश्वास-प्रस्तुतिः

सावित्रँहुत्वेध्ममाददीत

मूलम्

सावित्रँहुत्वेध्ममाददीत

English

(This means) having offered to Savitṛ, he should take up the (burning) faggot.

विश्वास-प्रस्तुतिः

रथवाहने सदोहविर्धाने सम्मेष्यन्सावित्रं जुहोतीति

मूलम्

रथवाहने सदोहविर्धाने सम्मेष्यन्सावित्रं जुहोतीति

English

He offers To Savitṛ when he is going to erect the Havirdhāna and Sadas sheds upon the wagon for loading the chariot.

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा रथवाहने सदोहविर्धाने सम्मिनुयादग्नीषोमौ प्रणेष्यन्सावित्रं जुहोतीति

मूलम्

सावित्रँहुत्वा रथवाहने सदोहविर्धाने सम्मिनुयादग्नीषोमौ प्रणेष्यन्सावित्रं जुहोतीति

English

(This means) having offered to Savitr̥ he should erect the Havirdhāna and Sadas sheds upon the wagon for loading the chariot.

विश्वास-प्रस्तुतिः

सावित्रँहुत्वाग्नीषोमौ प्रणयेद्यूपमुच्छ्रयिष्यन्सावित्रं जुहोतीति

मूलम्

सावित्रँहुत्वाग्नीषोमौ प्रणयेद्यूपमुच्छ्रयिष्यन्सावित्रं जुहोतीति

English

“When one is going to carry forth fire and Soma, he should offer to Savitṛ.”

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा प्रोक्षणीराददीत

मूलम्

सावित्रँहुत्वा प्रोक्षणीराददीत

English

(This means) having offered to Savitr̥ one should carry forth fire and Soma.

विश्वास-प्रस्तुतिः

स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरिष्यन्सावित्रं जुहोतीति

मूलम्

स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरिष्यन्सावित्रं जुहोतीति

English

“Having fixed the splinter upon the sacrificial post, while going to dedicate the animal to Agni-Soma, one should offer to Savitṛ.”

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा बर्हिषी आददीत

मूलम्

सावित्रँहुत्वा बर्हिषी आददीत

English

(This means) having offered to Savitṛ he should take up the two darbha-blades.

विश्वास-प्रस्तुतिः

तस्य प्रसिद्धं वपया चरित्वा वसतीवरीर्ग्रहीष्यन्सावित्रं जुहोतीति

मूलम्

तस्य प्रसिद्धं वपया चरित्वा वसतीवरीर्ग्रहीष्यन्सावित्रं जुहोतीति

English

“Having offered its omentum in the prescribed manner while going to take up Vasatīvarī water, one offers to Savitṛ.”

विश्वास-प्रस्तुतिः

सावित्रँहुत्वा कुम्भमाददीत

मूलम्

सावित्रँहुत्वा कुम्भमाददीत

English

(This means) having offered to Savitr̥ one should take up the pitcher.

विश्वास-प्रस्तुतिः

पशुपुरोडाशं निर्वप्स्यन्सावित्रं जुहोतीति

मूलम्

पशुपुरोडाशं निर्वप्स्यन्सावित्रं जुहोतीति

English

“When one is going to pour out paddy for Paśupuroḍāśa (for Agni-Soma) one offers to Savitṛ.”

विश्वास-प्रस्तुतिः

सावित्रादेव सावित्रं भवति ३३

मूलम्

सावित्रादेव सावित्रं भवति ३३

English

After one offering to Savitr̥ another offering to Savitr̥ is made.

३४

विश्वास-प्रस्तुतिः

तूपरश्चतुरश्रिर्भवतीत्यनुदिशमश्री स्थापयित्वाग्निष्ठां च सूर्यस्थां च सम्मिनुयात्

मूलम्

तूपरश्चतुरश्रिर्भवतीत्यनुदिशमश्री स्थापयित्वाग्निष्ठां च सूर्यस्थां च सम्मिनुयात्

English

“(The sacrificial post) is topless and has four corners.” One should arrange the corners so as to face the main quarters and erect the post so that a corner would face the Āhavanīya fire and another the sun.

विश्वास-प्रस्तुतिः

पञ्चैन्द्रा नतिग्राह्यान्गृह्णातीति

मूलम्

पञ्चैन्द्रा नतिग्राह्यान्गृह्णातीति

English

“He takes up five Atigrāhya draughts for Indra.”

विश्वास-प्रस्तुतिः

सर्व एवैते सोपयामा ग्रहीतव्या भवन्ति

मूलम्

सर्व एवैते सोपयामा ग्रहीतव्या भवन्ति

English

All these are to be taken with the formula, “Thou art taken with a support ….”

विश्वास-प्रस्तुतिः

मारुत्या प्रचर्यैतान्सञ्ज्ञपयेदिति

मूलम्

मारुत्या प्रचर्यैतान्सञ्ज्ञपयेदिति

English

Having offered (the omentum) of the barren cow to the Maruts, one should immolate these animals (for Prajāpati).

विश्वास-प्रस्तुतिः

तन्त्रमुल्मुकहरणं तन्त्रमध्रिगुप्रैषोऽभ्यावर्तेत

मूलम्

तन्त्रमुल्मुकहरणं तन्त्रमध्रिगुप्रैषोऽभ्यावर्तेत

English

Carrying of the firebrand is combined; the Adhrigu-call should be combined.

विश्वास-प्रस्तुतिः

सञ्ज्ञप्तहोम ऊर्ध्वे बर्हिषी भिन्द्यात्स्वाहाकृतिप्रैष आज्यं द्वेधा विभजेदुभयभागिन्य स्तोकीया अथेदँरथचक्रं प्रादेशमात्रं भूमेरुच्छ्रितं भवत्य्

मूलम्

सञ्ज्ञप्तहोम ऊर्ध्वे बर्हिषी भिन्द्यात्स्वाहाकृतिप्रैष आज्यं द्वेधा विभजेदुभयभागिन्य स्तोकीया अथेदँरथचक्रं प्रादेशमात्रं भूमेरुच्छ्रितं भवत्य्

English

The offering at the immolation should be repeated. The Adhvaryu should cut the darbha-blade held perpendicular (for each animal at the incision). At the Svāhākṛti call (at the eleventh Prayāja) he should divide the clarified butter in two parts; the Stokīya offerings take both the kinds of clarified butter. The chariot-wheel is high above the surface by a span.

विश्वास-प्रस्तुतिः

अपरेण परीत्य पक्षसी सम्मृशतीति रथचक्रे एवैते सम्मृशत्यथाहाजिसृतो दक्षिणापथेनोपातीत्येति सूतराजन्या एवैत उक्ता भवन्ति

मूलम्

अपरेण परीत्य पक्षसी सम्मृशतीति रथचक्रे एवैते सम्मृशत्यथाहाजिसृतो दक्षिणापथेनोपातीत्येति सूतराजन्या एवैत उक्ता भवन्ति

English

Going along the rear “(the sacrificer) touches the two sides (of the chariot).” He indeed touches together the wheels of the chariot. He says, “O racers, going along the southern route…“here the charioteers and the Rājanyas are addressed.

विश्वास-प्रस्तुतिः

मारुता अग्रेणाहवनीयं परीत्येति क्षत्तसङ्ग्रहीतार एवैत उक्ता भवन्त्यथ यजमानं तार्प्यं परिधापयतीत्याज्येनैवैतत्तृप्तं वासो भवत्यथाप्युदाहरन्ति तृपा नाम वृक्षास्

मूलम्

मारुता अग्रेणाहवनीयं परीत्येति क्षत्तसङ्ग्रहीतार एवैत उक्ता भवन्त्यथ यजमानं तार्प्यं परिधापयतीत्याज्येनैवैतत्तृप्तं वासो भवत्यथाप्युदाहरन्ति तृपा नाम वृक्षास्

English

“O Mārutas, having gone round along the front of the Āhavanīya…” here coachmen and accountants are addressed. “The Adhvaryu makes the sacrificer wear a tārpya garment.” This is a garment which is besmeared with clarified butter. It is also said, there are trees known as typā,

विश्वास-प्रस्तुतिः

तेषामेवैतद्भवत्यथेमं वाजपेयँसर्वसप्तदशमेके ब्रुवत आदेशादेव बृहत्सामैकविँशं वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन्निति ३४

मूलम्

तेषामेवैतद्भवत्यथेमं वाजपेयँसर्वसप्तदशमेके ब्रुवत आदेशादेव बृहत्सामैकविँशं वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन्निति ३४

English

it is made out of this. Some teachers proclaim the Vājapeya as characterised by the Stotras involving seventeen Stomas. If there is a specific instruction, then only the Br̥hat-sāman addressed to Sipiviṣṭa Viṣṇu should be chanted in twentyone Stomas.

CHAPTER XXV ENDS.

  1. On the tenth day, get initiated on the eleventh and offer Soma on the fifteenth. ↩︎

  2. Binding the three bunches into one. ↩︎

  3. Namely, indrāṇyai saṁnahanam. ↩︎

  4. That is to say, the initial tyings should be done with the formula. ↩︎

  5. TS I.8.3 ↩︎

  6. BaudhŚS 1.2 ↩︎

  7. BaudhŚS I.11. ↩︎

  8. TāṇḍBr VI.1.12 ↩︎

  9. R̥V X.47.6 ↩︎

  10. TS VI.1.1.1 ↩︎

  11. TS VII.1.1.1 ↩︎

  12. TS VI.1.2.1 ↩︎

  13. Namely, abaddham mano daridraṁ cakṣuḥ … TS III.1.1.1 ↩︎

  14. TBr II.5.8.3 ↩︎

  15. BaudhŚS VI.18 ↩︎

  16. Namely, āśāsānā sauṁanasam … TS 1.1.10.1. ↩︎ ↩︎

  17. TS I.1.10.3 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  18. TS I.1.11.2 ↩︎

  19. BaudhŚS XVIII.20 ↩︎

  20. BaudhŚS XVII and XVIII; XVIII.21 ↩︎ ↩︎ ↩︎

  21. TS IV.7.7.1 ↩︎

  22. TS I.1.10.1 ↩︎

  23. TS I.1.10.3 ↩︎ ↩︎ ↩︎

  24. TS L.1.11.2 ↩︎

  25. TS III.1.6.1; BaudhŚS VII.1 ↩︎

  26. Instead of the Dadhigraha. ↩︎

  27. TS III.3.3.2 ↩︎

  28. TS IV.3.2. This Karmantasūtra probably refers to the Dvādaśāha. The original sūtra and the Dvaidhasutra have not mentioned the Pṛśṇi and Prāṇagraha formulas. ApŚS XXI.13.7 has prescribed the employment of the Pṛśṇi and Prāṇagraha formulas for measuring Soma in addition to the normal formulas on the Prayaniya, Udayanīya and the tenth day of the Dvādaśāha. The VādhŚS (X 14.5. etc.) has prescribed the reciting of both these sets of formulas on various occasions. ↩︎

  29. BaudhŚS XIV.5 ↩︎

  30. BaudhŚS VII.7 ↩︎

  31. TS III.2.3 ↩︎

  32. cf. BaudhŚS XVII.21. ↩︎

  33. cf. ĀśvŚS V.5.21, VaitŚS XX.4 ↩︎

  34. TS III.2.3 ↩︎ ↩︎ ↩︎

  35. SV (K) II.9.2.7.2-3; SV (J) III.1.1-2; ṢaḍBr. 1.4; JBr I.73-74 ↩︎

  36. ABr II.15-18; ŚāṅkhBr XI.1-8 ↩︎

  37. RVKhila V.7.5 ↩︎

  38. Namely, bhakṣe’hi mā’visa etc. (TS III.2.5) to be recited at the partaking of a goblet. ↩︎

  39. Namely, upayāmagṛhīto’si devebhyas tua etc. BaudhŚS VII.17. ↩︎

  40. Namely, the Hotr̥, the Adhvaryu and the Pratiprasthātṛ. ↩︎

  41. RV III.6.9 ↩︎

  42. cf. TS III.2.5.3 ↩︎

  43. The Ukthya sacrifice, a modification of the Agniṣṭoma, involving the offering of three additional draughts, chanting of three additional Stotras and reciting of three additional Śastras. ↩︎

  44. With the formula bhūtam asi bhūte mā dhāḥ etc. TS III.2.8.5. ↩︎

  45. TS VI.5.1 ↩︎

  46. TBr III.7.13 ↩︎

  47. TS VI.6.3.1 ↩︎

  48. TS III.2.5.7 ↩︎

  49. TS I.4.45.2 ↩︎

  50. TS V.5.9.1; II.2.11.6; BaudhŚS X.37 ↩︎

  51. TS. V.I.8.2 ↩︎

  52. BaudhŚS X.46 ↩︎

  53. BaudhŚS X.47 ↩︎

  54. BaudhŚS X.47-49 ↩︎

  55. BaudhŚS 1.5 ↩︎

  56. BaudhŚS XII.10 ↩︎

  57. Namely, the right forearm, the left buttock and the thicker part of the rectum. BaudhŚS IV.9. ↩︎

  58. The text and meaning of mañstaḥ is not clear. ↩︎