षोडशः प्रश्नः
०१
विश्वास-प्रस्तुतिः
द्वादशाहेन यक्ष्यमाणो भवत्येको वा बहवो वोतो ह्येको दक्षिणावता यजते
मूलम्
द्वादशाहेन यक्ष्यमाणो भवत्येको वा बहवो वोतो ह्येको दक्षिणावता यजते
English
One proposes to perform the Davādaśāha: or many propose (to do so). If it is one, he performs the sacrifice involving (the giving away of) Dakṣiṇa.
विश्वास-प्रस्तुतिः
स यद्येको यदि बहवोऽमावास्याया एव षडहेनोपरिष्टाद्दीक्षन्ते
मूलम्
स यद्येको यदि बहवोऽमावास्याया एव षडहेनोपरिष्टाद्दीक्षन्ते
English
Whether it is one or many, they get themselves initiated six days after the new-moon day.
विश्वास-प्रस्तुतिः
ते गृहपतेररण्योः सञ्जानते पृथग्वा
मूलम्
ते गृहपतेररण्योः सञ्जानते पृथग्वा
English
They join the Gṛhapati in regard to his kindling woods; or they have separate ones.
विश्वास-प्रस्तुतिः
ते यदि गृहपतेररण्योः सञ्जानते मथित्वा गार्हपत्यमाहवनीयमुद्धरन्ति
मूलम्
ते यदि गृहपतेररण्योः सञ्जानते मथित्वा गार्हपत्यमाहवनीयमुद्धरन्ति
English
If they join the Gṛhapati in regard to the kindling woods, the Gārhapatya fire is established by churning, and the Āhavanīya is carried forth.
विश्वास-प्रस्तुतिः
ग्रामाद्व्रतश्रपणमाहरन्ति
मूलम्
ग्रामाद्व्रतश्रपणमाहरन्ति
English
The fire for boiling the Vrata-milk is fetched from the village.
विश्वास-प्रस्तुतिः
यद्यु वै पृथक्सञ्जानते गृहपतिरेव प्रथमो मन्थते
मूलम्
यद्यु वै पृथक्सञ्जानते गृहपतिरेव प्रथमो मन्थते
English
If they entertain separate fires, the Gṛhapati first churns out the fire.
विश्वास-प्रस्तुतिः
तदेवेतरे पर्युपविश्य मथित्वामथित्वैव गार्हपत्यँसन्निवपन्ति
मूलम्
तदेवेतरे पर्युपविश्य मथित्वामथित्वैव गार्हपत्यँसन्निवपन्ति
English
Others sit around it and churning each time they deposit together the Gārhapatya.
विश्वास-प्रस्तुतिः
तस्मादेकवद्भूतादाहवनीयमुद्धरन्ति
मूलम्
तस्मादेकवद्भूतादाहवनीयमुद्धरन्ति
English
From the unified (Gārhapatya) they carry forward the Āhavanīya.
विश्वास-प्रस्तुतिः
ग्रामाद्व्रतश्रपणानाहृत्य सन्निवपन्त्यथ यदि पश्चादपर आगच्छति मथित्वैव गार्हपत्येऽर्धं निवपत्याहवनीयेऽर्धं ग्रामाद्व्रतश्रपणमाहृत्याप्यर्जत्युपो एनं पूर्वेषु कर्मसु ह्वयन्तेऽथातः पवनस्यैव मीमाँसा

They fetch the fires for boiling the Vrata-milk from the village and put them together. If somebody arrives later, he churns out the fire and puts half of that fire into the Gārhapatya and half into the Āhavanīya. He brings from the village fire for boiling the Vrata-milk and mixes it. He is given consent with regard to the rites which passed before.
Now the the discussion about the purification.
विश्वास-प्रस्तुतिः
गृहपतिमेवाध्वर्युः प्रथमं पवयत्यथ होतारमथ ब्रह्माणमथोद्गातारं प्रतिप्रस्थाताध्वर्युं पवयति प्रस्तोतारं प्रशास्तारं ब्राह्मणाच्छँसिनमाग्नीध्रः प्रतिप्रस्थातारं पवयत्यच्छावाकं नेष्टारं पोतारँसदस्यमुन्नेताग्नीध्रं पवयति ग्रावस्तुतँसुब्रह्मण्यं प्रतिहर्तारमात्मानमन्ततस्

The Adhvaryu first purifies the Gṛhapati, then the Hotr̥, then the Brahman, then the Udgātṛ. The Pratiprasthātṛ purifies the Adhvaryu, then the Prastotṛ, then the Maitrāvaruņa, then the Brāhmaṇācchamsin. The Āgnīdhra purifies the Pratiprasthātr̥, then the Acchāvāka, the Neṣṭr̥ and the Potr̥ and the Sadasya. The Unnetṛ purifies the Āgnīdhra, the Grāvastut, the Subrahmaṇya, the Pratihartr̥ and lastly himself.
विश्वास-प्रस्तुतिः
ते चेद्ब्रूयुरध्वर्युर्वाव सर्वस्य पवयिता स नः सर्वान्पवयत्विति स एवैनान्सर्वान्पवयत्यपि वान्योऽन्यं पवयन्ति यद्यधीयन्तो भवन्ति १
मूलम्
ते चेद्ब्रूयुरध्वर्युर्वाव सर्वस्य पवयिता स नः सर्वान्पवयत्विति स एवैनान्सर्वान्पवयत्यपि वान्योऽन्यं पवयन्ति यद्यधीयन्तो भवन्ति १
English
If they say that the Adhvaryu is the purifier of all; let him purify us all; he (the Adhvaryu) purifies all. Alternatively they purify each other if they know it.
०२
विश्वास-प्रस्तुतिः
तेषां प्रसिद्धा दीक्षणीयेष्टिस्तायते
मूलम्
तेषां प्रसिद्धा दीक्षणीयेष्टिस्तायते
English
Their Dikṣaniyești is performed in the prescribed manner.
विश्वास-प्रस्तुतिः
सकृदाश्राविते स यत्राह भरतवदिति तद्गृहपतेरेवार्षेयं प्रथमं वृणीतेऽथ होतुरथात्मनोऽथ ब्रह्मणोऽथोद्गातुरथ प्रतिप्रस्थातुरथ प्रस्तोतुरथ प्रशास्तुरथ ब्राह्मणाच्छँ सिनोऽच्छावाकस्य सदस्यस्याग्नीधः पोतुर्नेष्टुर्ग्रावस्तुत उन्नेतुः सुब्रह्मण्यस्य प्रतिहर्तुरन्ततो ब्रह्मण्वदिति समानं ते सर्व एव दीक्षाहुतिषु समन्वारभन्ते

After having caused to announce, when he says, “in the manner of Bharata,” he first chooses the Pravaras first of the Gṛhapati, then of the Hotr̥, then of himself, then of the Brahman, then of the Udgātṛ, then of the Pratiprasthātr̥, then of the Prastotr, then of the Maitrāvaruna, then of the Brahmaṇācchaṁsin, then of the Acchāvāka, then of the Sadasya, then of the Āgnīdhra, then of the Potr̥, then of the Nestṛ, then of the Grāvastut, then of the Unnetṛ, then of the Subrahmaṇya and lastly of the Pratihartr. The subsequent portion of the choosing formula “in the manner of the Brahman" is common. At the offering of the Dikṣahutis they touch one another.
विश्वास-प्रस्तुतिः
गृहप्तिमेवाध्यर्युरुच्चैः कृष्णाजिने वाचयति
मूलम्
गृहप्तिमेवाध्यर्युरुच्चैः कृष्णाजिने वाचयति
English
The Adhvaryu makes the Gṛhapati recite the formulas[^1-1025] loudly in regard to the skin of black antelope.
[^1-1025] cf. BaudhŚS VI5
विश्वास-प्रस्तुतिः
तदेवेतरेऽनुनिक्रामन्त्यपि वान्योऽन्यं वाचयन्ति यद्यधीयन्तो भवन्ति
मूलम्
तदेवेतरेऽनुनिक्रामन्त्यपि वान्योऽन्यं वाचयन्ति यद्यधीयन्तो भवन्ति
English
Simultaneously others move on (their skins of black antelope). Alternatively they cause one another to recite if they know it.
विश्वास-प्रस्तुतिः
ते यथोत्साहं व्रतदुघमुपयन्त्येकैकां वा बह्वीर्वा
मूलम्
ते यथोत्साहं व्रतदुघमुपयन्त्येकैकां वा बह्वीर्वा
English
They approach the Vrata-milk yielding cow-one or many as they afford.
विश्वास-प्रस्तुतिः
तेषां यथैव प्रवरानुपूर्व्यमेवं घर्मोच्छिष्टेऽतिग्राह्यभक्षेषु षोडशिनि
मूलम्
तेषां यथैव प्रवरानुपूर्व्यमेवं घर्मोच्छिष्टेऽतिग्राह्यभक्षेषु षोडशिनि
English
The order which they entertain with regard to the choosing of Pravaras is to be observed in the case of the consuming of the remnants of the Gharma,1 consuming of the Atigrāhya-cups2 and the consuming of the Śoḍaśī-cup.3
विश्वास-प्रस्तुतिः
षष्ठ्यामुपसद्युत्तरवेदिँसन्निवपन्ति यद्यनग्निचित्यो भवत्यथ यदि साग्निचित्यः प्रथमायामेवोपसद्युत्तरवेदिँसन्निवपन्ति २
मूलम्
षष्ठ्यामुपसद्युत्तरवेदिँसन्निवपन्ति यद्यनग्निचित्यो भवत्यथ यदि साग्निचित्यः प्रथमायामेवोपसद्युत्तरवेदिँसन्निवपन्ति २
English
On the sixth Upasad-day the Uttaravedi is piled if the sacrifice is without the piling up of fire-altar. If it is with the piling up up of the fire-altar, the Uttaravedi is piled up on the first Upasad-day.
०३
विश्वास-प्रस्तुतिः
तेषां द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुता न द्वादशाहेऽग्निं चिन्वीतेत्येक आहुश्चिन्वत उ हैके
मूलम्
तेषां द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुता न द्वादशाहेऽग्निं चिन्वीतेत्येक आहुश्चिन्वत उ हैके
English
They have twelve Dīkṣā-days, twelve Upasad-days and twelve pressing days. Some teachers say that the fire-altar should not be piled up in the Dvādaśāha; some others pile it up.
विश्वास-प्रस्तुतिः
प्रसिद्धेन कर्मणोपवसथाद्यन्ति
मूलम्
प्रसिद्धेन कर्मणोपवसथाद्यन्ति
English
They proceed upto the Upavasatha in the prescribed manner.
विश्वास-प्रस्तुतिः
तेषां ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रस्तायते
मूलम्
तेषां ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रस्तायते
English
Their Jyotiṣṭoma Prāyaṇīya Atirātra dedicated to Agni Vaiśvānara is performed.
विश्वास-प्रस्तुतिः
स यत्र माध्यन्दिने सवने तृतीयसवनाय वसतीवरीभ्योऽवनयति तद्वसतीवरीकलशे यावन्मात्रीरतिशिष्याग्नीध्रं द्रुत्वा छायायै चातपतश्च सन्धौ गृह्णाति हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माआँविवासति हविष्माँस्तु सूर्य इत्येषाहीनसन्ततिरेतामेव पुनःपुनश्चोदयिष्याम इति वदन्तः

When the Adhvaryu pours down Vastīvari waters at the midday pressing for the third pressing, he retains a remnant in the Vasatīvarī-pitcher, goes to the Āgnīdhra-chamber and takes water into it at the conjunction of shade and light with the verse, “These waters are full of oblation: the divine sacrifice is full of oblation; may sacrificer full of oblation win (the sacrifice). May the sun be full of oblation.”[^1-1027] This is the continuity of the Ahīna sacrifice. They say, “We shall employ it again and again.”
[^1-1027] TS 1.3.12; cf. BaudhŚS VI.32
विश्वास-प्रस्तुतिः
सोऽत्र वैव यज्ञस्य पुनरालम्भं जपति यज्ञायज्ञियस्य वा स्तोत्रे शंयुवाके वा
मूलम्
सोऽत्र वैव यज्ञस्य पुनरालम्भं जपति यज्ञायज्ञियस्य वा स्तोत्रे शंयुवाके वा
English
He murmurs at this point the formula of recommencement of the sacrifice. “The sacrifice has become, it has come into being, it is born; it is swollen; it has become the overlord of gods; may it make us overlord; may be lords of the wealth; “4 or at the Yajñāyajñīya Stotra or at the Saṁyuvāka.
विश्वास-प्रस्तुतिः
तेषां ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रः सन्तिष्ठते
मूलम्
तेषां ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रः सन्तिष्ठते
English
Their Jyotișṭoma Prāyaṇīya Atirātra dedicated to Agni Vaiśvānara comes to a conclusion.
विश्वास-प्रस्तुतिः
तस्मिन्सँस्थिते विवर्तयन्ति परिधीन्
मूलम्
तस्मिन्सँस्थिते विवर्तयन्ति परिधीन्
English
At its conclusion the enclosing sticks are transposed;
English
अनुप्रहरन्ति प्रस्तरम्पत्नीसंयाजान्तोऽतिप्रैषेण ब्रह्मा वाचं यच्छति
English
the Prastara is put on fire. The sacrifice ends with Patnīsaṁyāja offerings. At the supercall the Brahman restricts his speech.
विश्वास-प्रस्तुतिः
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायां ब्रह्मा वाचं विसृजते
मूलम्
परिहृतासु वसतीवरीष्वाहूतायाँसुब्रह्मण्यायां ब्रह्मा वाचं विसृजते
English
After the Vasatīvarī waters have been carried around and the Subrahmaṇya has been invoked, the Brahman releases his speech.
विश्वास-प्रस्तुतिः
प्रतिपद्यते दिवा प्रातरनुवाकेनाह्ना सङ्क्रामन्होता छन्दाँस्यन्वाह निमील्याध्वर्युरुपाँशुं जुहोति रात्र्यै रूपमिति वदन्तस्
मूलम्
प्रतिपद्यते दिवा प्रातरनुवाकेनाह्ना सङ्क्रामन्होता छन्दाँस्यन्वाह निमील्याध्वर्युरुपाँशुं जुहोति रात्र्यै रूपमिति वदन्तस्
English
The next sacrifice’s procedure is commenced by day. Commencing the procedure of the day by Prātaranuvāka, the Hotr̥ recites verses in the various metres one by one. Closing his eyes the Adhvaryu makes an offering silently. They say, hereby he accomplishes the form of night.
विश्वास-प्रस्तुतिः
तायते त्रिवृदग्निष्टोमो रथन्तरसामा
मूलम्
तायते त्रिवृदग्निष्टोमो रथन्तरसामा
English
The third Agniṣṭoma with the Rathantarasāman as the Pṛṣṭhastotra is performed.
विश्वास-प्रस्तुतिः
माहेन्द्र स्य स्तोत्रे रथो युक्तोऽत्याधावति
मूलम्
माहेन्द्र स्य स्तोत्रे रथो युक्तोऽत्याधावति
English
At the Stotra for Mahendra a chariot with horses yoked runs along.
विश्वास-प्रस्तुतिः
रथशब्देन माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसन्ततिं करोत्यथ श्वो भूते तायते पञ्चदश उक्थ्यो बृहत्सामा
मूलम्
रथशब्देन माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसन्ततिं करोत्यथ श्वो भूते तायते पञ्चदश उक्थ्यो बृहत्सामा
English
The Adhvaryu introduces the Stotra for Mehendra by means of the sound of a chariot. This much novel is employed on this day. He accomplishes the continuity. of the Ahīna sacrifice. Next day is commenced the Ukthya sacrifice with Pañcadaśa Stoma and Br̥hat Sāman as the Pr̥ṣṭhstotra.
विश्वास-प्रस्तुतिः
दुन्दुभिनैतदहरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसन्ततिं करोत्यथ श्वो भूते तायते सप्तदश उक्थ्यो वैरूपसामाधावेनैतदहरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसन्ततिं करोत्यथ श्वो भूते तायत एकविँश उक्थ्यो वैराजसामाग्नेयश्च षोडशी चातिग्राह्यवनतिग्राह्यः षोडशीत्येक आहुरेकविँशमेतदहर्न्यूङ्ख्यं भवति

The Adhvaryu introduces the Stotra for Mahendra with the (sound of a) drum. This much novel is employed on this day. He accomplishes the continuity of the Ahīna sacrifice. Next day is performed the Ukthya sacrifice with Saptadaśa stoma and the Vairūpa-sāman as the Pr̥ṣṭhastotra. On this day the Adhvaryu introduces the Stotra for Mahendra by means of stirring (of the garment). This much novel is employed on this day. He accomplishes the continuity of the Ahīna sacrifice. Next day is performed the Ukthya with Ekaviṁśa stoma and Vairāja-sāman as the Pr̥ṣṭhstotra. The Āgneya and the Śoḍaśī are two Atigrāhya draughts. Some teachers say that the Śoḍaśī should not be an additional draught. On this day (ie. the Ukthya sacrifice performed on this day) characterised by the Stotras chanted in Ekaviṁśa stoma, Nyūṅkha is resorted to.
विश्वास-प्रस्तुतिः
विराजां वा प्रतिपत्सु न्यूङ्खयन्ति शस्त्रे वेत्येतदेकम्
मूलम्
विराजां वा प्रतिपत्सु न्यूङ्खयन्ति शस्त्रे वेत्येतदेकम्
English
Nyūṅkha is applied to the Pratipad verses in the Virāj metre or to the Śāstra. This is one view.
विश्वास-प्रस्तुतिः
अथापरं प्रातरनुवाके न्यूङ्खयन्ति हविष्कृत्युभयेषु प्रस्थितेषु माहेन्द्र स्याश्रावणे
मूलम्
अथापरं प्रातरनुवाके न्यूङ्खयन्ति हविष्कृत्युभयेषु प्रस्थितेषु माहेन्द्र स्याश्रावणे
English
Another view is: Nyūṅkha is applied to the Prātaranuvāka, at the twofold Prasthita-offering of Soma and at the call in respect of the offering to Mahendra.
English
न तत ऊर्ध्वं न्यूङ्खयन्तीत्यरणीहस्त एतदहरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोति
English
Nyūṅkha is not applied thereafter. Taking the kindling wood in his hand, the Adhvaryu introduces the Stotra for Mahendra on this day.
विश्वास-प्रस्तुतिः
तदुगातुर्दक्षिण उरौ मन्थति
मूलम्
तदुगातुर्दक्षिण उरौ मन्थति
English
Churning is done on the right thigh of the Udgatṛ.
विश्वास-प्रस्तुतिः
तं जातँसर्व एवाभिहिङ्कुर्वन्ति ३
मूलम्
तं जातँसर्व एवाभिहिङ्कुर्वन्ति ३
English
All utter the Abhihiṅkāra when the fire is born.
०४
विश्वास-प्रस्तुतिः
तस्य मीमाँसा
मूलम्
तस्य मीमाँसा
English
It is a discussion.
विश्वास-प्रस्तुतिः
गार्हपत्येऽनुप्रहरेत्प्रतिष्ठाकामानाम्
मूलम्
गार्हपत्येऽनुप्रहरेत्प्रतिष्ठाकामानाम्
English
For those desiring stability he should put (that churned out fire) into the Gārhapatya.
विश्वास-प्रस्तुतिः
आग्नीध्रे प्रजाकामानां शामित्रे पशुकामानाम्
मूलम्
आग्नीध्रे प्रजाकामानां शामित्रे पशुकामानाम्
English
For those desiring progeny into the Āgnīdhra. For those desiring cattle into the Śāmitra fire.
विश्वास-प्रस्तुतिः
आहवनीये स्वर्गकामानामित्यनादृत्य तदाहवनीय एवानुप्रहरति भवतं नः समनसविति
मूलम्
आहवनीये स्वर्गकामानामित्यनादृत्य तदाहवनीय एवानुप्रहरति भवतं नः समनसविति
English
For those desiring heaven into the Āhavanīya. Ignoring these options he puts it into the Āhavanīya with the verse, “Do you two be harmonious for us…..”5
विश्वास-प्रस्तुतिः
प्रहृत्याभिजुहोत्यग्नावग्निश्चरति प्रविष्ट इत्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसन्ततिं करोत्यथ श्वो भूते तायते त्रिणव उक्थ्यः शाक्वरसामैन्द्रो ऽतिग्राह्योऽद्भिरेतदहरवकामिश्राभिरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोति

Having put it he makes an offering upon it with the verse, “The fire entered into the fire moves…..”5 This much novel is employed on this day. He accomplishes the continuity of the Ahīna sacrifice.
Next day is performed the Ukthya sacrifice with Triņava stoma and with Sākvara-sāman as the Pr̥ṣṭhstotra. There is an Atigrāhya draught for Indra. On this day the Adhvaryu introduces the stotra for Mahendra by means of water mixed with Avakā plant (Blyxa octandra).
विश्वास-प्रस्तुतिः
तासां मीमाँसा
मूलम्
तासां मीमाँसा
English
Its employment:
विश्वास-प्रस्तुतिः
चात्वालेऽवनयेदास्तावे निनयेत्प्रोक्षणीः कुर्वीत पुरोडाशीयानि पिष्टानि संयौयादित्यनादृत्य तदुद्गातृष्वधीना एवैनाः कुर्याद्
मूलम्
चात्वालेऽवनयेदास्तावे निनयेत्प्रोक्षणीः कुर्वीत पुरोडाशीयानि पिष्टानि संयौयादित्यनादृत्य तदुद्गातृष्वधीना एवैनाः कुर्याद्
English
One should pour it into the Câtvāla, pour down into the Astāva, use as Prokṣaṇī-water; mix with flour for the cake. Ignoring all these options, he should hand it over to the Udgātṛs.
विश्वास-प्रस्तुतिः
उद्गातारो हैताभिररण्येगेयानाँसाम्नाँशुचँशमयन्तो मन्यन्ते
मूलम्
उद्गातारो हैताभिररण्येगेयानाँसाम्नाँशुचँशमयन्तो मन्यन्ते
English
The Udgātṛs are supposed to be pacifying the heat caused by the Sāmans to be chanted in the forest.
विश्वास-प्रस्तुतिः
ता उ चेदध्वर्यवे प्रब्रूयुरपोऽभ्यवहरतेत्येव ब्रूयादित्येतावदेवैतदहः शिल्पं क्रियतेऽहीनसन्ततिं करोत्यथ श्वो भूते तायते त्रयस्त्रिँश उक्थ्यो रैवतसामा सौर्योऽतिग्राहोऽद्भिरेवैतदहर्दूर्वामिश्राभिरध्वर्युर्माहेन्द्र स्य स्तोत्रमुपाकरोति ४

If they direct it to the Adhvaryu, he should say, “Pour into waters.” This much novel is employed on this day. He accomplishes the continuity of the Ahīna sacrifice. Next day is performed the Ukthya with Trayastriṁśa stoma and Raivata-sāman as the Pṛṣṭhastotra. There is an Atigrāhya draught for Sūrya. On this day the Adhvaryu introduces the stotra for Mahendra by means of water mixed with Dūrvā grass.
०५
विश्वास-प्रस्तुतिः
तासामुक्ता मीमाँसा
मूलम्
तासामुक्ता मीमाँसा
English
Its employment is already laid down.
विश्वास-प्रस्तुतिः
स्वयमृतुयाजमेवैतदहर्भवति
मूलम्
स्वयमृतुयाजमेवैतदहर्भवति
English
On this day the R̥tu-yajyāis recited by one self.
विश्वास-प्रस्तुतिः
नैतदहरन्योऽन्यस्यर्तुयाजं यजन्ति
मूलम्
नैतदहरन्योऽन्यस्यर्तुयाजं यजन्ति
English
On this day one does not recite the R̥tu-yajya of another.
विश्वास-प्रस्तुतिः
स यत्राहाध्वर्यू यजतमिति तदध्वर्यू जघनेन हविर्धाने उपविश्य स्वयमृतुयाजं यजतो ये३
यजामहे अश्विनाध्वर्यू आध्वर्यवादृतुना सोमं पिबतामर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्। पृङ्क्तं हवीँषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ऋतुना सोमं पिबताम्वौ३षदिति

When he says, “O Adhvaryus, do you make the offering,” the Adhvaryus sit down to the rear of the Havirdhāna carts, and themselves recite the R̥tu-yājyā, “We who make the offering to the Aśvins the Adhvaryus. May they drink Soma by means of the R̥tu-cup by reason of the Adhvaryu’s function. (O Aśvins), do you yoke your chariot which traverses distance, carries you and leaves you here. Mix the oblations with honey. Come here O givers of food, and drink Soma.6 Do you partake of Soma through the R̥tu-cup Vauṣaṭ.”
विश्वास-प्रस्तुतिः
स यत्राह गृहपते यजेति तद्गृहपतिर्जघनेन गार्हपत्यमुपविश्य स्वयमृतुयाजं यजति ये३
यजामहे अग्निं गृहपतिं गार्हपत्यात्सुगृहपतयस्त्वयाग्न इमे सुन्वन्तो यजमानाः स्युः सुगृहपतिस्त्वमेभिः सुन्वद्भिर्यजमानैः स्या अग्निर्गृहपतिर्गार्हपत्यादृतुना सोमं पिबतु जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम्। विश्वेभिर्विश्वाऋँतुना वसो मह उशन्देवाँ उशतः पायया हविरृतुना सोमं पिबतू वौ३षदिति

When he says, “O Gṛhapati, do you recite the yājyā” the Gṛhapati sits down to the rear of the Gārhapatya and himself recites the R̥tu-yajyā, “We who make offering to Agni the lord of the house by reason of the function of the lord of the house. O Agni, may these Soma-pressing sacrificers become good lords of the house. Do thou be good lord of the house through these Soma-pressing sacrifices. May Agni the lord of the house drink Soma by means of the R̥tu-cup by reason of the function of the lord of the house.-O Agni, do thou enjoy the fire-stick, enjoy the oblation, enjoy the prayer offered by the people, enjoy the good chant. O beneficient, do thou desiring, make the desiring great gods drink Soma together with all gods.7 May (Agni) drink Soma through the Ṛtu-cup, Vauṣaṭ.”
विश्वास-प्रस्तुतिः
सांवाशिनमेतदहर्भवत्युत्तरतो वत्सान्धारयन्ति दक्षिणतो मातॄर्माहेन्द्र स्य स्तोत्रेऽन्तरेण सदोहविर्धाने संवाश्य वत्सान्मातृभिः सँसृजन्ति
मूलम्
सांवाशिनमेतदहर्भवत्युत्तरतो वत्सान्धारयन्ति दक्षिणतो मातॄर्माहेन्द्र स्य स्तोत्रेऽन्तरेण सदोहविर्धाने संवाश्य वत्सान्मातृभिः सँसृजन्ति
English
On this day the cows and their calves are made to bellow together. The calves are held towards the north; their mothers towards the south. At the stotra for Mahendra the calves are made to bellow between the Sadas and the Havirdhāna and are released to their mothers.
विश्वास-प्रस्तुतिः
बध्नन्ति वत्सान्
मूलम्
बध्नन्ति वत्सान्
English
The calves are tied,
विश्वास-प्रस्तुतिः
उत्सृजन्ति मातॄर्माहेन्द्र स्य स्तोत्रमुपाकरोति
मूलम्
उत्सृजन्ति मातॄर्माहेन्द्र स्य स्तोत्रमुपाकरोति
English
their mothers are released. And the Adhvaryu introduces the Stotra for Mahendra.
विश्वास-प्रस्तुतिः
अथापराह्ण उक्थ्यपर्यायेषु शिल्पानि क्रियन्ते
मूलम्
अथापराह्ण उक्थ्यपर्यायेषु शिल्पानि क्रियन्ते
English
In the afternon decorations are applied to the Ukthyaparyayas.
विश्वास-प्रस्तुतिः
पारुच्छेपीर्होता शँसति
मूलम्
पारुच्छेपीर्होता शँसति
English
The Hotr̥ recites the verses seen by Pārucchepa.
विश्वास-प्रस्तुतिः
वालखिल्या मैत्रावरुणो विहरति
मूलम्
वालखिल्या मैत्रावरुणो विहरति
English
The Maitrāvaruṇa interchanges the verses in the Vālakhilya hymns.
विश्वास-प्रस्तुतिः
वृषाकपिं ब्राह्मणाच्छँसी शँसत्येवयामरुतमच्छावाकः
मूलम्
वृषाकपिं ब्राह्मणाच्छँसी शँसत्येवयामरुतमच्छावाकः
English
The Brāhmaṇācchaṁsin recites the Vṛṣākapi Śāstra. The Acchāvāka recites the Evayamarut Śāstra.
विश्वास-प्रस्तुतिः
सन्तिष्ठते पृष्ठ्यः षडहोऽहीनसन्ततिं करोति
मूलम्
सन्तिष्ठते पृष्ठ्यः षडहोऽहीनसन्ततिं करोति
English
The Pṛṣṭhya Ṣaḍaha comes to an end. The Adhvaryu achieves the continuity of the Ahīna sacrifice.
विश्वास-प्रस्तुतिः
अथ वसतीवरीः परिहृत्य पयाँसि विशिष्योपवसन्ति ५
मूलम्
अथ वसतीवरीः परिहृत्य पयाँसि विशिष्योपवसन्ति ५
English
The Vasatīvarī waters are carried around; instructions are given in respect of the various milks. They await next day’s performance.
०६
विश्वास-प्रस्तुतिः
अथ श्वो भूते चतुर्विँशं छन्दोममुपयन्ति बृहत्सामानम्
मूलम्
अथ श्वो भूते चतुर्विँशं छन्दोममुपयन्ति बृहत्सामानम्
English
Next day the Chandoma sacrifice characterised by Caturviṁśa stoma with the Br̥hat Sāman as the Pṛsthastotra is performed.
विश्वास-प्रस्तुतिः
अथ श्वो भूते चतुश्चत्वारिँशं छन्दोममुपयन्ति रथन्तरसामानम्
मूलम्
अथ श्वो भूते चतुश्चत्वारिँशं छन्दोममुपयन्ति रथन्तरसामानम्
English
Next day the Chandoma sacrifice characterised by Catuścatvārimsa Stoma and with Rathantara Sāman as the Pr̥ṣṭhstotra is performed.
विश्वास-प्रस्तुतिः
अथ श्वो भूतेऽष्टाचत्वारिँशं छन्दोममुपयन्ति बृहत्सामानम्
मूलम्
अथ श्वो भूतेऽष्टाचत्वारिँशं छन्दोममुपयन्ति बृहत्सामानम्
English
Next day the Chandoma sacrifice characterised by Aṣṭācatvāriṁśa stoma and with the Br̥hat Sāman as the Pṛṣṭhastotra is performed.
विश्वास-प्रस्तुतिः
अथ श्वो भूते चतुर्विँशमग्निष्टोममुपयन्ति रथन्तरसामानम्
मूलम्
अथ श्वो भूते चतुर्विँशमग्निष्टोममुपयन्ति रथन्तरसामानम्
English
Next day is perfomed the Agniṣṭoma characterised by Caturviṁśa stoma and with the Rathantara Sāman as the Pṛṣṭhastotra.
विश्वास-प्रस्तुतिः
अविवाक्यमेतदहर्भवति
मूलम्
अविवाक्यमेतदहर्भवति
English
This sacrifice is termed as Avivākya.
विश्वास-प्रस्तुतिः
नैतदहरन्योऽन्यस्मा उपहताय व्याहुर्गाथया वा नाराशँस्या वा विब्रूयादिति
मूलम्
नैतदहरन्योऽन्यस्मा उपहताय व्याहुर्गाथया वा नाराशँस्या वा विब्रूयादिति
English
On this day the priests do not expose each other for any deficiency. One should rectify together with a Gāthā or a Nārāśaṁsī;
विश्वास-प्रस्तुतिः
तदु वा आहुर्न वै यज्ञः सन्तिष्ठते यन्न विब्रूयादिति
मूलम्
तदु वा आहुर्न वै यज्ञः सन्तिष्ठते यन्न विब्रूयादिति
English
they say the sacrifice does not come to a close if nobody rectifies.
विश्वास-प्रस्तुतिः
विब्रूयादिति वै नो ब्राह्मणं भवति
मूलम्
विब्रूयादिति वै नो ब्राह्मणं भवति
English
One should rectify. So says the Brāhmaṇa.
विश्वास-प्रस्तुतिः
नैतदाद्रियेत
मूलम्
नैतदाद्रियेत
English
One should not honour this (instruction).
विश्वास-प्रस्तुतिः
नाद्रि येतेति स्थितिरननुष्टुभमेतदहर्भवति
मूलम्
नाद्रि येतेति स्थितिरननुष्टुभमेतदहर्भवति
English
The decision is that one should not honour it.8
This day (i.e. the sacrifice) is without the Anuṣṭubh metre.
विश्वास-प्रस्तुतिः
नानुष्टुभोऽधीयते
मूलम्
नानुष्टुभोऽधीयते
English
Anuṣṭubh verses are not pronounced.
विश्वास-प्रस्तुतिः
ते चेदनुष्टुभ उद्धरेरन्नध्वर्युरनुष्टुभ उद्धरेदमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वत्वध्वरमित्येतया सौर्या गायत्र्या वसतीवरीर्गृह्णीयाद्
मूलम्
ते चेदनुष्टुभ उद्धरेरन्नध्वर्युरनुष्टुभ उद्धरेदमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वत्वध्वरमित्येतया सौर्या गायत्र्या वसतीवरीर्गृह्णीयाद्
English
If they (the Hotṛs) omit the Anuṣṭubh verses, the Adhvaryu should also do so. He should take up the Vasativarī waters with the Gāyatrī verse addressed to Sūrya: “May they (the waters) which are in the vicinity of waters or whom the Sūrya accompanies promote our sacrifice.”9
विश्वास-प्रस्तुतिः
हृदे त्वा मनसे त्वेत्यपोद्धृत्यैतामन्यया सौम्या गायत्र्या राजानमुपावहरेद्विष्णो त्वं नो अन्तम इत्यपोद्धृत्यैतामन्यया वैष्णव्या गायत्र्या राजानमुपतिष्ठेत
मूलम्
हृदे त्वा मनसे त्वेत्यपोद्धृत्यैतामन्यया सौम्या गायत्र्या राजानमुपावहरेद्विष्णो त्वं नो अन्तम इत्यपोद्धृत्यैतामन्यया वैष्णव्या गायत्र्या राजानमुपतिष्ठेत
English
He should bring down king Soma with the next Gāyatrī verses addressed to Soma omitting the Verse hṛde tvā manase tvā…..10 He should pray to the Soma with the next Gāyatrī verse addressed to Viṣṇu omitting the verse visno tvaṁ no antamaḥ…..11
विश्वास-प्रस्तुतिः
स उ चेदविद्वाननुष्टुभमभिव्याहरत्यत्यक्रमिषमिति होत्रे प्राह
मूलम्
स उ चेदविद्वाननुष्टुभमभिव्याहरत्यत्यक्रमिषमिति होत्रे प्राह
English
If he unknowingly recites an Anuṣṭubh verse, he should say to the Hotr̥, “I have transgressed.”
विश्वास-प्रस्तुतिः
होतानाप्तस्यापयिता
मूलम्
होतानाप्तस्यापयिता
English
The Hotr̥ furnishes what is not obtained.
विश्वास-प्रस्तुतिः
होतास्य तदक्षरैरपिवयति
मूलम्
होतास्य तदक्षरैरपिवयति
English
He covers it with syllables.
विश्वास-प्रस्तुतिः
स उ चेन्मन्येतामितकामो वा अहमस्मि यदृङ्मयं वेदे यजुर्मयमेव तद्यावेवाक्षर्यौ वेदौ तौ सम्पादयेतामिति नैतदाद्रि येत
मूलम्
स उ चेन्मन्येतामितकामो वा अहमस्मि यदृङ्मयं वेदे यजुर्मयमेव तद्यावेवाक्षर्यौ वेदौ तौ सम्पादयेतामिति नैतदाद्रि येत
English
If he thinks, my desire is unlimited; what belongs to the R̥gveda indeed pertains to the Yajurveda. You accomplish the two Vedas which correspond to the syllables.” One should not honour this view.
विश्वास-प्रस्तुतिः
नाद्रि येतेति स्थितिः
मूलम्
नाद्रि येतेति स्थितिः
English
The decision is that one should not honour this view.
विश्वास-प्रस्तुतिः
सन्तिष्ठत एष चतुर्विँशोऽग्निष्टोमो रथन्तरसामा ६
मूलम्
सन्तिष्ठत एष चतुर्विँशोऽग्निष्टोमो रथन्तरसामा ६
English
The Agniṣṭoma characterised by Caturviṁśa stoma and with Rathantara Sāman as the Pṛṣṭha-stotra comes to an end.
०७
विश्वास-प्रस्तुतिः
तस्मिन्सँस्थिते समिद्धारा यन्त्याहृत्य समिध आग्नीध्रीये सन्न्यस्यन्ति
मूलम्
तस्मिन्सँस्थिते समिद्धारा यन्त्याहृत्य समिध आग्नीध्रीये सन्न्यस्यन्ति
English
At the counclusion of the sacrifice the procurers of firesticks proceed. Having fetched firesticks they store them in the Āgnīdhrīya chamber.
विश्वास-प्रस्तुतिः
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति प्रजापतये स्वाहेति मनसाथ सदः प्रसर्पन्ति तूष्णीँस्तोमाय
मूलम्
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति प्रजापतये स्वाहेति मनसाथ सदः प्रसर्पन्ति तूष्णीँस्तोमाय
English
When they have together contacted him, the Adhvaryu offers a spoonful on the Āhavanīya with “To Prajāpati svāhā” uttered mentally. The priests concerned enter the Sadas for reciting silently.
विश्वास-प्रस्तुतिः
सम्प्रसृप्तान्विदित्वाध्वर्युर्मनसैव प्राङ्द्रुत्वा मनसेमां पात्रं कृत्वा मनसान्यं ग्रहं प्रजापतये गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति
मूलम्
सम्प्रसृप्तान्विदित्वाध्वर्युर्मनसैव प्राङ्द्रुत्वा मनसेमां पात्रं कृत्वा मनसान्यं ग्रहं प्रजापतये गृह्णात्युपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति
English
Having found the priests entered into the Sadas, the Adhvaryu mentally hastens towards the east ; having mentally deemed this (earth) as the cup, he mentally takes the draught for Prajāpati with the formula, “Thou art taken with a support; I take thee dear to Prajāpati.”
विश्वास-प्रस्तुतिः
यदिदं किं च तदिति मनसा परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा मनसैव स्तोत्रमुपाकरोति
मूलम्
यदिदं किं च तदिति मनसा परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेत्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा मनसैव स्तोत्रमुपाकरोति
English
Having cleansed around (the draught) mentally “Whatever is this it is that,” he puts it down with the formula (mentally recited) “This is thy birthplace; for Prajāpati thee.” Having touched water, taking two darbha-blades, restraining speech and hastening to the west, he mentally introduces the stotra.
विश्वास-प्रस्तुतिः
मनसा प्रसौति
मूलम्
मनसा प्रसौति
English
(The Brahman) impels mentally.
विश्वास-प्रस्तुतिः
मनसा प्रस्तौति
मूलम्
मनसा प्रस्तौति
English
(The Prastotr̥) mentally chants the Prastāva.
विश्वास-प्रस्तुतिः
मनसोद्गायति
मूलम्
मनसोद्गायति
English
(The Udgātṛ) chants the Udgītha mentally.
विश्वास-प्रस्तुतिः
मनसा प्रतिहरति
मूलम्
मनसा प्रतिहरति
English
(The Pratihartṛ) mentally chants the Pratihāra.
विश्वास-प्रस्तुतिः
मनसा होत्र एषोत्तमेति प्राहुर्मनसा होताह्वयते
मूलम्
मनसा होत्र एषोत्तमेति प्राहुर्मनसा होताह्वयते
English
It is mentally announced to the Hotr̥ “This is the last one.” The Hotr̥ mentally utters the Āhāva.
विश्वास-प्रस्तुतिः
मनसाध्वर्युः प्रत्याह्वयते
मूलम्
मनसाध्वर्युः प्रत्याह्वयते
English
The Adhvaryu mentally responds.
विश्वास-प्रस्तुतिः
मनसा शँसति
मूलम्
मनसा शँसति
English
(The Hotr̥) recites the Śāstra mentally.
विश्वास-प्रस्तुतिः
मनसा प्रतिगृणाति
मूलम्
मनसा प्रतिगृणाति
English
(The Adhvaryu) utters the Pratigara mentally.
विश्वास-प्रस्तुतिः
यदैतस्य मानसस्य शस्त्रस्य पारमेत्यथ होतोच्चैश्चतुर्होतॄन्व्याचष्टे
मूलम्
यदैतस्य मानसस्य शस्त्रस्य पारमेत्यथ होतोच्चैश्चतुर्होतॄन्व्याचष्टे
English
When he concludes the Śāstra recited mentally, the Hotr̥ recites the Caturhotṛ formulas loudly.
विश्वास-प्रस्तुतिः
तस्मा अध्वर्युः प्रतिगृणाति ७
मूलम्
तस्मा अध्वर्युः प्रतिगृणाति ७
English
The Adhvaryu responds to him.
०८
विश्वास-प्रस्तुतिः
ओँहोतस्तथा होतः सत्यँहोतररात्स्म होतरिति
मूलम्
ओँहोतस्तथा होतः सत्यँहोतररात्स्म होतरिति
English
(separately at each formula) “om hotaḥ : tathā hotaḥ : satyam hotaḥ: and arātsma hotaḥ.”
विश्वास-प्रस्तुतिः
यद्यु वै होता नाध्येत्यन्य उ होत्राशँसी शँसति
मूलम्
यद्यु वै होता नाध्येत्यन्य उ होत्राशँसी शँसति
English
If the Hotr̥ has not studied (the Caturhotṛ formulas), some Hotraka recites.
विश्वास-प्रस्तुतिः
तस्मा उ प्रतिप्रस्थाता प्रतिगृणाति
मूलम्
तस्मा उ प्रतिप्रस्थाता प्रतिगृणाति
English
The Pratiprasthātṛ responds to him.
विश्वास-प्रस्तुतिः
यदैतेषां पारं यन्त्यथाध्वर्युर्मनसैव प्राङ्द्रुत्वा मनसैव तं ग्रहमुपोद्यच्छते
मूलम्
यदैतेषां पारं यन्त्यथाध्वर्युर्मनसैव प्राङ्द्रुत्वा मनसैव तं ग्रहमुपोद्यच्छते
English
When they finish the reciting mentally, the Adhvaryu hastens to the east and mentally lifts up the cup.
विश्वास-प्रस्तुतिः
मनसाश्रावयति
मूलम्
मनसाश्रावयति
English
He mentally causes to announce.
विश्वास-प्रस्तुतिः
मनसा प्रत्याश्रावयति
मूलम्
मनसा प्रत्याश्रावयति
English
(The Āgnīdhra) mentally responds;
विश्वास-प्रस्तुतिः
मनसा वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम्मनसा समुपहूय भक्षयन्ति
मूलम्
मनसा वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम्मनसा समुपहूय भक्षयन्ति
English
the Adhvaryu mentally makes the offering at the Vaṣaṭ-and second Vașaṭ-utterance and carries over the drink. Having mentally obtainet consent, they consume the drink.
विश्वास-प्रस्तुतिः
मनसा निर्णिज्य पात्रं प्रयच्छति
मूलम्
मनसा निर्णिज्य पात्रं प्रयच्छति
English
Having mentally cleansed, he hands over the cup.
विश्वास-प्रस्तुतिः
सन्तिष्ठत एष तूष्णीँस्तोमोऽथर्त्विजो विपृच्छत्यधिवृक्षसूर्ये वाचं विस्रक्ष्यध्वा३
नक्षत्रेषू३
इत्यधिवृक्षसूर्य इति वै नो ब्राह्मणं भवति
मूलम्
सन्तिष्ठत एष तूष्णीँस्तोमोऽथर्त्विजो विपृच्छत्यधिवृक्षसूर्ये वाचं विस्रक्ष्यध्वा३
नक्षत्रेषू३
इत्यधिवृक्षसूर्य इति वै नो ब्राह्मणं भवति
English
This silent reciting comes to a close.
He separately enquires with the priests; “Will you release speech when the rays of the setting sun are resting upon the trees or when the stars appear?” Our Brāhmaṇa says, “When the rays of the setting sun are resting upon the trees.”
विश्वास-प्रस्तुतिः
तेऽधिवृक्षसूर्य एव वाचं विसृजन्ते
मूलम्
तेऽधिवृक्षसूर्य एव वाचं विसृजन्ते
English
They release speech when the rays of the setting sun are resting upon the trees.
विश्वास-प्रस्तुतिः
तानत्रैवासीनान्परिश्रयन्ति
मूलम्
तानत्रैवासीनान्परिश्रयन्ति
English
Enclosure is put around them while they are seated there only.
विश्वास-प्रस्तुतिः
पत्नीशाले पत्नीः परिश्रयन्त्यथानतिसर्पन्तावध्वर्यू धिष्णियान्बर्हिर्भ्यामौदुम्बरीँ समन्वारभेते इह धृतिरिह विधृतिरिह रन्तिरिह रमतिरिति
मूलम्
पत्नीशाले पत्नीः परिश्रयन्त्यथानतिसर्पन्तावध्वर्यू धिष्णियान्बर्हिर्भ्यामौदुम्बरीँ समन्वारभेते इह धृतिरिह विधृतिरिह रन्तिरिह रमतिरिति
English
Enclosure is put around the sacrificer’s wives in the chamber for wives. The two Adhvaryus, not moving out, touch the Dhisnya mounds and the Audumbara post by means of two darbha- blades with the formula, “Firmness here; steadiness here; enjoyment here; special enjoyment here.”[^1-1035]
[^1-1035] TS VII. 1. 12. 1
विश्वास-प्रस्तुतिः
ते यथासमुदितं वाचं विसृजन्ते ८
मूलम्
ते यथासमुदितं वाचं विसृजन्ते ८
English
They release speech as agreed.
०९
विश्वास-प्रस्तुतिः
अथातः सर्पणस्यैव मीमाँसा
मूलम्
अथातः सर्पणस्यैव मीमाँसा
English
Now the discussion about the moving.
विश्वास-प्रस्तुतिः
दक्षिणस्य हविर्धानस्याधोऽधोऽक्षँसर्पेयुर्
मूलम्
दक्षिणस्य हविर्धानस्याधोऽधोऽक्षँसर्पेयुर्
English
They should move from below the axle of the southern Havirdhāna cart.
विश्वास-प्रस्तुतिः
एतेन ह वै सर्पाः ससृपुस्
मूलम्
एतेन ह वै सर्पाः ससृपुस्
English
The Sarpas moved along this way.
विश्वास-प्रस्तुतिः
ततो वै ते जीर्णास्तनूरपाघ्नतेति
मूलम्
ततो वै ते जीर्णास्तनूरपाघ्नतेति
English
Thereby they released the old skins.
विश्वास-प्रस्तुतिः
तदु वा आहुर्यो वा अपथेन प्रतिपद्यते स्थाणुं वा हन्ति गर्तं वा पतति भ्रेषँस न्येति
मूलम्
तदु वा आहुर्यो वा अपथेन प्रतिपद्यते स्थाणुं वा हन्ति गर्तं वा पतति भ्रेषँस न्येति
English
It is said, one who enters along the wrong way, dashes against a trunk of falls into a pit or is bruised.
विश्वास-प्रस्तुतिः
वषट्कारपथेनैव सर्पेयुरेष वाव स्वर्ग्यः पन्था यद्वषट्कारपथ इति
मूलम्
वषट्कारपथेनैव सर्पेयुरेष वाव स्वर्ग्यः पन्था यद्वषट्कारपथ इति
English
They should move along the path of Vaṣaṭ-utterance. The path of Vaṣaṭ-utterance leads to heaven.
विश्वास-प्रस्तुतिः
तदु वा आहुः पराङिव वा एषोऽशान्तः पन्था यद्वषट्कारपथोऽध्वर्युपथेनैव सर्पेयुरेष वा अर्वाचः पराचः स्वर्ग्यः पन्था यदध्वर्युपथ इति
मूलम्
तदु वा आहुः पराङिव वा एषोऽशान्तः पन्था यद्वषट्कारपथोऽध्वर्युपथेनैव सर्पेयुरेष वा अर्वाचः पराचः स्वर्ग्यः पन्था यदध्वर्युपथ इति
English
They indeed say, the path of Vaṣaṭ-utterance is distant and unsafe. They should move along the Adhvaryu’s path. The Adhvaryu’s path leads to heaven by the short route.
विश्वास-प्रस्तुतिः
तेऽध्वर्युपथेनैव सर्पन्ति
मूलम्
तेऽध्वर्युपथेनैव सर्पन्ति
English
They move along the Adhvaryu’s path.
विश्वास-प्रस्तुतिः
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोत्युपसृजन्मात्रे वत्सं धारयन्धरुणो धयन्। रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति
मूलम्
तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोत्युपसृजन्मात्रे वत्सं धारयन्धरुणो धयन्। रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति
English
After they have contacted him, the Adhvaryu offers a spoonful on the Āhavanīya with the verse, “Let the milker, the supporter, holding the calf release it towards the mother. Let the calf, sucking (the mother) yield us prosperity of wealth, food and strength svāhā:”12
विश्वास-प्रस्तुतिः
समुत्क्रम्य चात्वालदेशे जपन्ति वागैतु वागुपैतु वाङ्मोपैतु वाग्यदकर्म यन्नाकर्म यदत्यगाम यन्नात्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम प्रजापतौ प्रजापतिं तत्पितरमप्येत्विति
मूलम्
समुत्क्रम्य चात्वालदेशे जपन्ति वागैतु वागुपैतु वाङ्मोपैतु वाग्यदकर्म यन्नाकर्म यदत्यगाम यन्नात्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम प्रजापतौ प्रजापतिं तत्पितरमप्येत्विति
English
Stepping up, they murmur near the Catvala the formula, “May the speech come; may the speech come near; may the speech come near me; may it which we have done for Prajāpati, which we have not done, which we have passed over, which we have not passed over, which we have surpassed, which we have not surpassed go to Prajāpati the father.”13
विश्वास-प्रस्तुतिः
तद्वाच्यन्ततः प्रतितिष्ठन्ति
मूलम्
तद्वाच्यन्ततः प्रतितिष्ठन्ति
English
Thereby they finally become firm within the speech.
विश्वास-प्रस्तुतिः
तेषां य एव प्रायणीयोऽतिरात्रः स उदयनीयः
मूलम्
तेषां य एव प्रायणीयोऽतिरात्रः स उदयनीयः
English
Their Udayanīya Atirātra sacrifice is similar to that which is the Prāyaṇīya.
विश्वास-प्रस्तुतिः
सत्त्रादुदवसाय ज्योतिष्टोमेनाग्निष्टोमेन चतुष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेनैकैको यजेत ९
मूलम्
सत्त्रादुदवसाय ज्योतिष्टोमेनाग्निष्टोमेन चतुष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेनैकैको यजेत ९
English
After the Sattra has been concluded, each one should perform Jyotiștoma Agniṣṭoma with four stomas, intended for the pacification of the Pṛṣṭha and involving a thousand cows as Dakṣiṇa.
१०
विश्वास-प्रस्तुतिः
अथातो ग्रहकॢप्तेरेव मीमाँसाइन्द्र वायवाग्रं प्रथममहः
मूलम्
अथातो ग्रहकॢप्तेरेव मीमाँसाइन्द्र वायवाग्रं प्रथममहः
English
Now the discussion about the arrangement of Soma-draughts. The first day is characterised by the draught for Indra-Vāyu as the first one.
विश्वास-प्रस्तुतिः
शुक्राग्रं द्वितीयम्
मूलम्
शुक्राग्रं द्वितीयम्
English
The second one is characterised by the bright draught as the first one.
विश्वास-प्रस्तुतिः
आग्रयणाग्रं तृतीयं च चतुर्थं चाइन्द्र वायवाग्रं पञ्चममहः
मूलम्
आग्रयणाग्रं तृतीयं च चतुर्थं चाइन्द्र वायवाग्रं पञ्चममहः
English
The third and the fourth are characterised by the Āgrayaṇa-draught as the first one. The fifth day is characterised by the draught for Indra-Vāyu as the first one.
विश्वास-प्रस्तुतिः
शुक्राग्रँषष्ठं च सप्तमं चाग्रयणाग्रमष्टममहर्
मूलम्
शुक्राग्रँषष्ठं च सप्तमं चाग्रयणाग्रमष्टममहर्
English
The sixth and the seventh are characterised by the bright draught as the first one. The eighth day is characterised by the Āgrayaṇa-draught as the first one.
विश्वास-प्रस्तुतिः
ऐन्द्र वायवाग्रे नवमदशमे
मूलम्
ऐन्द्र वायवाग्रे नवमदशमे
English
The ninth and tenth days are characterised by the draught for Indra-Vāyu as the first one.
विश्वास-प्रस्तुतिः
इति न्वा अध्वर्युतोऽथ छन्दोगबह्वृचतो गायत्रीप्रातःसवनः प्रथमस्त्रिरात्रस्त्रिष्टुङ्माध्यन्दिनो जगत्तृतीयसवने
मूलम्
इति न्वा अध्वर्युतोऽथ छन्दोगबह्वृचतो गायत्रीप्रातःसवनः प्रथमस्त्रिरात्रस्त्रिष्टुङ्माध्यन्दिनो जगत्तृतीयसवने
English
This is for the Adhvaryus. Now for the Sāmavedins and the R̥gvedins. On the first three days the verses employed at the morning pressing are in the Gāyatrī; those employed at the midday pressing are in the Triṣṭubh; those employed at the third pressing in the Jagatī.
विश्वास-प्रस्तुतिः
जगत्प्रातःसवनो द्वितीयस्त्रिरात्रो गायत्रीमाध्यन्दिनस्त्रिष्टुप्तृतीयसवनस्
मूलम्
जगत्प्रातःसवनो द्वितीयस्त्रिरात्रो गायत्रीमाध्यन्दिनस्त्रिष्टुप्तृतीयसवनस्
English
On the second three days the verses employed at the morning pressing are in the Jagatī; those employed at the midday pressing are in the Gāyatrī metre; and those employed at the third pressing in the Triṣṭubh metre.
विश्वास-प्रस्तुतिः
त्रिष्टुप्प्रातःसवनस्तृतीयस्त्रिरात्रो जगन्माध्यन्दिनो गायत्रीतृतीयसवन इति
मूलम्
त्रिष्टुप्प्रातःसवनस्तृतीयस्त्रिरात्रो जगन्माध्यन्दिनो गायत्रीतृतीयसवन इति
English
On the third three days the verses employed at the morning pressing are in the Triṣṭubh; those at the midday pressing are in the Jagatī; and those at the third pressing are in the Gāyatrī metre.
विश्वास-प्रस्तुतिः
तस्मात्सच्छन्दस उपयन्ति १०
मूलम्
तस्मात्सच्छन्दस उपयन्ति १०
English
Therefore they adopt equable metres.14
११
English
विश्वास-प्रस्तुतिः
अथातः पशुकॢप्तेरेव मीमाँसाइन्द्रा ग्नाः पशवः स्युरित्येक आहुर्
मूलम्
अथातः पशुकॢप्तेरेव मीमाँसाइन्द्रा ग्नाः पशवः स्युरित्येक आहुर्
English
Now the discussion about the arrangement of the animals. Some teachers say that the animals should be dedicated to Indra-Agni.
विश्वास-प्रस्तुतिः
अग्नेरयं लोको वायोरन्तरिक्षमसाविन्द्र स्य
मूलम्
अग्नेरयं लोको वायोरन्तरिक्षमसाविन्द्र स्य
English
This world belongs to Agni; midregion to Vāyu and that (heaven) to Indra.
विश्वास-प्रस्तुतिः
यदैन्द्रा ग्नः पशुर्भवति वायव्यो वसाहोम इमानेव तल्लोकान्प्रीणन्त एषु लोकेषु प्रतितिष्ठन्तो यन्त्यथ येऽनैन्द्रा ग्नान्प्रतिपद्यन्ते यथा श्रेयसेऽनाहृत्य पापीयस आहरन्ति तादृक्तत्
मूलम्
यदैन्द्रा ग्नः पशुर्भवति वायव्यो वसाहोम इमानेव तल्लोकान्प्रीणन्त एषु लोकेषु प्रतितिष्ठन्तो यन्त्यथ येऽनैन्द्रा ग्नान्प्रतिपद्यन्ते यथा श्रेयसेऽनाहृत्य पापीयस आहरन्ति तादृक्तत्
English
In that the animal is dedicated to Indra-Agni and only part of the flesh to Vāyu, thereby they gratify these worlds and become stabilized in those worlds. Those who dedicate animals to deities other than Indra-Agni, it would be as if they disregard the good and adopt the evil.
विश्वास-प्रस्तुतिः
तस्मादैन्द्रा ग्नाः पशवः स्युरित्येतदेकम्
मूलम्
तस्मादैन्द्रा ग्नाः पशवः स्युरित्येतदेकम्
English
Therefore the animals should be dedicated to Indra-Agni. This is one view.
विश्वास-प्रस्तुतिः
अतिरात्रपशवोऽभितो मध्य ऐन्द्रा ग्ना एकादशिना अभितो मध्य ऐन्द्रा ग्नाः
मूलम्
अतिरात्रपशवोऽभितो मध्य ऐन्द्रा ग्ना एकादशिना अभितो मध्य ऐन्द्रा ग्नाः
English
The animals offered at the Atirātra sacrifice should be fastened on both sides and those dedicated to Indra-Agni in the middle. The Ekādaśina animals on both sides and those dedicated to Indra-Agni in the middle.
विश्वास-प्रस्तुतिः
सर्वाग्नेया एव स्युरित्येतदेकं सर्वैन्द्रा एव स्युरित्येतदेकं सर्वप्राजापत्या एव स्युरित्येतदेकं सर्वैकादशिना एव स्युरित्येतदपरं तेषाँसर्वैकादशिनैर्यतां प्रसिद्धमेव प्रथमेऽहनि प्रथमामेकादशिनीमालभन्त आग्नेयस्य वारुणमुपालम्भ्यं कुर्वन्ति

All animals should be offered to Agni. This is one view. All should be offered to Indra. This one view. All should be offered to Prajāpati. This is one view. All should be Ekādaśina. This is another view. In the case of those who opt for all Ekādašina animals offer the first series of Ekadasina animals on the first day in the prescribed manner. The animal to be offered to Agni is offered to Varuṇa.
विश्वास-प्रस्तुतिः
तथा स्यैतानि दश मध्यमान्यहान्यनतिरिच्यमानाः पशवोऽनुभवन्ति
मूलम्
तथा स्यैतानि दश मध्यमान्यहान्यनतिरिच्यमानाः पशवोऽनुभवन्ति
English
Thereby his animals to be offered during the middle ten days do not become in excess.
विश्वास-प्रस्तुतिः
प्रसिद्धमेवोत्तमेऽहन्युत्तमामेकादशिनीमालभन्त आग्नेयस्य वा वारुणस्य वा वैश्वदेवमुपालम्भ्यं कुर्वन्ति ११
मूलम्
प्रसिद्धमेवोत्तमेऽहन्युत्तमामेकादशिनीमालभन्त आग्नेयस्य वा वारुणस्य वा वैश्वदेवमुपालम्भ्यं कुर्वन्ति ११
English
On the last day they offer the last Ekādaśina animals as prescribed. On that day they offer to Viśvadevas that animal which is normally to be offered to Agni or Varuṇa.
१२
विश्वास-प्रस्तुतिः
तदु वा आहुर्यद्द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुताः कथमस्यैतान्यहानीष्टान्याप्रीतानि पशुमन्ति भवन्तीति
मूलम्
तदु वा आहुर्यद्द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुताः कथमस्यैतान्यहानीष्टान्याप्रीतानि पशुमन्ति भवन्तीति
English
They enquire in that there are twelve Dīkṣā-days, twelve Upasad-days and pressings for twelve days, how do all these days become characterised with Iṣṭi-performances with the Apris (i.e. Prayāja-yājyās) and with animal-offerings
विश्वास-प्रस्तुतिः
तिस्र एकादशिन्योऽग्नीषोमीयो वैश्वदेवोऽनूबन्ध्या
मूलम्
तिस्र एकादशिन्योऽग्नीषोमीयो वैश्वदेवोऽनूबन्ध्या
English
“Three sets of Ekādaśina animals, the Agnīṣomīya animal, the Vaiśvadeva animal and Anubandhyā-
विश्वास-प्रस्तुतिः
षट्त्रिँशतमेते पशवः षट्त्रिँ शतमेतान्यहान्येवमस्यैतान्यहानीष्टान्याप्रीतानि पशुमन्ति भवन्तीति
मूलम्
षट्त्रिँशतमेते पशवः षट्त्रिँ शतमेतान्यहान्येवमस्यैतान्यहानीष्टान्याप्रीतानि पशुमन्ति भवन्तीति
English
these make thirtysix. Thirtyix are the days. Thus these days become equipped with Iṣṭis, Āprī-hymns and animals.
विश्वास-प्रस्तुतिः
तदु वा आहुर्यद्द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुताः कथं द्वादशाहेन संवत्सर आप्यत इति
मूलम्
तदु वा आहुर्यद्द्वादश दीक्षा द्वादशोपसदो द्वादशाहं प्रसुताः कथं द्वादशाहेन संवत्सर आप्यत इति
English
They enquire: in that there are twelve Dīkṣā-days, twelve Upasad-days and twelve pressing days, how is the Saṁvatsara obtained through the Dvādasāha?
विश्वास-प्रस्तुतिः
द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्या एतानि ह वै संवत्सरस्य वर्षिष्ठान्यहान्येतान्यनु संवत्सर आप्यते
मूलम्
द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्या एतानि ह वै संवत्सरस्य वर्षिष्ठान्यहान्येतान्यनु संवत्सर आप्यते
English
Twelve full-moon days, twelve Aṣṭaka-days and twelve new-moon days-these are the highest days of a year. Following these the Saṁvatsara is obtained.
विश्वास-प्रस्तुतिः
समाप्तो द्वादशाहः
मूलम्
समाप्तो द्वादशाहः
English
Dvādaśāha thus comes to an end.
विश्वास-प्रस्तुतिः
समाप्तः संवत्सरकाम एवं द्वादशाहेन संवत्सर आप्यते १२
मूलम्
समाप्तः संवत्सरकाम एवं द्वादशाहेन संवत्सर आप्यते १२
English
The desire to be fulfilled by a Saṁvatsara (sacrifice) is thus fulfilled. A Saṁvatsara (sacrifice) is obtained by a Dvādaśāha.
१३ गवाम् अयनम्
विश्वास-प्रस्तुतिः
संवत्सराय दीक्षिष्यमाणाः समवस्यन्ति
मूलम्
संवत्सराय दीक्षिष्यमाणाः समवस्यन्ति
English
Those proposing to be initiated for the Saṁvatsara Sattra Flock together.
विश्वास-प्रस्तुतिः
तद्ध स्मैतत्पूर्वे संवत्सरँसमवसायासतेऽन्योऽन्यस्यानूक्तं च मानुषं च विजिज्ञासमाना उतो ह्येकः शमरथस्य कर्ता भवति
मूलम्
तद्ध स्मैतत्पूर्वे संवत्सरँसमवसायासतेऽन्योऽन्यस्यानूक्तं च मानुषं च विजिज्ञासमाना उतो ह्येकः शमरथस्य कर्ता भवति
English
The former persons flocked together for the Saṁvatsara Sattra desiring to know the sequential recitings and performances. One of them takes the position of a quiet chariot (i.e. static position).
विश्वास-प्रस्तुतिः
ते चतुरहे पुरस्तान्माघ्यै पौर्णमास्यै दीक्षन्ते
मूलम्
ते चतुरहे पुरस्तान्माघ्यै पौर्णमास्यै दीक्षन्ते
English
They get initiated four days prior to the full-moon day of Māgha.
विश्वास-प्रस्तुतिः
तेषामेकाष्टकायां क्रयः सम्पद्यत इति नु यदि समामविज्ञाय दीक्षन्ते
मूलम्
तेषामेकाष्टकायां क्रयः सम्पद्यत इति नु यदि समामविज्ञाय दीक्षन्ते
English
For them the purchase of Soma takes place on the eighth day of the dark half of Magha. This procedure is to be adopted if they become initiated without consideration of the year.
विश्वास-प्रस्तुतिः
यद्यु वा एतस्यामेवैकाष्टकायाँसमां विजिज्ञासन्ते चतुरह एव पुरस्तात्फाल्गुन्यै वा चैत्र्यै वा पौर्णमास्यै दीक्षन्ते
मूलम्
यद्यु वा एतस्यामेवैकाष्टकायाँसमां विजिज्ञासन्ते चतुरह एव पुरस्तात्फाल्गुन्यै वा चैत्र्यै वा पौर्णमास्यै दीक्षन्ते
English
If they intend to conclude the year on the eighth day of the dark half of Māgha, they get initiated four days before the full-moon of Phālguna or Caitra.
विश्वास-प्रस्तुतिः
तेषामपरपक्षस्याष्टम्यां क्रयः सम्पद्यते
मूलम्
तेषामपरपक्षस्याष्टम्यां क्रयः सम्पद्यते
English
Their purchase of Soma falls on the eighth day of the dark half.
विश्वास-प्रस्तुतिः
तेनैकाष्टकां न छम्बकुर्वन्ति
मूलम्
तेनैकाष्टकां न छम्बकुर्वन्ति
English
Thereby they do not make the eighth day of dark half of Māgha a failure.
विश्वास-प्रस्तुतिः
तेषां पूर्वपक्षे सुत्या सम्पद्यते
मूलम्
तेषां पूर्वपक्षे सुत्या सम्पद्यते
English
Their pressing falls in the dark half.
विश्वास-प्रस्तुतिः
पूर्वपक्षं मासा अभि सम्पद्यन्ते
मूलम्
पूर्वपक्षं मासा अभि सम्पद्यन्ते
English
Months close in the bright half.
विश्वास-प्रस्तुतिः
पूर्वपक्षे प्रसवः पूर्वपक्षे वैषुवतं पूर्वपक्ष उत्थानं समानं द्वादशाहिकं कर्म
मूलम्
पूर्वपक्षे प्रसवः पूर्वपक्षे वैषुवतं पूर्वपक्ष उत्थानं समानं द्वादशाहिकं कर्म
English
The Soma-pressing begins in the bright half, the central day falls in the bright half and conclusion of the Sattra takes place in the bright half. The procedure of the twelve-day rite is similar.
विश्वास-प्रस्तुतिः
तथैव षष्ठ्यामुपसद्युत्तरवेदिँसन्निवपन्ति यद्यनग्निचित्यं भवत्यथ यदि साग्निचित्यं प्रथमायामेवोपसद्युत्तरवेदिँसन्निवपन्ति १३
मूलम्
तथैव षष्ठ्यामुपसद्युत्तरवेदिँसन्निवपन्ति यद्यनग्निचित्यं भवत्यथ यदि साग्निचित्यं प्रथमायामेवोपसद्युत्तरवेदिँसन्निवपन्ति १३
English
Following it, the Uttaravedi is raised on the sixth Upasad-day if there is no piling up of the fire-altar. If the Sattra involves piling of the fire-altar, the Uttaravedi is raised on the first Upasad-day.
१४
विश्वास-प्रस्तुतिः
तेषां द्वादश दीक्षा द्वादशोपसदः संवत्सरं प्रसुता न संवत्सरेऽग्निं चिन्वीतेत्येक आहुश्चिन्वत उ हैके
मूलम्
तेषां द्वादश दीक्षा द्वादशोपसदः संवत्सरं प्रसुता न संवत्सरेऽग्निं चिन्वीतेत्येक आहुश्चिन्वत उ हैके
English
For them ther are twelve Dīkṣā-days, twelve Upasad-days and Soma-pressings for a year. Some teachers say that in the Saṁvatsara Sattra one should not pile up the fire-altar. Others pile up.
विश्वास-प्रस्तुतिः
प्रसिद्धेन कर्मणोपवसथाद्यन्ति
मूलम्
प्रसिद्धेन कर्मणोपवसथाद्यन्ति
English
They proceed upto the Upavasatha in the prescribed manner.
विश्वास-प्रस्तुतिः
तेषां प्रसिद्धं ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रः सन्तिष्ठते
मूलम्
तेषां प्रसिद्धं ज्योतिष्टोमो वैश्वानरः प्रायणीयोऽतिरात्रः सन्तिष्ठते
English
Then Jyotiṣṭoma Prāyaṇīya Atirātra dedicated to Agni Vaiśvānara comes to an end in the prescribed manner.
विश्वास-प्रस्तुतिः
तस्मिन्सँस्थिते चतुर्विँशमुक्थ्यमारम्भणीयमुभयसामानमुपयन्त्यथाभिप्लवँ षडहमुपयन्ति
मूलम्
तस्मिन्सँस्थिते चतुर्विँशमुक्थ्यमारम्भणीयमुभयसामानमुपयन्त्यथाभिप्लवँ षडहमुपयन्ति
English
After it is concluded, they go in for the Ukthya sacrifice characterised by Caturviṁśa stoma forming the commencement and involving both the (Rathantara and Br̥hat) Sāmans (forming the Pṛṣṭhastotra). They then go in for the Abhiplava-Saḍaha :
विश्वास-प्रस्तुतिः
ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमस्
मूलम्
ज्योतिरग्निष्टोमो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो ज्योतिरग्निष्टोमस्
English
Jyotiṣṭoma Agniṣṭoma, the Ukthya named Gauḥ, the Ukthya named Ayus, the Ukthya named Gauḥ, the Ukthya named Āyus, and Jyotiṣṭoma.
विश्वास-प्रस्तुतिः
तं चतुरुपयन्ति
मूलम्
तं चतुरुपयन्ति
English
They go in for (the Abhiplava Ṣaḍaha) four times.
विश्वास-प्रस्तुतिः
रथन्तरम्बृहद्र थन्तरम्बृहदिति विपर्यासं पृष्ठे भवतः
मूलम्
रथन्तरम्बृहद्र थन्तरम्बृहदिति विपर्यासं पृष्ठे भवतः
English
The Pṛṣṭhastotras are alternate - Rathantara, Br̥hat Rathantara, Br̥hat etc.
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः
मूलम्
पृष्ठ्यः षडहः
English
Then there is the Pr̥ṣṭhya Ṣaḍaha.
विश्वास-प्रस्तुतिः
स मासस्
मूलम्
स मासस्
English
This makes a month.
विश्वास-प्रस्तुतिः
तेनैवँसम्पन्नेन पञ्च मासान्यन्त्यथैतँषष्ठं मासँसम्भायँर्सम्भरन्ति
मूलम्
तेनैवँसम्पन्नेन पञ्च मासान्यन्त्यथैतँषष्ठं मासँसम्भायँर्सम्भरन्ति
English
They go in for five months each one accomplished in this manner. They compose together the sixth month.
विश्वास-प्रस्तुतिः
त्रयोऽभिप्लवाः षडहास्तान्यष्टादशाहानि
मूलम्
त्रयोऽभिप्लवाः षडहास्तान्यष्टादशाहानि
English
Three Abhiplava Ṣaḍahas make eighteen days.
विश्वास-प्रस्तुतिः
प्रायणीयारम्भणीयौ
मूलम्
प्रायणीयारम्भणीयौ
English
The Prāyaṇīya and Udayanīya (Atirātras added)
विश्वास-प्रस्तुतिः
तानि विँशतिरहानि
मूलम्
तानि विँशतिरहानि
English
make twenty days.
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहोऽभिजित्त्रयः परःसामानः
मूलम्
पृष्ठ्यः षडहोऽभिजित्त्रयः परःसामानः
English
The Pṛṣṭha Ṣaḍaha, Abhijit and three Parahsāman (i.e. with superfluous Sāmans) sacrifices make a month.
विश्वास-प्रस्तुतिः
स मासोऽथ वैषुवतम्
मूलम्
स मासोऽथ वैषुवतम्
English
Then the Vaiṣuvata day.
विश्वास-प्रस्तुतिः
अथैतं वैषुवतेऽहन्येकविँशमग्निष्टोममुपयन्ति बृहत्सामानं तस्य सौर्योऽतिग्राह्यः सौर्यः पशुरुपालम्भ्यस्
मूलम्
अथैतं वैषुवतेऽहन्येकविँशमग्निष्टोममुपयन्ति बृहत्सामानं तस्य सौर्योऽतिग्राह्यः सौर्यः पशुरुपालम्भ्यस्
English
On this Vaiṣuvata day they go in for the Agniṣṭoma characterised by Ekaviṁśa Stoma and with Br̥hat Sāman as the Pr̥ṣṭhstotra. In this sacrifice an Atigrāhya cup is to be offered to Sūrya and an animal is to be offered to Sūrya.
विश्वास-प्रस्तुतिः
तद्धैतदेके दिवैवैतेनाह्ना प्रतिपद्यन्त उदित आदित्ये दिवाकीर्त्यमहरिति वदन्तो यथैवान्येषामह्नामेवमुपाकुर्यादिति मौद्गल्यस्
मूलम्
तद्धैतदेके दिवैवैतेनाह्ना प्रतिपद्यन्त उदित आदित्ये दिवाकीर्त्यमहरिति वदन्तो यथैवान्येषामह्नामेवमुपाकुर्यादिति मौद्गल्यस्
English
Some teachers start the performance of this sacrifice by day after the sun has risen saying that this day (i.e. the sacrifice is Divākīrtya). One should commence like other sacrifices. So says Maudgalya.
विश्वास-प्रस्तुतिः
तस्य महादिवाकीत्यँर्होतुः पृष्ठं विकर्णं ब्रह्मसामं भासोऽग्निष्टोमोऽथोर्ध्वं वैषुवतात्त्रीनावृत्तान्स्वरानुपयन्त्यथ विश्वजितमुपयन्त्यथावृत्तं पृष्ठ्यँषडहमुपयन्ति
मूलम्
तस्य महादिवाकीत्यँर्होतुः पृष्ठं विकर्णं ब्रह्मसामं भासोऽग्निष्टोमोऽथोर्ध्वं वैषुवतात्त्रीनावृत्तान्स्वरानुपयन्त्यथ विश्वजितमुपयन्त्यथावृत्तं पृष्ठ्यँषडहमुपयन्ति
English
In this sacrifice the Pr̥ṣṭhstotra relating to the Hotr̥’s Śāstra is Mahādivākīrtya Sāman; the Sāman related to the Brāhmaṇācchamsin’s Śāstra is Vikarṇa, and Bhasa is the Agniṣṭoma Săman. Subsequent to the Vaiṣuvata sacrifice they go in for the three Svarasāman sacrifices in a reverse order. Then the Pr̥ṣṭha Ṣaḍaha in a reverse order.
विश्वास-प्रस्तुतिः
त्रयस्त्रिँशप्रभृत्याग्रयणाग्रमेतदहर्भवत्यथावृत्तमेवाभिप्लवँ षडहमुपयन्ति १४
मूलम्
त्रयस्त्रिँशप्रभृत्याग्रयणाग्रमेतदहर्भवत्यथावृत्तमेवाभिप्लवँ षडहमुपयन्ति १४
English
This day’s sacrifice begins with Stotras in Trayastriṁśa stoma and the Āgrayaṇa draught is taken first. Then they fo in for the Abhiplava Ṣaḍaha in a reverse order.
१५
विश्वास-प्रस्तुतिः
ज्योतिरग्निष्टोम आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्यो ज्योतिरेवाग्निष्टोमस्
मूलम्
ज्योतिरग्निष्टोम आयुरुक्थ्यो गौरुक्थ्य आयुरुक्थ्यो गौरुक्थ्यो ज्योतिरेवाग्निष्टोमस्
English
(The order is :) Jyotiṣṭoma Agniṣṭoma, the Ukthya called Ayus, the Ukthya called Gauḥ, the Ukthya called Ayurs the Ukthya called Gauḥ and Jyotiṣṭoma Agniṣṭoma.
विश्वास-प्रस्तुतिः
तं तथैव चतुरुपयन्ति
मूलम्
तं तथैव चतुरुपयन्ति
English
They go in for four sets in the same manner.
विश्वास-प्रस्तुतिः
बृहद्र थन्तरम्बृहद्र थन्तरमिति विपर्यासं पृष्ठे भवतः
मूलम्
बृहद्र थन्तरम्बृहद्र थन्तरमिति विपर्यासं पृष्ठे भवतः
English
The Pr̥ṣṭha stotras are in a reverse order, Br̥hat, Rathantara, Br̥hat Rathantara etc.
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः पुरस्तात्
मूलम्
पृष्ठ्यः षडहः पुरस्तात्
English
The Pr̥ṣṭhya Ṣaḍaha is to precede these.
विश्वास-प्रस्तुतिः
स मासस्
मूलम्
स मासस्
English
This makes a month.
विश्वास-प्रस्तुतिः
तेनैवँसम्पन्नेन पञ्च मासान्यन्त्यथैत्मँषष्ठं मासँसम्भायँर्सम्भरन्ति
मूलम्
तेनैवँसम्पन्नेन पञ्च मासान्यन्त्यथैत्मँषष्ठं मासँसम्भायँर्सम्भरन्ति
English
They go in for five months with each month accomplished in this way. The sixth month is composed together.
विश्वास-प्रस्तुतिः
द्वावभिप्लवौ षडहौ तानि द्वादशाहानि
मूलम्
द्वावभिप्लवौ षडहौ तानि द्वादशाहानि
English
Two Abhiplava Ṣaḍaha make twelve days.
विश्वास-प्रस्तुतिः
गोआयुषी तानि चतुर्दश
मूलम्
गोआयुषी तानि चतुर्दश
English
The Gauḥ and Ayus added make fourteen.
विश्वास-प्रस्तुतिः
चत्वार्यूर्ध्वं वैषुवतात्तान्यष्टादश
मूलम्
चत्वार्यूर्ध्वं वैषुवतात्तान्यष्टादश
English
Four as those subsequent to the Vaiṣuvata15 make eighteen.
विश्वास-प्रस्तुतिः
दशरात्रो महाव्रतं चातिरात्रश्च
मूलम्
दशरात्रो महाव्रतं चातिरात्रश्च
English
Then the Daśarātra, Mahāvrata and Atirātra.
विश्वास-प्रस्तुतिः
स मासस्
मूलम्
स मासस्
English
These make a month.
विश्वास-प्रस्तुतिः
तदेतन्मासिपृष्ठं गवामयनम् १५
मूलम्
तदेतन्मासिपृष्ठं गवामयनम् १५
English
This is the Māsipṛṣṭha16 Gavām Ayana.
१६
विश्वास-प्रस्तुतिः
अनुत्सर्गं बृहद्र थन्तराभ्यामित्वोत्तमे मासि सकृत्पृष्ठान्युपेयुस्
मूलम्
अनुत्सर्गं बृहद्र थन्तराभ्यामित्वोत्तमे मासि सकृत्पृष्ठान्युपेयुस्
English
Having resorted to Br̥hat and Rathantara (consecutively) without exception they adopt the Prsthastotras (only) in the last month.
विश्वास-प्रस्तुतिः
तद्द्वितीयं गवामयनं दशमास्यं तृतीयम्
मूलम्
तद्द्वितीयं गवामयनं दशमास्यं तृतीयम्
English
This is second Gavām Ayana. The third one goes on for ten months.
विश्वास-प्रस्तुतिः
अभिप्लवाश्चाक्षीयन्ति च तदङ्गिरसामयनम्पृष्ठ्याश्चाक्षीयन्ति च तदादित्यानामयनम्
मूलम्
अभिप्लवाश्चाक्षीयन्ति च तदङ्गिरसामयनम्पृष्ठ्याश्चाक्षीयन्ति च तदादित्यानामयनम्
English
(All) the Abhiplava Ṣaḍahas and the days to complete the Sattra make the Aṅgirasām Ayana. (All) Pr̥ṣṭhya Ṣaḍahas and the days to complete the Sattra make the Adityānām Ayana.
विश्वास-प्रस्तुतिः
अग्निष्टोमाश्चाक्षीयन्ति च तत्प्रजापतेरयनम्प्रायणीयोदयनीयावभितो मध्येऽग्निष्टोमास्तद्द्वितीयं प्रजापतेरयनं सर्वाग्निष्टोमा एव स्युरिति तत्तृतीयं प्रजापतेरयनम्
मूलम्
अग्निष्टोमाश्चाक्षीयन्ति च तत्प्रजापतेरयनम्प्रायणीयोदयनीयावभितो मध्येऽग्निष्टोमास्तद्द्वितीयं प्रजापतेरयनं सर्वाग्निष्टोमा एव स्युरिति तत्तृतीयं प्रजापतेरयनम्
English
(All) Agniṣṭomas and the days to complete the Sattra make the Prajāpater Ayana. The Prāyaṇīya and Udayanīya (Atirātras) at both the ends and (all) Agniṣṭomas inbetween make the second Prajāpater Ayana. If all sacrifices are the Agniṣṭomas, it is the Prajāpater Ayana.
विश्वास-प्रस्तुतिः
अथातो ग्रहकॢप्तेरेव मीमाँसा
मूलम्
अथातो ग्रहकॢप्तेरेव मीमाँसा
English
Now the discussion about the arrangement of draughts.
विश्वास-प्रस्तुतिः
तद्धैतदेके सारस्वतवैष्णवौ ग्रहौ गृह्णन्ति प्रायणीयादेवाग्रेऽत्रिरात्रादोदयनीयाद्वाग्वै सरस्वती यज्ञो विष्णुस्ते वाचं चैव यज्ञं च मध्यतः परिगृह्यानार्ता उदृचं गमिष्याम इति वदन्तस्
मूलम्
तद्धैतदेके सारस्वतवैष्णवौ ग्रहौ गृह्णन्ति प्रायणीयादेवाग्रेऽत्रिरात्रादोदयनीयाद्वाग्वै सरस्वती यज्ञो विष्णुस्ते वाचं चैव यज्ञं च मध्यतः परिगृह्यानार्ता उदृचं गमिष्याम इति वदन्तस्
English
Some teachers take up draughts for Sarasvatī and Viṣņu from the Prāyaṇīya Atirātra upto the Udayanīya Atirātra. Sarasvatī indeed is Vāc: Viṣṇu indeed is Yajña. (They do so) saying that “we shall go to completion uninjured having taken up in the middle Vāc and Yajña.”
विश्वास-प्रस्तुतिः
तदु वा आहुर्यद्वाचा यज्ञस्तायते तेन सरस्वत्याप्ता यदु यज्ञस्तेन विष्णुर्न वै नो ब्राह्मणं भवति
मूलम्
तदु वा आहुर्यद्वाचा यज्ञस्तायते तेन सरस्वत्याप्ता यदु यज्ञस्तेन विष्णुर्न वै नो ब्राह्मणं भवति
English
It is said, in that the sacrifice is performed by speech, thereby Sarasvatī is obtained. In that the sacrifice is performed, thereby Viṣṇu is obtained. There is however no such Brāhmaṇa-text with us.
विश्वास-प्रस्तुतिः
सारस्वतवैष्णवौ ग्रहौ गृह्णीयादिति नैतदाद्रि येत
मूलम्
सारस्वतवैष्णवौ ग्रहौ गृह्णीयादिति नैतदाद्रि येत
English
One should not honour the injunction that one should take up draughts for Sarasvatī and Viṣņu.
विश्वास-प्रस्तुतिः
नाद्रि येतेति स्थितिः १६
मूलम्
नाद्रि येतेति स्थितिः १६
English
One should not honour it; this is the decision.
१७
विश्वास-प्रस्तुतिः
अथातोऽँश्वदाभ्ययोरेव ग्रहणम्प्रायणीयेऽदाभ्यं गृह्णीयादँशुं वैषुवतेऽदाभ्यं महाव्रत उभौ प्रायणीय उभौ वैषुवत उभौ महाव्रते
मूलम्
अथातोऽँश्वदाभ्ययोरेव ग्रहणम्प्रायणीयेऽदाभ्यं गृह्णीयादँशुं वैषुवतेऽदाभ्यं महाव्रत उभौ प्रायणीय उभौ वैषुवत उभौ महाव्रते
English
Now the taking up of Aṁśu and Adābhya draughts. One should take up the Adabhya draught in the Prāyaṇīya; the Aṁśu draught on the Vaișuvata day; Adabhya, on the Mahāvrata day. (Or) both in the Prāyaṇīya, both on the Vaișuvata day, both in the Mahāvrata.
विश्वास-प्रस्तुतिः
यत्र क्व चैवैनौ गृह्णीयादित्येतदपरम्
मूलम्
यत्र क्व चैवैनौ गृह्णीयादित्येतदपरम्
English
One should take both of them wherever he likes.
विश्वास-प्रस्तुतिः
अथातः परःसाम्नामेव ग्रहणं ते वा एते परःसामानः पुरस्ताद्वैषुवतात्त्र्यहमन्वहमितः पराञ्चो गृह्यन्त उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्य्

This is the second view. Now the taking up of Paraḥsāman draughts. These Paraḥsāman draughts are taken up three days before the Vaișuvata sacrifice in the outward order. They are taken respectively with the formulas, “Thou art taken with a support; I take thee dear to waters and plants.” “Thou art taken with a support; I take thee dear to plants and offsprings.” “Thou art taken with a support; I take thee dear to offspring and Prajāpati.”
विश्वास-प्रस्तुतिः
अथ वैषुवतेऽह्नि शुक्राग्रा ग्रहा गृह्यन्ते
मूलम्
अथ वैषुवतेऽह्नि शुक्राग्रा ग्रहा गृह्यन्ते
English
On the Vaișuvata day draughts are taken up with the bright one as the first.
विश्वास-प्रस्तुतिः
समानं कर्माग्रयणाद्ग्रहादाग्रयणं गृहीत्वा त्रीन्परःसाम्नो गृह्णात्युपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्यथ सौर्यर्चा सौर्यमतिग्राह्यं गृह्णाति १७

The procedure upto the Āgrayaṇa draught is as prescribed. Having taken up the Āgrayaṇa draught he takes up the draughts pertaining to the three Paraḥsāman sacrifices respectively with the formulas, “Thou art taken up with a support; I take thee dear to waters and plants. Thou art taken with a support; I take thee dear to the plants and offspring.-Thou art taken with a support; I take thee dear to the offspring and Prajāpati.” Then he takes up the Atigrāhya draught for Sūrya.
१८
विश्वास-प्रस्तुतिः
तरणिर्विश्वदर्शत इत्यनुद्रुत्योपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते जुष्टं गृह्णामीति
मूलम्
तरणिर्विश्वदर्शत इत्यनुद्रुत्योपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते जुष्टं गृह्णामीति
English
(Reciting the verse) “Crossing (the vault), visible to all, shedding light thou art O Sūrya. Thou illuminest the world.-Thou art taken with a support; I take thee dear to lustrous Sūrya.”17
विश्वास-प्रस्तुतिः
परिमृज्य सादयत्येष ते योनिः सूर्याय त्वा भ्राजस्वत इत्यथावृत्तान्गृह्णात्युपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णाम्युपयामगृहितोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णाम्युपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति

Having cleansed it around, he puts it down with the formula, “This is thy birthplace.”17 Then he takes them in a reverted order, “Thou art taken with a support; I take thee dear to the offspring and Prajāpati. -Thou art taken with a support; I take thee dear to the plants and offspring.-Thou art taken with a support; I take thee dear to waters and plants.”
विश्वास-प्रस्तुतिः
सप्तैतदहरतिग्राह्या गृह्यन्त इति ब्राह्मणम्
मूलम्
सप्तैतदहरतिग्राह्या गृह्यन्त इति ब्राह्मणम्
English
“On this day seven Atigrāhya draughts are taken.” So says the Brāhmaṇa.
विश्वास-प्रस्तुतिः
अथोर्ध्वं वैषुवतात्त्र्यहमन्वहमावृत्तानेव गृह्णाति वैश्वकर्मणादित्याभ्यां विपर्यासम्
मूलम्
अथोर्ध्वं वैषुवतात्त्र्यहमन्वहमावृत्तानेव गृह्णाति वैश्वकर्मणादित्याभ्यां विपर्यासम्
English
Subsequent to the Vaișuvata he takes them up for three days in a reverted order alternately with those to Viśvakarman and Aditi.
विश्वास-प्रस्तुतिः
उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्यथ वैश्वकर्मणम्विश्वकर्मन्हविषा वावृधान इत्यनुद्रुत्योपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णामीत्यथादित्यम्
मूलम्
उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्यथ वैश्वकर्मणम्विश्वकर्मन्हविषा वावृधान इत्यनुद्रुत्योपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णामीत्यथादित्यम्
English
(The first one with) “Thou art taken with a support; I take thee dear to offspring and Prajāpati.” Then that for Viśvakarman. Having recited the verse, “O Viśvakarman, waxing with the oblation, do thou thyself rejoicing. May the others around, our foes, be confused. May our (patron) be wealthy and wise”18 (he takes the draught). “Thou are taken with a support; I take thee dear to plants and offspring.” Then (he takes) for Aditi,
विश्वास-प्रस्तुतिः
अदितिर्न उरुष्यत्वित्यनुद्रुत्योपयामगृहितोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीत्यथ वैश्वकर्मणम्
मूलम्
अदितिर्न उरुष्यत्वित्यनुद्रुत्योपयामगृहितोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीत्यथ वैश्वकर्मणम्
English
reciting the verse, “May Aditi protect us; May Aditi grant us welfare. May Aditi guard us against evil.”19 (He takes the draught). “Thou art taken with a support; I take thee dear to waters and plants.” Then that for Viśvakarman
विश्वास-प्रस्तुतिः
अथादित्यम्
मूलम्
अथादित्यम्
English
and that for Aditi.
विश्वास-प्रस्तुतिः
अथोर्ध्वं त्र्यहाद्वैश्वकर्मणादित्याभ्यामेव विपर्यासमेत्या महाव्रतात्
मूलम्
अथोर्ध्वं त्र्यहाद्वैश्वकर्मणादित्याभ्यामेव विपर्यासमेत्या महाव्रतात्
English
Subsequent to the three days he takes up the draughts for Viśvakarman and Aditi alternately until the Mahāvrata sacrifice.
विश्वास-प्रस्तुतिः
तावुभौ सह महाव्रते गृह्येते
मूलम्
तावुभौ सह महाव्रते गृह्येते
English
In the Mahāvrata sacrifice they are taken together.
विश्वास-प्रस्तुतिः
अथैतं महाव्रतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति
मूलम्
अथैतं महाव्रतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति
English
On the Mahāvrata day he takes up the Atigrāhya draught for Prajāpati.
विश्वास-प्रस्तुतिः
त्वे क्रतुमपिवृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति
मूलम्
त्वे क्रतुमपिवृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति
English
Reciting the verse, “In that they come to thy help twice or thrice, the Viśve Devas turn their mind towards thee. (O draught) do thou mix with the sweet that which is sweeter. Do thou unite honey with honey.” (He takes the draught) “Thou art taken up with a support; I take thee dear to Prajāpati.”20
विश्वास-प्रस्तुतिः
परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेति १८
मूलम्
परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेति १८
English
Having cleansed around he places it with the formula, “This is thy birthplace; for Prajāpati thee.”20
१९
विश्वास-प्रस्तुतिः
अथातः पशुकॢप्तेरेव मीमाँसोक्तैन्द्रा ग्नानां प्रशाँसातिरात्रपशवोऽभितो मध्य ऐन्द्रा ग्ना ऐकादशिना अभितो मध्य ऐन्द्रा ग्नाः
मूलम्
अथातः पशुकॢप्तेरेव मीमाँसोक्तैन्द्रा ग्नानां प्रशाँसातिरात्रपशवोऽभितो मध्य ऐन्द्रा ग्ना ऐकादशिना अभितो मध्य ऐन्द्रा ग्नाः
English
Now the discussion about the arrangement of animals. The prescription of the animals to Indra-Agni has been mentioned. The animals for the Atirātra are on both sides and those for Indra-Agni are inbetween. The Aikadaśina animals are on both sides and those for Indra-Agni are inbetween.
विश्वास-प्रस्तुतिः
सर्वाग्नेया एव स्युरित्येतदेकं सर्वैन्द्रा ग्ना एव स्युरित्येतदेकं सर्वप्राजापत्या एव स्युरित्येतदेकं सर्वैकादशिना एव स्युरित्येतदपरं तेषाँसर्वैकादशिनैर्यतां प्रसिद्धमेवोत्तमस्य दशरात्रस्य तृतीयेऽहन्सपतदश उक्थ्य एकादशिन्याप्यते

All animals should be dedicated to Agni. This is one view. All should be dedicated to Indra-Agni. This is one view. All should be dedicated to Prajāpati. This is one view. All should be Aikādaśinas. This is another view. In the case of those adopting all Aikadaśina animals, the Ekādaśinī falls in the Ukthya characterised by Saptadaśa stoma on the third day of the last Daśarātra as prescribed.
विश्वास-प्रस्तुतिः
तस्य नवाहान्यपशून्यतिरिच्यन्ते
मूलम्
तस्य नवाहान्यपशून्यतिरिच्यन्ते
English
In this (Dasarātra) nine days are left without animals.
विश्वास-प्रस्तुतिः
तेष्वेतान्नव ब्राह्मणवतः पशूनालभन्ते वैष्णवं वामनमित्येतांस्तेषामेवं यतां बार्हस्पत्यो वैषुवते सवनीयः सम्पद्यते
मूलम्
तेष्वेतान्नव ब्राह्मणवतः पशूनालभन्ते वैष्णवं वामनमित्येतांस्तेषामेवं यतां बार्हस्पत्यो वैषुवते सवनीयः सम्पद्यते
English
On these days the nine animals prescribed in the Brāhmaṇa[^1-1047], “The short one to Viṣṇu” etc.[^2-1047] are offered consecutively. Following this procedure, the Savanīya animal on the Vaișuvata day is dedicated to Br̥haspati.
विश्वास-प्रस्तुतिः
तस्य सौर्यमुपालम्भ्यं कुर्वन्ति
मूलम्
तस्य सौर्यमुपालम्भ्यं कुर्वन्ति
English
Instead of Br̥haspati, it is offered to Sūrya.
विश्वास-प्रस्तुतिः
यद्यु वा एतान्नव ब्राह्मणवतः पशून्न विन्दन्ति नवैतानि मध्यमानि संवत्सरिकाण्यहान्यैन्द्रा ग्नपशूनि कुर्वन्ति
मूलम्
यद्यु वा एतान्नव ब्राह्मणवतः पशून्न विन्दन्ति नवैतानि मध्यमानि संवत्सरिकाण्यहान्यैन्द्रा ग्नपशूनि कुर्वन्ति
English
If the nine animals prescribed in the brāhmaṇa do not become available, the Aindrāgna animals are offered on these central nine days of the Saṁvatsara.
विश्वास-प्रस्तुतिः
तेषामेवं यतामैन्द्रा ग्नो वैषुवते सवनीयः सम्पद्यते
मूलम्
तेषामेवं यतामैन्द्रा ग्नो वैषुवते सवनीयः सम्पद्यते
English
If they follow this course, the Savanīya animal on the Vaișuvata day is offered to Indra Agni.
विश्वास-प्रस्तुतिः
तस्य सौर्यमुपालम्भ्यं कुर्वन्ति
मूलम्
तस्य सौर्यमुपालम्भ्यं कुर्वन्ति
English
Instead of Br̥haspati, it is offered to Sūrya.
विश्वास-प्रस्तुतिः
सावित्रो महाव्रते
मूलम्
सावित्रो महाव्रते
English
On the Mahāvrata day the animal is be offered to Savitr̥.
विश्वास-प्रस्तुतिः
तस्य प्राजापत्यस्तूपर ऐन्द्र श्चर्षभ उपालम्भ्यौ भवतः १९
मूलम्
तस्य प्राजापत्यस्तूपर ऐन्द्र श्चर्षभ उपालम्भ्यौ भवतः १९
English
In its place a hornless goat should be offered to Prajāpati and a bull to Indra.
२०
विश्वास-प्रस्तुतिः
श्वो महाव्रतमित्युपकल्पयतेऽपरिमितान्रथानपरिमितान्दुन्दुभीँस्तावत उ वेवाजिसृतश्चर्म चेडसंवर्तं च भूमिदुन्दुभिमार्षभं चर्म सलाङ्गूलं ब्राह्मणं च शूद्रं चाद्र रंच चर्मकर्तम्प्लेङ्खँहोता कूर्चावध्वर्युर्बृसीर्होत्रका औदुम्बरीमुद्गातासन्दीमुपकल्पयते

When he knows that the Mahāvrata sacrifice is to be performed the next day, the sacrificer keeps ready a large number of chariots, a large number of drums, the race-runners of the same number, a hide, a round wooden sheet, a drum set on a pit, a bull’s hide together with its tail, a Brāhmaṇa, a Śūdra, and a wet piece of leather. The Hotr̥ procures a swing, the Adhvaryu two bunches of grass, the Hotrakas the rolls of twisted grass the Udgātṛ a stool of Ficus glomerata.
विश्वास-प्रस्तुतिः
वाणं च शततन्तुमाघाटीः पिञ्छोलाः कर्करीका इति तदु पत्नयः
मूलम्
वाणं च शततन्तुमाघाटीः पिञ्छोलाः कर्करीका इति तदु पत्नयः
English
The wives provide for an instrument of a hundred strings, cymbals, flutes and lutes.
विश्वास-प्रस्तुतिः
कटपरिवारं च मिथुनौ चापरिमिताश्च दास्यस्तावत उ वेवोदकुम्भान्
मूलम्
कटपरिवारं च मिथुनौ चापरिमिताश्च दास्यस्तावत उ वेवोदकुम्भान्
English
(He also procures) an enclosing mat, a couple, a large number of maids and that much number of water-pitchers.
विश्वास-प्रस्तुतिः
अथैतं महाव्रतीयेऽह्नि पञ्चविँशमग्निष्टोममुपयन्ति रथन्तरसामानं समानं कर्मा माहेन्द्रा द्ग्राहाद्माहेन्द्रं ग्रहं गृहीत्वाथैतान्सम्भारानायातयति
मूलम्
अथैतं महाव्रतीयेऽह्नि पञ्चविँशमग्निष्टोममुपयन्ति रथन्तरसामानं समानं कर्मा माहेन्द्रा द्ग्राहाद्माहेन्द्रं ग्रहं गृहीत्वाथैतान्सम्भारानायातयति
English
On the Mahāvrata day, the Agniṣṭoma characterised by Pañcavimša stoma and with Rathantara Sāman as the Pṛṣṭhastotra is performed. The procedure up to the draught for Mahendra is similar. After the draught for Mehendra has been taken, the materials are brought in.
विश्वास-प्रस्तुतिः
जघनेनाग्नीध्रं गर्तं खानयित्वार्षभेण क्रूरचर्मणोत्तरलोम्नाभिविघ्नन्ति
मूलम्
जघनेनाग्नीध्रं गर्तं खानयित्वार्षभेण क्रूरचर्मणोत्तरलोम्नाभिविघ्नन्ति
English
To the rear of the Āgnīdhra chamber a pit is dug out and is covered with a raw-hide of a bull with its hairy side upwards.
विश्वास-प्रस्तुतिः
तस्य लाङ्गूलमुत्खिद्य हन्तानूपतिष्ठतेऽत्रैतान्दुन्दुभीननुदिशमासञ्जयति
मूलम्
तस्य लाङ्गूलमुत्खिद्य हन्तानूपतिष्ठतेऽत्रैतान्दुन्दुभीननुदिशमासञ्जयति
English
A beater plucks out its tail and stands near. The drums are set up towards the quarters.
विश्वास-प्रस्तुतिः
तानाहननैरनाघ्नन्त एते हन्तारोऽनूपतिष्ठन्तेऽथैते रथाः समन्तं देवयजनं परीत्योत्तरतस्तिष्ठन्ति
मूलम्
तानाहननैरनाघ्नन्त एते हन्तारोऽनूपतिष्ठन्तेऽथैते रथाः समन्तं देवयजनं परीत्योत्तरतस्तिष्ठन्ति
English
The beaters stand by without beating with the canes. The chariots go around the sacrificial place and stand towards the north.
विश्वास-प्रस्तुतिः
तेषां तिसृधन्वी राजपुत्रो मुख्यो भवति २०
मूलम्
तेषां तिसृधन्वी राजपुत्रो मुख्यो भवति २०
English
A prince holding a bow with three arrows heads them.
२१
विश्वास-प्रस्तुतिः
तस्मा अग्रेणाग्नीध्रमिडसंवर्ते चर्मकर्तं व्यवास्यति
मूलम्
तस्मा अग्रेणाग्नीध्रमिडसंवर्ते चर्मकर्तं व्यवास्यति
English
The Adhvaryu spreads for him the piece of leather on the round wooden sheet in front of the Āgnīdhra chamber.
विश्वास-प्रस्तुतिः
तं काल एव शस्त्र्यातृणत्त्यथैतौ ब्राह्मणश्च शूद्र श्चान्तरेण सदोहविर्धाने तिष्ठत आद्र रंचर्मकर्तमादाय
मूलम्
तं काल एव शस्त्र्यातृणत्त्यथैतौ ब्राह्मणश्च शूद्र श्चान्तरेण सदोहविर्धाने तिष्ठत आद्र रंचर्मकर्तमादाय
English
The prince holding the weapon pricks the piece at the proper time. The brāhmaṇa and the Śūdra take up the piece and stand between the Sadas and the Havirdhāna.
विश्वास-प्रस्तुतिः
प्लेङ्खँहोतासजते
मूलम्
प्लेङ्खँहोतासजते
English
The Hotr̥ ascends the swing.
विश्वास-प्रस्तुतिः
कूर्चावध्वर्युरुपस्तृणीते बृसीर्होत्रका औदुम्बरीमुद्गातासन्दीमारोहत्यादत्ते वाणँशततन्तुम्
मूलम्
कूर्चावध्वर्युरुपस्तृणीते बृसीर्होत्रका औदुम्बरीमुद्गातासन्दीमारोहत्यादत्ते वाणँशततन्तुम्
English
The Adhvaryu spreads out the bunches of grass. The Hotrakas spreads the rolls of twisted grass. The Udgātṛ ascends the stool of Ficus glomerata. He takes up the hundred-stringed instrument.
विश्वास-प्रस्तुतिः
आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्युद्गातारं पत्नयः पर्युपविशन्त्यथ दक्षिणे वेद्यन्त कटपरिवारे मिथुनौ सम्प्रवादयतोऽथैता दास्य उदकुम्भानधिनिधाय मार्जालीयं पर्युपविशन्त्यथाध्वर्युः कूर्चयोरासीनो माहेन्द्र स्य स्तोत्रमुपाकरोति

The wives sit around the Udgātṛ taking cymbals, flutes and lutes. On the southern border of the altar within the enclosed mat the couple are ready for copulation. The maids hold the water-pitchers on their heads and sit around the Mārjālīya mound. Sitting on the two bundles of grass, the Adhvaryu introduces the stotra for Mahendra.
विश्वास-प्रस्तुतिः
स्तुवते माहेन्द्रा य
मूलम्
स्तुवते माहेन्द्रा य
English
The Stotra for Mahendra is chanted.
विश्वास-प्रस्तुतिः
प्रस्तुते साम्नि सम्प्रैषमाहाजिसृत आजिं धावत दुन्दुभीन्समाघ्नताभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातः सौम्यस्य विद्धीति
मूलम्
प्रस्तुते साम्नि सम्प्रैषमाहाजिसृत आजिं धावत दुन्दुभीन्समाघ्नताभिषोतारोऽभिषुणुताग्नीदाशिरं विनयोलूखलमुद्वादय प्रतिप्रस्थातः सौम्यस्य विद्धीति
English
As soon as the Prastāva of the Sāman has been pronounced, the Adhvaryu calls out “O race-runners, do you start; (O beaters) beat the drums; O pressers, do you press the Soma; O Agnīdh, do thou churn out the curdled milk, make the sound of the mortar; O Pratiprasthātṛ, do you enquire about (the boiled rice) for Soma.”
विश्वास-प्रस्तुतिः
यथासम्प्रैषं ते कुर्वन्ति
मूलम्
यथासम्प्रैषं ते कुर्वन्ति
English
They act as per the call.
विश्वास-प्रस्तुतिः
धावन्त्याजिसृत आघ्नन्ति दुन्दुभीन्
मूलम्
धावन्त्याजिसृत आघ्नन्ति दुन्दुभीन्
English
The race-runners set the chariots in motion. The drums are beaten.
विश्वास-प्रस्तुतिः
सम्प्रवदन्ति वाच आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्युद्गातारं पत्नय उपगायन्ति २१
मूलम्
सम्प्रवदन्ति वाच आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्युद्गातारं पत्नय उपगायन्ति २१
English
Sounds are resounded. The wives support the Udgātṛ in his chant with cymbals, flutes and lutes.
२२
विश्वास-प्रस्तुतिः
भद्र मु नाम सामास्ति
मूलम्
भद्र मु नाम सामास्ति
English
There is a Sāman called Bhadra.
विश्वास-प्रस्तुतिः
तदु वाचोपगीयतेऽथैष तिसृधन्वी राजपुत्रश्चर्मावभिनत्ति
मूलम्
तदु वाचोपगीयतेऽथैष तिसृधन्वी राजपुत्रश्चर्मावभिनत्ति
English
It is supported by sounds. The prince holding the bow and three arrows pierces the piece of leather.
विश्वास-प्रस्तुतिः
तं ब्राह्मणोऽनूपतिष्ठते मापरात्सीर्मातिव्यात्सीरिति
मूलम्
तं ब्राह्मणोऽनूपतिष्ठते मापरात्सीर्मातिव्यात्सीरिति
English
The brāhmaṇa stands by him saying “Do thou not fling away; do not pierce through.”
विश्वास-प्रस्तुतिः
तत्तथैव त्रिभिरन्तर्हितमवभिनत्त्यथैतौ ब्राह्मणश्च शूद्र श्चार्द्रे चर्मकर्ते व्यायच्छेते इमेऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मण इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति वृषलो ब्राह्मणः सञ्जयति

He accordingly strikes within with the three arrows. The brāhmaṇa and the Sudra pull asunder the wet piece of leather. The brāhmaṇa says. “These have prospered; these have done a good thing.” The Śūdra says, “These have inhabited the country, they have perpetrated a sin.” The brāhmaṇa wins (the tussle).
विश्वास-प्रस्तुतिः
नश्यति वृषलः
मूलम्
नश्यति वृषलः
English
The Śūdra is defeated.
विश्वास-प्रस्तुतिः
संवर्तेते मिथुनवथैता दास्य उदकुम्भानधिनिधाय मार्जालीयं परिनृत्यन्त्युपस्थानुपहत्य दक्षिणान्पदो निघ्नन्तीरिदम्मधुं गायन्तस्
मूलम्
संवर्तेते मिथुनवथैता दास्य उदकुम्भानधिनिधाय मार्जालीयं परिनृत्यन्त्युपस्थानुपहत्य दक्षिणान्पदो निघ्नन्तीरिदम्मधुं गायन्तस्
English
The couple copulates. The maids hold the water-pitchers on their heads and dance around the Mārjālīya mound striking their laps, hitting the right foot and singing. “This honey.”
विश्वास-प्रस्तुतिः
तासाँसकृत्परीतानां प्रथमां वाचयति २२
मूलम्
तासाँसकृत्परीतानां प्रथमां वाचयति २२
English
After they have completed one round, he makes the first one among them recite the Gātha:
२३
विश्वास-प्रस्तुतिः
गाव एव सुरभयो गावो गुग्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीर्हैमहाँइदं मध्वित्युपस्थानुपहत्य दक्षिणानेव पदो निघ्नन्ति
मूलम्
गाव एव सुरभयो गावो गुग्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीर्हैमहाँइदं मध्वित्युपस्थानुपहत्य दक्षिणानेव पदो निघ्नन्ति
English
“The cows are fragrant, cows have the smell of bdellium, cows are bestowers of ghee; may they multiply here. Haimahāñ;21 this honey.” Striking the laps they set the right foot.
विश्वास-प्रस्तुतिः
द्वितीयं परीतानां प्रथमामेव वाचयति ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वत्यै नद्यै ताः प्राचीरुज्जगाहिरे हैमहाँइदं मध्वित्युपस्थानुपहत्य दक्षिणानेव पदो निघ्नन्ति
मूलम्
द्वितीयं परीतानां प्रथमामेव वाचयति ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वत्यै नद्यै ताः प्राचीरुज्जगाहिरे हैमहाँइदं मध्वित्युपस्थानुपहत्य दक्षिणानेव पदो निघ्नन्ति
English
After they have completed the second round, he makes the first maid alone pronounce the Gathā, “The cows of Mankira drank the water of the river Ganga. They drank water from the river Sarasvatī. They then proceeded towards the east. Haimahān, this honey.” Striking the laps they set the right foot.
विश्वास-प्रस्तुतिः
तृतीयं परीतानां प्रथमामेव वाचयति यदा राखन्द्यौ वदतो ग्राम्यं मङ्कीरदाशकौ । क्षेमाध्यवस्यतो ग्रामे नानड्वाँस्तप्यते वहन्हैमहाँइदं मध्वित्यथैना उत्तरेण मार्जालीयं तिष्ठन्त्यो वाचयतीदमेव मधु सारघमयँसोमः सुतो बृहत्। तमिन्द्र परितातृपीर्हैमहाँइदं मध्विति

After they have completed the third round, he makes the first one alone pronounce the Gatha: “When the Rākhandīs, Makira and Dāśaka by name speak vulgar, they safely enter the village. The bullock carrying (the cart) is not at pain. Haimahāñ, this honey.”22 When they stand towards the north of the Mārjālīya, he makes them pronounce the Gāthā, “This is the honey of bees; this great Soma is pressed. O Indra, do thou be gratified with it. Haimahān, this honey,"
विश्वास-प्रस्तुतिः
ता अत ऊर्ध्वमिदं मध्विदं मध्विदं मध्वित्येव परियन्ति
मूलम्
ता अत ऊर्ध्वमिदं मध्विदं मध्विदं मध्वित्येव परियन्ति
English
They (the maids) hereafter go around simply singing “This honey, this honey, this honey.”
विश्वास-प्रस्तुतिः
तेषां य एव प्रायणीयोऽतिरात्रः स उदयनीयः
मूलम्
तेषां य एव प्रायणीयोऽतिरात्रः स उदयनीयः
English
Their (the Sattrins) Udayanīya Atirātra is similar to the Prāyaṇīya Atirātra.
विश्वास-प्रस्तुतिः
सत्त्रादुदवसाय ज्योतिष्टोमेनाग्निष्टोमेन चतुष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेनैकैको यजेत २३
मूलम्
सत्त्रादुदवसाय ज्योतिष्टोमेनाग्निष्टोमेन चतुष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेनैकैको यजेत २३
English
After having risen from the Sattra, each one should perform the Jyotiṣṭoma Agniṣṭoma characterised by four stomas pacifying the Pr̥ṣṭhas and involving a thousand (cows as) Dakṣiṇā.
२४ अहीनयागः
द्विरात्रः
विश्वास-प्रस्तुतिः
स्वर्गकामो द्विरात्राय दीक्षते
मूलम्
स्वर्गकामो द्विरात्राय दीक्षते
English
One desiring heaven gets initiated for the Dvirātra.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदः
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदः
English
For this there are a larger number of Dīkṣā-days and twelve Upasad-days.
विश्वास-प्रस्तुतिः
स तथा राजानं क्रीणाति यथा मन्यते द्विरात्रस्य मे सतोऽमावास्याया उपवसथीयेऽहन्पूर्वमहः सम्पत्स्यत उत्तरस्मिन्नुत्तरमिति
मूलम्
स तथा राजानं क्रीणाति यथा मन्यते द्विरात्रस्य मे सतोऽमावास्याया उपवसथीयेऽहन्पूर्वमहः सम्पत्स्यत उत्तरस्मिन्नुत्तरमिति
English
He purchases Soma on that day when he would think, “Going in for the Dviratra the first day would fall on the Upavasȧtha of the new-moon day and the second on the next.”
विश्वास-प्रस्तुतिः
तस्य तथा सम्पद्यतेऽभिप्लवः पूर्वमहर्भवति गतिरुत्तरं ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति
मूलम्
तस्य तथा सम्पद्यतेऽभिप्लवः पूर्वमहर्भवति गतिरुत्तरं ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति
English
He accomplishes that way. “The first day’s sacrifice is Jyotiṣṭoma Agniṣṭoma; the next day is Atirātra. The first day is Jyotiṣṭoma Agniṣṭoma;
विश्वास-प्रस्तुतिः
तेजस्तेनावरुन्द्धे
मूलम्
तेजस्तेनावरुन्द्धे
English
thereby he obtains lustre.
विश्वास-प्रस्तुतिः
सर्वस्तोमोऽतिरात्र उत्तरं सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै
मूलम्
सर्वस्तोमोऽतिरात्र उत्तरं सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै
English
The Atirātra characterised by all stomas is the next day; for the gain of all, for the obtainment of all.”23
विश्वास-प्रस्तुतिः
गायत्रं पूर्वेऽहन्साम भवति
मूलम्
गायत्रं पूर्वेऽहन्साम भवति
English
On the preceding day the Hotr̥’s Pr̥ṣṭhstotra is based on Gāyatrī verses.
विश्वास-प्रस्तुतिः
त्रैष्टुभमुत्तरे
मूलम्
त्रैष्टुभमुत्तरे
English
On the succeeding day it is based on Triṣṭubh verses.
विश्वास-प्रस्तुतिः
रथन्तरं पूर्वेऽहन्साम भवति
मूलम्
रथन्तरं पूर्वेऽहन्साम भवति
English
On the preceding day there is the Rathantara Sāman;
विश्वास-प्रस्तुतिः
बृहदुत्तरे
मूलम्
बृहदुत्तरे
English
on the succeeding day the Br̥hat Sāman.
विश्वास-प्रस्तुतिः
वैखानसं पूर्वेऽहन्साम भवति
मूलम्
वैखानसं पूर्वेऽहन्साम भवति
English
On the preceeding day Vaikhānasa Sāman is chanted;
विश्वास-प्रस्तुतिः
षोडश्युत्तरे
मूलम्
षोडश्युत्तरे
English
on the succeeding day Șoḍaśī Sāman.
विश्वास-प्रस्तुतिः
हविष्मन्निधनं पूर्वमहर्भवति
मूलम्
हविष्मन्निधनं पूर्वमहर्भवति
English
On the preceding day the Nidhana of the Sāman is haviṣmat,
विश्वास-प्रस्तुतिः
हविष्कृन्निधनमुत्तरं नानैवार्धमासयोर्भवतो नानावीर्ये भवत इति ब्राह्मणं सन्तिष्ठते द्विरात्रस्
मूलम्
हविष्कृन्निधनमुत्तरं नानैवार्धमासयोर्भवतो नानावीर्ये भवत इति ब्राह्मणं सन्तिष्ठते द्विरात्रस्
English
on the succeeding day it is haviṣkṛt.” The two sacrifices are performed in two different fortnights; therefore they possess different power." So says the Brāhmaṇa.23 The Dvirātra sacrifice thus comes to an end.
त्रिरात्रः
विश्वास-प्रस्तुतिः
त्रिरात्रेण यक्ष्यमाणो भवति
मूलम्
त्रिरात्रेण यक्ष्यमाणो भवति
English
One who proposes to perform the Triratra sacrifice
विश्वास-प्रस्तुतिः
स उपकल्पयते सहस्रं तस्मिन्नुन्नतो वेहद्वामन इति भवन्त्यथास्यैषा सहस्रतम्यन्यतएनी कण्डूकृतोपकॢप्ता भवति
मूलम्
स उपकल्पयते सहस्रं तस्मिन्नुन्नतो वेहद्वामन इति भवन्त्यथास्यैषा सहस्रतम्यन्यतएनी कण्डूकृतोपकॢप्ता भवति
English
procures a thousand (cattle) for Dakṣiṇa. In that (thousand) there are a humpbacked bull, a cow that miscarries and a dwarfish bull. The one thousandth cow is such as has a white spot on any one side of her back and was coupled with a bull.
विश्वास-प्रस्तुतिः
दीक्षते
मूलम्
दीक्षते
English
The sacrificer is initiated.
विश्वास-प्रस्तुतिः
रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति
मूलम्
रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति
English
He purchases Soma in exchange for a red or tawny cow which is one year old.
विश्वास-प्रस्तुतिः
द्वादशोपसदः २४
मूलम्
द्वादशोपसदः २४
English
There are twelve Upasad-days.
२५
विश्वास-प्रस्तुतिः
तायते प्रथमेऽहन्नग्निष्टोमस्
मूलम्
तायते प्रथमेऽहन्नग्निष्टोमस्
English
On the first day Agniṣṭoma is performed.
विश्वास-प्रस्तुतिः
तस्य त्रिवृत्प्रातःसवनं पञ्चदशं माध्यन्दिनँसवनँसप्तदशं तृतीयसवनं स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति त्वँसहस्रमानय । उन्नत उद्वलस्याभिनस्त्वचम्। सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्र यिरित्युन्नत एतेषां त्रयाणां त्रिँ शच्छतानां प्रथमो नीयतेऽहीनसन्ततिं करोति

Its morning pressing is characterised by Trivṛt stoma, midday pressing by Pañcadasa stoma, and the third pressing by Saptadaśa stoma. After having made the offerings pertaining to the Dakṣinās, he offers a spoonful on the Āgnīdhra fire with the verse, “Do thou bring me a thousand. Humpbacked, thou hast pierced the skin of Vala. Do thou be among the one thousand along with progeny and cattle. May the wealth come to me again."24 Among these three hundred and thirty three cattle the humpbacked bull is carried first. Thereby one effects the continuity of the Ahīna sacrifice.
विश्वास-प्रस्तुतिः
तायते द्वितीयेऽहन्युक्थ्यस्
मूलम्
तायते द्वितीयेऽहन्युक्थ्यस्
English
On the second day the Ukthya is performed.
विश्वास-प्रस्तुतिः
तस्य पञ्चदशं प्रातःसवनँसप्तदशं माध्यन्दिनँसवनमेकविँशं तृतीयसवनं स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोत्यूर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छ पाहि मा मा मा हिँसः सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्र यिरिति

Its morning pressing is characterised by Pañcadaśa stoma, the midday pressing by Saptadaśa stoma, and the third pressing by Ekaviṁśa stoma. Having offered the oblations pertaining to the Dakṣiṇa, he offers a spoonful on the Āgnīdhra fire with the formula, “Thou art the strength belonging to the Aṅgirases; soft as wool, do thou grant me strength; do thou guard me; do not injure me;25 grant me a thousand together with progeny and cattle; may the wealth reenter unto me;”26
विश्वास-प्रस्तुतिः
वेहदेतेषां त्रयाणां त्रिँशच्छतानां प्रथमा नीयतेऽहीनसन्ततिं करोति
मूलम्
वेहदेतेषां त्रयाणां त्रिँशच्छतानां प्रथमा नीयतेऽहीनसन्ततिं करोति
English
Among the three hundred and thirtythree the cow which has miscarried is led first. The Adhvaryu observes the continuity of the Ahīna sacrifice.
विश्वास-प्रस्तुतिः
तायते तृतीयेऽहन्नतिरात्रस्
मूलम्
तायते तृतीयेऽहन्नतिरात्रस्
English
The Atirātra is performed on the third day.
विश्वास-प्रस्तुतिः
तस्य सप्तदशं प्रातःसवनमेकविँशं माध्यन्दिनँसवनं त्रिणव आर्भवः पवमानस्त्रयस्त्रिँशमग्निष्टोमसामैकविँ शान्युक्थानि सषोडशिकानि
मूलम्
तस्य सप्तदशं प्रातःसवनमेकविँशं माध्यन्दिनँसवनं त्रिणव आर्भवः पवमानस्त्रयस्त्रिँशमग्निष्टोमसामैकविँ शान्युक्थानि सषोडशिकानि
English
Its morning pressing is characterised by Saptadaśa stoma; the midday pressing by Ekaviṁśa stoma; the Ārbhava Pavamāna is Triṇava, the Agniṣṭoma Sāman has Trayastriṁśa stoma, the Ukthas together with the Sodasistotra have Ekaviṁśa stoma.
विश्वास-प्रस्तुतिः
षोडशं प्रथमँरात्रिसाम पञ्चदशानीतराणि त्रिवृद्रा थन्तरः सन्धिः
मूलम्
षोडशं प्रथमँरात्रिसाम पञ्चदशानीतराणि त्रिवृद्रा थन्तरः सन्धिः
English
The first Rātrisāman has Soḍaśa-stoma, other Rātrisāmans have Pañcadaśa stoma, and the Rathantara Samdhistotra has Trivṛt stoma.
विश्वास-प्रस्तुतिः
स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति त्वँसहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम्। सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशतारयिरिति
मूलम्
स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति त्वँसहस्रस्य प्रतिष्ठासि वैष्णवो वामनस्त्वम्। सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशतारयिरिति
English
After having made the offerings pertaining to the Dakṣiṇā, the Adhvaryu offers a spoonful on the Āgnīdhra fire with the formula, “Thou art the stability of a thousand; thou art the dwarfish one belonging to Viṣṇu; do thou grant me a thousand together with progeny and cattle; may the wealth reenter unto me.26
विश्वास-प्रस्तुतिः
वामन एतेषां त्रयाणां चत्वारिँशच्छतानां प्रथमो नीयते
मूलम्
वामन एतेषां त्रयाणां चत्वारिँशच्छतानां प्रथमो नीयते
English
Among the three hundred fortythree the dwarfish one is led first.
विश्वास-प्रस्तुतिः
नात्राहीनसन्ततिं करोति २५
मूलम्
नात्राहीनसन्ततिं करोति २५
English
The Adhvaryu does not observe the continuity of the Ahīna.
२६
विश्वास-प्रस्तुतिः
अथैताँसहस्रतमीमुत्तरेणाग्नीध्रं पर्याणीयाहवनीयस्यान्ते द्रो णकलशमवघ्रापयेदाजिघ्र कलशं मह्युरुधारा पयस्वत्या त्वा विशन्त्विन्दवः समुद्र मिव सिन्धवः । सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्र यिरिति

The Adhvaryu should bring the one thousandth cow along the north of the Āgnīdhra chamber, and cause her smell the Dronakalaśa near the Āhavanīya with the verse, “Do thou, great, with wide streams, full of milk, smell the trough. May the drops of Soma enter thee like waters the pond. Do thou grant me a thousand together with progeny and cattle; may the wealth reenter unto me.27”
विश्वास-प्रस्तुतिः
प्रजयैवैनं पशुभी रय्या समर्धयति प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणम्
मूलम्
प्रजयैवैनं पशुभी रय्या समर्धयति प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणम्
English
“He thereby furnishes him (the sacrificer) with progeny, cattle and wealth. One who knows this becomes full of progeny, cattle and wealth.” So says the brāhmaṇa.28
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादिति
मूलम्
तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादिति
English
“Having gone around the Agnīdhra chamber, while (the cow) was standing to the east facing the west,
विश्वास-प्रस्तुतिः
स तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहोत्युभा जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्चनैनोः । इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामिति
मूलम्
स तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहोत्युभा जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्चनैनोः । इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामिति
English
he makes the offering with the verse, “O Indra and Viṣņu, both of you have won, you are not defeated. None of these two becomes defeated. When you vied with each other, you divided the thousand in three parts and disposed differently.”27
विश्वास-प्रस्तुतिः
त्रेधाविभक्तं वै त्रिरात्रे सहस्रं साहस्रीमेवैनां करोति
मूलम्
त्रेधाविभक्तं वै त्रिरात्रे सहस्रं साहस्रीमेवैनां करोति
English
In the Trirātra sacrifice the thousand are divided into three parts. He renders her as belonging to the thousand.
विश्वास-प्रस्तुतिः
सहस्रस्यैवैनां मात्रां करोतीति ब्राह्मणम्
मूलम्
सहस्रस्यैवैनां मात्रां करोतीति ब्राह्मणम्
English
He makes her as a part of the thousand.” So says the brāhmaṇa.27
विश्वास-प्रस्तुतिः
अथास्यै रूपाणि जुहोत्यञ्ज्येतायै स्वाहा कृष्णायै स्वाहा श्वेतायै स्वाहेत्यथास्या उपोत्थाय नामभिर्दक्षिणं कर्णमाजपतीडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्निये नामानि सुकृतं मा देवेषु ब्रूतादिति

He then offers her forms, “To the white and tawny svahā; to the black svāhā; to the white svāhā.” Having approached her, he murmurs he names in her right ear, “O Iḍā, Rantā, Aditi, Sarasvatī, Śrī, Preyas, Mahī, Viśruti, O Aghniyā, these are thy names; announce me the doer of good deeds to gods.”27
विश्वास-प्रस्तुतिः
देवेभ्य एवैनमावेदयत्यन्वेनं देवा बुध्यन्त इति ब्राह्मणम् २६
मूलम्
देवेभ्य एवैनमावेदयत्यन्वेनं देवा बुध्यन्त इति ब्राह्मणम् २६
English
“She announces the sacrificer to the gods. The gods recognise him.” So says the Brāhmaṇa.27
२७
विश्वास-प्रस्तुतिः
अथैताँसहस्रतमीमन्तरेण चात्वालोत्करावुदीचिं नीयमानामनुमन्त्रयते सा मा सुवर्गं लोकं गमय सा मा ज्योतिष्मन्तं लोकं गमय सा मा सर्वान्पुण्यान्लोकान्गमय सा मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर्माविशताद्र यिरिति

The sacrificer follows the one thousandth cow being led inbetween the Catvala and the rubbish heap with the formula, “Do thou lead me to the heaven; do thou lead me to the lustrous world; lead me to all holy worlds; lead me to stability together with progeny and cattle; let the wealth reenter unto me.”29
विश्वास-प्रस्तुतिः
प्रजयैवैनं पशुभी रय्यां प्रतिष्ठापयति
मूलम्
प्रजयैवैनं पशुभी रय्यां प्रतिष्ठापयति
English
“He makes him stable in wealth together with progeny and cattle.
विश्वास-प्रस्तुतिः
प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणम्
मूलम्
प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणम्
English
One who knows this possesses progeny, cattle and wealth.” So says the Brāhmaṇa.29
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
तामग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात्
मूलम्
तामग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात्
English
“He should give her away to the Agnīdh or to the Brahman or to the Hotr̥ or to the Udgātṛ or to the Adhvaryu.
विश्वास-प्रस्तुतिः
सहस्रमस्य सा दत्ता भवति सहस्रमस्य प्रतिगृहीतं भवतीति ब्राह्मणम्
मूलम्
सहस्रमस्य सा दत्ता भवति सहस्रमस्य प्रतिगृहीतं भवतीति ब्राह्मणम्
English
It is as if one has given a thousand; it is as if one has received a thousand." So says the brāhmaṇa.29
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
यस्तामविद्वान्प्रतिगृह्णाति तां प्रतिगृह्णीयादेकासि न सहस्रमेकां त्वा भूतां प्रतिगृह्णामि न सहस्रमेका मा भूताविश मा सहस्रमित्येकामेवैनां भूतां प्रतिगृह्णाति न सहस्रं य एवं वेदेति ब्राह्मणम्

“One who not knowing this receives her, should receive with the formula, “Thou art a single, not a thousand; I receive thee as a single one, not as a thousand; do thou, single, enter into me not as a thousand One who knows this, receives her as a single one not a thousand.” So saya the brāhmaṇa.30
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
स्योनासि सुषदा सुशेवा स्योना माविश सुषदा माविश सुशेवा माविशेत्याह
मूलम्
स्योनासि सुषदा सुशेवा स्योना माविश सुषदा माविश सुशेवा माविशेत्याह
English
“He says, thou art yielding happiness, easy to sit and easy to serve; do thou enter into me yielding happiness, enter into me well- seated, enter into me well-serving.”
विश्वास-प्रस्तुतिः
स्योनैवैनँसुषदा सुशेवा भूताविशति नैनँहिनस्तीति ब्राह्मणम्
मूलम्
स्योनैवैनँसुषदा सुशेवा भूताविशति नैनँहिनस्तीति ब्राह्मणम्
English
She enters into him yielding happiness, easy to sit and easy to serve; she does not injure him.” So says the Brāhmaṇa.30
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
ब्रह्मवादिनो वदन्ति सहस्रँसहस्रतम्यन्वेती३
सहस्रतमीँसहस्रा३मिति
मूलम्
ब्रह्मवादिनो वदन्ति सहस्रँसहस्रतम्यन्वेती३
सहस्रतमीँसहस्रा३मिति
English
“Experts in the lore enquire: Does the thousandth follow the thousand or the thousand follow the thousandth?
विश्वास-प्रस्तुतिः
यत्प्राचीमुत्सृजेत्सहस्रँसहस्रतम्यन्वियात्
मूलम्
यत्प्राचीमुत्सृजेत्सहस्रँसहस्रतम्यन्वियात्
English
If he releases her towards the east, the thousandth would follow the thousand,
विश्वास-प्रस्तुतिः
तत्सहस्रमप्रज्ञात्रं सुवर्गं लोकं न प्रजानीयात्
मूलम्
तत्सहस्रमप्रज्ञात्रं सुवर्गं लोकं न प्रजानीयात्
English
that thousand is not knowing; it would not be knowing the heaven.
विश्वास-प्रस्तुतिः
प्रतीचीमुसृजति
मूलम्
प्रतीचीमुसृजति
English
He releases her towards the west.
विश्वास-प्रस्तुतिः
ताँसहस्रमनु पर्यावर्तते
मूलम्
ताँसहस्रमनु पर्यावर्तते
English
The thousand turn towards her.
विश्वास-प्रस्तुतिः
सा प्रजानती सुवर्गं लोकमेति
मूलम्
सा प्रजानती सुवर्गं लोकमेति
English
Knowing she goes to the heaven.
विश्वास-प्रस्तुतिः
यजमानमभ्युत्सृजतीति
मूलम्
यजमानमभ्युत्सृजतीति
English
(The priest) releases her towards the sascrificer.
विश्वास-प्रस्तुतिः
तां पुरस्तात्प्रतीचीं यजमानमभ्युत्सृजति
मूलम्
तां पुरस्तात्प्रतीचीं यजमानमभ्युत्सृजति
English
“He releases her from the east to the west towards the sacrificer.
विश्वास-प्रस्तुतिः
क्षिप्रे सहस्रं प्रजायत उत्तमा नीयते प्रथमा देवान्गच्छतीति ब्राह्मणं तेन हैतेन रौहिणेयः क्रोथुनिः कौलाश्वो यास्क ऋतुमुखेषु विहृतेनेजेऽथो हाजमाम मशको गार्ग्य आरुणेरन्तेवासी
मूलम्
क्षिप्रे सहस्रं प्रजायत उत्तमा नीयते प्रथमा देवान्गच्छतीति ब्राह्मणं तेन हैतेन रौहिणेयः क्रोथुनिः कौलाश्वो यास्क ऋतुमुखेषु विहृतेनेजेऽथो हाजमाम मशको गार्ग्य आरुणेरन्तेवासी
English
Shortly a thousand are born. She is led as the last one; (however) she first goes to gods.” So says the brāhmaṇa.29 Krothuni son of Rohina and Yaska son of Kulāśva performed this sacrifice in components at the openings of the seasons. Then came Maśaka son of Garga and disciple of Āruņi.
विश्वास-प्रस्तुतिः
स ह सँस्थामदृष्ट्वोवाच ननु मत एकाहाइ!३ँति
मूलम्
स ह सँस्थामदृष्ट्वोवाच ननु मत एकाहाइ!३ँति
English
Not finding the conclusion (of a series) he enquired, “Are30 these Ekāha sacrifices ?
विश्वास-प्रस्तुतिः
नेति हैनं प्रत्युवाच
मूलम्
नेति हैनं प्रत्युवाच
English
“No,” the other replied.
विश्वास-प्रस्तुतिः
तँहोपेयाय
मूलम्
तँहोपेयाय
English
The former approached the latter.
विश्वास-प्रस्तुतिः
तस्मा उ हैनँस उवाच
मूलम्
तस्मा उ हैनँस उवाच
English
He explained to him.
विश्वास-प्रस्तुतिः
तेन ह स्म समस्तेनैव यजते
मूलम्
तेन ह स्म समस्तेनैव यजते
English
Therefore one performs the sacrific combinedly.
विश्वास-प्रस्तुतिः
तमेतं गर्गत्रिरात्र इत्याचक्षते २७
मूलम्
तमेतं गर्गत्रिरात्र इत्याचक्षते २७
English
It is called Gargatrirātra.
२८ चतूरात्रः
विश्वास-प्रस्तुतिः
चतुरो वीरानवरुरुत्समानश्चतूरात्राय दीक्षते
मूलम्
चतुरो वीरानवरुरुत्समानश्चतूरात्राय दीक्षते
English
One who wants to oppose four heroes is initiated for the Catūrātra.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
Its Dīkṣā days are in a larger number, and there are twelve Upasad-days.
विश्वास-प्रस्तुतिः
तस्याहान्यग्निष्टोमा एवैते चतुर्विँशाः पवमाना उद्यत्स्तोमाः स्युरित्येतदेकम्
मूलम्
तस्याहान्यग्निष्टोमा एवैते चतुर्विँशाः पवमाना उद्यत्स्तोमाः स्युरित्येतदेकम्
English
Its days: all these are Agniṣṭomas with the Pavamānastotras in Caturviṁśa stoma and with rising numbers of stomas (at the pressings). This is one view.
विश्वास-प्रस्तुतिः
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम्
मूलम्
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम्
English
There should be an Agniṣṭoma, two Ukthyas and an Atirātra. They should enquire about the details of the Sāman-chanting with the Sāmavedins.31 This is another view.
विश्वास-प्रस्तुतिः
अत्रिँश्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन्तेज इन्द्रि यं ब्रह्मवर्चसमन्नाद्यमित्येतान्कामानवरुरुत्समानश्चतूरात्राय दीक्षते
मूलम्
अत्रिँश्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन्तेज इन्द्रि यं ब्रह्मवर्चसमन्नाद्यमित्येतान्कामानवरुरुत्समानश्चतूरात्राय दीक्षते
English
Atri overwhelmed with Śraddhā could not obtain four powers-lustre, might, brahman-splendour and food. One who wants to fulfill these desires gets initiated for Catūrātra.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
विश्वास-प्रस्तुतिः
तस्याहान्यग्निष्टोमा एवैते चतुष्टोमाः स्युरित्येतदेकम्
मूलम्
तस्याहान्यग्निष्टोमा एवैते चतुष्टोमाः स्युरित्येतदेकम्
विश्वास-प्रस्तुतिः
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम्पुष्टिकामश्चतूरात्राय दीक्षते
मूलम्
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम्पुष्टिकामश्चतूरात्राय दीक्षते
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदोऽथ वै भवति
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदोऽथ वै भवति
English
He observes a larger number of Dīkṣā-days and twelve Upasad-days. It is indeed said,
विश्वास-प्रस्तुतिः
पुरोडाशिन्य उपसदो भवन्तीति
मूलम्
पुरोडाशिन्य उपसदो भवन्तीति
English
“The Upasad-rites involve the offerings of cakes.”32
विश्वास-प्रस्तुतिः
प्रथमे चतूरात्र आग्नेय आज्य आग्नेयमष्टाकपालँसायम्प्रातरन्ववधाय जुहोति
मूलम्
प्रथमे चतूरात्र आग्नेय आज्य आग्नेयमष्टाकपालँसायम्प्रातरन्ववधाय जुहोति
English
On the first day of Catūrātra he puts a cake on eight potsherds for Agni into the clarified butter for Agni and makes the offering in the morning and in the evening.
विश्वास-प्रस्तुतिः
द्वितीये चतूरात्रे सौम्य आज्ये सौम्यं चतुष्कपालँसायम्प्रातरन्ववधाय जुहोति
मूलम्
द्वितीये चतूरात्रे सौम्य आज्ये सौम्यं चतुष्कपालँसायम्प्रातरन्ववधाय जुहोति
English
On the second day of the Catūrātra he puts a cake on four potsherds for Soma into the clarified butter for Soma and makes the offering in the morning and in the evening.
विश्वास-प्रस्तुतिः
तृतीये चतूरात्रे वैष्णव आज्ये वैष्णवं त्रिकपालँसायम्प्रातरन्ववधाय जुहोति
मूलम्
तृतीये चतूरात्रे वैष्णव आज्ये वैष्णवं त्रिकपालँसायम्प्रातरन्ववधाय जुहोति
English
On the third day of the Catūrātra, he puts a cake on three postsherds for Viṣṇu into the clarified butter for Viṣṇu and makes the offering in the morning and in the evening.
विश्वास-प्रस्तुतिः
तस्य त्रिवृत्सप्तदशौ विपर्यासँस्तोमौ भवतः
मूलम्
तस्य त्रिवृत्सप्तदशौ विपर्यासँस्तोमौ भवतः
English
In his sacrifice the Trivṛt and Saptadaśa Stoma are inverted.
विश्वास-प्रस्तुतिः
प्राणो वै त्रिवृदन्नं सप्तदशः प्रजापतिः
मूलम्
प्राणो वै त्रिवृदन्नं सप्तदशः प्रजापतिः
English
Prāṇa indeed is threefold food. Prajāpati is constituted of seventeen constituents.
विश्वास-प्रस्तुतिः
प्राणाच्च खलु वा इदमन्नाद्याच्च परिगृह्य प्रजापतिः प्रजायत
मूलम्
प्राणाच्च खलु वा इदमन्नाद्याच्च परिगृह्य प्रजापतिः प्रजायत
English
Prajāpati was born after having received portions from Prāna and food.
विश्वास-प्रस्तुतिः
प्राणाच्चैवैतदन्नाद्याच्च परिगृह्य यजमानः प्रजायते
मूलम्
प्राणाच्चैवैतदन्नाद्याच्च परिगृह्य यजमानः प्रजायते
English
The sacrificer is born after having received portions from Prāṇa and food.
विश्वास-प्रस्तुतिः
तस्याहान्यग्निष्टोमा एवैते चतुस्त्रिँशपवमानाः स्युरित्येतदेकम्
मूलम्
तस्याहान्यग्निष्टोमा एवैते चतुस्त्रिँशपवमानाः स्युरित्येतदेकम्
English
Its days (i.e. daily Soma-sacrifices) are: they should be Agniṣṭomas characterised by the Pavamāna Stotra in Caturvirśa stoma. This is one view.
विश्वास-प्रस्तुतिः
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम् २८
मूलम्
एकोऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु सामविकल्पं पृच्छेयुरित्येतदपरम् २८
English
One Agniṣṭoma, two Ukthyas and an Atirātra. Enquiries about the Sāman-struture should be made with the Sāmavedins. This is another view.
२९ पञ्चरात्रः
विश्वास-प्रस्तुतिः
प्रजातिकामो वा व्यावृत्कामो वा पशुकामो वा वाचो वान्तं परिजिगाँ सन्पञ्चरात्राय दीक्षते
मूलम्
प्रजातिकामो वा व्यावृत्कामो वा पशुकामो वा वाचो वान्तं परिजिगाँ सन्पञ्चरात्राय दीक्षते
English
One desirous of offspring or distinction or cattle or desirous of obtaining proficiency in speech gets initiated for the Pañcarātra.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
His Dīkṣā-days are in a larger number and has twelve Upasad-days.
विश्वास-प्रस्तुतिः
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः
मूलम्
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः
English
His days (i.e. daily Soma-sacrifices) are : The Agniṣṭoma with Trivr̥t stoma, the Ukthya with Pañcadaśa stoma. The Ukthya with Saptadaśa stoma, the Agniṣṭoma with Pañcaviṁśa stoma and the Atirātra characterised by the Mahāvrata and of the category of Viśvajit with all Pṛṣṭhas.
सारस्वत-अयनम्
विश्वास-प्रस्तुतिः
सारस्वतेनायनेनैष्यन्तो द्वयीर्गा उपकल्पयन्त ऋषभैकादशा अन्या ऋषभैकशता अन्यास्
मूलम्
सारस्वतेनायनेनैष्यन्तो द्वयीर्गा उपकल्पयन्त ऋषभैकादशा अन्या ऋषभैकशता अन्यास्
English
Those going in for the Sārasvata Ayana provide for two sets of cows - ten cows with a bull as the eleventh, and a hundred cows with a bull as the hundred and one.
विश्वास-प्रस्तुतिः
तेषामाश्वत्थी हविर्धानं चाग्नीध्रं च भवतस्
मूलम्
तेषामाश्वत्थी हविर्धानं चाग्नीध्रं च भवतस्
English
Their Havirdhāna shed and the Āgnīdhra chamber are made of Ficus Indica.
विश्वास-प्रस्तुतिः
तद्धि सुवर्ग्यं चक्रीवती भवत उलूखलबुध्न एषां यूपो भवति
मूलम्
तद्धि सुवर्ग्यं चक्रीवती भवत उलूखलबुध्न एषां यूपो भवति
English
That leads one to heaven. They are on wheels. Their sacrificial post is fixed in a mortar.
विश्वास-प्रस्तुतिः
ते सरस्वत्यै जघन्योदके दीक्षन्ते
मूलम्
ते सरस्वत्यै जघन्योदके दीक्षन्ते
English
They get initiated at the lower end of the river Sarasvatī.
विश्वास-प्रस्तुतिः
तेषामयमेव त्रिवृदग्निष्टोमः सन्तिष्ठते
मूलम्
तेषामयमेव त्रिवृदग्निष्टोमः सन्तिष्ठते
English
The Agniṣṭoma with Trivṛt stoma performed by them comes to a conclusion.
विश्वास-प्रस्तुतिः
तस्मिन्सँस्थितेऽभि यूपं वहन्त्यभि धिष्णियान्हरन्त्यग्निष्ठेऽनसि समवशमयन्ते यदेषाँसमवशमयितव्यं भवति
मूलम्
तस्मिन्सँस्थितेऽभि यूपं वहन्त्यभि धिष्णियान्हरन्त्यग्निष्ठेऽनसि समवशमयन्ते यदेषाँसमवशमयितव्यं भवति
English
At its conclusion the sacrificial post is carried forward; the mounds are carried forward. Whatever requires to be loaded is loaded in the cart standing near the fire.
विश्वास-प्रस्तुतिः
तेऽनेनैव पृष्ठ्येन षडहेन प्रतिपद्यन्तेऽहरहः शम्यान्यासेशम्यान्यासे यजमाना आक्रोशन्तोऽज्यानिमिच्छमाना यदा दश शतं कुर्वन्त्यथैकमुत्थानं यदा शतँसहस्रं कुर्वन्त्यथैकमुत्थानं यदैषां प्रमीयेत यदा वा जियेरन्नथैकमुत्थानं प्लाक्षे वा प्रस्रवणे २९

They proceed with the Pṛsthya Şadaha. (They proceed) performing a sacrifice each day at a distance of a throw of the yoke-halter, crying aloud and (thus) imploring for safety. When their ten cows increase up to a hundred, the sacrificial session is closed. When a hundred cows increase upto a thousand, then the sacrificial session is closed. When any of them expires or when they are conquered, then the sacrificial session is closed. Or at the Plkṣaprasravana.
३० मुन्ययनम्
विश्वास-प्रस्तुतिः
अथातो मुन्ययनमित्याचक्षते
मूलम्
अथातो मुन्ययनमित्याचक्षते
English
Now is explained the Munyayana.
विश्वास-प्रस्तुतिः
श्रमणः खारीविवधी सरस्वत्यै जघन्योदकेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
मूलम्
श्रमणः खारीविवधी सरस्वत्यै जघन्योदकेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपति
English
(The sacrificer) a wanderer carrying a shoulder-yoke of eighteen Dronas of grains offers a cake on eight potsherds to Vratapati Agni at the lower end of the river Sarasvatī.
विश्वास-प्रस्तुतिः
सा प्रसिद्धेष्टिः सन्तिष्ठतेऽथैताँसवनेष्टिं निर्वपत्याग्नेयमष्टाकपालमैन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालमिति
मूलम्
सा प्रसिद्धेष्टिः सन्तिष्ठतेऽथैताँसवनेष्टिं निर्वपत्याग्नेयमष्टाकपालमैन्द्र मेकादशकपालं वैश्वदेवं द्वादशकपालमिति
English
The Iṣṭi comes to a close in the prescribed manner. Then he performs the Savaneșṭi-a cake on eight pot- sherds to Agni, a cake on eleven potsherds to Indra and a cake on twelve potsherds to Viśve Devas.
विश्वास-प्रस्तुतिः
तया समस्तया वा विहृतया वा प्रतिपद्यतेऽहरहः शम्यान्यासेशम्यान्यासे यजमान आक्रोशन्नज्यानिमिच्छमानो यदैनं प्रतिराध्नुवन्ति यदा वास्यैतं खारीविवधमाच्छिन्दन्त्यथैकमुत्थानं प्लाक्षे वा प्रस्रवणे ३०

He performs it combinedly or separately. He performs a sacrifice every day at a distance of the throw of a yoke-halter crying aloud and (thus) imploring for safety. When he is attacked or his shoulder-yoke is snatched away, then the sacrificial session is closed. Or at the Plakṣaprasravaṇa.
३१ सप्तरात्रः
विश्वास-प्रस्तुतिः
पशुकामः सप्तरात्राय दीक्षते
मूलम्
पशुकामः सप्तरात्राय दीक्षते
English
One desirous of cattle undergoes initiation for the Saptarātra.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
It has a larger number of Dīkṣā-days. Upasad-days are twelve.
विश्वास-प्रस्तुतिः
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँश उक्थ्यस्त्रिणव उक्थ्यः पञ्चविँशोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रो बृहद्र थन्तरे पूर्वेष्वहःसूपेत्य प्रत्यक्षं विश्वजिति पृष्ठान्युपयन्ति

His daily Soma sacrifices are: Agniṣṭoma with Trivṛt stoma, an Ukthya with Pañcadaśa stoma, an Ukthya with Saptadaša stoma, an Ukthya with Ekaviṁśa stoma, an Ukthya with Triņava stoma, an Agniṣṭoma with Pañcaviṁśa stoma characterised by Mahāvrata and the Atirātra of Viśvajit category involving all Pr̥ṣṭhas. The Rathantara and Br̥hat Pr̥ṣṭhas are adopted on the earlier (six) days, and all the Pṛṣṭhas are directly employed in the Viśvajit.
अष्टरात्रः
विश्वास-प्रस्तुतिः
ब्रह्मवर्चसकामोऽष्टरात्राय दीक्षते
मूलम्
ब्रह्मवर्चसकामोऽष्टरात्राय दीक्षते
English
One desirous of Brahman-splendour gets initiated for the Astaratra sacrifice.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
His Dīkṣā-days are in a larger number; Upasad-days are twelve.
विश्वास-प्रस्तुतिः
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँश उक्थ्यस्त्रिणव उक्थ्यस्त्रयस्त्रिँश उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः
मूलम्
तस्याहानि त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँश उक्थ्यस्त्रिणव उक्थ्यस्त्रयस्त्रिँश उक्थ्यः पञ्चविँ शोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः
English
His daily Soma- sacrifices are: Agniṣṭoma with Trivṛt Stoma, an Ukthya with Pañcadaśa stoma, an Ukthya with Saptadaśa stoma, an Ukthya with Ekaviṁśa stoma, an Ukthya with Triņava stoma, an Ukthya with Trayastriṁśa stoma, an Agniṣṭoma with Pañcavimśa stoma characterised by Mahāvrata, and Atirātra of the category of Viśvajit with all Pr̥ṣṭhas.
नवरात्रः
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
One whose subjects are suffering from hunger or who is suffering from chronic illness gets initiated for the Navarātra sacrifice. His Dīkṣā-days are in a larger number and Upasad-days are twelve.
विश्वास-प्रस्तुतिः
तस्याहानि ज्योतिर्गौरायुरित्येतमेव त्र्यहं त्रिरुपयन्ति
मूलम्
तस्याहानि ज्योतिर्गौरायुरित्येतमेव त्र्यहं त्रिरुपयन्ति
English
His daily Soma-sacrifices are: the triad-Jyotis, Gauḥ and Ayus is performed thrice.
विश्वास-प्रस्तुतिः
तेषामायुरतिरात्र उत्तममहर्भवति
मूलम्
तेषामायुरतिरात्र उत्तममहर्भवति
English
On the last day is performed the Atirātra sacrifice Ayus by name.
दशरात्रः
विश्वास-प्रस्तुतिः
प्रजातिकामो वा व्यावृत्कामो वाभिचरन्वाभिचर्यमाणो वा दशरात्राय दीक्षिष्यमाणो दशहोतारँहुत्वा दशरात्राय दीक्षते
मूलम्
प्रजातिकामो वा व्यावृत्कामो वाभिचरन्वाभिचर्यमाणो वा दशरात्राय दीक्षिष्यमाणो दशहोतारँहुत्वा दशरात्राय दीक्षते
English
One who is desirous of progeny or of distinction or of practising exorcism or is being exorcised, when going to be initiated for Dasarātra, offers an oblation with the Dasahoty formula, and gets initiated for the Daśarātra sacrifice.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
His Dīkṣā-days are in a larger number; Upasad-days are twelve.
विश्वास-प्रस्तुतिः
तस्याहानि त्रिवृदग्निष्टोमोऽग्निष्टुदाग्नेयीषु भवति
मूलम्
तस्याहानि त्रिवृदग्निष्टोमोऽग्निष्टुदाग्नेयीषु भवति
English
His daily Soma-sacrifices: Agniṣṭoma with Trivṛt stoma; it is known as Agnistut because the basic R̥ks of all stotras are addressed to Agni;
विश्वास-प्रस्तुतिः
पञ्चदश उक्थ्य ऐन्द्री षु
मूलम्
पञ्चदश उक्थ्य ऐन्द्री षु
English
the Ukthya with Pañcadaśa stoma and Stotra-ṛks addressed to Indra;
विश्वास-प्रस्तुतिः
त्रिवृदग्निष्टोमो वैश्वदेवीषु
मूलम्
त्रिवृदग्निष्टोमो वैश्वदेवीषु
English
Agniṣṭoma with Trivṛt stoma and stotra-r̥ks addressed to the Viśve Devas,
विश्वास-प्रस्तुतिः
सप्तदशोऽग्निष्टोमः प्राजापत्यासु तीव्रसोम एकविँश उक्थ्यः सौरीषु
मूलम्
सप्तदशोऽग्निष्टोमः प्राजापत्यासु तीव्रसोम एकविँश उक्थ्यः सौरीषु
English
Agniṣṭoma with Saptadaśa stoma and Stotra-r̥ks addressed to Prajāpati; this is known as Tīvrasoma; Ukthya with Ekaviṁśa stoma and Stotra-r̥ks addressed to Sūrya;
विश्वास-प्रस्तुतिः
सप्तदशोऽग्निष्टोमः प्राजापत्यासूपहव्यस्
मूलम्
सप्तदशोऽग्निष्टोमः प्राजापत्यासूपहव्यस्
English
Agniṣṭoma with Saptadaśa stoma and stotra-ṛks addressed to Prajāpati; also known as Upahavya;
विश्वास-प्रस्तुतिः
त्रिणवावग्निष्टोमावभित ऐन्द्री षु
मूलम्
त्रिणवावग्निष्टोमावभित ऐन्द्री षु
English
two Agniṣṭomas with Triṇava stoma on both sides[^1-1061] with Stotra-r̥ks addressed to Indra;
[^1-1061] On both sides of the Ukthya with Trayastriṁśa stoma laid down subsequently. Thus the seventh sacrifice is Triṇava Agniṣṭoma, the eighth is Trayastriṁśa Ukthya and the ninth is again the Triṇava Agniṣṭoma.
विश्वास-प्रस्तुतिः
त्रयस्त्रिँश उक्थ्यो वैश्वदेवीषु
मूलम्
त्रयस्त्रिँश उक्थ्यो वैश्वदेवीषु
English
Ukthya with Trayastriṁśa stoma and Stotra-r̥ks addressed to Viśve Devas,
विश्वास-प्रस्तुतिः
विश्वजित्सर्वपृष्ठोऽतिरात्रः ३१
मूलम्
विश्वजित्सर्वपृष्ठोऽतिरात्रः ३१
English
and an Atirātra sacrifice known as Viśvajit with all the Pṛṣṭhas.
३२ एकादशरात्रः
विश्वास-प्रस्तुतिः
प्रजाकामा एकादशरात्राय दीक्षन्ते
मूलम्
प्रजाकामा एकादशरात्राय दीक्षन्ते
English
Those desirous of progeny get initiated for Ekādaśarātra sacrifice.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
Its Dīkṣā-days are in a larger number; Upasad-days are twelve.
विश्वास-प्रस्तुतिः
तस्याहानि ज्योतिरतिरात्रः
मूलम्
तस्याहानि ज्योतिरतिरात्रः
English
The daily Soma-sacrifices are: the Atirātra known as Jyotiś,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहस्
मूलम्
पृष्ठ्यः षडहस्
English
Pr̥ṣṭhya Ṣaḍaha,
विश्वास-प्रस्तुतिः
त्रयश्छन्दोमा अथातिरात्रोऽथाहीनविधिः पृष्ठ्यः षडहस्
मूलम्
त्रयश्छन्दोमा अथातिरात्रोऽथाहीनविधिः पृष्ठ्यः षडहस्
English
three Chandoma days and Atirātra. Now the Pr̥ṣṭhya Ṣaḍaha of Ahīna type:
विश्वास-प्रस्तुतिः
त्रयश्छन्दोमा दशममहर्
मूलम्
त्रयश्छन्दोमा दशममहर्
English
three Chandomas, tenth day
विश्वास-प्रस्तुतिः
अथातिरात्रोऽथायं पौण्डरीक एकादशरात्रोऽयुतदक्षिणोऽश्वसहस्रदक्षिणस्
मूलम्
अथातिरात्रोऽथायं पौण्डरीक एकादशरात्रोऽयुतदक्षिणोऽश्वसहस्रदक्षिणस्
English
and an Atirātra. This Paundarīka is an Ekādaśarātra sacrifice with the Dakṣiņās of ten thousand cows, and with the Dakṣiņās of one thousand horses.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
Its Dīkṣā-days are in a larger number and Upasad-days are twelve.
विश्वास-प्रस्तुतिः
तस्याहान्यभ्यासङ्ग्यः षडहस्
मूलम्
तस्याहान्यभ्यासङ्ग्यः षडहस्
English
Its daily Soma-sacrifices are: Ṣaḍaha of Abhyāsaṅgya pattern,33
विश्वास-प्रस्तुतिः
त्रयश्छन्दोमा दशममहर्
मूलम्
त्रयश्छन्दोमा दशममहर्
English
Three Chandomas, tenth day
विश्वास-प्रस्तुतिः
अथातिरात्रोऽन्वहँसहस्रँसहस्रं ददात्युत्तमेऽहन्यश्वसहस्रं ददात्यथातो ज्योतिरयनमित्याचक्षते
मूलम्
अथातिरात्रोऽन्वहँसहस्रँसहस्रं ददात्युत्तमेऽहन्यश्वसहस्रं ददात्यथातो ज्योतिरयनमित्याचक्षते
English
and Atirātra. On each day the sacrificer gives away a thousand (cows). On the last day he gives away one thousand horses.
ज्योतिरयनम्
Now Jyotir Ayana is explained.
विश्वास-प्रस्तुतिः
स भरतद्वादशाह इत्येक आहुर्दीक्षते
मूलम्
स भरतद्वादशाह इत्येक आहुर्दीक्षते
English
Some call it Bharatadvādaśāha. One gets initiated.
विश्वास-प्रस्तुतिः
तस्यापरिमिता दीक्षा द्वादशोपसदस्
मूलम्
तस्यापरिमिता दीक्षा द्वादशोपसदस्
English
His Dīkṣā-days are in a larger number and Upasad-days are twelve.
त्रयोदशरात्रः
विश्वास-प्रस्तुतिः
तस्याहानि ज्योतिरतिरात्रो ज्योतिरग्निष्टोमोऽष्टौ ज्योतीँष्युक्थ्या ज्योतिरेवाग्निष्टोमो ज्योतिरेवातिरात्र उक्तो द्वादशाहो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
मूलम्
तस्याहानि ज्योतिरतिरात्रो ज्योतिरग्निष्टोमोऽष्टौ ज्योतीँष्युक्थ्या ज्योतिरेवाग्निष्टोमो ज्योतिरेवातिरात्र उक्तो द्वादशाहो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
English
Its daily sacrifices are: Jyotir Atirātra, Jyotir Agniṣṭoma, eight Ukthya sacrifices of the Jyotis character,34 Jyotir Agniṣṭoma and Jyotir Atirātra.
TRAYODAŚARĀTRA
Dvādaśāha is explained.35 He places the tenth day inbetween the Atirātra and the Mahāvrata.
विश्वास-प्रस्तुतिः
स उ वेव त्रयोदशरात्रः ३२
मूलम्
स उ वेव त्रयोदशरात्रः ३२
English
This is the Trayodaśarātra sacrifice.
३३ चतुर्दशरात्र-एकविंशतिरात्रः
विश्वास-प्रस्तुतिः
अथ पूर्वश्चतुर्दशरात्रोऽतिरात्रः
मूलम्
अथ पूर्वश्चतुर्दशरात्रोऽतिरात्रः
English
Now the first Caturdaśarātra : Atirātra,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः
मूलम्
पृष्ठ्यः षडहः
English
Pṛṣṭhya Ṣaḍaha,
विश्वास-प्रस्तुतिः
प्रत्यङ्षडहोऽथातिरात्रोऽथोत्तरश्चतुर्दशरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहः
मूलम्
प्रत्यङ्षडहोऽथातिरात्रोऽथोत्तरश्चतुर्दशरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहः
English
the Ṣaḍaha in the reverse order and Atirātra. Now the second Caturdaśaratra: Atirātra, the three days-Jyotis, Gauḥ and Ayus,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः
मूलम्
पृष्ठ्यः षडहः
English
Pṛṣṭhya Ṣaḍaha,
विश्वास-प्रस्तुतिः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ पूर्वः पञ्चदशरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
मूलम्
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ पूर्वः पञ्चदशरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
English
the three days in the reverse order and Atirātra.
Now the first Pañcadaśarātra : Atirātra, the triad-Jyotis, Gauḥ and Āyus, Daśarātra and Atirātra. He places the Mahāvrata between the tenth day and the Atirātra.
विश्वास-प्रस्तुतिः
स उ वेवाब्राह्मणः षोडशरात्रोऽथोत्तरः पञ्चदशरात्रोऽतिरात्रस्
मूलम्
स उ वेवाब्राह्मणः षोडशरात्रोऽथोत्तरः पञ्चदशरात्रोऽतिरात्रस्
English
This sacrifice is known as Șoḍasarātra even though it is not mentioned in the brāhmaṇa. Now the second Pañcadaśarātra : Atirātra,
विश्वास-प्रस्तुतिः
त्रिवृदग्निष्टोमो ज्योतिर्गौरायुरिति त्र्यहः
मूलम्
त्रिवृदग्निष्टोमो ज्योतिर्गौरायुरिति त्र्यहः
English
Agniṣṭoma with Trivṛt Stoma, the triad-Jyotis, Gauḥ and Ayus,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः
मूलम्
पृष्ठ्यः षडहः
English
Pr̥ṣṭhya Ṣaḍaha,
विश्वास-प्रस्तुतिः
प्रत्यङ् त्र्यहोऽथातिरात्रोऽथ सप्तदशरात्रोऽतिरात्र एकः पञ्चाहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
मूलम्
प्रत्यङ् त्र्यहोऽथातिरात्रोऽथ सप्तदशरात्रोऽतिरात्र एकः पञ्चाहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
English
the triad in the reverse order, and the Atirātra.
Now the Saptadaśaratra: Atirātra, one Pañcaha, Dasarātra and Atirǎtra. He places the Mahāvrata between the tenth day and Atirātra.
विश्वास-प्रस्तुतिः
स उ वेवाब्राह्मणोऽष्टादशरात्रोऽथ विँशतिरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्रयस्त्र्यहाः
मूलम्
स उ वेवाब्राह्मणोऽष्टादशरात्रोऽथ विँशतिरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्रयस्त्र्यहाः
English
This is known as the Aṣṭādasarātra even though it is not mentioned in the Brāhmaṇa. Now the Vimśatirātra : Atirātra, three triads of Jyotis, Gauḥ and Ayus,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः
मूलम्
पृष्ठ्यः षडहः
English
Pṛṣṭhya Ṣaḍaha,
विश्वास-प्रस्तुतिः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथैकविँशतिरात्रोऽतिरात्रः
मूलम्
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथैकविँशतिरात्रोऽतिरात्रः
English
the triads in the reverse order and an Atirātra. Now the Ekaviṁśatirātra : Atirātra,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहः
मूलम्
पृष्ठ्यः षडहः
English
Pṛṣṭhya Ṣaḍaha,
विश्वास-प्रस्तुतिः
सप्तैतानि मध्यमानि सांवत्सरिकाण्यहानि भवन्ति
मूलम्
सप्तैतानि मध्यमानि सांवत्सरिकाण्यहानि भवन्ति
English
seven central days of the yearly session, Saḍaha
विश्वास-प्रस्तुतिः
प्रत्यङ्षडहोऽथातिरात्रः ३३
मूलम्
प्रत्यङ्षडहोऽथातिरात्रः ३३
English
in the reverse order and an Atirātra.
३४ चतुर्विंशतिरात्रः
विश्वास-प्रस्तुतिः
अथ पूर्वश्चतुर्विँशतिरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति चत्वारस्त्र्यहा दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
मूलम्
अथ पूर्वश्चतुर्विँशतिरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति चत्वारस्त्र्यहा दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
English
Now the first Caturviṁśatirātra: Atirātra, four triands of Jyotis, Gauḥ and Āyus, Daśarātra and Atirātra. He places the Mahāvrata between the tenth day and Atirātra.
विश्वास-प्रस्तुतिः
स उ वेवाब्राह्मणः पञ्चविँशतिरात्रोऽथोत्तरश्चतुर्विँशतिरात्रो ज्योतिरतिरात्रः
मूलम्
स उ वेवाब्राह्मणः पञ्चविँशतिरात्रोऽथोत्तरश्चतुर्विँशतिरात्रो ज्योतिरतिरात्रः
English
This is known as the Pañcavimsatirātra even though it is not mentioned in the brāhmaṇa. Now the second Caturviṁśatirātra :Jtyotiratirātra,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहस्
मूलम्
पृष्ठ्यः षडहस्
English
Pr̥ṣṭhya Şaḍaha.
विश्वास-प्रस्तुतिः
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्त्यथानिरुक्तं पृष्ठ्यँषडहमुपयन्ति
मूलम्
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्त्यथानिरुक्तं पृष्ठ्यँषडहमुपयन्ति
English
They derive the Trayastriṁśa stoma from the (preceding) Trayastriṁśa.36 Then they perform the non-specific Pṛṣṭhya Şaḍaha.
विश्वास-प्रस्तुतिः
त्रिवृत आयतने त्रयस्त्रिँशमुक्थ्यमुपयन्ति रथन्तरसामानं तस्य चतुर्विँशाः पवमाना भवन्ति
मूलम्
त्रिवृत आयतने त्रयस्त्रिँशमुक्थ्यमुपयन्ति रथन्तरसामानं तस्य चतुर्विँशाः पवमाना भवन्ति
English
They perform the Ukthya sacrifice with Trayastriṁśa stoma instead of Trivṛt and with Rathantara Pr̥ṣṭha. Its Pavamāna Stotras are with Caturviṁśa stoma.
विश्वास-प्रस्तुतिः
पञ्चदशस्यायतने त्रिणवमुक्थ्यमुपयन्ति बृहत्सामानं
मूलम्
पञ्चदशस्यायतने त्रिणवमुक्थ्यमुपयन्ति बृहत्सामानं
English
They perform the Ukthya with Triņava stoma instead of Pañcadasa, and with Br̥hat Pr̥ṣṭha.
विश्वास-प्रस्तुतिः
तस्याष्टाविँशाः पवमाना भवन्ति
मूलम्
तस्याष्टाविँशाः पवमाना भवन्ति
English
Its Pavamāņa Stotras are with Aṣṭāvimśa stoma.
विश्वास-प्रस्तुतिः
सप्तदशस्यायतन एकविँशमुक्थ्यमुपयन्ति वैरूपसामानं तस्य द्वात्रिँशाः पवमाना भवन्ति
मूलम्
सप्तदशस्यायतन एकविँशमुक्थ्यमुपयन्ति वैरूपसामानं तस्य द्वात्रिँशाः पवमाना भवन्ति
English
They perform the Ukthya with Ekaviṁśa stoma instead of Saptadaśa, and with Vairūpa Sāman as the first Pṛṣṭhastotra. Its Pavamāna stotras are with Dvātriṁśa stoma.
विश्वास-प्रस्तुतिः
स्व एवायतन एकविँशमुक्थ्यमुपयन्ति वैराजसामानं तस्य षट्त्रिँशाः पवमाना भवन्ति
मूलम्
स्व एवायतन एकविँशमुक्थ्यमुपयन्ति वैराजसामानं तस्य षट्त्रिँशाः पवमाना भवन्ति
English
They perform the Ukthya with Ekaviṁśa stoma which is the original one and with Vairāja Sāman as the first Pr̥ṣṭhstotra. Its Pavamāna stotras are with Ṣaṭtriṁśa stoma.
विश्वास-प्रस्तुतिः
स्व एवायतने त्रिणवमुक्थ्यमुपयन्ति शाक्वरसामानं तस्य चत्वारिँशाः पवमाना भवन्ति
मूलम्
स्व एवायतने त्रिणवमुक्थ्यमुपयन्ति शाक्वरसामानं तस्य चत्वारिँशाः पवमाना भवन्ति
English
They perform the Ukthya with Triņava stoma which is the original one and with Sākvara Sāman as the first Pr̥ṣṭhstotra. Its Pavamāna stotras are with Catvāriviṁśa stoma.
विश्वास-प्रस्तुतिः
स्व एवायतने त्रयस्त्रिँशमुक्थ्यमुपयन्ति रैवतसामानं तस्य चतुश्चत्वारिँ शाः पवमाना भवन्ति
मूलम्
स्व एवायतने त्रयस्त्रिँशमुक्थ्यमुपयन्ति रैवतसामानं तस्य चतुश्चत्वारिँ शाः पवमाना भवन्ति
English
They perform the Ukthya with Trayastriṁśa stoma which is the original one and with Raivata Sāman as the first Pr̥ṣṭhstotra. Its Pavamāna stotras are with Catuścatvāriṁśa stoma.
विश्वास-प्रस्तुतिः
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्ति
मूलम्
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्ति
English
They derive the Trayastriṁśa stoma from the (preceding) Trayastriṁśa.
विश्वास-प्रस्तुतिः
तस्याष्टाचत्वारिँशाः पवमाना भवन्त्यथावृत्तं पृष्ठ्यँषडहमुपयन्ति ३४
मूलम्
तस्याष्टाचत्वारिँशाः पवमाना भवन्त्यथावृत्तं पृष्ठ्यँषडहमुपयन्ति ३४
English
Its Pavamans stotras have Aṣtācatvariṁśa stoma. Then they perform the Pr̥ṣṭhya Ṣaḍaha turned around.
३५
विश्वास-प्रस्तुतिः
त्रिवृतोऽधि त्रिवृतमुपयन्ति
मूलम्
त्रिवृतोऽधि त्रिवृतमुपयन्ति
English
They derive the Trivṛt stoma from the (preceding) Trivṛt
विश्वास-प्रस्तुतिः
स्तोमानाँसम्पत्त्यै प्रभवाय
मूलम्
स्तोमानाँसम्पत्त्यै प्रभवाय
English
for the accomplishment of the stomas and for prosperity.
विश्वास-प्रस्तुतिः
ज्योतिरग्निष्टोममुपयन्त्यथातिरातोऽथ त्रिँशद्रा त्रो ज्योतिरतिरात्रः
मूलम्
ज्योतिरग्निष्टोममुपयन्त्यथातिरातोऽथ त्रिँशद्रा त्रो ज्योतिरतिरात्रः
English
They perform the Jyotir Agniṣṭoma. Then the Atirātra. Now the Trimsadrātra. (It comprises) Jyotir Atirātra,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहस्
मूलम्
पृष्ठ्यः षडहस्
English
Pṛṣṭhya Ṣaḍaha;
विश्वास-प्रस्तुतिः
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्ति
मूलम्
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्ति
English
they employ the Trayastriṁśa stoma throughout.37
विश्वास-प्रस्तुतिः
त्रिणवमुपयन्त्येकविँशमुपयन्ति
मूलम्
त्रिणवमुपयन्त्येकविँशमुपयन्ति
English
They proceed (to the Ukthya) with Triṇava stoma.38 They proceed (to the Ukthya) with Ekaviṁśa stoma.39
विश्वास-प्रस्तुतिः
त्रिवृतमग्निष्टुतमुपयन्ति
मूलम्
त्रिवृतमग्निष्टुतमुपयन्ति
English
They perform the Agnistut with Trivṛt stoma.40
विश्वास-प्रस्तुतिः
पञ्चदशमिन्द्र स्तोममुपयन्ति
मूलम्
पञ्चदशमिन्द्र स्तोममुपयन्ति
English
They perform the Indrastoma with Pañcadasa stoma.41
विश्वास-प्रस्तुतिः
सप्तदशमुपयन्त्येकविँशमुपयन्ति
मूलम्
सप्तदशमुपयन्त्येकविँशमुपयन्ति
English
They proceed (to the Ukthya) with Saptadaśa stoma.42 They proceed (to the Ukthya) with Ekaviṁśa stoma.43
विश्वास-प्रस्तुतिः
चतुर्विँशमुपयन्ति
मूलम्
चतुर्विँशमुपयन्ति
English
They proceed (to the Ukthya) with Caturviṁśa stoma.44
विश्वास-प्रस्तुतिः
चतुर्विँशात्पृष्ठान्युपयन्ति
मूलम्
चतुर्विँशात्पृष्ठान्युपयन्ति
English
From (the Ukthya) with Caturviṁśa stoma they proceed to the Pr̥ṣṭhas,
विश्वास-प्रस्तुतिः
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्ति
मूलम्
त्रयस्त्रिँशात्त्रयस्त्रिँशमुपयन्ति
English
(from the Ukthya) with Trayastriṁśa stoma,45 they proceed (to the Ukthya) with Trayastriṁśa stoma.46
विश्वास-प्रस्तुतिः
त्रिणवमुपयन्ति
मूलम्
त्रिणवमुपयन्ति
English
They proceed (to the Ukthya) with Triņava stoma.47
विश्वास-प्रस्तुतिः
द्वावेकविँशावुपयन्ति
मूलम्
द्वावेकविँशावुपयन्ति
English
They proceed (to the Ukthya) with Ekaviṁśa stoma.48
विश्वास-प्रस्तुतिः
चतुरश्चतुष्टोमान्स्तोमानुपयन्त्यथातिरात्रोऽथ द्वात्रिँशद्रा त्रोऽतिरात्रो ज्योतिर्गौरायुरिति नव त्र्यहाः
मूलम्
चतुरश्चतुष्टोमान्स्तोमानुपयन्त्यथातिरात्रोऽथ द्वात्रिँशद्रा त्रोऽतिरात्रो ज्योतिर्गौरायुरिति नव त्र्यहाः
English
They perform four Catuḥstoma sacrifices each one characterised by four stomas.49 Then the Atirātra.50 Now the Dvātriṁśadrātra. (It comprises) Atirātra; nine sets of the triad-Jyotis, Gauḥ and Ayus;
विश्वास-प्रस्तुतिः
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ त्रयस्त्रिँशद्रा त्रोऽतिरात्रस्
मूलम्
प्रत्यङ्त्र् यहोऽथातिरात्रोऽथ त्रयस्त्रिँशद्रा त्रोऽतिरात्रस्
English
one triad in the reverse order; lastly the Atitātra. Now the Trayastrimśadrātra. (It comprises) Atirātra,
विश्वास-प्रस्तुतिः
त्रयः पञ्चाहा
मूलम्
त्रयः पञ्चाहा
English
three Pañcāhas,
विश्वास-प्रस्तुतिः
विश्वजित्सर्वपृष्ठोऽतिरात्र एकः पञ्चाहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
मूलम्
विश्वजित्सर्वपृष्ठोऽतिरात्र एकः पञ्चाहो दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
English
the Atirātra called Viśvajit with all Pṛṣṭhas, one Pañcāha, Daśarātra and finally an Atirātra. He places the Mahāvrata between the tenth day and the Atirātra.
विश्वास-प्रस्तुतिः
स उ वेवाब्राह्मणश्चतुस्त्रिँशद्रा त्रः ३५
मूलम्
स उ वेवाब्राह्मणश्चतुस्त्रिँशद्रा त्रः ३५
English
That forms the Catustrimsadrātra not prescribed in the Brāhmaṇa.
३६ षट्त्रिंशद्रात्र-सहस्ररात्रः
विश्वास-प्रस्तुतिः
अथ षट्त्रिँशद्रा त्रो ज्योतिरतिरात्रश्चतुवारोऽभिप्लवाः षडहा दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
मूलम्
अथ षट्त्रिँशद्रा त्रो ज्योतिरतिरात्रश्चतुवारोऽभिप्लवाः षडहा दशरात्रोऽथातिरात्रो दशमं चाहरतिरात्रं च महाव्रतं व्यवदधाति
English
Now the Sattrimśadrātra. (It comprises) Jyotir Atirātra; four Abhiplava Ṣaḍahas; Dasarātra and an Atirātra. One places the Mahāvrata between the tenth day and the Atirātra.
विश्वास-प्रस्तुतिः
स उ वेवाब्राह्मणः सप्तत्रिँशद्रा त्रोऽथैकस्मान्नपञ्चाशद्रा त्रोऽतिरात्रस्
मूलम्
स उ वेवाब्राह्मणः सप्तत्रिँशद्रा त्रोऽथैकस्मान्नपञ्चाशद्रा त्रोऽतिरात्रस्
English
It is called Saptatrimśadrātra which is not mentioned in the Brāhmaṇa. Now the Ekasmānnapancāśadrātra. (It comprises) Atirātra,
विश्वास-प्रस्तुतिः
त्रयस्त्रिवृतोऽग्निष्टोमा अथात्रिरात्रो दश पञ्चदशा उक्थ्या अथातिरात्रस्
मूलम्
त्रयस्त्रिवृतोऽग्निष्टोमा अथात्रिरात्रो दश पञ्चदशा उक्थ्या अथातिरात्रस्
English
three Agniṣtomas with Trivṛt stoma, Atirātra, ten Ukthyas with Pañcadaśa stoma, Atirātra,
विश्वास-प्रस्तुतिः
तेषाँषोडशिमद्दशममहर्भवति
मूलम्
तेषाँषोडशिमद्दशममहर्भवति
English
tenth day of (the above-mentioned ten Ukthya) is characterised by a Ṣoḍaśi (-draught),
विश्वास-प्रस्तुतिः
द्वादश सप्तदशा उक्थ्या अथातिरात्रः
मूलम्
द्वादश सप्तदशा उक्थ्या अथातिरात्रः
English
twelve Uthyas with Saptadaśa stoma, Atirātra,
विश्वास-प्रस्तुतिः
पृष्ठ्यः षडहोऽथातिरात्रो द्वादशैकविँशा उक्थ्या अथातिरात्रोऽथ संवत्सरकॢप्त एकस्मान्नपञ्चाशद्रा त्रोऽतिरात्र आरम्भणीयमहस्
मूलम्
पृष्ठ्यः षडहोऽथातिरात्रो द्वादशैकविँशा उक्थ्या अथातिरात्रोऽथ संवत्सरकॢप्त एकस्मान्नपञ्चाशद्रा त्रोऽतिरात्र आरम्भणीयमहस्
English
Pr̥ṣṭhya Ṣaḍaha, Atirātra, twelve Ukthyas with Ekaviṁśa stoma, finally an Atirātra. Now the Ekasmānnapancāśadrātra of the pattern of Saṁvatsara. (It comprises:) Atirātra, Ārambhaṇīya day (of Gavām Ayana, that is, Caturviṁśa Ukthya),
विश्वास-प्रस्तुतिः
त्रयोऽभिप्लवाः षडहास्
मूलम्
त्रयोऽभिप्लवाः षडहास्
English
three Abhiplava Ṣaḍahas;
विश्वास-प्रस्तुतिः
तान्यष्टादशाहानि
मूलम्
तान्यष्टादशाहानि
English
they make eighteen days;
विश्वास-प्रस्तुतिः
प्रायणीयारम्भणीयौ
मूलम्
प्रायणीयारम्भणीयौ
English
Prāyaṇīya51 and Ārambhaṇīya,
विश्वास-प्रस्तुतिः
तानि विँशतिर्
मूलम्
तानि विँशतिर्
English
that makes twenty,
विश्वास-प्रस्तुतिः
अभिजित्
मूलम्
अभिजित्
English
Abhijit,
विश्वास-प्रस्तुतिः
त्रयः परःसामानोऽथ वैषुवतं त्रयोऽर्वाक्सामानोऽथ विश्वजिदावृत्तोऽभिप्लवः षडहो गोआयुषी
मूलम्
त्रयः परःसामानोऽथ वैषुवतं त्रयोऽर्वाक्सामानोऽथ विश्वजिदावृत्तोऽभिप्लवः षडहो गोआयुषी
English
three Paraḥsāmans, then the central day, three Arvāksāmans, Viśvajit, Abhiplava Ṣaḍaha turned around, Gauḥ and Āyus,
विश्वास-प्रस्तुतिः
दशरात्रो महाव्रतं चातिरात्रश्चाथैकषष्टिरात्र एतस्यैव सतोऽभितो नवरात्रं पृष्ठ्यौ षडहावुपोहति
मूलम्
दशरात्रो महाव्रतं चातिरात्रश्चाथैकषष्टिरात्र एतस्यैव सतोऽभितो नवरात्रं पृष्ठ्यौ षडहावुपोहति
English
Daśarātra, Mahāvrata and Atirātra. Now the Ekaṣaṣṭirātra. To this (Ekānnapañcāśadrātra) one adds two Pṛṣṭhya Ṣaḍahas on both sides of Navarātra.52
विश्वास-प्रस्तुतिः
तयोरावृत्त उत्तरोऽथ शतरात्रोऽतिरात्रो ज्योतिर्गौरायुरिति त्र्यहश्चतुर्दशाभिप्लवाः षडहा दशरात्रो महाव्रतं चातिरात्रश्चाथ सहस्ररात्रोऽतिरात्रो नवनवतिस्त्रिवृतोऽग्निष्टोमाः शतं पञ्चदशा उक्थ्याः शतँसप्तदशा उक्थ्याः शतमेकविँशा उक्थ्याः शतं त्रिणवा उक्थ्याः शतं त्रयस्त्रिँशा उक्थ्याः शतं चतुर्विँशा उक्थ्याः शतं चतुश्चत्वारिँशा उक्थ्याः शतमष्टाचत्वारिँशा उक्थ्या नवनवतिरेव त्रिवृतोऽग्निष्टोमा अथातिरात्रः ३६

The latter of these is turned around.
Now the Śaṭarātra. (It comprises :) Atirātra, the triad Jyotis, Gauḥ and Āyus, fourteen Abhiplava Ṣaḍahas, Daśarātra, Mahāvrata and Atirātra.
Now the Sahasrarātra. (It comprises :) Atirātra, ninetynine Trivṛt Agniṣṭomas, a hundred Ukthyas with Pañcadaśa stoma, a hundred Ukthyas with Saptadaśa stoma, a hundred Ukthyas with Ekaviṁśa stoma, a hundred Ukthyas with Triṇava stoma, a hundred Ukthyas with Trayastriṁśa stoma, a hundred Ukthyas with Caturviṁśa stoma, a hundred Ukthyas with Catuścatvārimśa stoma, a hundred Ukthyas with Aṣṭācatvārimśa stoma, ninetynine Agniṣṭomas with Trivṛt stoma and finally an Atirātra.
-
cf. BaudhŚS IX. 11 ↩︎
-
cf. BaudhŚS XI. 12 ↩︎
-
cf. BaudhŚS XI. 13 ↩︎
-
TS III.2.7.2; cf. BaudhŚS XIV. 9 ↩︎
-
R̥V II. 37.5 ↩︎
-
R̥V II. 37.6 ↩︎
-
The text of this sentence as also of the preceding one is doubtful, as W. Caland has said. ↩︎
-
VS VI. 24 ↩︎
-
TS I.3.13.1 ↩︎
-
TS III.1.10.3 ↩︎
-
cf. VS VIII .51; ŚBr IV. 6.9.9, JBr. IV. 306; LāṭŚS III. 7.8; ĀpŚS XIII. 4.5. The text in BaudhŚS varies a little from those in the other texts. ↩︎
-
cf. ŚankhŚS X. 21. 16; ĀśvŚS VIII. 13. 27; ApŚS III. 12. 1 ↩︎
-
The text reads sacchandasa. The manuscript M. usually the correct one has samam chanda. Caland rightly remarks “The reading of M might be correct.” ↩︎
-
Three Svarasāman days and the Viśvajit. ↩︎
-
In which Pr̥ṣṭhastotras are resumed every month. ↩︎
-
TS IV. 6.2.6 ↩︎
-
TS I. 5.11.5 ↩︎
-
This seems to be a senseless utterance, like a Stobha in a Sāman-chant. ↩︎
-
The text and translation of these Gathās are uncertain. cf. ĀpŚS XXI.20.3 and Caland’s translation. ↩︎
-
This verse with a little variation is met with in ĀpŚS XXII. 15. 11. It is not traced to any major text. ↩︎
-
TS I.2.2.2 ↩︎
-
TS VII. 1.7.2 ↩︎
-
Chandogan nu emended. Caland reads Chandogāna. ↩︎
-
TS VII. 1.9.1 ↩︎
-
cf. PañcBr XXIII. 13. 1 ↩︎
-
Employing the four stomas called Jyotis; Trivṛt, Pañcadaśa, Saptadaśa and Ekaviṁśa. ↩︎
-
cf. BaudhŚS XVI. 1-12 ↩︎
-
That is to say, the Trayastriṁśa stoma employed in the last sacrifice of the Pr̥ṣṭhya Ṣaḍaha is observed also in the subsequent sacrifice performed on the eighth day, in order to maintain continuity. ↩︎
-
On the eighth day. ↩︎
-
On the ninth day. ↩︎
-
On the tenth day. ↩︎
-
On the eleventh day. ↩︎
-
On the twelfth day. ↩︎
-
On the thirteenth day. ↩︎
-
On the fourteenth day. ↩︎
-
On the fifteenth day. ↩︎
-
On the days from the sixteenth to the twentyfirst. ↩︎
-
On the twentysecond day. ↩︎
-
On the twentythird day. ↩︎
-
On the twentyfourth day. ↩︎
-
On the days from the twentyfifth to twentyninth. cf. BaudhŚS XVIII.34. ↩︎
-
On the thirtienth day. TāndBr XXIII. 26.1 and ĀpŚS XXIII.4.13,14 have a different formation of this sacrifice. ↩︎
-
That is, the Atirātra as first mentioned. ↩︎
-
Abhijit, three Paraḥsāmans, Vaișuvata, three Arvāksāmans and the Viśvajit make nine. ↩︎