१४ औपानुवाक्यम्

चतुर्दशः प्रश्नः

०१

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

प्रजापतिरकामयत प्रजाः सृजेयेति

मूलम्

प्रजापतिरकामयत प्रजाः सृजेयेति

English

“Prajapati desired, ‘Let me procreate.’

विश्वास-प्रस्तुतिः

स तपोऽतप्यत

मूलम्

स तपोऽतप्यत

English

He practised penance;

विश्वास-प्रस्तुतिः

स सर्पानसृजत

मूलम्

स सर्पानसृजत

English

he created serpents.

विश्वास-प्रस्तुतिः

सोऽकामयत प्रजाः सृजेयेति

मूलम्

सोऽकामयत प्रजाः सृजेयेति

English

He desired, ‘Let me procreate.’

विश्वास-प्रस्तुतिः

स द्वितीयमतप्यत

मूलम्

स द्वितीयमतप्यत

English

He practised penance for a second time;

विश्वास-प्रस्तुतिः

स वयाँस्यसृजत

मूलम्

स वयाँस्यसृजत

English

he created birds.

विश्वास-प्रस्तुतिः

सोऽकामयत प्रजाः सृजेयेति

मूलम्

सोऽकामयत प्रजाः सृजेयेति

English

He desired, ‘Let me procreate.’

विश्वास-प्रस्तुतिः

स तृतीयमतप्यत

मूलम्

स तृतीयमतप्यत

English

He practised penance for a third time;

विश्वास-प्रस्तुतिः

स एतं दीक्षितवादमपश्यत्

मूलम्

स एतं दीक्षितवादमपश्यत्

English

he saw this utterance by the initiated.

विश्वास-प्रस्तुतिः

तमवदत्ततो वै स प्रजा असृजतेति

मूलम्

तमवदत्ततो वै स प्रजा असृजतेति

English

He uttered it; therefrom he created offspring."1

विश्वास-प्रस्तुतिः

तत्पृच्छन्ति कतमत्तत्तपस्यत्तपस्तप्त्वा दीक्षितवादं वदतीत्यथ वै भवत्यङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति

मूलम्

तत्पृच्छन्ति कतमत्तत्तपस्यत्तपस्तप्त्वा दीक्षितवादं वदतीत्यथ वै भवत्यङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति

English

They enquire: which is that penance by practis ing which he utters the speech of the initiated? It is indeed said, “The Aṅgirases, while proceeding to the heaven deposited the initiation and penance in the waters.

विश्वास-प्रस्तुतिः

साक्षादेव दीक्षातपसी अवरुन्द्ध इत्येतदिति ब्रूयादित्यथ वै भवति

मूलम्

साक्षादेव दीक्षातपसी अवरुन्द्ध इत्येतदिति ब्रूयादित्यथ वै भवति

English

(The sacrificer) bathed in water. He thereby directly obtains initiation and penance. So one should reply.” It is indeed said,

विश्वास-प्रस्तुतिः

यद्वै दीक्षितोऽमेध्यं पश्यत्यपास्माद्दीक्षा क्रामति

मूलम्

यद्वै दीक्षितोऽमेध्यं पश्यत्यपास्माद्दीक्षा क्रामति

English

“If the initiated happens to look at an impure thing, the initiation escapes him.

विश्वास-प्रस्तुतिः

नीलमस्य हरो व्येतीति

मूलम्

नीलमस्य हरो व्येतीति

English

He meets with evil, his lustre disappears.”

विश्वास-प्रस्तुतिः

सोऽमेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीरित्याह

मूलम्

सोऽमेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीरित्याह

English

After having looked at an impure thing he murmurs the formula, “My mind is wavering; the eye has become poor. The sun is the supreme among the luminaries, O initiation, do thou not leave me. So he says.

विश्वास-प्रस्तुतिः

नास्माद्दीक्षापक्रामति

मूलम्

नास्माद्दीक्षापक्रामति

English

The initiation does not escape him.

विश्वास-प्रस्तुतिः

नास्य नीलं न हरो व्येतीति ब्राह्मणम्

मूलम्

नास्य नीलं न हरो व्येतीति ब्राह्मणम्

English

He does not meet with evil; his lustre does not disappear.” So says the Brāhmaṇa.2

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यद्वै दीक्षितमभिवर्षति दिव्या आपोऽशान्ता ओजो बलं दीक्षां तपोऽस्य निर्घ्नन्तीति

मूलम्

यद्वै दीक्षितमभिवर्षति दिव्या आपोऽशान्ता ओजो बलं दीक्षां तपोऽस्य निर्घ्नन्तीति

English

“If it rains over the initiated, the divine waters which have become disturbed deprive him of vigour, strength, initiation and penance.”2

विश्वास-प्रस्तुतिः

सोऽभिवृष्यमाणो जपत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्याहैतदेव सर्वमात्मन्धत्ते

मूलम्

सोऽभिवृष्यमाणो जपत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्याहैतदेव सर्वमात्मन्धत्ते

English

He being rained over murmurs the formula, “O drenching waters, do you place in me strength, vigour and power; do not destroy my initiation and penance. So he says. He holds within him all this.

विश्वास-प्रस्तुतिः

नास्यौजो बलं न दीक्षां न तपो निर्घ्नन्तीति ब्राह्मणम्

मूलम्

नास्यौजो बलं न दीक्षां न तपो निर्घ्नन्तीति ब्राह्मणम्

English

The waters do not destroy his vigour, strength, initiation and penance.” So says the brāhmaṇa.3

विश्वास-प्रस्तुतिः

अथ वै भवत्यग्निर्वै दीक्षितस्य देवता

मूलम्

अथ वै भवत्यग्निर्वै दीक्षितस्य देवता

English

It is indeed said, “Agni indeed is the divinity of the initiated.

विश्वास-प्रस्तुतिः

सोऽस्मादेतर्हि तिर इव यर्हि यातीति

मूलम्

सोऽस्मादेतर्हि तिर इव यर्हि यातीति

English

He (Agni) goes away from him.”3

विश्वास-प्रस्तुतिः

सोऽस्मात्समारूढस्तिर इव भवति

मूलम्

सोऽस्मात्समारूढस्तिर इव भवति

English

He disappears from him.

विश्वास-प्रस्तुतिः

सोऽरण्योरग्नीन्त्समारोह्य बृहस्पतिवत्यर्चा प्रयाति

मूलम्

सोऽरण्योरग्नीन्त्समारोह्य बृहस्पतिवत्यर्चा प्रयाति

English

Having consigned the fires into the kindling woods, he goes away with the verse addressed to Br̥haspati,

विश्वास-प्रस्तुतिः

भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्याह

मूलम्

भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्याह

English

“Do thou reach the spiritual good from matreial good. May Br̥haspati be thy forerunner. So he says.

विश्वास-प्रस्तुतिः

ब्रह्म वै देवानां बृहस्पतिस्

मूलम्

ब्रह्म वै देवानां बृहस्पतिस्

English

Br̥haspati among the gods is indeed the Brahman.

विश्वास-प्रस्तुतिः

तमेवान्वारभते

मूलम्

तमेवान्वारभते

English

He indeed keeps his contact.

विश्वास-प्रस्तुतिः

स एनँसम्पारयतीति ब्राह्मणम्प्रजातमपाँसंयानस्योक्तमध्यवसानस्याथ वै भवति

मूलम्

स एनँसम्पारयतीति ब्राह्मणम्प्रजातमपाँसंयानस्योक्तमध्यवसानस्याथ वै भवति

English

He carries him through. “So says the brāhmaṇa.4 Crossing the waters is already known.5 The moving (towards the sacrificial place) is already spoken.5 It is indeed said.

विश्वास-प्रस्तुतिः

यो वै सोमँराजानँसाम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाँ साम्राज्यं

मूलम्

यो वै सोमँराजानँसाम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाँ साम्राज्यं

English

“ One who having led king Soma to overlordship purchases Soma, reaches overlordship among his kinsmen.

विश्वास-प्रस्तुतिः

छन्दाँसि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः

मूलम्

छन्दाँसि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः

English

Metres are indeed the region of overlordshipe for king Soma.

विश्वास-प्रस्तुतिः

पुरस्तात्सोमस्य क्रयादेवमभिमन्त्रयेतेति

मूलम्

पुरस्तात्सोमस्य क्रयादेवमभिमन्त्रयेतेति

English

Prior to the purchase of Soma he should recite over the Soma in this manner.”6

विश्वास-प्रस्तुतिः

स पुरस्तात्सोमस्य क्रयादेवमभिमन्त्रयते १

मूलम्

स पुरस्तात्सोमस्य क्रयादेवमभिमन्त्रयते १

English

Prior to the purchase of Soma he thus recites over:

०२

विश्वास-प्रस्तुतिः

एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाँसाम्राज्यं गच्छेति मे सोमाय ब्रूतादिति

मूलम्

एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाँसाम्राज्यं गच्छेति मे सोमाय ब्रूतादिति

English

“Let (the Gāyatrī metre) say to Soma that this is thy portion which belongs to the Gāyatrī metre. Let (the Triṣṭubh metre) say to Soma that this is thy portion which belongs to the Triṣṭubh metre. Let (thy Jagatī metre) say to Soma that this is thy portion which belonhe to the Jagatī metre. Let (the deity of each of) Chandomas7 say to Soma that “do thou (O sacrificer) attain the overlordship of the Chandomas.

विश्वास-प्रस्तुतिः

साम्राज्यमेवैनं लोकं गमयित्वा क्रीणाति

मूलम्

साम्राज्यमेवैनं लोकं गमयित्वा क्रीणाति

English

He purchases (Soma) after having led the sacrificer to overlordship.

विश्वास-प्रस्तुतिः

गच्छति स्वानाँसाम्राज्यमिति ब्राह्मणम्

मूलम्

गच्छति स्वानाँसाम्राज्यमिति ब्राह्मणम्

English

(The sacrificer thereby) attains overlordship over his kinsmen.” So the Brāhmaṇa8 says.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्येव तिष्ठति

मूलम्

यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्येव तिष्ठति

English

“One who knows the stability of the Tānūnaptra rite himself attains stability.

विश्वास-प्रस्तुतिः

ब्रह्मवादिनो वदन्ति न प्राश्नन्ति न जुह्वत्यथ क्व तानूनप्त्रं प्रतितिष्ठतीति

मूलम्

ब्रह्मवादिनो वदन्ति न प्राश्नन्ति न जुह्वत्यथ क्व तानूनप्त्रं प्रतितिष्ठतीति

English

The scriptural experts say, they do not consume anything, do not offer anything. Where then does the Tānūnaptra stand?

विश्वास-प्रस्तुतिः

प्रजापतौ मनसीति ब्रूयात्

मूलम्

प्रजापतौ मनसीति ब्रूयात्

English

One should say, ‘I (indulge) in mind that I offer unto Prajāpati.’

विश्वास-प्रस्तुतिः

त्रिरवजिघ्रेदिति

मूलम्

त्रिरवजिघ्रेदिति

English

He should smell three times.

विश्वास-प्रस्तुतिः

स त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमि इत्येषा वै तानूनप्त्रस्य प्रतिष्ठा

मूलम्

स त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमि इत्येषा वै तानूनप्त्रस्य प्रतिष्ठा

English

He smells three times with the formula, ‘I indulge in mind that I offer unto Prajāpati. This is the stability of Tanūnaptra.

विश्वास-प्रस्तुतिः

य एवं वेद प्रत्येव तिष्ठतीति ब्राह्मणम्

मूलम्

य एवं वेद प्रत्येव तिष्ठतीति ब्राह्मणम्

English

One who knows this, stands firm,” So says the Brāhmaṇa.8

English

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वा अध्वर्योः प्रतिष्ठां वेद प्रत्येव तिष्ठति

मूलम्

यो वा अध्वर्योः प्रतिष्ठां वेद प्रत्येव तिष्ठति

English

“One who knows the firmness of the Adhvaryu, stands firm.

विश्वास-प्रस्तुतिः

यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयेदिति

मूलम्

यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयेदिति

English

Standing at the spot where (the Adhvaryu) may think ‘I shall offer without stepping up any farther’, he should call out.”

विश्वास-प्रस्तुतिः

स यतो मन्यतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयत्येषा वा अध्वर्योः प्रतिष्ठा

मूलम्

स यतो मन्यतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयत्येषा वा अध्वर्योः प्रतिष्ठा

English

Standing there where he may think ‘I shall offer without stepping up farther’, he calls out. This is the firm place of the Adhvaryu.

विश्वास-प्रस्तुतिः

य एवं वेद प्रत्येव तिष्ठतीति ब्राह्मणम्

मूलम्

य एवं वेद प्रत्येव तिष्ठतीति ब्राह्मणम्

English

One who knows this stands firm.” So says the brāhmaṇa.9

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यदभिक्रम्य जुहुयात्प्रतिष्ठाया इयात्

मूलम्

यदभिक्रम्य जुहुयात्प्रतिष्ठाया इयात्

English

“If one makes the offering stepping still farther, he would be deprived of firmness.

विश्वास-प्रस्तुतिः

तस्मात्समानत्र तिष्ठता होतव्यं प्रतिष्ठित्या इति

मूलम्

तस्मात्समानत्र तिष्ठता होतव्यं प्रतिष्ठित्या इति

English

Therefore one should offer standing at one place for the sake of stability.

विश्वास-प्रस्तुतिः

तदेतदन्यत्र हविर्यज्ञेभ्योऽभिक्रामं जुहोतीति हविर्यज्ञेषु भवत्यथ वै भवति

मूलम्

तदेतदन्यत्र हविर्यज्ञेभ्योऽभिक्रामं जुहोतीति हविर्यज्ञेषु भवत्यथ वै भवति

English

“This holds good in cases except the Havis-sacrifices.” One offers stepping further (each time)-this applies to the Haviryajñas. It is indeed said,

विश्वास-प्रस्तुतिः

यो वा अध्वर्योः स्वं वेद स्ववानेव भवति

मूलम्

यो वा अध्वर्योः स्वं वेद स्ववानेव भवति

English

“One who knows the self of the Adhvaryu becomes equipped with self.

विश्वास-प्रस्तुतिः

स्रुग्वा अस्य स्वं वायव्यमस्य स्वं चमसोऽस्य स्वं

मूलम्

स्रुग्वा अस्य स्वं वायव्यमस्य स्वं चमसोऽस्य स्वं

English

Ladle is his self; Vāyavya cup is his self; goblet is his self.

विश्वास-प्रस्तुतिः

यद्वायव्यं वा चमसं वानन्वारभ्याश्रावयेत्स्वादियादिति

मूलम्

यद्वायव्यं वा चमसं वानन्वारभ्याश्रावयेत्स्वादियादिति

English

If one causes to announce without holding a Vāyavya cup or a goblet, he would be deprived of self.

विश्वास-प्रस्तुतिः

स वायव्यं चैव चमसं चान्वारभ्याश्रावयति

मूलम्

स वायव्यं चैव चमसं चान्वारभ्याश्रावयति

English

He causes to announce holding a Vāyavya cup or a goblet.

विश्वास-प्रस्तुतिः

स्वादेव नैतीति ब्राह्मणम्

मूलम्

स्वादेव नैतीति ब्राह्मणम्

English

Therby he is not deprived of self:” So says the brāhmaṇa.10

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वै सोममप्रतिष्ठाप्य स्तोत्रमुपाकरोत्यप्रतिष्ठितः सोमो भवत्यप्रतिष्ठित स्तोमोऽप्रतिष्ठितान्युक्थान्यप्रतिष्ठितो यजमानोऽप्रतिष्ठितोऽध्वर्युर्वायव्यं वै सोमस्य प्रतिष्ठा चमसोऽस्य प्रतिष्ठा सोम स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यादित्युन्नयनँह्येव चमसस्य ग्रहणं स ग्रहं वैव गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति

“One who introduces a Stotra without giving a seat to Soma, the Soma becomes seatless, the Stoma remains baseless, the Śastras become baseless, the sacrifice becomes unstable, the Adhyaryu becomes unstable, Vāyavya cup is the seat of Soma, goblet is its seat, Soma of Stoma, Stoma of Śastras. (The Adhvaryu) should introduce a Stotra after having taken a draught in a cup or after having filled up the goblet. Filling up of a goblet is its taking draught. He introduces a Stotra having taken up a draught or having filled a goblet.

विश्वास-प्रस्तुतिः

प्रत्येव सोमँस्थापयति प्रति स्तोमं प्रत्युक्थानि

मूलम्

प्रत्येव सोमँस्थापयति प्रति स्तोमं प्रत्युक्थानि

English

Thereby he makes the Soma, the Stoma and the Śastras stable;

विश्वास-प्रस्तुतिः

प्रति यजमानस्तिष्ठति प्रत्यध्वर्युरिति ब्राह्मणम् २

मूलम्

प्रति यजमानस्तिष्ठति प्रत्यध्वर्युरिति ब्राह्मणम् २

English

the sacrificer remains firm; the Adhvaryu remains firm.” So says the Brāhmaṇa.10

०३

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यज्ञं वा एतत्सम्भरन्ति यत्सोमक्रयण्यै पदं

मूलम्

यज्ञं वा एतत्सम्भरन्ति यत्सोमक्रयण्यै पदं

English

“In that the earth under the foot-print of the Soma-purchasing cow is collected, thereby the sacrifice is collected.

विश्वास-प्रस्तुतिः

यज्ञमुखँहविर्धाने

मूलम्

यज्ञमुखँहविर्धाने

English

The two Havirdhana carts are indeed the face of the sacrifice.

विश्वास-प्रस्तुतिः

यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यादिति

मूलम्

यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपाञ्ज्यादिति

English

When the Havirdhana carts are moved towards the east, one should besmear the axle (of each cart) with that (earth).”11

विश्वास-प्रस्तुतिः

स यर्हि हविर्धाने प्राची प्रवर्तयति तर्हि तेन पदतृतीयेन पत्न्यक्षधुरमुपानक्ति

मूलम्

स यर्हि हविर्धाने प्राची प्रवर्तयति तर्हि तेन पदतृतीयेन पत्न्यक्षधुरमुपानक्ति

English

When the Havirdhana-carts are moved towards the east, the sacrificer’s wife besmears the tip of the axle with the third part of the earth under the foot-print.

विश्वास-प्रस्तुतिः

यज्ञमुख एव यज्ञमनुसन्तनोतीति ब्राह्मणम्

मूलम्

यज्ञमुख एव यज्ञमनुसन्तनोतीति ब्राह्मणम्

English

“Thereby one joins the sacrifice to the face of the sacrifice.”11 So says the Brāhmaṇa.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said.

विश्वास-प्रस्तुतिः

प्राञ्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनाँसि प्रवर्तयन्त्यथ वा अस्यैष धिष्णियो हीयते सोऽनुध्यायति स ईश्वरो रुद्रो भूत्वा प्रजां पशून्यजमानस्य शमयितोर्यर्हि पशुमाप्रीतमुदञ्चं नयन्ति तर्हि तस्य पशुश्रपणँहरेदिति

“Fire is carried forward, the sacrificer’s wife is escorted (into the sacrificial hall), the carts are moved forward. The place of it (the old Gārhapatya) becomes void. It (the fire so carried) bears a grudge. Becoming Rudra, he becomes capable of killing the offspring and cattle of the sacrificer. When the animal over which the Apri-hymn is recited as Prayāja-yājyās, is led towards the north, one should carry that fire for cooking (the organs of) the animal.

विश्वास-प्रस्तुतिः

स यर्हि पशुमाप्रीतमुदञ्चं नयन्ति तर्हि तस्य पशुश्रपणँहरति

मूलम्

स यर्हि पशुमाप्रीतमुदञ्चं नयन्ति तर्हि तस्य पशुश्रपणँहरति

English

“When the animal over which the Apri-hymn has been recited is led towards the north, one should carry that fire for cooking (the organs of) the animal.

विश्वास-प्रस्तुतिः

तेनैवैनं भागिनं करोतीति ब्राह्मणम्

मूलम्

तेनैवैनं भागिनं करोतीति ब्राह्मणम्

English

Thereby one allots it (the fire) its share.”12 So says the Brāhmaṇa.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यजमानो वा आहवनीयो यजमानं वा एतद्विकर्षन्ते यदाहवनीयात्पशुश्रपणँहरन्ति

मूलम्

यजमानो वा आहवनीयो यजमानं वा एतद्विकर्षन्ते यदाहवनीयात्पशुश्रपणँहरन्ति

English

“The sacrificer is indeed the Āhavanīya. In that the animal-cooking fire is carried away out of the Āhavanīya, thereby the sacrificer becomes drawn asunder.

विश्वास-प्रस्तुतिः

स वैव स्यान्निर्मन्थ्यं वा कुर्यादिति

मूलम्

स वैव स्यान्निर्मन्थ्यं वा कुर्यादिति

English

The very same fire should be employed; or one should employ churned out fire.”12

विश्वास-प्रस्तुतिः

स यद्यहैनं करिष्यन्भवति नैनमन्वानयतेऽजस्र एवाप्येष दीप्यमानः शेते

मूलम्

स यद्यहैनं करिष्यन्भवति नैनमन्वानयतेऽजस्र एवाप्येष दीप्यमानः शेते

English

If he is going to employ that (old Gārhapatya), he does not take this (Āhavanīya). It lies undisturbed and glittering.

विश्वास-प्रस्तुतिः

यद्यु वा एनमन्वानयते तस्य पशुवेलायामुल्मुकमादायारणी उपसङ्गृह्य पूर्वः पशोः प्रतिपद्यते

मूलम्

यद्यु वा एनमन्वानयते तस्य पशुवेलायामुल्मुकमादायारणी उपसङ्गृह्य पूर्वः पशोः प्रतिपद्यते

English

If he means to take up this (Āhavanīya), having taken up its brand at the time of leading the animal and having taken hold of the kindling woods, one walks ahead of the animal.

विश्वास-प्रस्तुतिः

निर्मन्थ्येनात्र पशुँश्रपयन्ति

मूलम्

निर्मन्थ्येनात्र पशुँश्रपयन्ति

English

(The organs of) the animal are boiled by means of the churned out fire.

विश्वास-प्रस्तुतिः

वपया तत्सहोल्मुकमाहरन्ति यजमानस्य सात्मत्वायेति ब्राह्मणम्

मूलम्

वपया तत्सहोल्मुकमाहरन्ति यजमानस्य सात्मत्वायेति ब्राह्मणम्

English

That fire-brand is brought back along with the omentum “for the fullness of the sacrificer.” So the Brāhmaṇa12 says.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यदि पशोरवदानं नश्येदाज्यस्य प्रत्याख्यायमवद्येदिति

मूलम्

यदि पशोरवदानं नश्येदाज्यस्य प्रत्याख्यायमवद्येदिति

English

“If any of the portions of (the organs of) the animal is lost, one should take up as many portions of clarified butter as may have been lost.”12

विश्वास-प्रस्तुतिः

स यावन्ति पशोरवदानानि नश्यन्ति तावत्कृत्व आज्यस्य प्रत्याख्यायमवद्यति

मूलम्

स यावन्ति पशोरवदानानि नश्यन्ति तावत्कृत्व आज्यस्य प्रत्याख्यायमवद्यति

English

He tkaes up as many portions of clarified butter as the portions of organs which might have been lost.

विश्वास-प्रस्तुतिः

सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्

मूलम्

सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्

English

“That is the expiation therefor.” So says the Brāhmaṇa.12

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said.

विश्वास-प्रस्तुतिः

ये पशुं विमथ्नीरन्यस्तान्कामयेतार्तिमार्च्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे झुयादिति

मूलम्

ये पशुं विमथ्नीरन्यस्तान्कामयेतार्तिमार्च्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे झुयादिति

English

“If one desires that those who have snatched away the animal may meet with calamity, he should make an offering on the Āgnidhrīya fire with the verse kuvid aṅga…… containing the word namovṛkti.12

विश्वास-प्रस्तुतिः

स कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहोति

मूलम्

स कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहोति

English

He should make an offering on the Āgnīdhrīya fire with the verse, “Just as those possessing barley separate the barley- grain from the husk in an orderly manner, similarly do you cast away the enjoyable parts in each case for those who do not pay obeisance to deities through sacrifice.”13

विश्वास-प्रस्तुतिः

नमोवृक्तिमेवैषां वृङ्क्ते

मूलम्

नमोवृक्तिमेवैषां वृङ्क्ते

English

“Thereby he dispels their tendency for sacrifice;

विश्वास-प्रस्तुतिः

ताजगार्तिमार्च्छन्तीति ब्राह्मणं यद्यु वा एकचरं विमथ्नीते शामित्र एतां जुहोति

मूलम्

ताजगार्तिमार्च्छन्तीति ब्राह्मणं यद्यु वा एकचरं विमथ्नीते शामित्र एतां जुहोति

English

they immediately meet with calamity.” So says the Brāhmaṇa.12 If somebody snatches away the animal wandering solitarily, one should make the offering on the Śamitra fire.

विश्वास-प्रस्तुतिः

प्रज्ञातमुपाकरणस्योक्तमपाव्यानां चरणम्ब्राह्मणमुत्तरम् ३

मूलम्

प्रज्ञातमुपाकरणस्योक्तमपाव्यानां चरणम्ब्राह्मणमुत्तरम् ३

English

The rite of dedication (of the animal) is known.14 The offering of the Apāvya offerings is also already laid down.14 The subsquent brāhmaṇa-text (has laid down) the next procedure.15

०४

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वा अयथादेवतं यज्ञमुपचरत्या देवताभ्यो वृश्च्यते पापीयान्भवति

मूलम्

यो वा अयथादेवतं यज्ञमुपचरत्या देवताभ्यो वृश्च्यते पापीयान्भवति

English

“One who performs a sacrifice mistaking the divinities is cut off from the divinities, he meets with evil.

विश्वास-प्रस्तुतिः

यो यथादेवतं न देवताभ्य आवृश्च्यते वसीयान्भवत्याग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमाग्नेय्या स्रुचो वायव्यया वायव्यान्यैन्द्रि या सदसिति

मूलम्

यो यथादेवतं न देवताभ्य आवृश्च्यते वसीयान्भवत्याग्नेय्यर्चाग्नीध्रमभिमृशेद्वैष्णव्या हविर्धानमाग्नेय्या स्रुचो वायव्यया वायव्यान्यैन्द्रि या सदसिति

English

One who performs a sacrifice without mistakeing the divinities, is not cut off from the divinities; he becomes prosperous. The Adhvaryu should touch the Āgnīdhra chamber with the verse addressed to Agni, the Havirdhāna shed with the verse addressed to Viṣņu, the ladles with the verse addressed to Agni, the Vâyavya cups with the verse addressed to Vāyu and the Sadas with the verse addressed to Indra.”

विश्वास-प्रस्तुतिः

स आग्नेय्यर्चाग्नीध्रमभिमृशति वैष्णव्या हविर्धानमाग्नेय्या स्रुचो वायव्यया वायव्यान्यैन्द्रि या सदो यथादेवतमेव यज्ञमुपचरति

मूलम्

स आग्नेय्यर्चाग्नीध्रमभिमृशति वैष्णव्या हविर्धानमाग्नेय्या स्रुचो वायव्यया वायव्यान्यैन्द्रि या सदो यथादेवतमेव यज्ञमुपचरति

English

He touches the Āgnīdhra chamber with the verse addressed to Agni, the Havirdhāna shed with the verse addressed to Viṣṇu, the ladles with the verse addressed to Agni, the Vāyavya cups with the verse addressed to Vāyu and the Sadas with the varse addressed to Indra. “He performs the sacrifice in accordance with the divinities.

विश्वास-प्रस्तुतिः

न देवताभ्य आवृश्च्यते वसीयान्भवतीति ब्राह्मणम्

मूलम्

न देवताभ्य आवृश्च्यते वसीयान्भवतीति ब्राह्मणम्

English

He is not cut off from the divinities and becomes prosperous.” So says the brāhmaṇa.16

विश्वास-प्रस्तुतिः

उक्तमौदुम्बराणां महापरिधीनां परिधानम्

मूलम्

उक्तमौदुम्बराणां महापरिधीनां परिधानम्

English

The laying of big enclosing sticks of Ficus glomerata has been spoken of.17

विश्वास-प्रस्तुतिः

उक्तँस्रुचाँसादनम्

मूलम्

उक्तँस्रुचाँसादनम्

English

The placing of ladles is spoken of.17

विश्वास-प्रस्तुतिः

उक्तं पात्राणामभिमर्शनम्

मूलम्

उक्तं पात्राणामभिमर्शनम्

English

The touching of Soma-pots is spoken of.18

विश्वास-प्रस्तुतिः

अथ वै भवतीष्टर्गो वा अध्वर्युर्यजमानस्येष्टर्गः खलु वै पूर्वोऽर्ष्टुः क्षीयत आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयादिति

मूलम्

अथ वै भवतीष्टर्गो वा अध्वर्युर्यजमानस्येष्टर्गः खलु वै पूर्वोऽर्ष्टुः क्षीयत आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयादिति

English

It is indeed said, “The Adhvaryu becomes malevolent towards the sacrificer. The malevolent himself perishes prior to one falling into misery. Therefore one should make an offering with the formula, “Do thou guard me from the mantra uttered from the mouth (by the enemy) from every accusation, prior to the recitation of Prātaranuvāka.”19

विश्वास-प्रस्तुतिः

पुरा प्रातरनुवाकान्महारात्र उत्थायाग्नीध्र आसन्यां जुहोत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्याः स्वाहेत्यात्मन एव तदध्वर्युः पुरस्ताच्छर्म नह्यतेऽनार्त्या इति ब्राह्मणम्

मूलम्

पुरा प्रातरनुवाकान्महारात्र उत्थायाग्नीध्र आसन्यां जुहोत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्याः स्वाहेत्यात्मन एव तदध्वर्युः पुरस्ताच्छर्म नह्यतेऽनार्त्या इति ब्राह्मणम्

English

After having got up at early dawn, the Adhvaryu offers prior to the Prataranuvāka the Asanya formula, “Do thou guard me from the mantra uttered from the mouth (by the enemy) from every accusation, svāhā,” “Thereby the Adhvaryu first assures welfare for himself for the sake of non-injury.” So says the Brāhmaṇa.19

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वै छन्दोभिरभिभवति स सँसुन्वतोरभिभवतीति

मूलम्

यो वै छन्दोभिरभिभवति स सँसुन्वतोरभिभवतीति

English

“One of the two persons performing Soma-sacrifices simultaneously who resorts to the metres, supersedes the other one.”20

विश्वास-प्रस्तुतिः

स सँसुन्वतोर्महारात्र उत्थायाग्नीध्रे तिस्रोऽभिभूतीर्जुहोत्य्संवेशाय त्वोपवेशाय त्वा गायत्रिया अभिभूत्यै स्वाहा संवेशाय त्वोपवेशाय त्वा त्रिष्टुभोऽभिभूत्यै स्वाहा संवेशाय त्वोपवेशाय त्वा जगत्या अभिभूत्यै स्वाहेत्यथ द्वे प्राणाहुती जुहोति प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमित्यथ वै भवति

He, one of the two persons performing Soma-sacrifices simultaneously, having got up at early dawn makes three Abhibhuti offerings on the Āgnīdhrīya fire respectively with the formulas, “For lying down thee, for sitting down thee; svãhã to supersession through Gāyatrī. For lying down thee, for sitting down thee; svāhā to supersession through Triṣṭubh. For lying down thee, for sitting down thee; svāhā to supersession through Jagatī.”20 He then offers two Prāṇa-oblations with two formulas, “O Prāṇa and Apāna, do you guard me from death. O Prāṇa and Apāna, do you not leave me”20 It is indeed said,

विश्वास-प्रस्तुतिः

देवतासु वा एते प्राणापानयोर्व्यायच्छन्ते येषाँसोमः समृच्छते

मूलम्

देवतासु वा एते प्राणापानयोर्व्यायच्छन्ते येषाँसोमः समृच्छते

English

“Those who perform Soma-sacrifices simultaneously dispute in regard to the divinities and Prāṇāpāna.

विश्वास-प्रस्तुतिः

संवेशाय त्वोपवेशाय त्वेत्याह

मूलम्

संवेशाय त्वोपवेशाय त्वेत्याह

English

He therefore says, “for lying down thee, for sitting down thee.”

विश्वास-प्रस्तुतिः

छन्दाँसि वै संवेश उपवेशश्छन्दोभिरेवास्य छन्दाँसि वृङ्क्त इति ब्राह्मणम्

मूलम्

छन्दाँसि वै संवेश उपवेशश्छन्दोभिरेवास्य छन्दाँसि वृङ्क्त इति ब्राह्मणम्

English

The metres indeed are the lying down and sitting down. He distorts his metres by means of his own metres. So says the Brāhmaṇa.21

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्य भूयाँसो यज्ञक्रतव इत्याहुः स देवता वृङ्क्त इति

मूलम्

यस्य भूयाँसो यज्ञक्रतव इत्याहुः स देवता वृङ्क्त इति

English

“(out of the two rival sacrificers) one who offers more offerings and sacrifices, they say, distorts the deities of the other one.

विश्वास-प्रस्तुतिः

यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत इत्युक्थ्यं क्रतुमुपैति

मूलम्

यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत इत्युक्थ्यं क्रतुमुपैति

English

If the Agniṣṭoma Soma-sacrifice is being performed yonder, one should perform the Ukthya.” He performed the Ukthya.

विश्वास-प्रस्तुतिः

यद्युक्थ्यः स्यादतिरात्रं कुर्वीतेत्यतिरात्रं क्रतुमुपैति

मूलम्

यद्युक्थ्यः स्यादतिरात्रं कुर्वीतेत्यतिरात्रं क्रतुमुपैति

English

“If the Ukthya is being performed yonder, one should perform the Atirātrā” He perform the Atirātra.

विश्वास-प्रस्तुतिः

यज्ञक्रतुभिरेवास्य देवता वृङ्क्ते वसीयान्भवतीति ब्राह्मणम्

मूलम्

यज्ञक्रतुभिरेवास्य देवता वृङ्क्ते वसीयान्भवतीति ब्राह्मणम्

English

“By means of (larger number of offerings) he distorts his deities. He prospers.” So says the Brāhmaṇa.21

विश्वास-प्रस्तुतिः

इति न्वा अध्वर्युतोऽथ छन्दोगतः

मूलम्

इति न्वा अध्वर्युतोऽथ छन्दोगतः

English

This is on the side of the Adhvaryu. Now on the side of the Sāman-chanters.

विश्वास-प्रस्तुतिः

प्रेतिवन्ति चैतिवन्ति चाज्यानि भवन्त्यभिजित्यै

मूलम्

प्रेतिवन्ति चैतिवन्ति चाज्यानि भवन्त्यभिजित्यै

English

The Ājyastotras are characterised by the syllables preti and eti for the sake of conquest.21

विश्वास-प्रस्तुतिः

मरुत्वतीः प्रतिपदो विजित्ययुभे बृहद्र थन्तरे भवत इति न्वै छन्दोगतोऽथ होतृतः

मूलम्

मरुत्वतीः प्रतिपदो विजित्ययुभे बृहद्र थन्तरे भवत इति न्वै छन्दोगतोऽथ होतृतः

English

The Pratipad R̥ks are addressed to Maruts for conquest. Both the Rathantara and Br̥hat Sāmans are employed (as the Pṛṣṭhastotras). This is on the side of the Sāman-chanters. Now on the side of the Hotr̥.

विश्वास-प्रस्तुतिः

सजनीयँशस्यं विहव्यँशस्यमगस्त्यस्य कयाशुभीयँशस्यमिति न्वा एकाहयाजिनोऽथ सत्त्रिणां महारात्र उत्थानं चैव समानं पञ्चाभिभूतीर्द्वे प्राणाहुती

मूलम्

सजनीयँशस्यं विहव्यँशस्यमगस्त्यस्य कयाशुभीयँशस्यमिति न्वा एकाहयाजिनोऽथ सत्त्रिणां महारात्र उत्थानं चैव समानं पञ्चाभिभूतीर्द्वे प्राणाहुती

English

The Sajanīya Śastra should be recitede Vihavya hymn should be recited. Kayāśubhīya hymn should be recited. This is for a single sacrificer. Now for the Sattrins. They should get up at early dawn. Five Abhibhuti offerings and two Prāṇāhutis are common.

विश्वास-प्रस्तुतिः

ते यथाक्रत्वेव यन्त्यादिष्टान्येवाहान्युपयन्त्युक्तं निग्राभ्यासु वाचनम्

मूलम्

ते यथाक्रत्वेव यन्त्यादिष्टान्येवाहान्युपयन्त्युक्तं निग्राभ्यासु वाचनम्

English

They proceed as per the prescribed sacrifices. They proceed along the prescribed days. Making the sacrificer recite the releuant formula at the rendering waters nigrābhya is spoken of.”22

विश्वास-प्रस्तुतिः

अथ वै भवत्योषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोरीश्वरा ऐन्द्रःसोम इति

मूलम्

अथ वै भवत्योषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोरीश्वरा ऐन्द्रःसोम इति

English

It is indeed said, “Plants indeed are the subjects of Soma. Subjects are indeed capable of paying gifts to the king. Soma belongs to Indra.”

विश्वास-प्रस्तुतिः

सोऽभिषोष्यन्नोषधीभ्योऽधि राजानं निर्याचतेऽवीवृधं वो मनसा सुजाता ऋतप्रजाता भाग इद्वः स्याम । इन्द्रे ण देवीर्वीरुधः संविदाना अनुमन्यन्ताँसवनाय सोममित्याहौषधीभ्य एवैनँस्वायै विशः स्वायै देवतायै निर्याच्याभिषुणोतीति ब्राह्मणम्

When he is going to press Soma, he begs the plants of Soma. He says, “O well born (Soma-shoots), I have made you grow in my mind; O you born of order, may we enjoy your favour, may the divine plants in accord with Indra grant us the Soma for pressing. “Having begged from the plants-his subjects and from his deity (Indra) he presses him (Soma).” So says the Brāhmaṇa.23

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said.

विश्वास-प्रस्तुतिः

यो वै सोमस्याभिषूयमाणस्य प्रथमोऽँशु स्कन्दति स ईश्वर इन्द्रि यं वीर्यं प्रजां पशून्यजमानस्य निर्हन्तोस्तमभिमन्त्रयेतेति

मूलम्

यो वै सोमस्याभिषूयमाणस्य प्रथमोऽँशु स्कन्दति स ईश्वर इन्द्रि यं वीर्यं प्रजां पशून्यजमानस्य निर्हन्तोस्तमभिमन्त्रयेतेति

English

“The first shoot which falls out while the Soma is being pressed; is capable of depriving the sacrificer of his power, vital strength, offspring and cattle. He should recite over it a formula.”[^2-859]

विश्वास-प्रस्तुतिः

स यः सोमस्याभिषूयमाणस्य प्रथमोऽँशु स्कन्दति तमभिमन्त्रयेता मास्कान्त्सह प्रजया सह रायस्पोषेणेन्द्रि यं मे वीर्यं मा निर्वधीरित्याशिषमेवैतामाशास्त इन्द्रि यस्य वीर्यस्य प्रजायै पशूनामनिर्घातायेति ब्राह्मणम्

He should recite over the first shoot of Soma which falls down while being pressed the formula, “Thou hast fallen to me with offspring with abundance of wealth; do thou not destroy my power and strength.”24 He asks for this benediction for the non-injury of power, vital strength, offspring and cattle.” So says the Brāhmaṇa.[^2-859]

विश्वास-प्रस्तुतिः

अत्रैषा द्र प्सानुमन्त्रणीया

मूलम्

अत्रैषा द्र प्सानुमन्त्रणीया

English

Hereafter (is laid down) the verse with which the drop of Soma-juice is fallen out while pressing.

विश्वास-प्रस्तुतिः

तामितराभिः सह वक्ष्यामोऽथ वै भवति ४

मूलम्

तामितराभिः सह वक्ष्यामोऽथ वै भवति ४

English

We shall explain it together with other (verses).25 It is indeed said:

०५

विश्वास-प्रस्तुतिः

यो वै देवान्देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन देवयशस्येव देवेषु भवति मनुष्ययशसी मनुष्येषु

मूलम्

यो वै देवान्देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन देवयशस्येव देवेषु भवति मनुष्ययशसी मनुष्येषु

English

“One who furnishes the gods with the glory of gods, and men with the glory of men, attains the glory of gods among gods, and the glory of men among men.

विश्वास-प्रस्तुतिः

यान्प्राचीनमाग्रयणाद्ग्रहान्गृह्णीयात्तानुपाँशु गृह्णीयाद्यानूध्वाँ र्स्तानुपब्दिमत इति

मूलम्

यान्प्राचीनमाग्रयणाद्ग्रहान्गृह्णीयात्तानुपाँशु गृह्णीयाद्यानूध्वाँ र्स्तानुपब्दिमत इति

English

One should silently take up those draughts which are to be taken prior to the Āgrayaṇa vessel, and whisperingly take up those which are to be taken subsequent to that.”[^1-861]

विश्वास-प्रस्तुतिः

स यान्प्राचीनमाग्रयणाद्ग्रहान्ग्रह्णाति तानुपाँशु गृह्णाति

मूलम्

स यान्प्राचीनमाग्रयणाद्ग्रहान्ग्रह्णाति तानुपाँशु गृह्णाति

English

(The Adhvaryu) silently takes up those draughts which are to be taken prior to the Agrayaṇa vessel, and whisperlingly those which are to be taken susequently.

विश्वास-प्रस्तुतिः

यानूध्वाँर्स्तानुपब्दिमतो देवानेव तद्देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन

मूलम्

यानूध्वाँर्स्तानुपब्दिमतो देवानेव तद्देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन

English

“He furnishes the gods with the glory of gods and men with the glory of men.

विश्वास-प्रस्तुतिः

देवयशस्येव देवेषु भवति मनुष्ययशसी मनुष्येष्विति ब्राह्मणं ते यत्र बहिष्पवमानँस्रप्स्यन्तो भवन्ति तेषु समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोत्यग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्र विणं दधात्वायुष्मन्तः सहभक्षाः स्याम स्वाहेति

He attains the glory of gods among gods and the glory of men among men. So says the brāhmaṇa.[^1-861] When the priests moving out for the Bahispavamāna chant have maintained contact-the rear one with the next, the Adhvaryu offers a spoonful on the Āhavanīya with the verse, “May Vaiśvānara Agni, gracious to all, protect us at the morning pressing with his might. May he the purifies grant us wealth. May we that share the Soma-drink be long-lived, svāhā.”[^1-861]

[^1-861] TS III.1.9.1; BaudhŚS VII.8

विश्वास-प्रस्तुतिः

माध्यन्दिने पवमाने तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोति विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानाँसुमतौ स्याम स्वाहेत्यार्भवे पवमाने तथैव समन्वारब्धेष्वाहवनीये स्रुवाहुतिं जुहोतीदं तृतीयँसवनं कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभि वसीयो नयन्तु स्वाहेत्यथ वै भवत्यायतनवतीर्वा अन्या आहुतयो हूयन्तेऽनायतना अन्या या आघारवतीस्ता आयतनवतीर्याः सौम्यास्ता अनायतना ऐन्द्र वायवमादायाघारमाघारयेदिति

At the midday-pressing, when they have maintained contact similarly, he offers a spoonful on the Āhavanīya with the verse, “May Viśve Devas, Maruts and Indra not leave us at the midday pressing. Long-lived, speaking what is pleasing to them, may we enjoy the favour of the gods, svāhā.”26 At the Ārbhava Pavamāna while they have maintained contact similarly, he offers a spoonful on the Āhavanīya with the verse, “This third pressing belongs to the wise the sons of Sudhanvan who through holy order have set the goblets in motion. When they have attained heaven, let them bear our good offering to what is better, svāhā.”27
It is indeed said, “Certain offerings are made in a marked place, others in an unmarked place. Those which are marked by the Āghāra-libations are deemed as marked; those which pertain to Soma are unmarked. After having taken up the cup for Indra-Vāyu, the Adhvaryu should pour down the Āghāra libation.”28

विश्वास-प्रस्तुतिः

स ऐन्द्र वायवमादायाघारमाघारयत्यध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय । विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहेति

मूलम्

स ऐन्द्र वायवमादायाघारमाघारयत्यध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय । विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहेति

English

He offers the Āghāra-libation to Indra-Vāyu with the verse, “O gods, may this sacrifice be harmless for our plants, for our cattle, for our folk. Thou art harmless to all creatures, swell like ghee, svāhā.”29

विश्वास-प्रस्तुतिः

सौम्या एव तदाहुतीरायतनवतीः करोत्य्

मूलम्

सौम्या एव तदाहुतीरायतनवतीः करोत्य्

English

Thereby he deems the Soma-offerings to be offered in a marked place.

विश्वास-प्रस्तुतिः

आयतनवान्भवति य एवं वेदाथो द्यावापृथिवी एव घृतेन व्युनत्ति

मूलम्

आयतनवान्भवति य एवं वेदाथो द्यावापृथिवी एव घृतेन व्युनत्ति

English

One who knows this becomes furnished with a marked place. Moreover he drenches the heaven and earth with ghee.

विश्वास-प्रस्तुतिः

ते व्युत्ते उपजीवनीये भवत उपजीवनीयो भवति य एवं वेदेति ब्राह्मणम्

मूलम्

ते व्युत्ते उपजीवनीये भवत उपजीवनीयो भवति य एवं वेदेति ब्राह्मणम्

English

Drenched, they become capable of providing livelihood. One who knows this becomes capable of providing, livelihood." So says the Brāhmaṇa.30

विश्वास-प्रस्तुतिः

अथ प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सँस्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेर्गौपत्यँरायस्पोषँसुवीयँर्! संवत्सरीणाँस्वाहेत्यथ वै भवति

मूलम्

अथ प्रतिप्रस्थातोत्तरार्ध आहवनीयस्य मन्थिनः सँस्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेर्गौपत्यँरायस्पोषँसुवीयँर्! संवत्सरीणाँस्वाहेत्यथ वै भवति

English

The Pratiprasthātṛ offers the remnant of the Manthin cup on the northern half of the Āhavanīya with the formula, “O Rudra, this is thy share which thou hast demanded. Enjoy it. Thou knowest lordship of cattle, abundance of wealth, good valour and (the abundance of) perennial plants, svāhā.”31

विश्वास-प्रस्तुतिः

मनुः पुत्रेभ्यो दायं व्यभजत्

मूलम्

मनुः पुत्रेभ्यो दायं व्यभजत्

English

It is indeed said, “Manu divided his property among his sons.

विश्वास-प्रस्तुतिः

स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत्

मूलम्

स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत्

English

He discarded Nābhānediṣṭha who was studying.

विश्वास-प्रस्तुतिः

स आगच्छत्

मूलम्

स आगच्छत्

English

He came back

विश्वास-प्रस्तुतिः

सोऽब्रवीत्कथा मा निरभागिति

मूलम्

सोऽब्रवीत्कथा मा निरभागिति

English

and said, “Why did you deny me my share ?”

विश्वास-प्रस्तुतिः

न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्त्रमासते

मूलम्

न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्त्रमासते

English

I have not denied thy share" so he said. “These Angrirases are undergoing a sacrificial session.

विश्वास-प्रस्तुतिः

ते सुवर्गं लोकं न प्रजानन्ति

मूलम्

ते सुवर्गं लोकं न प्रजानन्ति

English

They do not know the heavenly world.

विश्वास-प्रस्तुतिः

तेभ्य इदं ब्राह्मणं ब्रूहि

मूलम्

तेभ्य इदं ब्राह्मणं ब्रूहि

English

Do thou explain this Brāhmaṇa (learnt b you) to them.

विश्वास-प्रस्तुतिः

ते सुवर्गं लोकं यन्तो य एषां पशवस्ताँस्ते दास्यन्तीति

मूलम्

ते सुवर्गं लोकं यन्तो य एषां पशवस्ताँस्ते दास्यन्तीति

English

They shall shile going to the heavenly world give over to thee cattle which they possess.”

विश्वास-प्रस्तुतिः

तदेभ्योऽब्रवीदिति

मूलम्

तदेभ्योऽब्रवीदिति

English

He explained to them this (Brāhmaṇa)."32

विश्वास-प्रस्तुतिः

तत्पृच्छन्ति किमेभ्यस्तदुवाचेत्यपाव्यानि सन्तनीर्द्र प्सानुमन्त्रणीया अच्छावाकीया स्तोत्रीयाः शस्त्रीयाः सत्यं वदत श्रद्धा वो मा विगादित्येतदेभ्यस्तदुवाचेति

मूलम्

तत्पृच्छन्ति किमेभ्यस्तदुवाचेत्यपाव्यानि सन्तनीर्द्र प्सानुमन्त्रणीया अच्छावाकीया स्तोत्रीयाः शस्त्रीयाः सत्यं वदत श्रद्धा वो मा विगादित्येतदेभ्यस्तदुवाचेति

English

They ask, what is that which he spoke to them? He spoke to them the Apāvya offerings, Saritanī offerings, the verses intended for following the drops (of Soma), the verses to be recited by the Acchāvāka, Stotrīya verses, verses belonging to the Śastras and the formula, “Do you speak the truth; let Śraddhā not depart from you.”

विश्वास-प्रस्तुतिः

तं पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आगच्छदित्युक्तस्यैष कर्मणोऽनुवादोऽथ द्वे प्रवृताहुती जुहोति

मूलम्

तं पशुभिश्चरन्तं यज्ञवास्तौ रुद्र आगच्छदित्युक्तस्यैष कर्मणोऽनुवादोऽथ द्वे प्रवृताहुती जुहोति

English

While he was passing the sacrificial place along with the cattle Rudra met him. This is the corollary of the related anecdote. He offers two oblations pertaining to the choosing: “May I be agreeable to speech, agreeable to the lord of speech. O divine speech, transfer me to what is sweet in speech, to Sarasvatī svāhā. —Provide the song with verse, the Rathantara with Gāyatrī, and the Br̥hat having the Gāyatrī for its path.”33

विश्वास-प्रस्तुतिः

जुष्टो वाचो भूयासमृचा स्तोमँसमर्धयेत्युपरिष्टात्तृतीया

मूलम्

जुष्टो वाचो भूयासमृचा स्तोमँसमर्धयेत्युपरिष्टात्तृतीया

English

There should also be a third offering.

विश्वास-प्रस्तुतिः

तामु तत्रैव वक्ष्यामोऽथ द्र प्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्र प्सो यो द्र प्सो यस्ते द्र प्स इत्यथ वै भवत्यध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्यसिति

मूलम्

तामु तत्रैव वक्ष्यामोऽथ द्र प्साननुमन्त्रयते द्र प्सश्चस्कन्द यस्ते द्र प्सो यो द्र प्सो यस्ते द्र प्स इत्यथ वै भवत्यध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्यसिति

English

The verse therefor we shall prescribe there only.34 He follows the drops of Soma with the verses, “The drop has fallen on the earth….. O Soma, that drop of thine….. The drop, the shoot.. That sweet and strong drop…”35 It is indeed said, “The Adhvaryu is engaged as the first among the priests; the chant (Bahiṣpavamāna) is to be introduced by him.”36

विश्वास-प्रस्तुतिः

ते यत्र बहिष्पवमानँसर्पन्ति तत्प्रह्व एवाध्वर्युः प्रथमो बर्हिषी धुवानः सर्पति

मूलम्

ते यत्र बहिष्पवमानँसर्पन्ति तत्प्रह्व एवाध्वर्युः प्रथमो बर्हिषी धुवानः सर्पति

English

When they proceed for the Bahiṣpavamāna, the Adhvaṛyu, ahead of all, stoops shaking two darbha-blades.

विश्वास-प्रस्तुतिः

वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्याह

मूलम्

वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि च यजमाने चेत्याह

English

He recites the formula, “May the first-going speech, go first. Going straight, may it go to gods, granting glory unto me, vital breath to the cattle, offspring unto me and the sacrificer.”

विश्वास-प्रस्तुतिः

वाचमेव तद्यज्ञमुखे युनक्तीति ब्राह्मणम्

मूलम्

वाचमेव तद्यज्ञमुखे युनक्तीति ब्राह्मणम्

English

“He puts the speech into the mouth of sacrifice.” So says the Brāhmaṇa.36

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

वास्तु वा एतद्यज्ञस्य क्रियते यद्ग्रहान्गृहीत्वा बहिष्पवमानँसर्पन्ति

मूलम्

वास्तु वा एतद्यज्ञस्य क्रियते यद्ग्रहान्गृहीत्वा बहिष्पवमानँसर्पन्ति

English

“The habitat for the sacrifice is indeed made in that they proceed to the chanting of the Bahiṣpavamāna stotra.

विश्वास-प्रस्तुतिः

पराञ्चो हि यन्ति

मूलम्

पराञ्चो हि यन्ति

English

“They proceed outwards.

विश्वास-प्रस्तुतिः

पराचीभि स्तुवते

मूलम्

पराचीभि स्तुवते

English

(The chanters) chant serially.

विश्वास-प्रस्तुतिः

वैष्णव्यर्चा पुनरेत्योपतिष्ठत इति

मूलम्

वैष्णव्यर्चा पुनरेत्योपतिष्ठत इति

English

He prays with the verse addressed to Viṣṇu after having returned.”[^13-861]

[^13-861] TS III.1.10.3

विश्वास-प्रस्तुतिः

स वैष्णव्यर्चा पुनरेत्योपतिष्ठते

मूलम्

स वैष्णव्यर्चा पुनरेत्योपतिष्ठते

English

Having returned he prays with the verse addressed to Viṣṇu.

विश्वास-प्रस्तुतिः

यज्ञो वै विष्णुर्यज्ञमेवाकर्विष्णो त्वं नो अन्तमः शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितमित्याह

मूलम्

यज्ञो वै विष्णुर्यज्ञमेवाकर्विष्णो त्वं नो अन्तमः शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रते अक्षितमित्याह

English

“Viṣṇu indeed is the sacrifice. He as if thereby performs a sacrifice. He recites the verse, O Viṣṇu, thou art the nearest to us. O conquering one, grant us welfare. Your honey-dropping streams issue out an everlasting spring.”

विश्वास-प्रस्तुतिः

यदेवास्य शयानस्योपशुष्यति तदेवास्यैतेनाप्याययतीति ब्राह्मणम् ५

मूलम्

यदेवास्य शयानस्योपशुष्यति तदेवास्यैतेनाप्याययतीति ब्राह्मणम् ५

English

“Whatever dries up while he is lying down, he swells it thereby.” So says the Brāhmaṇa.[^13-861]

[^13-861] TS III.1.10.3

०६

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वै पवमानानामन्वारोहान्विद्वान्यजतेऽनु पवमानानारोहति

मूलम्

यो वै पवमानानामन्वारोहान्विद्वान्यजतेऽनु पवमानानारोहति

English

“One who knowing ’the ascendances of the Pavamāna-stotras’, performs the sacrifice, serially ascends the Pavamānas.

विश्वास-प्रस्तुतिः

न पवमानेभ्योऽवच्छिद्यत इति

मूलम्

न पवमानेभ्योऽवच्छिद्यत इति

English

He is not deprived of the Pavamānastotras.”

विश्वास-प्रस्तुतिः

बहिष्पवमाने पञ्चम्यां प्रस्तुतायां वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा सम्पारयेति

मूलम्

बहिष्पवमाने पञ्चम्यां प्रस्तुतायां वाचयति श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा सम्पारयेति

English

At the Bahiṣpavamānastotra, when the Prastāva of the fifth verse is chanted, (the Adhvaryu) makes the sacrificer murmur the formula, “(O Bahiṣpavamana 1p61p6 Stotra), thou art (as swift as) the eagle with Gāyatrī as the metre; I contact thee; do thou lead me safely,”37

विश्वास-प्रस्तुतिः

माध्यन्दिने पवमानेऽष्टम्यां प्रस्तुतायां वाचयति सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा सम्पारयेत्यार्भवे पवमाने नवम्यां प्रस्तुतायां वाचयति सघासि जगतीच्छन्दा अनु त्वारभे स्वस्ति मा सम्पारयेत्याहैते वै पवमानानामन्वारोहास्

At the Mādhyaṁdinapavamāna Stotra, while the Prastava of the eighth verse is chanted, he makes (the sacrificer) murmur the formula, “O Mādhyaṁdinapavamāna Stotra), thou art strong-winged with Triṣṭubh as thy metre; I cantact thee; do thou lead me safely"37 At the Ārbhavapavamāna Stotra, when the Prastava of the ninth verse has been chanted, he causes (the sacrificer) to murmur the formula, “(O Ārbhavapavamāna Stotra) thou art a vulture with the Jagatī as thy metre; I contact thee; do thou lead me safely."37 So he says. “These are ’the ascendences of the Pavamāna Stotras.’

विश्वास-प्रस्तुतिः

तान्य एवं विद्वान्यजतेऽनु पवमानानारोहति

मूलम्

तान्य एवं विद्वान्यजतेऽनु पवमानानारोहति

English

One who knowing these, performs the sacrifice serially ascends the Pavamānas.

विश्वास-प्रस्तुतिः

न पवमानेभ्योऽवच्छिद्यत इति ब्राह्मणम्

मूलम्

न पवमानेभ्योऽवच्छिद्यत इति ब्राह्मणम्

English

He is not deprived of the Pavamānas.” So says the Brāhmaṇa.37

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वै पवमानस्य सन्ततिं वेद सर्वमायुरेति

मूलम्

यो वै पवमानस्य सन्ततिं वेद सर्वमायुरेति

English

“One who knows the continuity of the Pavamāna, reaches the full span of life.

विश्वास-प्रस्तुतिः

न पुरायुषः प्रमीयते

मूलम्

न पुरायुषः प्रमीयते

English

He does not die before the full span of life.

विश्वास-प्रस्तुतिः

पशुमान्भवति

मूलम्

पशुमान्भवति

English

He gains cattle;

विश्वास-प्रस्तुतिः

विन्दते प्रजां

मूलम्

विन्दते प्रजां

English

obtains offspring.”

विश्वास-प्रस्तुतिः

पवमानस्य ग्रहा गृह्यन्तेऽथ वा अस्यैतेऽगृहीता द्रोणकलश आधवनीयः पूतभृत्तान्यदगृहीत्वोपाकुर्यात्पवमानं विच्छिन्द्यात्

मूलम्

पवमानस्य ग्रहा गृह्यन्तेऽथ वा अस्यैतेऽगृहीता द्रोणकलश आधवनीयः पूतभृत्तान्यदगृहीत्वोपाकुर्यात्पवमानं विच्छिन्द्यात्

English

The draughts are taken up out of the filtered Soma-juice. These indeed are however not taken up: the wooden trough, the Ādhavanīya jar and the Pūtabhr̥tjar. If the Adhvaryu introduces (the Stotra) while these are not taken up, thereby he would break up the draughts of filtered juice.

विश्वास-प्रस्तुतिः

तं विच्छिद्यमानमध्वर्योः प्राणोऽनु विच्छिद्येतोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेदिति

मूलम्

तं विच्छिद्यमानमध्वर्योः प्राणोऽनु विच्छिद्येतोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेदिति

English

Following the break of the draughts, the Adhvaryu’s vital breath would break, (Therefore) the Adhvaryu should touch the wooden trough with the formula, “Thou art taken with a support, for Prajāpati thee.”38

विश्वास-प्रस्तुतिः

स प्रजापतये त्वेति द्रोणकलशमभिमृशतीन्द्रा य त्वेत्याधवनीयं

मूलम्

स प्रजापतये त्वेति द्रोणकलशमभिमृशतीन्द्रा य त्वेत्याधवनीयं

English

He touches the wooden trough with the formula, “For Prajāpati thee;” the Ādhvanīya jar with the formula, “For Indra thee,”

विश्वास-प्रस्तुतिः

विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतं

मूलम्

विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतं

English

the Pūtabhṛt jar with the formula, “For Viśve Devas thee.”

विश्वास-प्रस्तुतिः

पवमानमेव तत्सन्तनोति

मूलम्

पवमानमेव तत्सन्तनोति

English

“Thereby he links up the draughts of filtered juice.

विश्वास-प्रस्तुतिः

सर्वमायुरेति

मूलम्

सर्वमायुरेति

English

He gains full span of life.

विश्वास-प्रस्तुतिः

न पुरायुषः प्रमीयते

मूलम्

न पुरायुषः प्रमीयते

English

He does not die a premature death,

विश्वास-प्रस्तुतिः

पशुमान्भवति

मूलम्

पशुमान्भवति

English

he obtains cattle;

विश्वास-प्रस्तुतिः

विन्दते प्रजामिति ब्राह्मणम्

मूलम्

विन्दते प्रजामिति ब्राह्मणम्

English

obtains offspring.” So says the brāhmaṇa.38

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

त्रीणि वाव सवनान्यथ तृतीयँसवनमवलुम्पन्त्यनँशु कुर्वन्त उपाँशुँ हुत्वोपाँशुपात्रेऽँशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयादिति

मूलम्

त्रीणि वाव सवनान्यथ तृतीयँसवनमवलुम्पन्त्यनँशु कुर्वन्त उपाँशुँ हुत्वोपाँशुपात्रेऽँशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयादिति

English

“There are three pressings. They are deprived of the third pressing in that they do it without a shoot. Having offered the Upaṁśu cup, and having placed a shoot in the Upaṁsu cup, one should mix it (with the residue of Soma) at the third pressing and then press.39

विश्वास-प्रस्तुतिः

स य एवैष उपाँशुपात्रेऽँशुः प्रास्तो भवति तं माध्यन्दिनीय ऋजीषेऽपिसृज्याभिषुणोति

मूलम्

स य एवैष उपाँशुपात्रेऽँशुः प्रास्तो भवति तं माध्यन्दिनीय ऋजीषेऽपिसृज्याभिषुणोति

English

“He inserts into the residue of Soma left at the Midday pressing the shoot which is put into the Upāṁśu-cup and then presses. In that he swells it (with Vasatīvari waters), thereby the pressing becomes equipped with shoots;

विश्वास-प्रस्तुतिः

यदाप्याययति तेनाँशुमद्यदभिषुणोति तेनर्जीषि

मूलम्

यदाप्याययति तेनाँशुमद्यदभिषुणोति तेनर्जीषि

English

in that he presses it, thereby it becomes characterised with the residue.

विश्वास-प्रस्तुतिः

सर्वाण्येव तत्सवनान्यँशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोतीति ब्राह्मणम् ६

मूलम्

सर्वाण्येव तत्सवनान्यँशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोतीति ब्राह्मणम् ६

English

Thereby he renders all pressings characterised with shoots, with bright juice and with equal strength.” So says the brāhmaṇa.39

०७

विश्वास-प्रस्तुतिः

अथातो दीर्णप्रवृत्तानामेव मीमाँसा

मूलम्

अथातो दीर्णप्रवृत्तानामेव मीमाँसा

English

Now the discussion (about the implements) which have a crack or a hole.

विश्वास-प्रस्तुतिः

द्रो णकलशे दीर्णे वा प्रवृत्ते वा पात्र्यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने विधुं दद्रा णँसमने बहूनां युवानँसन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान स्वाहेत्य्

If the wooden trough has a crack or a hole, one takes four spoonfuls in a pot and makes an offering on the Āhavanīya while the sacrificer has maintained contact, with the verse, “The gray one has praised in the assembly of many (the wooden trough) which has a hole or a crack and is young. See the miracle of the god by whose greatness (the wooden trough) has today fallen to pleces, it breathed yesterday, svāhā.”40

विश्वास-प्रस्तुतिः

अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य स्वधाँसम्भरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

मूलम्

अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य स्वधाँसम्भरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

English

Then having dropped a part of Vasatīvarī waters into the Hotr̥’s goblet, he pours it (into the wooden trough) with the formula, “May prosperity grow through the Soma, may the fruit of that which is offered and which is enjoyed by gods come to me.”41

विश्वास-प्रस्तुतिः

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति

मूलम्

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति

English

He follows that which is spilt out with the formula. “To Bhūpati svāhā, to Bhuvanapati svāhā, to the lord of beings svāhā.”

विश्वास-प्रस्तुतिः

स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयत्याधवनीये दीर्णे वा प्रवृत्ते वा तथैव पात्र्यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वौ समुद्रौ विततावजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यँ स्वाहेत्यथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य तथैव स्वदाँसम्भरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

If it has a crack, he fills it. If it has hole, he lifts it up and having held two darbha-blades inbetween, he pours (clarified butter). Having taken away the darbha-blades, he drops a drop of Soma from the Āgrayaṇa vessel. If the Ādhavanīya jar has a crack or a hole, he similarly takes up four spoonfuls in a pot and offers on the Āhavanīya, while the sacrificer has maintained contact, with the verse, “The two oceans, expansive and non-drying recur one by one like the waves in the interior (of the ocean). People perceiving, pass over one of them (=day time) and, not perceiving, pass over another (= night) by means of bridge, svāhā.”39 Having dropped a part of Vasatīvarī waters into the Hotr̥’s goblet, he pours it (into the Ādhavanīya) similarly with the formula, “May prosperity grow through Soma; may the fruit of that which is offered and which is enjoyed by gods come to me.”41

विश्वास-प्रस्तुतिः

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति

मूलम्

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति

English

He follows that which is spilt outwith the formula, “To Bhūpati svāhā, to Bhuvanapati svāhā, to the lord of beings svāhā.”

विश्वास-प्रस्तुतिः

स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयति

मूलम्

स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयति

English

If it has a crack, he fills it. If it has hole, he lifts it up and having hold two darbha-blades inbetween, he pours (clarified butter). Having taken away darbha-blades, he drops a drop of Soma from the Āgrayaṇa vessel.

विश्वास-प्रस्तुतिः

पूतभृति दीर्णे वा प्रवृत्ते वा तथैव पात्र्यां चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वे द्र धसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान्। तिरोधायैत्यसितं वसानः शुक्रमादत्ते अनुहाय जार्यै स्वाहेत्य्

If the Pūtabhṛt jar has a crack or a hole, he similarly takes up four spoonfuls in a pot and offers on the Āhavanīya, while the sacrificer has maintained contact, with the verse, “One, having hair (= rays) and knowing all creatures continuously wears two garments (= day and night). Wearing a black garment, he moves under cover. The other, following the passing one (=night), wears a bright garment svāhā.”42

विश्वास-प्रस्तुतिः

अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य तथैव स्वधाँसम्भरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

मूलम्

अथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य तस्य तथैव स्वधाँसम्भरति भूतिः सोमेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

English

Having dropped a part of Vasatīvarī waters into the Hotr̥’s goblet, he pours it (into the Pūtabhṛtjar) similarly with the formula, “May prosperity grow through Soma; may the fruit of that which is offered and which is enjoyed by gods come to me.”41

विश्वास-प्रस्तुतिः

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति

मूलम्

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति

English

He follows that which is spilt out with the formula, “To Bhupati svāhā, to Bhuvanapati svāhā, to the lord of beings svāhā.”

विश्वास-प्रस्तुतिः

स यद्यु ह दीर्णो भवति प्रतिलिम्पत्येनं यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयत्याग्रयणे दीर्णे वा प्रवृत्ते वा तस्य पुरोरुचा हुत्वोच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी द्रो णकलशादेवाप्तुं प्रस्कन्दयत्य्

If it has a crack, he fills it; if it has a hole, he lifts it up and having held two darbha-blades inbetween, he pours (clarified butter). Having taken away darbha-blades, he drops a drop of Soma from the Āgrayaṇa vessel. If the Āgrayaṇa vessel has a crack or a hole, having made an offering with the Puroruc verse (pertaining to the taking up of the Āgrayaṇa draught), having lifted it up and having held two darbha-blades inbetween makes an offering. Having taken away the blades, he drops a drop of Soma from the wooden trough.

विश्वास-प्रस्तुतिः

अथान्यस्मिन्ग्रहे दीर्णे वा प्रवृत्ते वा तस्यैव पुरोरुचा हुत्वोच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयति ७

मूलम्

अथान्यस्मिन्ग्रहे दीर्णे वा प्रवृत्ते वा तस्यैव पुरोरुचा हुत्वोच्छ्रित्यैनं बर्हिषी अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाप्तुं प्रस्कन्दयति ७

English

If any other Soma-container has a crack or a hole, having made an offering with the Puroruc verse43 pertaining to that very draught, he lifts it up, holds two darbha-blades inbetween and makes an offering. Having taken away the blades, he drops a drop of Soma from the Āgrayaṇa vessel itself.

०८

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत

मूलम्

देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत

English

“Whatever the gods did in a sacrifice, the Asuras also did.

विश्वास-प्रस्तुतिः

ते देवा एतं महायज्ञमपश्यन्

मूलम्

ते देवा एतं महायज्ञमपश्यन्

English

The gods perceived this great sacrifice.

विश्वास-प्रस्तुतिः

तमतन्वताग्निहोत्रं व्रतमकुर्वत

मूलम्

तमतन्वताग्निहोत्रं व्रतमकुर्वत

English

They performed it (in disguise). They (out-wardly) performed the Agnihotra and (in reality observed) the vow.

विश्वास-प्रस्तुतिः

तस्माद्द्विव्रतः स्याद्द्विर्ह्यग्निहोत्रं जुह्वति

मूलम्

तस्माद्द्विव्रतः स्याद्द्विर्ह्यग्निहोत्रं जुह्वति

English

Therefore the sacrificer, should take Vrata-milk twice. The Agnihotra is offered twice.

विश्वास-प्रस्तुतिः

पौर्णमासं यज्ञमग्नीषोमीयं पशुमकुर्वत

मूलम्

पौर्णमासं यज्ञमग्नीषोमीयं पशुमकुर्वत

English

They (outwardly) performed the Full-moon sacrifice and (in concealment) offered an animal to Agni-Soma.

विश्वास-प्रस्तुतिः

दार्श्यं यज्ञमाग्नेयं पशुमकुर्वत

मूलम्

दार्श्यं यज्ञमाग्नेयं पशुमकुर्वत

English

They (outwardly) performed the New-moon sacrifice and (in concealment) offered an animal to Agni.

विश्वास-प्रस्तुतिः

वैश्वदेवं प्रातःसवनमकुर्वत

मूलम्

वैश्वदेवं प्रातःसवनमकुर्वत

English

They (outwardly) performed the Vaiśvadevaparvan and (in concealment) performed the morning pressing;

विश्वास-प्रस्तुतिः

वरुणप्रघासान्माध्यन्दिनँसवनँसाकमेधान्पितृयज्ञं त्र्यम्बकाँ स्तृतीयसवनमकुर्वतेति

मूलम्

वरुणप्रघासान्माध्यन्दिनँसवनँसाकमेधान्पितृयज्ञं त्र्यम्बकाँ स्तृतीयसवनमकुर्वतेति

English

(out-wardly) the Varuṇapraghāsaparvan and (in concealament) the Middy presing; (outwardly), the Sākamedhaparvan the Pitryajña and the Tryambaka rite and (in concealment) the third pressing.”44

विश्वास-प्रस्तुतिः

तत्पृच्छन्ति कतमः स महायज्ञ इत्ययमेव चातुर्मास्यः सोम उक्तो भवत्यथो खलु य एव कश्च सौम्योऽध्वरः स महायज्ञस्

मूलम्

तत्पृच्छन्ति कतमः स महायज्ञ इत्ययमेव चातुर्मास्यः सोम उक्तो भवत्यथो खलु य एव कश्च सौम्योऽध्वरः स महायज्ञस्

English

They ask: which is that great sacrifice? It is said to be the Cāturmāsya Soma. As a matter of fact whichever is a Soma sacrifice, it is a great sacrifice.

विश्वास-प्रस्तुतिः

तमेषामसुरा यज्ञमन्ववाजिगाँसन्

मूलम्

तमेषामसुरा यज्ञमन्ववाजिगाँसन्

English

“The Asuras desired to follow this sacrifice.

विश्वास-प्रस्तुतिः

तं नान्ववायन्

मूलम्

तं नान्ववायन्

English

They did not reach it.

विश्वास-प्रस्तुतिः

तेऽब्रुवन्नध्वर्तव्या वा इमे देवा अभूवन्निति

मूलम्

तेऽब्रुवन्नध्वर्तव्या वा इमे देवा अभूवन्निति

English

They said these gods have become invulnerable.

विश्वास-प्रस्तुतिः

तदध्वरस्याध्वरत्वं

मूलम्

तदध्वरस्याध्वरत्वं

English

This is why the Adhvara is so called.

विश्वास-प्रस्तुतिः

ततो देवा अभवन्परासुरा य एवं विद्वान्त्सोमेन यजते भवत्यात्मना परास्य भ्रातृव्यो भवतीति ब्राह्मणम्

मूलम्

ततो देवा अभवन्परासुरा य एवं विद्वान्त्सोमेन यजते भवत्यात्मना परास्य भ्रातृव्यो भवतीति ब्राह्मणम्

English

Therefore the gods prospered. The Asuras were defeated. One who knowing this performs a Soma-sacrifice prospers; his enemy is defeated.” So says the Brāhmaṇa.44

विश्वास-प्रस्तुतिः

अथ समस्तँराजानमुपतिष्ठते परिभूरग्निं परिभूरिन्द्रं परिभूर्विश्वान्देवान्परिभूमाँ र्सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शमर्वते शँ राजन्नोषधीभ्योऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदमुन्मृज इति

He prays to the entire Soma with the formula, “Thou pervadest Agni, thou pervadest Indra, thou pervadest Viśve Davas; dò thou together with Brahaman- plendour pervade me. Do thou be purified for the welfare of cattle, kinsmen, horse, O king of plants. O lord of wealth, may we be givers of unbroken valour and abundance of wealth. Grant it to me; let me consume thee, let me cleanse thee.”45

विश्वास-प्रस्तुतिः

चत्वारो ब्राह्मणसम्पन्नाः कामास्तेषां यं कामं कामयते तमादिश्योन्मृष्टेऽथावकाशैश्चरति

मूलम्

चत्वारो ब्राह्मणसम्पन्नाः कामास्तेषां यं कामं कामयते तमादिश्योन्मृष्टेऽथावकाशैश्चरति

English

There are four desires expressed in the Brāhmaṇa.45 He cleanses with reference to that one which of the four he entertains. Then he goes through the formal gazing.

विश्वास-प्रस्तुतिः

प्राणाय मे वर्चोदा वर्चसे पवस्वेत्युपाँ शुपात्रमवेक्षतेऽपानायेत्यन्तर्यामपात्रम्व्यानायेत्युपाँ शुसवनम्वाच इत्यैन्द्र वायवं दक्षक्रतुभ्यामिति मैत्रावरुणं श्रोत्रायेत्याश्विनं चक्षुर्भ्यामिति शुक्रामन्थिनवात्मन इत्याग्रयणम्

He gazes at the Upāṁśu cup with the formula, “Do thou, giving strength be purified for my vital breath and strength.”46 At the Antaryāma-cup with the formula, “For Apāna……..”46 At the Upaṁśusavana stone with the formula, “For Vyāna …..”46 At the cup for Indra-Vāyu with the formula; “For speach……”46 At the cup for Mitra-Varuṇa with the formula, “For Dakṣa and Kratu (= Prāņa and Apāna)…..47 At the for the Aśvins with the formula, “For the ear ….47 At the Śukra and Manthin cup cups with the formula, “With the eyes……”47. At the Āgrayaṇa vessel with the formula, “For self …..”47

विश्वास-प्रस्तुतिः

अङ्गेभ्य इत्युक्थ्यम्

मूलम्

अङ्गेभ्य इत्युक्थ्यम्

English

At the Ukthya vessel with the formula, “For the limbs…..”47

विश्वास-प्रस्तुतिः

आयुष इति ध्रुवम्प्रतिष्ठाया इत्यृतुपात्रे माध्यन्दिने सवने

मूलम्

आयुष इति ध्रुवम्प्रतिष्ठाया इत्यृतुपात्रे माध्यन्दिने सवने

English

At the Dhruva vessel with the formula, “For life…… .”47 At the two Ṛtu-cups with the formula, “For stability….”47 in the Midday pressing,

विश्वास-प्रस्तुतिः

न प्रातःसवने

मूलम्

न प्रातःसवने

English

not in the morning pressing,

विश्वास-प्रस्तुतिः

वीर्यायेत्यतिग्राह्यं वा षोडशिनं वावेक्षते

मूलम्

वीर्यायेत्यतिग्राह्यं वा षोडशिनं वावेक्षते

English

He gazes at the Atigrāhya cup or the Śoḍaśī cup with the formula, “For valour…..47

विश्वास-प्रस्तुतिः

विष्णोर्जठरमसीति द्रो णकलशमवेक्षत इन्द्र स्य जठरमसीत्याधवनीयं विश्वेषां देवानां जठरमसीति पूतभृतम्

मूलम्

विष्णोर्जठरमसीति द्रो णकलशमवेक्षत इन्द्र स्य जठरमसीत्याधवनीयं विश्वेषां देवानां जठरमसीति पूतभृतम्

English

He gazes at the wooden trough with the formula, “Thou art the belly of Viṣṇu.” At the Ādhavanīya jar with the formula, “Thou art the belly of Indra.”47 At the Pūtabhṛt jar with the formula, “Thou art the bellly of the Viśve Devas.”47

विश्वास-प्रस्तुतिः

अथ समस्तमेव राजानमुपतिष्ठते कोऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदँसुप्रजाः प्रजया भूयासँसुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्विश्वेभ्यो मे रूपेभ्यो वर्चोदा वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदमुन्मृज इति

He prays to the entire Soma with the formula, “Thou art Ka, Ka by name; for whom thee, for Prajāpati thee; whom I have gratified through Soman whom I have gladdened through Soma; may I be possessor of good offspring, of good heroes, of good strength, of good nourishment do thou be purified, giver of strength for all my forms; grant it to me, may I partake of it I cleanse what is thine.”47

विश्वास-प्रस्तुतिः

चत्वारो ब्राह्मणसम्पन्नाः कामास्तेषां यं कामं कामयते तमादिश्योन्मृष्ट आयुरुन्मृजे भूतिमुन्मृजे ब्रह्मवर्चसमुन्मृजेऽमुष्य प्राणमुन्मृज इदमुन्मृज इति

मूलम्

चत्वारो ब्राह्मणसम्पन्नाः कामास्तेषां यं कामं कामयते तमादिश्योन्मृष्ट आयुरुन्मृजे भूतिमुन्मृजे ब्रह्मवर्चसमुन्मृजेऽमुष्य प्राणमुन्मृज इदमुन्मृज इति

English

There are four desires mentioned in the brāhmaṇa.48 He cleanses with reference to that one which of these he entertains: I cleanse life; I cleanse prosperity; I cleanse brāhmaṇa-splendour; I cleanse the vital breath of N.N.; I cleanse this,”

विश्वास-प्रस्तुतिः

यमेव तर्पयति

मूलम्

यमेव तर्पयति

English

Whomsoever he gratifies, he, gratified, furnishes him (with the relevant object).

विश्वास-प्रस्तुतिः

स एनं तृप्तः प्राणापाआभ्यां वाचो दक्षक्रतुभ्यां चक्षुभ्याँर्! श्रोत्राभ्यामात्मनोऽङ्गेभ्य आयुषोऽन्तरेति

मूलम्

स एनं तृप्तः प्राणापाआभ्यां वाचो दक्षक्रतुभ्यां चक्षुभ्याँर्! श्रोत्राभ्यामात्मनोऽङ्गेभ्य आयुषोऽन्तरेति

English

(In the case of last desire reflecting exorcism, the person concrned) is deprived of Prāṇa and Apāna, speech, strength and power, eyes, ears, self and limbs.

विश्वास-प्रस्तुतिः

ताजक्प्रधन्वतीति ब्राह्मणम्

मूलम्

ताजक्प्रधन्वतीति ब्राह्मणम्

English

He dies immediately.” So says the Brāhmaṇa.48

विश्वास-प्रस्तुतिः

उक्तँस्फ्यविघनानामुपस्थानम्

मूलम्

उक्तँस्फ्यविघनानामुपस्थानम्

English

The prayer of the wooden sword, the pressing log etc. and the prayer of the other objects and divinities are recorded (in the next Anuvāka).49

विश्वास-प्रस्तुतिः

उक्तँसम्प्रसर्पणस्योक्तो भक्षानुवाकः ८

मूलम्

उक्तँसम्प्रसर्पणस्योक्तो भक्षानुवाकः ८

English

The Anuvāka (recording the formula pertaining) to the consumption of Soma is given (in the sequel).50

०९

विश्वास-प्रस्तुतिः

उक्तं पृषदाज्यस्याविकृतस्य ग्रहणम्

मूलम्

उक्तं पृषदाज्यस्याविकृतस्य ग्रहणम्

English

(The formula pertaining to) the normal taking up of Pṛṣadajya is spoken of (in the next Anuvāka).51

विश्वास-प्रस्तुतिः

उक्तो दधिघर्मोऽथ वै भवति

मूलम्

उक्तो दधिघर्मोऽथ वै भवति

English

(The formula pertaining to) the Dadhigharma is spoken of.51 It is indeed said,

विश्वास-प्रस्तुतिः

यत्कृष्णशकुनः पृषदाज्यमवमृशेच्छूद्रा अस्य प्रमायुकाः स्युर्यच्छ्वावमृशेच्चतुष्पादोऽस्य पशवः प्रमायुकाः स्युर्यत्स्कन्देद्यजमानः प्रमायुकः स्यादित्यथ वै भवति

मूलम्

यत्कृष्णशकुनः पृषदाज्यमवमृशेच्छूद्रा अस्य प्रमायुकाः स्युर्यच्छ्वावमृशेच्चतुष्पादोऽस्य पशवः प्रमायुकाः स्युर्यत्स्कन्देद्यजमानः प्रमायुकः स्यादित्यथ वै भवति

English

“If a black bird touches the Pr̥ṣadājya, his servants would die; if a dog touches, his quadrupeds would die; if it spills out, the sacrificer would die.”52 It is indeed said,

विश्वास-प्रस्तुतिः

पशवो वै पृषदाज्यं

मूलम्

पशवो वै पृषदाज्यं

English

“The cattle indeed are the Pṛṣadājya.

विश्वास-प्रस्तुतिः

पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यँस्कन्दति

मूलम्

पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यँस्कन्दति

English

One whose Pṛṣadājya spills out, his cattle die.

विश्वास-प्रस्तुतिः

यत्पृषदाज्यं पुनर्गृह्णाति पशूनेवास्मै पुनर्गृह्णादिति ब्राह्मणम्

मूलम्

यत्पृषदाज्यं पुनर्गृह्णाति पशूनेवास्मै पुनर्गृह्णादिति ब्राह्मणम्

English

In that he retakes the Pr̥ṣadājya, he regains the cattle.” So says the Brāhmaṇa.52

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

प्राणो वै पृषदाज्यं

मूलम्

प्राणो वै पृषदाज्यं

English

“Vital breath indeed is Pr̥ṣadājya.

विश्वास-प्रस्तुतिः

प्राणो वा एतस्य स्कन्दति यस्य पृषदाज्यँस्कन्दति

मूलम्

प्राणो वा एतस्य स्कन्दति यस्य पृषदाज्यँस्कन्दति

English

One whose Pr̥ṣadājya spills out, his vital breath spill out.

विश्वास-प्रस्तुतिः

यत्पृषदाज्यं पुनर्गृह्णाति प्राणमेवास्मै पुनर्गृह्णाति

मूलम्

यत्पृषदाज्यं पुनर्गृह्णाति प्राणमेवास्मै पुनर्गृह्णाति

English

In that he retakes the Pṛṣadajya, he regains his vital breath.

विश्वास-प्रस्तुतिः

हिरण्यमवधाय गृह्णातीति

मूलम्

हिरण्यमवधाय गृह्णातीति

English

He retakes it having put a piece of gold in it.”53

विश्वास-प्रस्तुतिः

स्कन्ने पृषदाज्ये कँसं वा चमसं वा याचति

मूलम्

स्कन्ने पृषदाज्ये कँसं वा चमसं वा याचति

English

If the Pr̥ṣadājya spills out, one asks for a bronze vessel or a goblet.

विश्वास-प्रस्तुतिः

तमन्तर्वेदि निधाय तस्य स्वधाँसम्भरति भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

मूलम्

तमन्तर्वेदि निधाय तस्य स्वधाँसम्भरति भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्र विणमागम्यादिति

English

Having placed it within the altar, he puts clarified butter into it with the formula, “May prosperity grow through curds and ghee. May riches come to me for whom offering has been made and whose offering has been enjoyed by gods.”

विश्वास-प्रस्तुतिः

स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेत्यथैतस्याँस्रुच्यवदधाति शतमानँहिरण्यं नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयति विष्णो त्वं नो अन्तम इत्यपोद्धृत्य हिरण्यमश्वमवघ्राप्य सादयत्यथातोऽमेध्यभूतस्यैव श्वावघ्रातस्य ध्वाङ्क्षावमृष्टस्य कीटावपन्नस्येति यदु चान्यदमेध्यं मन्यते

He recites over the spilt out Pr̥ṣadajya the formula, “To Bhūpati svāhā, to Bhuvanapati svāhā, to the lord of Beings svāhā.” He puts a piece of a hundred mānas gold into the ladle. For the normal taking up of the Pṛṣadājya he recites the verse addressed to Viṣņu, “Thou art our nearest, O Viṣṇu …”54 Having taken up the piece of gold and having made a horse smell it, he puts it down.

Now about the impure (Pṛṣadajya) smelt by a dog or spoilt by a crow or with an insect fallen in it or become impure in any other way.

विश्वास-प्रस्तुतिः

सर्वश एवैताँस्रुचमप्सु प्रवेश्याथान्यस्याँस्रुच्यवदधाति शतमानँहिरण्यं नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयति विष्णो त्वं नो अन्तम इत्यपोद्धृत्य हिरण्यमश्वमवघ्राप्यैव सादयत्यथ वै भवति

मूलम्

सर्वश एवैताँस्रुचमप्सु प्रवेश्याथान्यस्याँस्रुच्यवदधाति शतमानँहिरण्यं नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयति विष्णो त्वं नो अन्तम इत्यपोद्धृत्य हिरण्यमश्वमवघ्राप्यैव सादयत्यथ वै भवति

English

In any case, having thrown the ladle into water, he takes another ladle and puts in it a piece of gold weighing a hundred mânas. In the normal taking up he recites the verse addressed to Viṣṇu, “Thou art our nearest, O Viṣṇu….”55 Having taken out the piece of gold, he makes the horse smell it and places it down. It is indeed said,

विश्वास-प्रस्तुतिः

वि वा एतस्य यज्ञश्छिद्यते यस्य पृषदाज्यँस्कन्दति

मूलम्

वि वा एतस्य यज्ञश्छिद्यते यस्य पृषदाज्यँस्कन्दति

English

“One whose Pṛṣadājya spills out, has his sacrifice broken.

विश्वास-प्रस्तुतिः

वैष्णव्यर्चा पुनर्गृह्णातीति

मूलम्

वैष्णव्यर्चा पुनर्गृह्णातीति

English

He retakes it with a verse addressed to Viṣṇu.”

विश्वास-प्रस्तुतिः

स वैष्णव्यर्चा पुनर्गृह्णाति

मूलम्

स वैष्णव्यर्चा पुनर्गृह्णाति

English

He retakes it with a verse addressed to Viṣṇu.

विश्वास-प्रस्तुतिः

यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँसन्तनोतीति ब्रामणं ते यत्रान्तःशालं प्रचरिष्यन्तो भवन्ति तदाह ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुहीति

मूलम्

यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँसन्तनोतीति ब्रामणं ते यत्रान्तःशालं प्रचरिष्यन्तो भवन्ति तदाह ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभिष्टुहीति

विश्वास-प्रस्तुतिः

“The sacrifice indeed is Viṣṇu; he joins sacrifice with sacrifice.” So the Brāhmaṇa says.53 When they are acting within the Prāgvaṁśa shed,54 The Adhvaryu says, “O Brahman, we shall commence. O Hotr̥, do you praise the Gharma.”

तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रचरतेति प्रतिष्ठेतीह हविर्यज्ञेषु भवति

मूलम्

तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रचरतेति प्रतिष्ठेतीह हविर्यज्ञेषु भवति

English

The Brahman then gives the impulse, “O god Savitr̥, he has said this to thee; do you impel it; do you offer. Br̥haspati indeed is the Brahman. Do you guard the sacrifice, guard the lord of sacrifice, guard me. Do you commence.” In the Haviryajñas it is said, “Do thou start.”

विश्वास-प्रस्तुतिः

यत्राह ब्रह्मन्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे भूरिन्द्र वन्त स्तुतेति प्रातःसवने

When (the Udgātṛ) says, “O Brahman we shall chant, O Praśāstr̥,” the Brahman impels, “O god Savitr̥, (the Udgātṛ) has said this, do thou impel it; do thou manage it; Br̥haspati indeed is the Brahman; do you not depart from life-giving verse, not from the Sāman guarding your body; may your benedictions be true, may your intentions be true; do you speak truth; do you chant in the impulse of god Savitr̥.” At the morning pressing (he should say) “Bhūḥ, supported by Indra, do you chant.”

विश्वास-प्रस्तुतिः

भुव इन्द्र वन्त स्तुतेति माध्यन्दिने

मूलम्

भुव इन्द्र वन्त स्तुतेति माध्यन्दिने

English

At the Midday pressing “Bhuvaḥ, supported by Indra, do you chant.”

विश्वास-प्रस्तुतिः

सुवरिन्द्र वन्त स्तुतेति तृतीयसवने

मूलम्

सुवरिन्द्र वन्त स्तुतेति तृतीयसवने

English

At the third pressing, “Suvaḥ, supported by Indra, do you chant.”

विश्वास-प्रस्तुतिः

स्तुते स्तुतस्य दोहं वाचयति स्तुतस्य स्तुतमस्यूर्जं मह्यँस्तुतं दुहामा मा स्तुतस्य स्तुतं गम्यादिति

मूलम्

स्तुते स्तुतस्य दोहं वाचयति स्तुतस्य स्तुतमस्यूर्जं मह्यँस्तुतं दुहामा मा स्तुतस्य स्तुतं गम्यादिति

English

After the Sāman-chanting the Adhvaryu makes the sacrificer recite “the essence of the chant” with the formula, “Thou art the chant of chant; let the chant bring me strngth; let the chant of the chant come to me.”

विश्वास-प्रस्तुतिः

शस्त्रे शस्त्रस्य दोहं वाचयति शस्त्रस्य शस्त्रमस्यूर्जं मह्यँशस्त्रं दुहामा मा शस्त्रस्य शस्त्रं गम्यादिति

मूलम्

शस्त्रे शस्त्रस्य दोहं वाचयति शस्त्रस्य शस्त्रमस्यूर्जं मह्यँशस्त्रं दुहामा मा शस्त्रस्य शस्त्रं गम्यादिति

English

After the Śastra-recitation he makes the sacrificer recite “the essence of the Śastra” with the formula, “Thou art the Śastra of Śastra; let the Śastra bring me strength; let the Śastra of Śastra come to me.”

विश्वास-प्रस्तुतिः

तयोरुभयोरभ्यासं वाचयतीन्द्रि यावन्तो वनामहे धुक्षीमहि प्रजामिषं सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मागम्यादित्यथ यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माँधिपतीन्करोतु वयँस्याम पतयो रयीणामित्यथ वै भवति

To both these formulas he makes him append the portion,56 “May we, pressing strength, win (the fruit of the utterings); may we obtain offspring and food; may my service towards the gods come true; may Brahman-splendour come to me.”57 The sacrificer murmurs “the formula for regaining the sacrifce,” “The sacrifce has taken place; let it recur, it has become known, it is promoted. It has become the lord of gods; may it make us lords; may we be possessors of wealth.”57 It is indeed said,

विश्वास-प्रस्तुतिः

यज्ञो वा वै यज्ञपतिं दुहे यज्ञपतिर्वा यज्ञं दुहे

मूलम्

यज्ञो वा वै यज्ञपतिं दुहे यज्ञपतिर्वा यज्ञं दुहे

English

“Does the sacrifice empty the lord of sacrifice or does the lord of sacirifce empty the sacrifice?

विश्वास-प्रस्तुतिः

स य स्तुतशस्त्रयोर्दोहमविद्वान्यजते तं यज्ञो दुहे

मूलम्

स य स्तुतशस्त्रयोर्दोहमविद्वान्यजते तं यज्ञो दुहे

English

One who offers sacrifice without knowing the emptying of the Stotra and Śastra, him does the sacrifice empty.

विश्वास-प्रस्तुतिः

स इष्ट्वा पापीयान्भवति

मूलम्

स इष्ट्वा पापीयान्भवति

English

After having performed the sacrifice he meets with evil.

विश्वास-प्रस्तुतिः

य एनयोर्दोहं विद्वान्यजते स यज्ञं दुहे

मूलम्

य एनयोर्दोहं विद्वान्यजते स यज्ञं दुहे

English

One who, knowing the emptying of Stotra and Śastra, makes the offering, empties the sacrifice.

विश्वास-प्रस्तुतिः

स इष्ट्वा वसीयान्भवति

मूलम्

स इष्ट्वा वसीयान्भवति

English

He prospers after having made the offering.

विश्वास-प्रस्तुतिः

स्तुतस्य स्तुतमस्यूर्जं मह्यँस्तुतं दुहामा मा स्तुतस्य स्तुतं गम्याच्छस्त्रस्य शस्त्रमस्यूर्जं मह्यँशस्त्रं दुहामा मा शस्त्रस्य शस्त्रं गम्यादित्याहैष वै स्तुतशस्त्रयोर्दोहस्

मूलम्

स्तुतस्य स्तुतमस्यूर्जं मह्यँस्तुतं दुहामा मा स्तुतस्य स्तुतं गम्याच्छस्त्रस्य शस्त्रमस्यूर्जं मह्यँशस्त्रं दुहामा मा शस्त्रस्य शस्त्रं गम्यादित्याहैष वै स्तुतशस्त्रयोर्दोहस्

English

“Thou art the chant of chant; let the chant bring me strength; let the chant of chant come to me.“Thou art the Śastra of Śastra; let the Śastra bring me strength; let the Śastra of Śastra come to me.” So (the sacrificer) says. This is the emptying of Stotra and Śastra.

विश्वास-प्रस्तुतिः

तं य एवं विद्वान्यजते दुह एव यज्ञम्

मूलम्

तं य एवं विद्वान्यजते दुह एव यज्ञम्

English

One who knowing this makes the offering, empties the sacrifice.

विश्वास-प्रस्तुतिः

इष्ट्वा वसीयान्भवतीति ब्राह्मणम्

मूलम्

इष्ट्वा वसीयान्भवतीति ब्राह्मणम्

English

Having performed the sacrifice he prospers.” So says the Brāhmaṇa.58

विश्वास-प्रस्तुतिः

उक्तँहोत्रकाणाँसन्तर्पणम्

मूलम्

उक्तँहोत्रकाणाँसन्तर्पणम्

English

The gratifying of the Hotrakas (by the sacrificer) is spoken of (in the next Anuvāka).59

विश्वास-प्रस्तुतिः

उक्तानि वैश्वकर्मणान्युक्तमाशिरोऽवनयनम्

मूलम्

उक्तानि वैश्वकर्मणान्युक्तमाशिरोऽवनयनम्

English

The Vaiśvakarmaņa offerings are spoken of. The pouring down of the hot milk is spoken of.

विश्वास-प्रस्तुतिः

उक्ता ध्रुवस्य चर्याथ वै भवति ९

मूलम्

उक्ता ध्रुवस्य चर्याथ वै भवति ९

English

The act (of pouring down the soma) from the Dhruva vessel (into the Hotr̥’s goblet) is spoken of (in the next Anuvāka)59. It is indeed said:

१०

विश्वास-प्रस्तुतिः

यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्रवर्तयत्युक्थशा इत्याह प्रातःसवनं प्रतिगीर्येति

मूलम्

यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्रवर्तयत्युक्थशा इत्याह प्रातःसवनं प्रतिगीर्येति

English

“In that the Hotr̥ calls upon the Adhvaryu,’60 he hurls the thunderbolt at him. (The Adhvaryu) says, “O reciter of the Śastra” after having responded to the Śastras in the morning pressing.”61

विश्वास-प्रस्तुतिः

स उक्थमुक्थं वैव प्रतिगीर्योक्थशा इत्याह सवनँसवनं वोक्थं वाचीत्याह माध्यन्दिनँसवनं प्रतिगीर्योक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य

मूलम्

स उक्थमुक्थं वैव प्रतिगीर्योक्थशा इत्याह सवनँसवनं वोक्थं वाचीत्याह माध्यन्दिनँसवनं प्रतिगीर्योक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य

English

He says “O reciter of the Śastra” having responded to each Śastra or at the end of each pressing. He says ‘The Śastra has been recited by you’ after having responded to the Śastras in the Midday pressing. “He says “The Śastra has been recited by you for Indra’ after having responded to the Śastras in the third pressing.

विश्वास-प्रस्तुतिः

सप्तैतान्यक्षराणि

मूलम्

सप्तैतान्यक्षराणि

English

These are seven syllables.

विश्वास-प्रस्तुतिः

सप्तपदा शक्वरी

मूलम्

सप्तपदा शक्वरी

English

The Śakvarī metre has seven pādas.

विश्वास-प्रस्तुतिः

शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रमन्तर्धत्त इति ब्राह्मणम्

मूलम्

शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रमन्तर्धत्त इति ब्राह्मणम्

English

The thunderbolt belongs to the Śakvarī metre. He covers the thunderbolt with the thunderbolt at the third pressing.” So says the Brāhmaṇa.62

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यो यथासवनं प्रतिगरे छन्दाँसि सम्पादयेत्

मूलम्

ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यो यथासवनं प्रतिगरे छन्दाँसि सम्पादयेत्

English

“The deliberators of the lore say, he indeed is the Adhvaryu who accomplishes the metres at the responses given appropriately at the pressings.

विश्वास-प्रस्तुतिः

तेजः प्रातःसवन आत्मन्दधीतेन्द्रि यं माध्यन्दिने सवने पशूँस्तृतीयसवन इत्युक्थशा इत्याह प्रातःसवनं प्रतिगीर्योक्थं वाचीत्याह माध्यन्दिनँसवनं प्रतिगीर्योक्थं वाचीन्द्रा येत्याह तृतीयसवनं प्रतिगीर्य

He holds splendour within himself at the morning pressing, power at the Midday pressing and cattle at the third pressing. He says, “O reciter of the Śastras” after having responded to the Śastras in the morning pressing. He says, “The Śastra has been recited” after having responded to the Śastras in the Midday pressing. He says, “The Śastra has been recited for Indra” after having responded to the Śastras in the third pressing.

विश्वास-प्रस्तुतिः

सप्तैतान्यक्षराणि

मूलम्

सप्तैतान्यक्षराणि

English

These are seven syllables.

विश्वास-प्रस्तुतिः

सप्तपदा शक्वरी

मूलम्

सप्तपदा शक्वरी

English

The Śakvari metre has seven pādas.

विश्वास-प्रस्तुतिः

शाक्वराः पशवो जागतं तृतीयसवनं

मूलम्

शाक्वराः पशवो जागतं तृतीयसवनं

English

Cattle belong to the Śakvari metre.63 The third pressing is related to the Jagatī metre.

विश्वास-प्रस्तुतिः

तृतीयसवन एव प्रतिगरे छन्दाँसि सम्पादयत्यथो पशवो वै जगती

मूलम्

तृतीयसवन एव प्रतिगरे छन्दाँसि सम्पादयत्यथो पशवो वै जगती

English

At the responses given to the Śastras in the third pressing he accomplishes the metres. Moreover cattle indeed are the Jagatī metre.

विश्वास-प्रस्तुतिः

पशवस्तृतीयसवनं

मूलम्

पशवस्तृतीयसवनं

English

Cattle are the third pressing.

विश्वास-प्रस्तुतिः

पशूनेव तृतीयसवन आत्मन्धत्त इति ब्राह्मणम्

मूलम्

पशूनेव तृतीयसवन आत्मन्धत्त इति ब्राह्मणम्

English

He holds the cattle within himself at the third pressing.” So says the brāhmaṇa.62

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यद्वै होताध्वर्युमभ्याह्वयत आव्यमस्मिन्दधाति

मूलम्

यद्वै होताध्वर्युमभ्याह्वयत आव्यमस्मिन्दधाति

English

“In that the Hotr̥ calls upon the Adhvaryu63 he causes fear in him.

विश्वास-प्रस्तुतिः

तद्यन्नापहनीत पुरास्य संवत्सराद्गृह आवेवीरन्शोँसा मोद इवेति प्रत्याह्वयत इति

मूलम्

तद्यन्नापहनीत पुरास्य संवत्सराद्गृह आवेवीरन्शोँसा मोद इवेति प्रत्याह्वयत इति

English

If (the Adhvaryu) does not ward it off, all in his (Adhvaryu’s) house would suffer from fear before the year (comes to an end.)

विश्वास-प्रस्तुतिः

सोऽभ्याहूतः शोँसा मोद इवेति प्रत्याह्वयते

मूलम्

सोऽभ्याहूतः शोँसा मोद इवेति प्रत्याह्वयते

English

(Therefore) he responds with śoṁsā moda iva.

विश्वास-प्रस्तुतिः

तेनैव तदपहत इति ब्राह्मणम्

मूलम्

तेनैव तदपहत इति ब्राह्मणम्

English

Thereby he removes it.” So says the Brāhmaṇa.64

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यथा वा आयतां प्रतीक्षत एवमध्वर्युः प्रतिगरं प्रतीक्षते

मूलम्

यथा वा आयतां प्रतीक्षत एवमध्वर्युः प्रतिगरं प्रतीक्षते

English

“Just as one awaits the utterance (of the other party) so the Adhvaryu awaits the moment for responding.

विश्वास-प्रस्तुतिः

यदभिप्रतिगृणीयाद्यथायतया समृच्छते तादृगेव तद्यदर्धर्चाल्लुप्येत यथा धावद्भ्यो हीयते तादृगेव तत्

मूलम्

यदभिप्रतिगृणीयाद्यथायतया समृच्छते तादृगेव तद्यदर्धर्चाल्लुप्येत यथा धावद्भ्यो हीयते तादृगेव तत्

English

In that he responds in advance it is as if one is pushed together with the utterance (of the other party). If the response is lost after the utterance of half verse, it would be as if one lagged behind those fleeing away.

विश्वास-प्रस्तुतिः

तदाहुर्नाशाप्रतिगरी स्यादाशाप्रतिगरी ह वा अभि वा प्रतिगृणात्यर्धर्चाद्वा लुप्यते

मूलम्

तदाहुर्नाशाप्रतिगरी स्यादाशाप्रतिगरी ह वा अभि वा प्रतिगृणात्यर्धर्चाद्वा लुप्यते

English

They say one should not respond at will. The respondent at will either responds in advance or ecapes the half verse.

विश्वास-प्रस्तुतिः

प्रणौतीत्येव प्रणौयादपानितीत्येवापान्याद्य एवं विद्वान्प्रतिगृणात्यन्नाद एव भवत्यास्य प्रजायां वाजी जायत इति ब्राह्मणम्

मूलम्

प्रणौतीत्येव प्रणौयादपानितीत्येवापान्याद्य एवं विद्वान्प्रतिगृणात्यन्नाद एव भवत्यास्य प्रजायां वाजी जायत इति ब्राह्मणम्

English

He should utter the Praṇava when (the Hotr̥) utters it. He should inhale when (the Hotr̥) inhales. “One who, knowing this responds becomes eater of food. A strong person is born among his offspring.” So says the Brāhmaṇa.65

विश्वास-प्रस्तुतिः

अथ वै भवतीयं वै होतासावध्वर्युर्यदासीनः शँसत्यस्या एव तद्धोता नैत्यास्त इव हीयम्

मूलम्

अथ वै भवतीयं वै होतासावध्वर्युर्यदासीनः शँसत्यस्या एव तद्धोता नैत्यास्त इव हीयम्

English

It is indeed said, “This (earth) indeed is the Hotr̥. That (upper world) indeed is the Adhvaryu. In that the Hotr̥ recites the Śastra while being seated, he does not depart from this (earth). This (earth) is as if seated.

विश्वास-प्रस्तुतिः

अथो इमामेव तेन यजमानो दुहे

मूलम्

अथो इमामेव तेन यजमानो दुहे

English

The sacrificer thereby empties her.

English

यत्तिष्ठन्प्रतिगृणात्यमुष्या एव तदध्वर्युर्नैति

English

In that the Adhvaryu responds while standing, he does depart from that (world).

विश्वास-प्रस्तुतिः

तिष्ठतीव ह्यसवथो अमुमेव तेन यजमानो दुहे

मूलम्

तिष्ठतीव ह्यसवथो अमुमेव तेन यजमानो दुहे

English

That (world) as if stands. Thereby the sacrificer empties that (world).

विश्वास-प्रस्तुतिः

यदासीनः शँसति तस्मादितःप्रदानं देवा उपजीवन्ति

मूलम्

यदासीनः शँसति तस्मादितःप्रदानं देवा उपजीवन्ति

English

In that (the Hotr̥) recites the Śastras while being seated, therefore gods live on the gifts given from here.

विश्वास-प्रस्तुतिः

यत्तिष्ठन्प्रतिगृणाति तस्मादमुतःप्रदानं मनुष्या उपजीवन्ति

मूलम्

यत्तिष्ठन्प्रतिगृणाति तस्मादमुतःप्रदानं मनुष्या उपजीवन्ति

English

In that (the Adhvaryu) responds while standing, therefore men live on the gifts given from there.

विश्वास-प्रस्तुतिः

यत्प्राङासीनः शँसति

मूलम्

यत्प्राङासीनः शँसति

English

In that ( the Hotr̥) recites the Śastra while being seated facing the east,

विश्वास-प्रस्तुतिः

प्रत्यङ्तिष्ठन्प्रतिगृणाति तस्मात्प्राचीनँरेतो धीयते प्रतीचीः प्रजा जायन्ते इति ब्राह्मणम्

मूलम्

प्रत्यङ्तिष्ठन्प्रतिगृणाति तस्मात्प्राचीनँरेतो धीयते प्रतीचीः प्रजा जायन्ते इति ब्राह्मणम्

English

and (the Adhvaryu) responds while standing, therefore semen virile is deposited inwards and progeny is born outwards.” So says the Brāhmaṇa.66

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्रवर्तयति

मूलम्

यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्रवर्तयति

English

“In that the Hotr̥ calls out the Adhvaryu, he hurls the thunderbolt at him.

विश्वास-प्रस्तुतिः

पराङावर्तत इति

मूलम्

पराङावर्तत इति

English

(Therefore the Adhvaryu) turns outwards.

विश्वास-प्रस्तुतिः

सोऽभ्याहूतः पराङावर्तते

मूलम्

सोऽभ्याहूतः पराङावर्तते

English

When called out, he turns away (towards the Hotr̥).

विश्वास-प्रस्तुतिः

वज्रमेव तन्निकरोतीति ब्राह्मणम्

मूलम्

वज्रमेव तन्निकरोतीति ब्राह्मणम्

English

Thus he evades the thunderbolt.” So says the brāhmaṇa.66

विश्वास-प्रस्तुतिः

उक्तं प्रतिनिर्ग्राह्याणां ग्रहणम्

मूलम्

उक्तं प्रतिनिर्ग्राह्याणां ग्रहणम्

English

Taking up of the Pratinirgrāhya draughts is spoken of (in the next Anuvāka).67

विश्वास-प्रस्तुतिः

उक्तँसँस्रावस्यापिधानम्

मूलम्

उक्तँसँस्रावस्यापिधानम्

English

Covering of the residue (of Soma juice) is spoken of.67

विश्वास-प्रस्तुतिः

उक्तमुपाँश्वन्तर्यामयोरनुमन्त्रणम्

मूलम्

उक्तमुपाँश्वन्तर्यामयोरनुमन्त्रणम्

English

The following of the offering of the Upāṁśu and Antaryāma draughts is spoken of.67

विश्वास-प्रस्तुतिः

उक्ता द्विदेवत्यानां चर्या १०

मूलम्

उक्ता द्विदेवत्यानां चर्या १०

English

The offering of the Dvidevatya cups (by the sacrificer) is spoken of.67

११

विश्वास-प्रस्तुतिः

अथातोऽतिग्राह्याणामेव ग्रहणं स यद्येको यदि वा बहव आग्रयणमेवैनान्गृहीत्वा गृह्णाति

मूलम्

अथातोऽतिग्राह्याणामेव ग्रहणं स यद्येको यदि वा बहव आग्रयणमेवैनान्गृहीत्वा गृह्णाति

English

Now the taking up of the Atigrāhya draughts. Whether there is one Atigrāhya draught or more draughts, he takes them only after having first taken up the Āgrayaṇa.

विश्वास-प्रस्तुतिः

माहेन्द्र स्यैव होममनु हूयन्ते

मूलम्

माहेन्द्र स्यैव होममनु हूयन्ते

English

They (the Atigrāhya draughts) are offered following the offering of the draught for Mahendra.

विश्वास-प्रस्तुतिः

स आग्नेयं गृह्णात्यग्न आयूँषि पवस इत्यनुद्रुत्योपयामगृहीतोऽस्यग्नये त्वा तेजस्वते जुष्टं गृह्णामीति

मूलम्

स आग्नेयं गृह्णात्यग्न आयूँषि पवस इत्यनुद्रुत्योपयामगृहीतोऽस्यग्नये त्वा तेजस्वते जुष्टं गृह्णामीति

English

He takes up the draught for Agni going along the verse, “O Agni, thou promotest our lives….” and with the formula, “Thou art taken with a support; I take thee agreeable to brilliant Agni.”

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिरग्नये त्वा तेजस्वत इत्यथैनँ होष्यन्नवेक्षतेऽग्ने तेजस्विन्तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति

मूलम्

परिमृज्य सादयत्येष ते योनिरग्नये त्वा तेजस्वत इत्यथैनँ होष्यन्नवेक्षतेऽग्ने तेजस्विन्तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति

English

Having wiped it aroud, he puts it down with the formula, “This is thy birth-place, for brilliant Agni thee.” While offering he gazes at it with the formula, “O brilliant Agni, do thou be brilliant among the gods; do thou make me brilliant, long living and strong among men.”68

विश्वास-प्रस्तुतिः

जुहोति दीक्षायै च त्वा तपसश्च तेजसे जुहोमीति

मूलम्

जुहोति दीक्षायै च त्वा तपसश्च तेजसे जुहोमीति

English

He offers it with the formula, “I offer thee for the brilliance of initiation and penance.”68

विश्वास-प्रस्तुतिः

हुत्वा वाचयति तेजोविदसि तेजो मा मा हासीन्माहं तेजो हासिषं मा मां तेजो हासीदिति

मूलम्

हुत्वा वाचयति तेजोविदसि तेजो मा मा हासीन्माहं तेजो हासिषं मा मां तेजो हासीदिति

English

After having offered, he makes the sacrifcer recite the formula, “Thou art cognisant of brilliance; let not the brilliance leave me, let me not be deprived of brilliance; let not the brilliance leave me.”68

विश्वास-प्रस्तुतिः

भक्षयति मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधात्वित्यथैन्द्रं गृह्णात्युत्तिष्ठन्नोजसा सहेत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वौजस्वते जुष्टं गृह्णामीति

मूलम्

भक्षयति मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधात्वित्यथैन्द्रं गृह्णात्युत्तिष्ठन्नोजसा सहेत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रा य त्वौजस्वते जुष्टं गृह्णामीति

English

He consumes the cup with the formula, “May Agni place within me intelligence, progeny and brilliance.”69 He takes up the draught For Indra going along the verse “Rising up together with vigour…” and with the formula, “Thou art taken with a support, I take thee agreeable to vigorous Indra.”

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वौजस्वत इत्य्

मूलम्

परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वौजस्वत इत्य्

English

Having wiped around he puts it down with the formula, “This is thy birth-place; for vigorous Indra thee.”

विश्वास-प्रस्तुतिः

अथैनँहोष्यन्नवेक्षत इन्द्रौ जस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति

मूलम्

अथैनँहोष्यन्नवेक्षत इन्द्रौ जस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति

English

While offering, he gazes at it with the formula, “O vigorous Indra, do thou be vigorous among the gods; do thou make me vigorous, long living and strong among men.”68 He offers it with the formula, “I offer thee for the vigour for Brahman and Kṣatra.”68

विश्वास-प्रस्तुतिः

हुत्वा वाचयत्योजोविदस्योजो मा मा हासीन्माहमोजो हसिषं मा मामोजो हासीदिति

मूलम्

हुत्वा वाचयत्योजोविदस्योजो मा मा हासीन्माहमोजो हसिषं मा मामोजो हासीदिति

English

Having offered, he makes the sacrificer recite the formula, “Thou art cognisant of splendour, let splendour not leave me; let me not leave splendour; let splendour not leave me.”69

विश्वास-प्रस्तुतिः

भक्षयति मयि मेधां मयि प्रजां मयीन्द्र इन्द्रि यं दधात्वित्यथ सौर्यर्चा सौर्यं गृह्णाति तरणिर्विश्वदर्शत इत्यनुद्रुत्योपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते जुष्टं गृह्णामीति

मूलम्

भक्षयति मयि मेधां मयि प्रजां मयीन्द्र इन्द्रि यं दधात्वित्यथ सौर्यर्चा सौर्यं गृह्णाति तरणिर्विश्वदर्शत इत्यनुद्रुत्योपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते जुष्टं गृह्णामीति

English

He consumes the draught with the formula, “May Indra place within me intelligene, offspring and might.69
He takes up the draught for Sūrya going along the verse, “The crossing one and beholding every-thing”. and with the formula, “Thou art taken with a support, I take thee agreeable to lustrous Sūrya.”

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिः सूर्याय त्वा भ्राजस्वत इत्यथैनँ होष्यन्नवेक्षते सूर्य भ्राजस्विन्भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति

मूलम्

परिमृज्य सादयत्येष ते योनिः सूर्याय त्वा भ्राजस्वत इत्यथैनँ होष्यन्नवेक्षते सूर्य भ्राजस्विन्भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति

English

While offering, he gazes at it with the formula “O lustrous Sūrya, do thou be lustrous among the gods; do thou make me lustrous, long-living and strong among men.”69

विश्वास-प्रस्तुतिः

जुहोति वायोश्च त्वापां च भ्राजसे जुहोमीति

मूलम्

जुहोति वायोश्च त्वापां च भ्राजसे जुहोमीति

English

He offers it with the formula, “I “I offer thee for the lustre of Vāyu and of waters.”

विश्वास-प्रस्तुतिः

हुत्वा वाचयति सुवर्विदसि सुवर्मा मा हासीन्माहँसुवर्हासिषं मा माँ सुवर्हासीदिति

मूलम्

हुत्वा वाचयति सुवर्विदसि सुवर्मा मा हासीन्माहँसुवर्हासिषं मा माँ सुवर्हासीदिति

English

Having offered he makes the sacrificer recite the formula, “Thou art cognisant of the heaven; let the heaven not leave me; let me not be deprived of heaven; let not heaven leave me.69

विश्वास-प्रस्तुतिः

भक्षयति मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधात्विति

मूलम्

भक्षयति मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधात्विति

English

He consumes it with the formula, “May Sūrya place intelligence, offspring and lustre.”69

विश्वास-प्रस्तुतिः

ते वा एते पृष्ठ्यस्य षडहस्योत्तरेष्वहःसु गृह्यन्त एकविँशे त्रिणवे त्रयस्त्रिँशे

मूलम्

ते वा एते पृष्ठ्यस्य षडहस्योत्तरेष्वहःसु गृह्यन्त एकविँशे त्रिणवे त्रयस्त्रिँशे

English

These (Atigrāhya draughts) are taken in the last three days of the Prsthya Sadaha characterised respectively with the (Stotras involving) Ekaviṁśa, Triṇava and Trayastriṁśa (Stomas).

विश्वास-प्रस्तुतिः

विश्वजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वायाप्यग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वायेति ब्राह्मणम्

मूलम्

विश्वजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वायाप्यग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वायेति ब्राह्मणम्

English

“They may also be taken in the Sarvapr̥ṣṭha Viśvajit sacrifice for the efficacy of the sacrifice.” “They may be taken even in the Agniṣṭoma for the extension of the sacrifice.” So says the Brāhmaṇa.70

विश्वास-प्रस्तुतिः

अथोपाकरणं जपति वायुर्हिङ्कर्तेत्यार्त्विज्यं वा करिष्यञ्छस्त्रं वा प्रतिगरिष्यन्नेतद्यजुर्जपतीडा देवहूरिति

मूलम्

अथोपाकरणं जपति वायुर्हिङ्कर्तेत्यार्त्विज्यं वा करिष्यञ्छस्त्रं वा प्रतिगरिष्यन्नेतद्यजुर्जपतीडा देवहूरिति

English

(The Adhvaryu) murmurs the formula introducing (a Stotra), “Vāyu utters him; Agni is the Prastotṛi Prajāpati is the Sāman, Br̥haspati is the Udgātṛ; Viśve Devas are the subordinate chanters; Maruts are the Pratihartṛs, Indra is the Nidhana.”71 While going to officiate as a priest or while responding to the recitation of a Śastra, one murmurs this Yajus: “Iḍā is the invoker of gods; Manu is the carrier of sacrifice; Br̥haspati is the reciter of exhilerating Śastras; Viśve Devas are the utterers of good speech, O mother goddess, do thou injure me; I shall think favourably; I shall create favourably; I shall carry favourably; I shall speak favourably; may I utter speech which is sweet for the gods and listenable by men. May gods favour me with agreeable speech; may the Pitr̥s appreciate it.”72

विश्वास-प्रस्तुतिः

प्रियो हैवार्त्विज्यस्य भवति

मूलम्

प्रियो हैवार्त्विज्यस्य भवति

English

His priesthood becomes agreeable.

विश्वास-प्रस्तुतिः

प्रश्नँसंव्याख्यास्यन्नेतद्यजुर्जपन्सभां प्रपद्यतेऽभि हैव तं प्रश्नं जयति ११

मूलम्

प्रश्नँसंव्याख्यास्यन्नेतद्यजुर्जपन्सभां प्रपद्यतेऽभि हैव तं प्रश्नं जयति ११

English

When one is going to participate in a dispute, one should enter the meeting place murmuring this formula. He succeeds in that dispute.

१२

विश्वास-प्रस्तुतिः

अथातोऽँश्वदाभ्ययोरेव ग्रहणम्

मूलम्

अथातोऽँश्वदाभ्ययोरेव ग्रहणम्

English

Now the taking up of Aṁśu and Adābhya draughts.

विश्वास-प्रस्तुतिः

अँश्वदाभ्यौ ग्रहीष्यन्नुपकल्पयते द्वे औदुम्बरे नवे पात्रे तयोश्चतुःस्रक्त्यँशुपात्रं भवति श्लक्ष्णमदाभ्यपात्रं ते सुवर्णरजताभ्याँ रुक्माभ्यां पर्यस्ते भवतः शतमानं च हिरण्यम्

मूलम्

अँश्वदाभ्यौ ग्रहीष्यन्नुपकल्पयते द्वे औदुम्बरे नवे पात्रे तयोश्चतुःस्रक्त्यँशुपात्रं भवति श्लक्ष्णमदाभ्यपात्रं ते सुवर्णरजताभ्याँ रुक्माभ्यां पर्यस्ते भवतः शतमानं च हिरण्यम्

English

One who is going to take up Aṁśu and Adabhya draughts procures two new cups made of Ficus glomerata the Aṁśu cup has four cormers and the Adabhya cup is polished. They are coverd respectively with golden and silver sheets, and a golden piece weighing a hundred mānas.

विश्वास-प्रस्तुतिः

अथोपनद्धस्य राज्ञस्त्रीनँशून्प्रबृहति वसवस्त्वा प्रबृहन्तु गायत्रेण छन्दसाग्नेः प्रियं पाथ उपेहि रुद्रा स्त्वा प्रबृहन्तु त्रैष्टुभेन छन्दसेन्द्र स्य प्रियं पाथ उपेह्यादित्यास्त्वा प्रबृहन्तु जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथ उपेहीत्यथ होतृचमसे वसतीवरीभ्योऽध्यपो निःषिच्य द्वादशभिराधावैराधूनोति मान्दासु ते शुक्र शुक्रमाधूनोमीति प्रतिपद्य शुक्रासु ते शुक्र शुक्रमाधूनोमीत्यातोऽथैतस्मिन्नदाभ्यपात्रेऽँ! शूनुपसङ्गृह्य गृह्णाति शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः । आस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चतेत्यथैनमादायोपोत्तिष्ठति ककुहँरूपं वृषभस्य रोचते बृहदित्यैति सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगा इत्येत्याहवनीये जुहोत्यन्वारब्धे यजमाने यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेत्यथ प्रदक्षिणमावृत्य राजन्येवाँशूनपिसृजत्युशिक्त्वं देव सोम गायत्रेण छन्दसाग्नेः प्रियं पाथो अपीहि वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्र स्य प्रियं पाथो अपीह्यस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहीत्य्

He takes out three shoots out of the tied up Soma respectively with the formulas. “May Vasus pull thee out with the Gāyatrī metre; do thou go to dear place of Agni. May Rudras pull thee out with the Triṣṭubh metre; do thou go to the dear place of Indra. May Adityas pull thee out with the Jagatī metre; do thou go to the dear place of the Viśve Devas.”73 Having poured water into the Hotr̥’s goblet from the Vasatīvarī waters, he stirs up that water with twelve formulas, “O bright one, I stir the bright for thee in the gladdening water; …… in the joyous ones; … in the Kotanās; ….. in the new ones; … in the Reṣīs; … in the Meṣīs; …. in the roaring ones; …… in the all-supporting ones; … in the sweet ones; .. in the lofty ones;…. in the strong ones; … in the pure ones.” Having clasped the shoots into the Adabhya cup, he takes up (the Adābhya draught) with the verse, “I take the bright for thee with the bright form of day with the rays of the sun. Herein the dread ones have moved themselves, the streams of the heaven consorted.”74 Having taken it up he stands with the formula, “The lofty form of the bull shines forth.”75 He comes up with the formula, “Soma goes in advance of Soma, the bright goes in advance of bright.”75 Having come up he makes an offering on the Āhavanīya with the formula, “O Soma, svāhā to thee, Soma, whose name is unerring and watchful.”75 Having turned by the right, he inserts the shoots into the Soma respectively with the formulas, “O God Soma, striving, do thou go to the dear place of Agni with the Gāyatri metre. O God Soma, willing do thou go to the dear place of Indra with the Triṣṭubh metre. O God Soma, our friend, do thou go to the dear place of the Viśve Devas with the Jagatī metre.76

विश्वास-प्रस्तुतिः

अथाह प्रतिप्रस्थातरुदकँसेन वा मोदचमसेन वा जघनेनाहवनीयं प्रत्युपलम्बस्वेति

मूलम्

अथाह प्रतिप्रस्थातरुदकँसेन वा मोदचमसेन वा जघनेनाहवनीयं प्रत्युपलम्बस्वेति

English

Then he says, “O Pratiprasthātr̥, do thou be by my side to the rear of the Āhavanīya taking a vesseel or goblet full of water.”

विश्वास-प्रस्तुतिः

स तथा करोत्यथैतद्धिरण्यमद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ बध्नीते नासिकायां वा प्रग्रथ्नात्यथ सकृदभिषुतस्य राज्ञोऽँशुं गृह्णाति वामदेव्यमिति साम मनसा गायमानोऽनवानम्प्रजापतये त्वेति गृह्णाति प्रजापतये त्वेति जुहोत्यथ हिरण्यमभिव्यनित्या नः प्राण एतु परावत आन्तरिक्षाद्दिवस्परि । आयुः पृथिव्या अध्यमृतमसि प्राणाय त्वेत्यथान्तर्वेद्यद्भिर्मार्जयत इन्द्रा ग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ॥

He does so. Having washed the piece of gold with water, he ties it on the middle finger of his right hand or winds around the ring-finger. He takes up a shoot of Soma pressed once while mentally chanting the Vāmadevya Sāman without breathing in, and offers with the formula, “For Prajāpati thee.” (The sacrificer) holds breath over the golden piece with the formula, “Let the breath come to us from afar, from the midregion, from the heaven; life from the earth; Thou art ambrosia; for breath thee.”77 He sprinkles himself with water within the altar with the verses, “May Indra-Agni confer radiance upon me; May Soma and Br̥haspati confer radiance; may Viśve Devas confer radiance upon me; O Aśvins, do you confer radiance upon me.”77

विश्वास-प्रस्तुतिः

दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत्। परि विश्वानि काव्या नेमिश्चक्रमिवाभवदित्यध्वर्योरेतद्धिरण्यं भवति

मूलम्

दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत्। परि विश्वानि काव्या नेमिश्चक्रमिवाभवदित्यध्वर्योरेतद्धिरण्यं भवति

English

This golden piece belongs to the Adhvaryu.

विश्वास-प्रस्तुतिः

ब्राह्मणमुत्तरम् १२

मूलम्

ब्राह्मणमुत्तरम् १२

English

The next (Anuvāka)78 is the Brāhmaṇa (pertaining to this mantra-portion).

१३

विश्वास-प्रस्तुतिः

अथातः पृश्नीनामेव ग्रहणं सन्तृप्तँराजानं दशधा व्यूह्याभिमृशति वायुरसि प्राणो नामेति दशभिर्दश

मूलम्

अथातः पृश्नीनामेव ग्रहणं सन्तृप्तँराजानं दशधा व्यूह्याभिमृशति वायुरसि प्राणो नामेति दशभिर्दश

English

Now the taking up of Pṛśni draughts. Having divided in ten parts the Soma which has already been swollen, he touches those ten parts respectively with the formulas, “Thou art the wind, exhalation by name; do thou grant me inhalation under the lordship of Savitr̥; Thou art the eye, ear by name; do thou grant me (long) life under the lordship of Dhātṛ. Thou art form, colour by name, do thou grant me offspring under the lordship of Br̥haspati.-Thou art order, truth by name; do thou grant me ruling power under the lordship of Indra. Thou art the past, future by name, do thou deposit womb unto waters and plants79 under the lorship of Pitrs (I measure thee) for the realm of the cosmic order. For the ampleness of the cosmic order. For the maintenance of the cosmic order.–For the truth of the cosmic order. For the lustre of the cosmic order.”80

विश्वास-प्रस्तुतिः

ते वा एते संवत्सरस्याक्षीयेष्वहःसु गृह्यन्ते

मूलम्

ते वा एते संवत्सरस्याक्षीयेष्वहःसु गृह्यन्ते

English

These are taken up on the supplementary days in an yearlong sacrificial session.

विश्वास-प्रस्तुतिः

यत्र क्व चैवैनान्गृह्णीयादित्येतदपरम्

मूलम्

यत्र क्व चैवैनान्गृह्णीयादित्येतदपरम्

English

there is another view that they may be taken in any ritual.

विश्वास-प्रस्तुतिः

अथातः परःसाम्नामेव ग्रहणं ते वा एते परःसामानः पुरस्ताद्वैषुवतात्त्र्यहमन्वहमितः पराञ्चो गृह्यन्तेऽथ वैषुवतेऽह्नि पराञ्चश्चार्वाञ्चश्च गृह्यन्तेऽथोर्ध्वं वैषुवतात्त्र्यहमन्वहमावृत्तानेव गृह्णाति

Now the taking up (of Atigrāhya draughts) on the (three) Paraḥsāman days. These (Atigrāhya draughts) pertaining to the Paraḥsāman days are taken serially on three days prior to the Viṣuvat day in the converse order. On the Viṣuvat day they are taken in a converse and also in a reverse order. Subsequent to the Vișuvat day the Adhvaryu takes them serially on three days in the reverse order.81

विश्वास-प्रस्तुतिः

प्रजापतिर्देवासुरानसृजतेति ब्राह्मणमेवाथ वै भवत्यावृश्च्यते वा एतद्यजमानोऽग्निभ्यां यदेनयोः शृतङ्कृत्याथान्यत्रावभृथमवैत्यायुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयादिति

मूलम्

प्रजापतिर्देवासुरानसृजतेति ब्राह्मणमेवाथ वै भवत्यावृश्च्यते वा एतद्यजमानोऽग्निभ्यां यदेनयोः शृतङ्कृत्याथान्यत्रावभृथमवैत्यायुर्दा अग्ने हविषो जुषाण इत्यवभृथमवैष्यञ्जुहुयादिति

English

“Prajapati created gods and demons.” Thus begins the Brāhmaṇa ( in the next Anuvāka).82 It is indeed said, “The sacrificer becomes isolated from the two fires (Āhavanīya and Gārhapatya) in that having cooked the oblation on these, he proceeds to Avabhṛtha elsewhere. While going out for the Avabhr̥tha he should make an offering with the verse āyurdā agne haviṣo juṣāṇaḥ,83

विश्वास-प्रस्तुतिः

सोऽवभृथमवैष्यन्नायुर्दां दशमीं जुहोत्यायुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमाँस्वाहेत्याहुत्यैवैनौ शमयति नार्तिमार्च्छति यजमान इति ब्राह्मणम्

While going out for the Avabhṛtha he offers the tenth ayurda offering84 with the vese, “Do thou, O Agni, enjoying the oblation, ghee- faced and having ghee as the birth-place, grant us (long) life. Having consumed sweet ghee produced out of cow’s milk, do thou guard this (sacrificer) as father the son, svāhā.” He pacifies them by means of this offering; the sacrificer thereby does not meet with calamity.” So says the Brāhmaṇa.83

विश्वास-प्रस्तुतिः

उक्तं बर्हिषः पर्युपोषणम्

मूलम्

उक्तं बर्हिषः पर्युपोषणम्

English

The burning of sacrificial grass is spoken of (hereinafter).83

विश्वास-प्रस्तुतिः

उक्तँसक्तुहोमस्याथ वै भवति

मूलम्

उक्तँसक्तुहोमस्याथ वै भवति

English

(The Brāhmaṇa) pertaining to the offering of flour of parched barley is (also) spoken.83 It is indeed said,

विश्वास-प्रस्तुतिः

यदि मिश्रमिव चरेदञ्जलिना सक्तून्प्रदाव्ये जुहुयादिति

मूलम्

यदि मिश्रमिव चरेदञ्जलिना सक्तून्प्रदाव्ये जुहुयादिति

English

“If he mixes up the rite, he should offer the flour of parched barley on the burnt sacrificial grass.”85

विश्वास-प्रस्तुतिः

स्नातकः पुरूषमानोऽरण्ये प्रदाव्यं दहन्तमुपाधिगम्याञ्जलिनोपस्तीर्णाभिघारितान्सक्तून्प्रदाव्ये जुहोति विश्वलोप विश्वदावस्य त्वासञ्जुहोमि स्वाहेति

मूलम्

स्नातकः पुरूषमानोऽरण्ये प्रदाव्यं दहन्तमुपाधिगम्याञ्जलिनोपस्तीर्णाभिघारितान्सक्तून्प्रदाव्ये जुहोति विश्वलोप विश्वदावस्य त्वासञ्जुहोमि स्वाहेति

English

A bachelor, who wants to purify himself on meeting a forest-conflagration on the way offers on that fire flour of parched barley taken into the joined palms with clarified butter as the base and also clarified butter spread over, with the formula, “O Viśvalopa, I offer thee in the mouth of the burner of all, svāhā.”86

विश्वास-प्रस्तुतिः

हस्तौ प्रध्वँसयतेऽग्धादेकोऽहुतादेकः समसनादेकः । ते नः कृण्वन्तु भेषजँ सदः सहो वरेण्यमित्यथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति पवमानः सुवर्जन इत्येतेनाष्टर्चेन

मूलम्

हस्तौ प्रध्वँसयतेऽग्धादेकोऽहुतादेकः समसनादेकः । ते नः कृण्वन्तु भेषजँ सदः सहो वरेण्यमित्यथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति पवमानः सुवर्जन इत्येतेनाष्टर्चेन

English

He dashes hands against each other with the verse, “One is eater of what is offered, another is one who devours what is not offered; still another is one who consumes what is gathered. May they (the three fires) provide us with remedy, seat and delightful strength.”86 One purifies him (the bachelor) with three bunches of darbha-blades with eight verses :87

(i) The Soma which is being passed through the filter, which is born in the heaven and which is the beholder of every thing; may it, itself the purifier, purify me.

(ii) May the groups of gods purify me; may the men purify me through the intellect; may all living beings purify me.

(iii) O god Jātavedas Agni, do thou, shining, purify me like the filter, by thy brilliant filter following the good intentions.

(iv) O Agni, may we purify our divine song through thy filter which is spread amidst thy flame.

(v) O god Savitr̥, may we purify this divine song through both the filter and the impulse.

(vi) May the goddess pertaining to all gods who purifies (everything) and who possesses several straight-backed bodies come (to us). Through her may we who rejoice in the convivial feasts, become masters of wealth.

(vii) May Vaiśvānara Agni purify me by his rays. may Vata who is refreshing and giving pleasure purify me through the vital breath. May Dyāvāpr̥thivī who are lawful and holy purify me through water and other liquids.

(viii) Ogod Savitr̥, (I pray thee) with extensive, spreading and highest prayers. O Agni, do thou purify me through thy powers.”

विश्वास-प्रस्तुतिः

शुद्धो हैव शुचिः पूतो मेध्यो भवत्यथ वै भवत्यह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपोषेदिति

मूलम्

शुद्धो हैव शुचिः पूतो मेध्यो भवत्यथ वै भवत्यह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपोषेदिति

English

Thereby he becomes pure. It is indeed said, “On the eighth day of the bright half of the month of Magha which marks the beginning of the yearly session, one should bake a cake made of the flour of paddy measuring four Śarāvas, and burn dried grass with it in the morning.”83

विश्वास-प्रस्तुतिः

समां विजिज्ञासमानो महारात्र उत्थायाह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरुदित आदित्ये विप्रुषित आददत एतमपूपमुपस्तीर्णाभिघारितं पर्णसेवाभ्यां परिगृह्य

मूलम्

समां विजिज्ञासमानो महारात्र उत्थायाह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरुदित आदित्ये विप्रुषित आददत एतमपूपमुपस्तीर्णाभिघारितं पर्णसेवाभ्यां परिगृह्य

English

One who desires to know the year (suitable for a sacrificial session) gets up in the latter part of night which marks the beginning of yearly session (that is) the eighth day of the bright half of the month of Magha, bakes a cake of flour of paddy measuring four Śarāvas. In the morning, at sunrise when the mist is still visible, they take up this cake by means of two Palāśa-trileaves, spreading clarified butter as base and pouring it over. Dried leaves are taken with it.

विश्वास-प्रस्तुतिः

तत्सह पूतितृणानि भवन्त्यन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय तां दिशं यन्ति यत्रास्य कक्ष स्पष्टो भवति

मूलम्

तत्सह पूतितृणानि भवन्त्यन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय तां दिशं यन्ति यत्रास्य कक्ष स्पष्टो भवति

English

Having taken up a fire-brand and a pot filled with water from a neighbouring house, they go to that direction where dried grass becomes visible.

विश्वास-प्रस्तुतिः

तदेतदेकोल्मुकमुपसमाधायापूपमादीपयति पर्णसेवाभ्यां परिगृह्य

मूलम्

तदेतदेकोल्मुकमुपसमाधायापूपमादीपयति पर्णसेवाभ्यां परिगृह्य

English

Having added fuel to the fire-brand, he burns the cake taken up with Palāśa-trileaves.

विश्वास-प्रस्तुतिः

तत्सह पूतितृणानि भवन्ति

मूलम्

तत्सह पूतितृणानि भवन्ति

English

There are dried leaves with it.

विश्वास-प्रस्तुतिः

तेन कक्षमुपोषत्यथैनमुद्गृह्णात्यत्र विज्ञानमुपैति

मूलम्

तेन कक्षमुपोषत्यथैनमुद्गृह्णात्यत्र विज्ञानमुपैति

English

He burns the dried grass therewith. He takes out the cake, and gets the prediction.

विश्वास-प्रस्तुतिः

यदि दहति पुण्यसमं भवति यदि न दहति पापसमम्

मूलम्

यदि दहति पुण्यसमं भवति यदि न दहति पापसमम्

English

If the dried grass is burnt out, it will lead to auspiciousness; if it does not, it will lead to unauspiciousness.

विश्वास-प्रस्तुतिः

एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रमुपयन्तीति ब्राह्मणम्

मूलम्

एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रमुपयन्तीति ब्राह्मणम्

English

“Through this prediction R̥ṣis entered into a long sacrificial session in former days.” So the Brāhmaṇa says.88

विश्वास-प्रस्तुतिः

अत्रैतमपूपं प्राश्याप उपस्पृश्य गृहानेत्यृषभो गोषु जीर्यति तेन यक्ष्यमाणो भवति

मूलम्

अत्रैतमपूपं प्राश्याप उपस्पृश्य गृहानेत्यृषभो गोषु जीर्यति तेन यक्ष्यमाणो भवति

English

Having consumed that cake there only, and having touched water, he returns home.
One offers the bull when it becomes incapable of covering cows.

विश्वास-प्रस्तुतिः

तस्य तदुपकॢप्तं भवति यत्पशुना यक्ष्यमाणस्याथ यद्युत्स्रक्ष्यन्भवति तस्य निहत्य दक्षिणं कर्णमाजपति शिवस्त्वष्टः पिशङ्गरूप इति द्वाभ्याम्

मूलम्

तस्य तदुपकॢप्तं भवति यत्पशुना यक्ष्यमाणस्याथ यद्युत्स्रक्ष्यन्भवति तस्य निहत्य दक्षिणं कर्णमाजपति शिवस्त्वष्टः पिशङ्गरूप इति द्वाभ्याम्

English

For it such materials are procured as are procured for one offering an animal. Having caught hold of the right ear of that bull which he is going to release (newly), he murmurs two verses; “O Tvaṣṭr̥, do thou, auspsicious, come hither. Do thou exert thyself in respect of our prosperity. Do thou favour us in every sacrifice. The hero, loving the gods, of brilliant colour, strong and full of vigour is born. May Tvaṣṭr̥ grant us offspring (the support like) the navel. May he (the bull) go to the place of gods.”89

विश्वास-प्रस्तुतिः

अथैनं गोष्वपिसृजते १३

मूलम्

अथैनं गोष्वपिसृजते १३

English

He then sends him forth among the cows.

१४

विश्वास-प्रस्तुतिः

एतं युवानं परि वो ददामीत्यपियन्तमनुमन्त्रयते त्वां गावोऽवृणत राज्याय त्वाँहवन्त मरुतः स्वर्काः । वर्ष्मन्क्षत्रस्य ककुभि शिश्रियाणस्ततो न उग्रो विभजा वसूनीत्यथेतरं त्वाष्ट्रं वैन्द्रं वा प्राजापत्यं वा पशुमालभत एता हि साण्डस्य देवतास्

With the verse, “(O cows), I entrust this young bull to you. Do you move along playing with that dear one. Do not curse us, you lucky by birth. May we rejoice with abundance of prosperity and food."90 He follows the bull approaching the cows with the verse, “(Obull), the cows have chosen thee for supremacy; the venerable Maruts invoke thee. Resting upon the highest top of the ruling power, do thou, dread one, distribute riches.”91 He offers another bull to Tvaṣṭr̥ or to Indra or to Prajāpati. These are the divinities of a strong bull.

विश्वास-प्रस्तुतिः

तस्योपाकरणीययोरनुवर्तयति नमो महिम्न उत चक्षुषे त इत्यथास्य वपां जुहोति देवानामेष उपनाह आसीदित्यथास्य हविर्जुहोति पिता वत्सानां पतिरघ्नियानामिति

मूलम्

तस्योपाकरणीययोरनुवर्तयति नमो महिम्न उत चक्षुषे त इत्यथास्य वपां जुहोति देवानामेष उपनाह आसीदित्यथास्य हविर्जुहोति पिता वत्सानां पतिरघ्नियानामिति

English

To the two formulas of dedication92 he adds. the verse, “Obeisance to thy greatness and tothy eyes, O father of the Maruts, I praise it. Do thou accept it. We shall sacrifice with a good oblation. May this oblation be dear to the gods.”90 He offers the omentum with the verse, “This (bull) was the bond of gods, the germ of waters smeared upon the plants. Pūṣan chose the drop of Soma. The waters were then turned into a big cloud.”90 He offers the oblation (= cooked organs) with the verse, “The bull (was) the father of the calves, husband of cows, father of big whirlpools. Calf (in the womb), the womb, fresh milk, milk in the udder, clotted milk, whey and ghee are the forms of his semen.”91

विश्वास-प्रस्तुतिः

समानमुत्तरं पशुकर्म

मूलम्

समानमुत्तरं पशुकर्म

English

Further rites of the animal are similar.

विश्वास-प्रस्तुतिः

वशया यक्ष्यमाण आह गर्भमीक्षध्वमिति

मूलम्

वशया यक्ष्यमाण आह गर्भमीक्षध्वमिति

English

One who is going to perform the sacrifice of a barren cow says: “Do you make sure whether there is a foetus.”

विश्वास-प्रस्तुतिः

ते चेद्गर्भं पश्यन्ति सम्प्रच्छाद्य वशां वपयाद्र वन्त्यथास्यै वपां जुहोति सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मतीं जुहोतु स्वाहेति

मूलम्

ते चेद्गर्भं पश्यन्ति सम्प्रच्छाद्य वशां वपयाद्र वन्त्यथास्यै वपां जुहोति सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मतीं जुहोतु स्वाहेति

English

If they behold a foetus, havig covered the immolated barren cow, they hasten with the omentum. He offers the omentum with the verse, “May god Sūrya offer thee the lustrous for the purpose of gods, Dhatṛ for the ruling power, Vāyu for progeny and Br̥haspati for Prājāpati.”93

विश्वास-प्रस्तुतिः

वशामनुमन्त्रयते यस्यास्ते हरितो गर्भोऽथो योनिर्हिरण्ययी । अङ्गान्यह्रुता यस्यै तां देवैः समजीगममित्यथ याचत्यष्टाप्रूड्ढिरण्यं कोशं चान्तरकोशं च वासश्चोष्णीषं चाथैतद्धिरण्यमद्भिः प्रक्षाल्य वाससोपनह्योष्णीषेण विग्रथ्य दह्रे कोशेऽवधाय महति कोशेऽवदधाति

He follows the barren cow with the verse, “I have united thee with gods, whose foetus is tawny, womb is golden and limbs are uninjured.”93 The he asks for a piece of gold with eight protuberances, a sheath, an inner sheath, a piece of cloth and a turban. Having washed the piece of gold with water, having tied it with the piece of cloth, having seized with a turban, and having put it into the small sheath, he puts it into the big sheath.

विश्वास-प्रस्तुतिः

स आह प्रत्यञ्चं गर्भमन्तरेण सक्थिनी प्रतिनिवर्तयतेति

मूलम्

स आह प्रत्यञ्चं गर्भमन्तरेण सक्थिनी प्रतिनिवर्तयतेति

English

He says, “Do you extract the foetus turned downwards from between the thighs.”

विश्वास-प्रस्तुतिः

तं निवर्त्यमानमनुमन्त्रयत आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश्चतस्रः प्रदिशस्ताभिरावर्तया पुनरित्युल्बाद्गर्भं विस्रस्यमानमनुमन्त्रयते वि ते भिनद्मि तकरीम्वि योनिं वि गवीन्यौ । वि मातरं च पुत्रं च वि गर्भं च जरायु च । बहिस्ते अस्तु बालितीत्यथैतं गभँर्सन्दँशेन परिगृह्याद्भिरभ्युक्ष्य शामित्रे प्रतितपति

He follows it being extracted with the verse, “Do thou bring near, O bringer, extract out O extractor, O Indra, Nardabuda; with four quarters of the earth, do thou bring near.”94 He follows thefoetus being loosened from the womb with the verse, “I split apart thy urinator, thy womb, the two groins, the mother and the child, the embryo and the outer cover. Let it come out making the sound bāl̥.”94 Having seized the foetus by means of pair of tongs and having sprinkled with water, he heats it on the Śāmitra fire.

विश्वास-प्रस्तुतिः

तस्याभ्यर्धाद्वसाहोमं प्रश्चोतयत्यथैतं गर्भमन्तरेण चात्वालोत्करावन्तरेण यूपं चाहवनीयं चोपातिगृत्य तं दक्षिणतः प्राञ्चमायातयन्पञ्चहोत्रा सादयत्यथ वशायै हविषा चरत्यथ पुरस्तात्स्विष्टकृतो गर्भस्यावद्यन्नाह विष्णवे शिपिविष्टायानुब्रूहीत्यथ वै भवति

From out of it, he drops the oily part of the flesh. Having carried the foetus inbetween the Cātvāla and the rubbish-heap and inbetween the sacrificial post and the Āhavanīya while carrying it towards the east along the south, he puts it down with the Pañcahotṛ formula.

Then he offers the organs of barren cow. Prior to the Sviṣṭakr̥t offering, while taking portions of the foetus he says (to the Hotr̥), “Do you recite the puronuvākyā for the offering to Śipiviṣṭa Viṣṇu.” It is indeed said,

विश्वास-प्रस्तुतिः

पुरस्तान्वै नाभ्या अन्यदवद्येदुपरिष्टादन्यदिति

मूलम्

पुरस्तान्वै नाभ्या अन्यदवद्येदुपरिष्टादन्यदिति

English

“He takes one portion from the front part of the navel and another from the rear part.

विश्वास-प्रस्तुतिः

स पुरस्तान्नाभ्या अन्यदवद्यत्युपरिष्टादन्यद्द्विरभिघारयत्याश्राव्याह विष्णुँशिपिविष्टं यजेति

मूलम्

स पुरस्तान्नाभ्या अन्यदवद्यत्युपरिष्टादन्यद्द्विरभिघारयत्याश्राव्याह विष्णुँशिपिविष्टं यजेति

English

He pours clarified butter twice. Having caused (the Āgnīdhra) to announce, he says (to the Hotr̥), “Do you recite the yājyā for Śipiviṣṭa Viṣṇu.”

विश्वास-प्रस्तुतिः

वषट्कृते जुहोत्युरुद्र प्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम्। एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्यष्टापदी भुवनानु प्रथताँस्वाहेत्य्

मूलम्

वषट्कृते जुहोत्युरुद्र प्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम्। एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्यष्टापदी भुवनानु प्रथताँस्वाहेत्य्

English

He makes the offering at the Vaṣaṭ-utterance with the verse, “The wide-spreading drop of all forms, purified and wise has besmeared the foetus. May the barren cow extend over the worlds with our foot, two feet, three feet, four feet, five feet, six feet, seven feet and eight feet, sbāhā.”94

विश्वास-प्रस्तुतिः

अथ स्विष्टकृता चरत्यथैतं गर्भं यथाहृतं प्रतिपर्याहृत्योत्तरार्ध आहवनीयस्य प्रत्यञ्चमायात्य भस्मनाभिसमूहति मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षतां पिपृतां नो भरीमभिरित्यध्वर्योरेतत्कोशमिश्रं भवति

Then he makes the Sviṣṭakr̥t offering. Having carried back the foetus in the same way as was brought in, and having led westwards in the northern half of the Āhavanīya, he covers it with the ashes with the verse, “May the great ones, heaven and earth max up this our offering; may they fill us with abundance.”94 All the materials pertaining to the sheath go to the Adhvaryu.

विश्वास-प्रस्तुतिः

ब्राह्मणमुत्तरम् १४

मूलम्

ब्राह्मणमुत्तरम् १४

English

The Brāhmaṇa (pertaining to the rite lies) in the next (Anuvāka: TS III.4.1).

१५

विश्वास-प्रस्तुतिः

अजवशया यक्ष्यमाणो भवति

मूलम्

अजवशया यक्ष्यमाणो भवति

English

One who intends to offer a barren female goat,

विश्वास-प्रस्तुतिः

स यान्यहान्यमेघसम्पन्नानि मन्यते तेष्वाग्नेयमष्टाकपालं निर्वपति

मूलम्

स यान्यहान्यमेघसम्पन्नानि मन्यते तेष्वाग्नेयमष्टाकपालं निर्वपति

English

pours out paddy for a cake on eight potsherds to Agni on such days as he may think shall be without clouds in the sky.

विश्वास-प्रस्तुतिः

या एता ब्राह्मणाभिविहिता देवतास्तासामेनामेकस्यै देवताया आलभते

मूलम्

या एता ब्राह्मणाभिविहिता देवतास्तासामेनामेकस्यै देवताया आलभते

English

He offers it to one of those divinities which are mentioned in the Brāhmaṇa.95

विश्वास-प्रस्तुतिः

तस्या उपाकरणीययोरनुवर्तयत्या वायो भूष शुचिपा इति

मूलम्

तस्या उपाकरणीययोरनुवर्तयत्या वायो भूष शुचिपा इति

English

He adds to the two mantras for dedication the verse, “O Vāyu, drinker of pure (oblation), do thou come to us. Thine are a thousand mares, O thou enveloping all, I present thee exhilerting food of which, O god, thou hast the first drink.”96

विश्वास-प्रस्तुतिः

नियोजनेऽनुवर्तयत्याकूत्यै त्वा कामाय त्वा समृधे त्वेति

मूलम्

नियोजनेऽनुवर्तयत्याकूत्यै त्वा कामाय त्वा समृधे त्वेति

English

To the formula for tying the animal he adds. “For intent thee, for desire thee, for prosperity thee.”96

विश्वास-प्रस्तुतिः

पर्यग्नौ क्रियमाणे पञ्च किक्किटाकारं जुहोति किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँस्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहेत्यथैनामन्तरेण चात्वालोत्करावुदीचीं नीयमानामनुमन्त्रयते त्वं तुरीया विशिनी वशासि सकृद्यत्त्वा मनसा गर्भ आशयत्। वशा त्वं विशिनी गच्छ देवान्त्सत्याः सन्तु यजमानस्य कामा इत्युपासनेऽनुवर्तयत्यजासि रयिष्ठा पृथिव्याँसीदोर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भा इत्य्

While fire is being carried around (the animal etc.) he makes five offerings with the formulas involving the words kikkita, “Kikkiṭā to thy mind, to Prajāpati svāhā. Kikkiṭā to thy vital breath, to Vāyu svāhā - Kikkiṭā to thy eye, to Sürya svāhā. Kikkiṭā to thy ear, to Dyāvāpṛthivī svāhā. Kikkiṭā to thy speech, to Sarasvatī svāhā.” He follows her being carried towards the north inbetween the Cātvāla and the rubbish-heap with the verse, “Thou the fourth art barren, and self-restraining in that through intent the embryo entered thy womb once. Do thou the barren and self-restraining, go to the gods. May the desires of the sacrificer come true.”97 While she is being made to lie down, he adds the formula, “Thou art the the goat firm in wealth; do thou be seated on the earth; do thou reach the midregion straight, let thy great lustre be in the heaven.”97

विश्वास-प्रस्तुतिः

अथास्यै वपां जुहोति तन्तुं तन्वन्रजसो भानुमन्विहीत्यथास्यै हविर्जुहोति मनसो हविरसि प्रजापतेर्वर्ण इत्यथास्या अवदानानां प्राश्नाति गात्राणां ते गात्रभाजो भूयास्मेत्यथ वै भवति

मूलम्

अथास्यै वपां जुहोति तन्तुं तन्वन्रजसो भानुमन्विहीत्यथास्यै हविर्जुहोति मनसो हविरसि प्रजापतेर्वर्ण इत्यथास्या अवदानानां प्राश्नाति गात्राणां ते गात्रभाजो भूयास्मेत्यथ वै भवति

English

He offers her omenturn with the verse, “Stretching the thread of the midregion, do thou reach the sun; do thou guard the lustrous paths made by our knowledge. Do you weave flawlessly the act of the praisers. Do thou become Manu and create the divine host.”97 He then offers her organs with the formula, “Thou art the offering of mind, the form of Prajāpati.”97 He consumes the portions of organs with the formula, “Let us be consumers of thy limbs.”97

It is indeed said,

विश्वास-प्रस्तुतिः

तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति

मूलम्

तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति

English

“For such a female goat there is only one event unsuitable for offering, namely, that cloud appears after the goat has been immolated. If it is cloudy after the goat has been immolated, one should dispose her into water or consume the entire flesh.”98

विश्वास-प्रस्तुतिः

यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वं वा प्राश्नीयादित्युत्सन्नमेतस्या अप्सु प्रवेशनम्

मूलम्

यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वं वा प्राश्नीयादित्युत्सन्नमेतस्या अप्सु प्रवेशनम्

English

The practice of disposing her into water is abandoned. Having consumed the portions with this formula, one should throw the other parts into water.

विश्वास-प्रस्तुतिः

एतेनैवास्यै मन्त्रेणावदानानां प्राश्याथेतरदग्नावनुप्रहरेदिति बौधायनोऽनुनिधायमेनामद्यादित्याञ्जीगविरित्यथ वै भवति

मूलम्

एतेनैवास्यै मन्त्रेणावदानानां प्राश्याथेतरदग्नावनुप्रहरेदिति बौधायनोऽनुनिधायमेनामद्यादित्याञ्जीगविरित्यथ वै भवति

English

So says Baudhāyana. One should preserve her and consume. So says Añjīgavi. It is indeed said,

विश्वास-प्रस्तुतिः

सा वा एषा त्रयाणामेवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस्

मूलम्

सा वा एषा त्रयाणामेवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस्

English

“This (offering of the barren goat) is prescribed for three persons One who has undergone a yearly sacrificial session, one who has performed a Soma-sacrifice with a thousand cows as Dakṣiņā, and one who has functioned as a Gr̥hapati in any Sattra.

विश्वास-प्रस्तुतिः

त एवैतया यजेरन्

मूलम्

त एवैतया यजेरन्

English

They should offer such a goat.

विश्वास-प्रस्तुतिः

तेषामेवैषाप्तेति

मूलम्

तेषामेवैषाप्तेति

English

Such a goat is prescribed for them only.”

विश्वास-प्रस्तुतिः

तेषामु हैवैनयैको यजते १५

मूलम्

तेषामु हैवैनयैको यजते १५

English

One99 among these offers her.

१६

विश्वास-प्रस्तुतिः

अथातो जयानामेव होमो जयान्होष्यनुपकल्पयते बाधकँस्रुवं च स्रुचं च बाधकान्परिधीञ्छरमयं बर्हिर्वैभीदकमिध्ममित्यथ वृथाग्निमुपसमाधाय शरमयं बर्हि स्तीर्त्वा बाधकान्परिधीन्परिधाय वैभीदकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय बाधकेन स्रुवेणोपघातं जुहोति चित्तं च स्वाहा चित्तिश्च स्वाहेति त्रयोदश स्रुवाहुतीरपि वा बाधकेन स्रुवेण बाधक्याँस्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्मन्त्रान्समनुद्रुत्य जुहोति चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञानं च मनश्च शक्वरीश्च दर्शश्च पूर्णमासश्च बृहच्च रथन्तरं च प्रजापतिर्जयानिन्द्रा य वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहेत्य्

Now the offering with the Jaya formulas. One who is going to offer Jaya- offerings procures a spoon and a ladle made of Badhaka wood, enclosing sticks of Badhaka wood, Barhis of Sara grass, faggot of Vibhīdaka tree. Having kindled fire informally, having spread Barhis of Śara grass, having laid around the enclosing sticks of Badhaka wood, having besmeared the faggot of Vibhīdaka tree and having put it (on the Āhavanīya) with Svāhā-utterance, he makes thirteen offerings, each time dipping the spoon into the vessel of clarified butter respectively with the formulas, cittaṁ ca svāhā, cittiś ca svāhā etc. Alternatively, having taken up four spoonfuls into the ladle made of Badhaka wood with the spoon made of Badhaka wood, and having gone along all formulas together, he makes the offerings with the formulas, “(may I have) thought and thinking, intent and intention, known and knowledge, mind and power, the new-moon and the’ full-moon, Br̥hat and Rathantara. Prajāpati bestowed victories on Indra the mighty, dread in battles; all people paid respect to him the dread; he has become worthy of offering, svāhā.”99

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

देवासुराः संयत्ता आसन्स इन्द्र ःप्रजापतिमुपाधावत्

मूलम्

देवासुराः संयत्ता आसन्स इन्द्र ःप्रजापतिमुपाधावत्

English

“Gods and Asuras were engaged in a battle. Inra approached Prajāpati.

विश्वास-प्रस्तुतिः

तस्मा एताञ्जयान्प्रायच्छत्

मूलम्

तस्मा एताञ्जयान्प्रायच्छत्

English

The latter granted him the Jaya formulas.

विश्वास-प्रस्तुतिः

तानजुहोत्

मूलम्

तानजुहोत्

English

(Indra) made offerings with them.

विश्वास-प्रस्तुतिः

ततो वै देवा असुरानजयन्

मूलम्

ततो वै देवा असुरानजयन्

English

Thereby gods defeated the Asuras.

विश्वास-प्रस्तुतिः

यदजयन्तज्जयानां जयत्वं स्पर्धमानेनैते होतव्या जयत्येव तां पृतनामिति ब्राह्मणम्

मूलम्

यदजयन्तज्जयानां जयत्वं स्पर्धमानेनैते होतव्या जयत्येव तां पृतनामिति ब्राह्मणम्

English

They became victorious. This is why the Jaya formulas are so called. One who is contesting should make offerings with them. Thereby he does win that contest.” So says the brāhmaṇa.99

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

येन कर्मणेर्त्सेत्तत्र होतव्या इति

मूलम्

येन कर्मणेर्त्सेत्तत्र होतव्या इति

English

“One should make offerings (with these) in that rite by which he may desire to prosper."

विश्वास-प्रस्तुतिः

स यत्कर्मेर्त्सेदिदं मे समृध्येतेति तस्मिन्नभ्यातानाञ्जुहुयादित्यभ्यातानान्होष्यन्नुपकल्पयते पर्णमयँस्रुवं च स्रुचं च पर्णमयान्परिधीन्कुशमयं बर्हिः पर्णमयमिध्ममित्यथ वृथाग्निमुपसमाधाय कुशमयं बर्हि स्तीर्त्वा पर्णमयान्परिधीन्परिधाय पर्णमयमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय पर्णमयेन स्रुवेणोपघातं जुहोत्यग्निर्भूतानामधिपतिः स मावत्विति सप्तदश स्रुवाहुतीर्हुत्वा वाचयति पितरः पितामहासित्यपि वा पर्णमयेन स्रुवेण पर्णमय्याँस्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्मन्त्रान्समनुद्रुत्य हुत्वान्ततो वाचयति पितरः पितामहा इत्यथ समस्तानामेव होमोऽभ्यातानानेवाग्रे जुहुयादथ जयानथ राष्ट्रभृतो ब्राह्मणमुत्तरम् १६

He should offer Abhyātāna offerings in that rite by which he may desire to prosper saying “let this rite of mine succed.” One who is going to offer the Abhyātāna offerings procures a spoon and a ladle made of the wood of Butea frondosa, enclosing sticks of Butea frondosa, Barhis of Kusa grass and the faggot of Butea frondosa. Then having informally kindled fire, having spread the Barhis of Kuśa grass, having laid around the enclosing sticks of Butea frondosa, and having besmeared the faggot of Butea frondosa, he puts it on the Āhavanīya with svāhā- utterance, makes seventeen offerings each time dipping the spoon of Butea frondosa, (into the vessel of clarified butter) respectively with the formulas, “Agni is the lord of creatures: may he guard me in this spiritual power, in the ruling power, in this blessing, in the priesthood, in this rite, in this invocation to gods. Indra is the lord of elderly persons, may he… - Yama is the lord of the earth; may he …. - Vāyu is the lord of the midregion; may he …. - Sūrya is the lord of heaven; may he…… - Candramas is the lord of constellations: may he Br̥haspati is the lord of spiritual power; may he …… - Mitra is the lord of truths; may he …. - Varuṇa is the lord of waters; may he…. - Ocean is the lord of streams; may he…-Food is the lord of lordships; may it… - Soma is the lord of plants; may he…- Savitr̥ is the lord of impulses; may he….-Rudra is the lord of cattle; may he…-Tvaṣṭr̥ is the lord of forms; - Maruts are the lords of may he …. - Viṣṇu is the lord of mountains; may he groups; may they …”[^6-895] At the end he makes the sacrificer recite the formula, “O Fathers, grandfathers, further ones, nearer ones, living fathers, living grandfathers, do you help us…[^6-895] Then there is an offering with all these formulas recited together. One should first offer the Abhyātāna offerings; then the Jaya and then the Rāstrabhṛt. The next Anuvāka100 is the Brāhmaṇa relating to these.

[^6-895] TS III.4.5

१७

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

राष्ट्रकामाय होतव्या इति

मूलम्

राष्ट्रकामाय होतव्या इति

English

“(The Rāṣṭrabhr̥t offerings) should be offered for one desiring kingdom.”101

विश्वास-प्रस्तुतिः

राष्ट्रकामाय होष्यन्नुपकल्पयते शम्यापरिधीनित्यथ वृथाग्निमुपसमाधाय शम्यापरिधीन्परिधाय निशायाँशम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति ऋताषाडृतधामेति

मूलम्

राष्ट्रकामाय होष्यन्नुपकल्पयते शम्यापरिधीनित्यथ वृथाग्निमुपसमाधाय शम्यापरिधीन्परिधाय निशायाँशम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति ऋताषाडृतधामेति

English

One who is going to offer for one desiring a kingdom procures yoke-halters as the enclosing sticks. Having informally enkindled fire and having laid down yokehalters as the enclosing sticks, he makes at night the Rāṣṭrabhṛt offerings each involving two Svāhā-utterances respectively with the formulas, “Agni controlling by the cosmic order and having cosmic order as his place is the Gandharva; plants are his Apsarases, Ūrj by name. May (the Gandharva) guard this spiritual power and ruling power; may they (the Apsarases) guard this spiritual power and ruling power, Svāhā to him, Svāhā to them. - Sūrya the compact one and possesing all Sāmans is the Gandharva, his Apsarases are the rays (called) active …- Candramas the all-blessed one and having rays from the sun is the Gandharva; his Apsarases are the constallations (called) Bekuri …-Sacrifice the ruling one and good-winged is the Gandharva, his Apsarases are the Dakṣiņās (called) Stavas…- Manas the Prajāpati and Viśvakarman is the Gandharva, his Apsarases are Ṛks and Sāmans (called) Vahni .. - Wind the swift and all-pervading is the Gandharva, his Apsarases are waters (called) Mudā ….-O lord of the universe, do thou who hast residences in the upper world and also here grant us looselessness, abundance, good heroes and prosperity lasting for a year.-Death the supreme ruler and overlord is the Gandharva, his Apsarases are the world (called) Bhuvaḥ.. -Parjanya with good ground and good wealth, doing good and possessing the upper world is the Gandharva, his Apsarases are the lightnings (called) Ruc…..-Death striking one even at a distance and depriving one of happiness is the Gandharva, his Apsarases are the progeny (called) Bhiru…….-Love the beautiful and looking with desire is the Gandharva, his Apsarases are the thoughts (called) Socayanti (burning) …-Do thou, O lord of the world, who hast residences in the upper world and also here, grant wide and great happiness to the Brahman and this ruler.”102

विश्वास-प्रस्तुतिः

राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रमवरुन्द्धे

मूलम्

राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रमवरुन्द्धे

English

“Kingdom indeed are the Rāṣṭrabhr̥t offerings. Through Rāṣṭra (the Adhvaryu) procures kingdom for this (sacrificer).

विश्वास-प्रस्तुतिः

राष्ट्रमेव भवतीति ब्राह्मणम्

मूलम्

राष्ट्रमेव भवतीति ब्राह्मणम्

English

Kingdom itslef comes (to him).” So says the Brāhmaṇa.101

विश्वास-प्रस्तुतिः

अथ वै भवत्यात्मने होतव्या इत्यात्मने होष्यन्वृथाग्निमुपसमाधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोति

मूलम्

अथ वै भवत्यात्मने होतव्या इत्यात्मने होष्यन्वृथाग्निमुपसमाधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोति

English

It is indeed said, “They should be offered for oneself.” One who is going to offer for oneself informally enkindles fire and offers Rāṣṭrabhr̥t offerings each with two Svāhā-utterances on the enclosing stick in the form of a yoke-halter at night.

विश्वास-प्रस्तुतिः

राष्ट्रं वै राष्ट्रभृतो राष्ट्रं प्रजा राष्ट्रं पशवो राष्ट्रं यच्छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रमवरुन्द्धे

मूलम्

राष्ट्रं वै राष्ट्रभृतो राष्ट्रं प्रजा राष्ट्रं पशवो राष्ट्रं यच्छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रमवरुन्द्धे

English

“Kingdom indeed are the Rāṣtrabhṛt offerings. Kingdom is the progeny. Kingdom are the cattle. It is indeed the kingdom in that one becomes the supreme. Verily with the kingdom he wins the kingdom;

विश्वास-प्रस्तुतिः

वसिष्ठः समानानां भवतीति ब्राह्मणम्

मूलम्

वसिष्ठः समानानां भवतीति ब्राह्मणम्

English

he becomes the richest of his equals. So says the brāhmaṇa.101

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

ग्रामकामाय होतव्या इति

मूलम्

ग्रामकामाय होतव्या इति

English

“(They) should be offered for one desiring a village.”101

विश्वास-प्रस्तुतिः

ग्रामकामाय होष्यन्नधिदेवने वृथाग्निमुपसमाधाय निशायाँशम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोति

मूलम्

ग्रामकामाय होष्यन्नधिदेवने वृथाग्निमुपसमाधाय निशायाँशम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोति

English

One who is going to offer for one desiring a village informally enkindles fire on the place for gambling and makes Rāṣṭrabhṛt offerings each with two Syāhā- utterances on the yoke-halter serving as an enclosing stick at night.

विश्वास-प्रस्तुतिः

राष्ट्रं वै राष्ट्रभृतो राष्ट्रँसजाता राष्ट्रेणैवास्मै राष्ट्रँ सजातानवरुन्द्धे

मूलम्

राष्ट्रं वै राष्ट्रभृतो राष्ट्रँसजाता राष्ट्रेणैवास्मै राष्ट्रँ सजातानवरुन्द्धे

English

Kingdom are indeed the Rāṣṭrabhr̥t offerings. Kingdom indeed are the kinsmen. Through kingdom (i.e. Rāṣṭrabhr̥t offerings) he wins the kingdom (i.e. the kinsmen).

विश्वास-प्रस्तुतिः

ग्राम्येव भवतीति ब्राह्मणम्

मूलम्

ग्राम्येव भवतीति ब्राह्मणम्

English

He thereby becomes the possessor of a village.” So says the brāhmaṇa.101

विश्वास-प्रस्तुतिः

अथ वै भवत्यधिदेवने जुहोत्यधिदेवन एवास्मै सजातानवरुन्द्धे

मूलम्

अथ वै भवत्यधिदेवने जुहोत्यधिदेवन एवास्मै सजातानवरुन्द्धे

English

It is indeed said, “He makes the offerings on a place for gambling. On the gambling place itself he wins the kinsmen.

विश्वास-प्रस्तुतिः

त एनमवरुद्धा उपतिष्ठन्त इति ब्राह्मणम्

मूलम्

त एनमवरुद्धा उपतिष्ठन्त इति ब्राह्मणम्

English

Won they stand by him.” So says the Brāhmaṇa.103

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

रथमुख ओजस्कामस्य होतव्या इत्योजस्कामस्य होष्यन्नुपर्यग्नौ रथमुखं प्रगृह्य निशायाँशम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोत्योजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजोऽवरुन्द्ध ओजस्व्येव भवतीति ब्राह्मणम्

“For one desiring vigour they should be offered on the top of a chariot.” One who is going to offer for one desiring vigour should hold the top of a chariot over the Āhavanīya and make Rāṣṭrabhṛt offerings on the yoke- halter serving for the enclosing stick each with two Svāhā-utterances at night. “Vigour indeed are the Rāṣṭrabhr̥t offerings. A chariot is vigour. Through vigour he wins vigour for him. He becomes vigorous.” So says the Brāhmaṇa.103

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो राष्ट्रादपभूतः स्यात्तस्मै होतव्या यावन्तोऽस्य रथाः स्युस्तान्ब्रूयाद्युङ्ध्वमिति

मूलम्

यो राष्ट्रादपभूतः स्यात्तस्मै होतव्या यावन्तोऽस्य रथाः स्युस्तान्ब्रूयाद्युङ्ध्वमिति

English

“These should be offered for one who is deprived of his kingdom. Whatever may be the number of one’s chariots, one should say in respect of them, “Do you yoke them.”

विश्वास-प्रस्तुतिः

राष्ट्रमेवास्मै युनक्तीति ब्राह्मणम्

मूलम्

राष्ट्रमेवास्मै युनक्तीति ब्राह्मणम्

English

He yokes the kingdom for him.” So says the brāhmaṇa.103

विश्वास-प्रस्तुतिः

अथ वै भवत्याहुतयो वा एतस्याकॢप्ता यस्य राष्ट्रं न कल्पते

मूलम्

अथ वै भवत्याहुतयो वा एतस्याकॢप्ता यस्य राष्ट्रं न कल्पते

English

It is indeed said, “The offerings of one do not yield result whose kingdom does not become favourable.

विश्वास-प्रस्तुतिः

स्वरथस्य दक्षिणं चक्रं प्रवृह्य नाडीमभिजुहुयादिति

मूलम्

स्वरथस्य दक्षिणं चक्रं प्रवृह्य नाडीमभिजुहुयादिति

English

“Having picked out the southern wheel of one’s own chariot, one should make an offering into its hole.

विश्वास-प्रस्तुतिः

स स्वरथस्यैव दक्षिणं चक्रं प्रवृह्योपर्यग्नौ रथनाडीं प्रगृह्य निशायाँ शम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोत्याहुतीरेवास्य कल्पयति

मूलम्

स स्वरथस्यैव दक्षिणं चक्रं प्रवृह्योपर्यग्नौ रथनाडीं प्रगृह्य निशायाँ शम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोत्याहुतीरेवास्य कल्पयति

English

“He picks out the southern wheel of his chariot, holds its hole over the fire, and offers Rāṣṭrabhr̥t offerings each with two Svāhā-utterances on the yoke-halter serving as an enclosing stick at night. “He thereby renders his offerings favourable.

विश्वास-प्रस्तुतिः

ता अस्य कल्पमाना राष्ट्रमनुकल्पत इति ब्राह्मणम् १७

मूलम्

ता अस्य कल्पमाना राष्ट्रमनुकल्पत इति ब्राह्मणम् १७

English

The kingdom becomes favourable following the offerings renderd favourable.” So says the Brāhmaṇa.104

१८

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

सङ्ग्रामे संयत्ते होतव्या इति

मूलम्

सङ्ग्रामे संयत्ते होतव्या इति

English

“These should be offered after a battle has been waged.”

विश्वास-प्रस्तुतिः

सङ्ग्रामे संयत्ते होष्यन्नुपकल्पयते मान्धुकमिध्ममित्यथ प्रत्यमित्रमग्निमुपसमाधाय मान्धुकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोत्यङ्गारा एव प्रतिवेष्टमाना अमित्राणामस्य सेनां प्रतिवेष्टयन्तीति ब्राह्मणम्

One who is going to offer after the waging of the battle procures a faggot of Mandhuka wood. He enkindles fire towards the side of his enemy, and having besmeared the faggot of Mandhuka wood and having put it on the fire with the Savāhā-utterance offers Rāṣṭrabhr̥t offerings each with two Svāhā-utterances on the yoke-halter serving as the enclosing stick at night. “The offerings, like encircling embers, encircle the army of his enemies.” So says the Brāhmaṇa.105

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

य उन्माद्येत्तस्मै होतव्या इत्युन्मत्ताय होष्यन्नुपकल्पयते नैयग्रोधमौदुम्बरमाश्वत्थं प्लाक्षमित्यथ वृथाग्निमुपसमाधायैतमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निशायाँ शम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोत्येते वै गन्धर्वाप्सरसां गृहाः

“One should offer these for one who has become mad.” One who is going to offer for a mad procures faggot of the woods of Ficus Indica, Ficus glomerata, Ficus religiosa and a fig-tree. He informally enkindles fire and having besmeared the faggot and having put it on the fire with Svāhā-utterance makes the Rāșṭrabhṛt oferings each with two Svāhā-utterances on the yoke-halter serving as the enclosing stick at night. “These are the residences of Gandharvas and Apsarases.

विश्वास-प्रस्तुतिः

स्व एवैनानायतने शमयतीति ब्राह्मणम्

मूलम्

स्व एवैनानायतने शमयतीति ब्राह्मणम्

English

He pacifies them in their own place.” So says the Brāhmaṇa.105

विश्वास-प्रस्तुतिः

अथ वै भवत्यभिचरता प्रतिलोमँहोतव्या इत्यभिचरन्होष्यन्स्वकृत इरिणे प्रदरे वामुतोऽर्वाचो वृथाग्निमुपसमाधाय निशायाँशम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति

मूलम्

अथ वै भवत्यभिचरता प्रतिलोमँहोतव्या इत्यभिचरन्होष्यन्स्वकृत इरिणे प्रदरे वामुतोऽर्वाचो वृथाग्निमुपसमाधाय निशायाँशम्यापरिधौ द्विः स्वाहाकारँ राष्ट्रभृतो जुहोति

English

It is indeed said, “One who is practising exorcism should offer them in a reverse order.” One who is going to offer for exorcism informally enkindles fire on a naturally arid piece of land or in a crevice, and offers Rāṣṭrabhr̥t offerings each with two Svāhā-utterances on a yoke-halter serving as an enclosing stick at night.

विश्वास-प्रस्तुतिः

यद्वाचः क्रूरं तेन वषट्करोति

मूलम्

यद्वाचः क्रूरं तेन वषट्करोति

English

“He utters the Vaṣaṭ with dreadful form of speech.

विश्वास-प्रस्तुतिः

वाच एवैनं क्रूरेण प्रवृश्चति

मूलम्

वाच एवैनं क्रूरेण प्रवृश्चति

English

He cuts him with the dreadful form speech.

विश्वास-प्रस्तुतिः

ताजगार्तिमार्च्छतीति ब्राह्मणम्

मूलम्

ताजगार्तिमार्च्छतीति ब्राह्मणम्

English

(The enemy) instantly meets with calamity.” So says the Brāhmaṇa.105

विश्वास-प्रस्तुतिः

अथ वै भवत्य्यस्य कामयेतान्नाद्यमाददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य पते इति तृणानि सङ्गृह्णीयादिति

मूलम्

अथ वै भवत्य्यस्य कामयेतान्नाद्यमाददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य पते इति तृणानि सङ्गृह्णीयादिति

English

It is indeed said, “In regard to whom one may desire ‘let me snatch his food’, one should lie down with his face upwards in his chamber, and clasp grass with the formula106 “O lord of world ……107

विश्वास-प्रस्तुतिः

स यस्य कामयेतान्नाद्यमाददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य पत इति तृणानि सङ्गृह्णात्यथैनान्यादाय हरतीदमहममुष्यामुष्यायणस्यान्नाद्यँ हरामीत्याहान्नाद्यमेवास्य हरति

मूलम्

स यस्य कामयेतान्नाद्यमाददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य पत इति तृणानि सङ्गृह्णात्यथैनान्यादाय हरतीदमहममुष्यामुष्यायणस्यान्नाद्यँ हरामीत्याहान्नाद्यमेवास्य हरति

English

In regard to whom one may desire ’let me snatch his food’ one lies down with his face upwards in the chamber and clasps grass with the formula, “O lord of the world ….” Having taken it he carries. “Here do I snatch the food of N.N., son of N.N.“So he says. He snatches away his food.

विश्वास-प्रस्तुतिः

षड्भिर्हरतीति ब्राह्मणम्

मूलम्

षड्भिर्हरतीति ब्राह्मणम्

English

“He carries with six formulas.”108 So says the Brāhmaṇa.107

विश्वास-प्रस्तुतिः

अथैनानि स्वस्यां वा सभायाँस्वेषु वामात्येष्वपिसृजति

मूलम्

अथैनानि स्वस्यां वा सभायाँस्वेषु वामात्येष्वपिसृजति

English

He leaves it into his own chamber or with his neighbours.

विश्वास-प्रस्तुतिः

प्रजापतिनैवास्यान्नाद्यमादायर्तवोऽस्मा अनुप्रयच्छन्तीति ब्राह्मणम्

मूलम्

प्रजापतिनैवास्यान्नाद्यमादायर्तवोऽस्मा अनुप्रयच्छन्तीति ब्राह्मणम्

English

“Having snatched his food through Prajāpati the seasons hand it over to him.” So says the Brāhmaṇa.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो ज्येष्ठबन्धुरपभूतः स्यात्तँस्थलेऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्त्वा तस्मै होतव्या इति

मूलम्

यो ज्येष्ठबन्धुरपभूतः स्यात्तँस्थलेऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्त्वा तस्मै होतव्या इति

English

“One should seat the elder brother who has become down-trodden on a high place, cook Brahmaudana of paddy measuring four Śarāvas, and offer Rāṣṭrabhṛt offerings each with two Svāhā-utterances on a yoke-halter serving as an enclosing stick at night.”109

विश्वास-प्रस्तुतिः

स यो ज्येष्ठबन्धुरपभूतः स्यात्तँस्थलेऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्त्वा निशायाँशम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोति

मूलम्

स यो ज्येष्ठबन्धुरपभूतः स्यात्तँस्थलेऽवसाय्य ब्रह्मौदनं चतुःशरावं पक्त्वा निशायाँशम्यापरिधौ द्विः स्वाहाकारँराष्ट्रभृतो जुहोति

English

One should seat the elder brother who has become down-trodden, on a high place, cook Brahmaudana of paddy measuring four Śarāvas, and offer Rāṣṭrabhṛt offerings each with two Svāhā-utterances on a yoke-halter serving a enclosing stick at night. “Height indeed are the Rāṣṭrabhr̥t offerings.

विश्वास-प्रस्तुतिः

वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं

मूलम्

वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं

English

Height is the (high) place.

विश्वास-प्रस्तुतिः

वर्ष्मणैवैनं वर्ष्म समानानां गमयतीति ब्राह्मणम्

मूलम्

वर्ष्मणैवैनं वर्ष्म समानानां गमयतीति ब्राह्मणम्

English

Through height one leads one. To the height among the equals.” So says the Brāhmaṇa.109

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

चतुःशरावो भवति

मूलम्

चतुःशरावो भवति

English

“(The Brahmaudana) is of paddy measuring four Sarāvas.

विश्वास-प्रस्तुतिः

दिक्ष्वेव प्रतितिष्ठति

मूलम्

दिक्ष्वेव प्रतितिष्ठति

English

He becomes firm in the quarters.

विश्वास-प्रस्तुतिः

क्षीरे भवति

मूलम्

क्षीरे भवति

English

It is boiled in milk.

विश्वास-प्रस्तुतिः

रुचमेवास्मिन्दधात्युद्धरति शृतत्वाय

मूलम्

रुचमेवास्मिन्दधात्युद्धरति शृतत्वाय

English

He places lustre in it. He scoops it for being cooked.

विश्वास-प्रस्तुतिः

सर्पिष्वान्भवति मेध्यत्वाय

मूलम्

सर्पिष्वान्भवति मेध्यत्वाय

English

It is provided with ghee for being worthy of sacrifice.

विश्वास-प्रस्तुतिः

चत्वार आर्षेयाः प्राश्नन्ति

मूलम्

चत्वार आर्षेयाः प्राश्नन्ति

English

Four priests having R̥și-ancestors consume it.

विश्वास-प्रस्तुतिः

दिशामेव ज्योतिषि जुहोतीति ब्राह्मणम् १८

मूलम्

दिशामेव ज्योतिषि जुहोतीति ब्राह्मणम् १८

English

(Thereby) he offers it into the light of the quarters.” So the Brāhmaṇa says.109

१९

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

देविका निर्वपेत्प्रजाकाम इति

मूलम्

देविका निर्वपेत्प्रजाकाम इति

English

“One desiring progeny should offer Devikă oblations.”110

विश्वास-प्रस्तुतिः

प्रथमं धातारं प्रजाकामस्य करोति

मूलम्

प्रथमं धातारं प्रजाकामस्य करोति

English

For one desiring progeny he first offers to Dhatṛ.

विश्वास-प्रस्तुतिः

प्रथमं पशुकामस्य

मूलम्

प्रथमं पशुकामस्य

English

First to Dhatṛ, for one desiring cattle.

विश्वास-प्रस्तुतिः

मध्यतो ग्रामकामस्य

मूलम्

मध्यतो ग्रामकामस्य

English

To Dhatṛ in the middle for one desiring a village.

विश्वास-प्रस्तुतिः

मध्यतो ज्योगामयाविनः

मूलम्

मध्यतो ज्योगामयाविनः

English

To Dhātṛ in the middle for one suffering from a chronic disease.

विश्वास-प्रस्तुतिः

प्रथमं यक्ष्यमाणस्योत्तममीजानस्य

मूलम्

प्रथमं यक्ष्यमाणस्योत्तममीजानस्य

English

First to Dhātṛ for one who is going to perform a Soma-sacrifice. Last to Dhatṛ for one who has performed a Soma-sacrifice.

विश्वास-प्रस्तुतिः

प्रथमं मेधाकामस्य

मूलम्

प्रथमं मेधाकामस्य

English

First to Dhatṛ for one desiring intellect.

विश्वास-प्रस्तुतिः

मध्यतो रुक्कामस्य

मूलम्

मध्यतो रुक्कामस्य

English

In the middle to Dhātṛ for one desiring lustre.

विश्वास-प्रस्तुतिः

ता वा एताः क्षीरे शृता भवन्ति

मूलम्

ता वा एताः क्षीरे शृता भवन्ति

English

These (oblations) are cooked in milk.

विश्वास-प्रस्तुतिः

ता यत्सह सर्वा निर्वपेदीश्वरा एनं प्रदहो द्वेप्रथमे निरुप्य धातुस्तृतीयं निर्वपेत्

मूलम्

ता यत्सह सर्वा निर्वपेदीश्वरा एनं प्रदहो द्वेप्रथमे निरुप्य धातुस्तृतीयं निर्वपेत्

English

“If one offers to them all together, they are capable of burning him. Having poured out oblation for the first two divinities, he should pour out the third one to Dhātṛ.

विश्वास-प्रस्तुतिः

तथो एवोत्तरे निर्वपेत्

मूलम्

तथो एवोत्तरे निर्वपेत्

English

Then he should pour out the other oblations.

विश्वास-प्रस्तुतिः

तथैनं न प्रदहन्त्यथो यस्मै कामाय निरुप्यते तमेवाभिरुपाप्नोतीति ब्राह्मणम्

मूलम्

तथैनं न प्रदहन्त्यथो यस्मै कामाय निरुप्यते तमेवाभिरुपाप्नोतीति ब्राह्मणम्

English

Thereby they do not burn him. “Moreover he gets fulfilled through them that desire for which it has been poured out.” So says the Brāhmaṇa.110

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यत्सायम्प्रातरग्निहोत्रं जुहोत्याहुतीष्टका एव ता उपधत्ते यजमानोऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर्यत्सायम्प्रातर्जुहोत्यहोरात्राण्येवाप्त्वेष्टकाः कृत्वोपधत्ते

मूलम्

यत्सायम्प्रातरग्निहोत्रं जुहोत्याहुतीष्टका एव ता उपधत्ते यजमानोऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर्यत्सायम्प्रातर्जुहोत्यहोरात्राण्येवाप्त्वेष्टकाः कृत्वोपधत्ते

English

“In that he offers the Agnihotra in the evening and in the morning, the sacrificer lays down the bricks in the form of offerings. One who has set up the sacred fires, for him days and nights are the bricks. In that he offers Agnihotra in the evening and in the morning, thereby he gains days and nights, turns them into bricks and lays them down.

विश्वास-प्रस्तुतिः

दश समानत्र जुहोति

मूलम्

दश समानत्र जुहोति

English

He offers ten (Agnihotra) offerings (remaining) at one place.

विश्वास-प्रस्तुतिः

दशाक्ष्रा विराड्

मूलम्

दशाक्ष्रा विराड्

English

The Virāj metre has ten syllables.

विश्वास-प्रस्तुतिः

विराजमेवाप्त्वेष्टकां कृत्वोपधत्तेऽथो विराज्येव यज्ञमाप्नोति

मूलम्

विराजमेवाप्त्वेष्टकां कृत्वोपधत्तेऽथो विराज्येव यज्ञमाप्नोति

English

Having oblatined the Virāj metre he turns them into bricks and lays down. He gains the sacrifice in the Virāj metre.

विश्वास-प्रस्तुतिः

चित्यश्चित्योऽस्य भवति

मूलम्

चित्यश्चित्योऽस्य भवति

English

His (Agni) becomes piled in multiples.

विश्वास-प्रस्तुतिः

तस्माद्यत्र दशोषित्वा प्रयाति तद्यज्ञवास्त्ववास्त्वेव तद्यत्ततोऽर्वाचीनमिति

मूलम्

तस्माद्यत्र दशोषित्वा प्रयाति तद्यज्ञवास्त्ववास्त्वेव तद्यत्ततोऽर्वाचीनमिति

English

Therefore it is a place fit for sacrifice where one stays for ten (nights) and then departs. The place from where one departs after staying for a lesser period is not fit for sacrifice.”111

विश्वास-प्रस्तुतिः

स यत्र दशोषित्वा प्रयास्यन्भवति तदग्निष्ठेऽनसि समवशमयन्ते यदस्य समवशमयितव्यं भवत्यवास्त्वेव तद्यत्ततोऽर्वाचीनं रुद्रः खलु वै वास्तोष्पतिर्यदहुत्वा वास्तोष्पतीयं प्रयायाद्रुद्र एनं भूत्वाग्निरनूत्थाय हन्याद्वास्तोष्पतीयं जुहोति

When one proposes to leave the place where he lived for ten (nights), whatever is to be collected is collected on the cart standing near the fire. The place from where one departs after staying for a lesser period is not fit for sacrifice. “Rudra indeed is the lord of habitat. In that one leaves a place without making an offering to Vāstoṣpati. Agni, having got up and having adopted the form of Rudra would injure him. One therefore makes an offering to Vāstoṣpati.

विश्वास-प्रस्तुतिः

भागधेयेनैवैनँशमयति

मूलम्

भागधेयेनैवैनँशमयति

English

Thereby one pacifies him by giving him his share.

विश्वास-प्रस्तुतिः

नार्तिमार्च्छति यजमान इति ब्राह्मणम्

मूलम्

नार्तिमार्च्छति यजमान इति ब्राह्मणम्

English

The sacrificer does not meet with a calamity.” So says the Brāhmaṇa.111

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यद्युक्ते जुहुयाद्यथा प्रयाते वास्तावाहुतिं जुहोति तादृगेव तद्यदयुक्ते जुहुयाद्यथा क्षेम आहुतिं जुहोति तादृगेव तद्

मूलम्

यद्युक्ते जुहुयाद्यथा प्रयाते वास्तावाहुतिं जुहोति तादृगेव तद्यदयुक्ते जुहुयाद्यथा क्षेम आहुतिं जुहोति तादृगेव तद्

English

“If the sacrificer makes the offering after the oxen have beeen yoked to the cart, it would be as if one made an offering in the habitat after departure. If one makes the offering while the oxen are not yet yoked, it would be as if one made the offering in the normal state.

विश्वास-प्रस्तुतिः

अहुतमस्य वास्तोष्पतीयँस्याद्दक्षिणो युक्तो भवति सव्योऽयुक्तोऽथ वास्तोष्पतीयं जुहोतीति

मूलम्

अहुतमस्य वास्तोष्पतीयँस्याद्दक्षिणो युक्तो भवति सव्योऽयुक्तोऽथ वास्तोष्पतीयं जुहोतीति

English

His offering would not be taken to have been offered to Vāstoṣpati. While the right side ox is yoked and the left one remains unyoked, he makes the offering to Vāstoṣpati.”112

विश्वास-प्रस्तुतिः

स यत्र दक्षिणो युक्तो भवति सव्योऽयुक्तस्तत्प्रत्याच्छेद्यां पर्णमय्याँ स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये वास्तोष्पतीयं जुहोति

मूलम्

स यत्र दक्षिणो युक्तो भवति सव्योऽयुक्तस्तत्प्रत्याच्छेद्यां पर्णमय्याँ स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये वास्तोष्पतीयं जुहोति

English

When the right side ox in yoked and the left side one unyoked, he takes four spoonfuls into a ladle made of the wood of Butea frondosa113 and makes an offering to Vāstoṣpati.

विश्वास-प्रस्तुतिः

वास्तोष्पते प्रतिजानीह्यस्मानित्यनुद्रुत्य वास्तोष्पते शग्मया सँसदा त इति जुहोत्यत्रैताँस्रुचमुपनिधाय सव्यं युक्त्वा प्रयात्युभयमेवाकरपरिवर्गमेवैनँ शमयतीति ब्राह्मणम्

मूलम्

वास्तोष्पते प्रतिजानीह्यस्मानित्यनुद्रुत्य वास्तोष्पते शग्मया सँसदा त इति जुहोत्यत्रैताँस्रुचमुपनिधाय सव्यं युक्त्वा प्रयात्युभयमेवाकरपरिवर्गमेवैनँ शमयतीति ब्राह्मणम्

English

He goes along the verse, “O Vāstoṣpati, do thou promise our (safe journey); thou art a safe settler, do thou be non-injurions to us. That which we seek from thee, do thou accrod us, and do thou be auspicious to our biped and quadruped,”111 and makes the offering with the verse, “O Vāstoṣpati, may we be in thy company which is resourceful, pleasant and inspiring. Do thou help us fully in our gains and security. Do thou guard us ever with blessings.”111 At this stage having put down the ladle and having yoked the left side ox he starts. “He achieves both. He pacifies him completely.” So says the Brāhmaṇa.111

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यदेकया जुहुयाद्दर्विहोमं कुर्यात्

मूलम्

यदेकया जुहुयाद्दर्विहोमं कुर्यात्

English

“If he offers with one verse he would be offering a Darvihoma.

विश्वास-प्रस्तुतिः

पुरोऽनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वायेति ब्राह्मणम्

मूलम्

पुरोऽनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वायेति ब्राह्मणम्

English

Having recited the puronuvākyā he offers with the yājyā to win the gods.” So says the brāhmaṇa.111

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यद्धुत आदध्याद्रुद्रं गृहानन्वारोहयेद्यदवक्षाणान्यसम्प्रक्षाप्य प्रयायाद्यथा यज्ञवेशसं वादहनं वा तादृगेव तदयं ते योनिरृत्विय इत्यरण्योः समारोहयत्येष वा अग्नेर्योनिः

मूलम्

यद्धुत आदध्याद्रुद्रं गृहानन्वारोहयेद्यदवक्षाणान्यसम्प्रक्षाप्य प्रयायाद्यथा यज्ञवेशसं वादहनं वा तादृगेव तदयं ते योनिरृत्विय इत्यरण्योः समारोहयत्येष वा अग्नेर्योनिः

English

“If he were to load (the cart) after the offering, it would be as if he would lead Rudra into his residence. If he were to leave without extinguishing the smouldering embers, it would mean the disturbance of saceifice or the burning of residence. He consigns the fire into the kindling woods with the verse, “This is thy natural birth-place, O Agni, born from which thou hast shone. Knowing it, do thou rise up, and increase our wealth.”114

विश्वास-प्रस्तुतिः

स्व एवैनं योनौ समारोहयत्यथो खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः स्यादिति

मूलम्

स्व एवैनं योनौ समारोहयत्यथो खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः स्यादिति

English

This is the birth-place of Agni. He consigns him into his own birth-place. It is further said, “If the fire is lost while being consigned into the kindling woods, his fire would be dispersed; it will have to be reset up.

विश्वास-प्रस्तुतिः

या ते अग्ने यज्ञिया तनूस्तयेह्यारोहेत्यात्मन्त्समारोहयत इति

मूलम्

या ते अग्ने यज्ञिया तनूस्तयेह्यारोहेत्यात्मन्त्समारोहयत इति

English

He consigns it within oneself with the formula, “O Agni, do thou come and be consigned (within me) with that which is your sacrificial body”115

विश्वास-प्रस्तुतिः

स आत्मन्त्समारोहयते या ते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानमच्छा वसूनि कृण्वन्नस्मे नर्या पुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिं जातवेदो भुव आजायमानः सक्षय एहीत्यथैनमुपावरोहयत उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्। आयुः प्रजाँरयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोण इति

He consigns the fires within himself with the verse,” O Agni, do thou come and be consigned (within me) with that which is your sacrificial body bringing to us ample manly wealth. Assuming the form of sacrifice, do thou ascend the sacrifice-thy own birth-place. O Jātavedas, being born from the earth do thou come with thy abode.”116 He lowers him down with the verse, “O Jātavedas, do thou again be lowered down. Knowing, do thou carry our oblation towards the gods. Grant us (long) life, offspring and wealth. Everlasting, do thou shine in our residence.”117

विश्वास-प्रस्तुतिः

यजमानो वा अग्नेर्योनिः

मूलम्

यजमानो वा अग्नेर्योनिः

English

“The sacrifcer is the birth-place of the fire.

विश्वास-प्रस्तुतिः

स्वायामेवैनं योन्याँसमारोहयत इति ब्राह्मणम् १९

मूलम्

स्वायामेवैनं योन्याँसमारोहयत इति ब्राह्मणम् १९

English

He consigns within his own birth-place.” So says the Brāhmaṇa.115

२०

विश्वास-प्रस्तुतिः

उक्तोऽन्वारम्भोऽथ वै भवत्यृषयो वा इन्द्रं प्रत्यक्षं नापश्यन्

मूलम्

उक्तोऽन्वारम्भोऽथ वै भवत्यृषयो वा इन्द्रं प्रत्यक्षं नापश्यन्

English

The Anvārambha sacrifce has been spoken.118 It is indeed said, The R̥ṣis did not personally behold Indra.

विश्वास-प्रस्तुतिः

तं वसिष्ठः प्रत्यक्षमपश्यत्

मूलम्

तं वसिष्ठः प्रत्यक्षमपश्यत्

English

Vasiṣṭha saw him personally.

विश्वास-प्रस्तुतिः

सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्तेऽथ मेतरेभ्य ऋषिभ्यो मा प्रवोच इति

मूलम्

सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्तेऽथ मेतरेभ्य ऋषिभ्यो मा प्रवोच इति

English

He (Indra) said, “I shall convey to thee the Brahmana119 so that progeny shall have thee as the Purohita. Do not mention me to other R̥ṣis.”

विश्वास-प्रस्तुतिः

तस्मा एतान्त्स्तोमभागानब्रवीत्

मूलम्

तस्मा एतान्त्स्तोमभागानब्रवीत्

English

He tauaght him these Stomabhāgas.

विश्वास-प्रस्तुतिः

ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्तेति

मूलम्

ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्तेति

English

Thereby the progeny had Vasiṣṭha as their Purohita.

विश्वास-प्रस्तुतिः

तस्मादाहुर्वासिष्ठं ब्रह्मत्वमिति

मूलम्

तस्मादाहुर्वासिष्ठं ब्रह्मत्वमिति

English

Therefore they say the office of the Brahman belongs to Vasiṣṭha.

विश्वास-प्रस्तुतिः

स यत्राह ब्रह्मन्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा प्रसौति देव सवितरित्येतां प्रतिपदं कृत्वा रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येतस्यानुवाकस्यैकेइकमुपादाय प्रसौति

मूलम्

स यत्राह ब्रह्मन्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा प्रसौति देव सवितरित्येतां प्रतिपदं कृत्वा रश्मिरसि क्षयाय त्वा क्षयं जिन्वेत्येतस्यानुवाकस्यैकेइकमुपादाय प्रसौति

English

When he (the Udagātṛ) says, “O Brahman, we shall chant, O Praśāstr̥,” the Brahman gives the impulse, “O God Savitr̥…..” reciting this each time, he takes up one part each out of the Anuvāka beginning with “Thou art the ray; for dwelling thee; do thou win the dwelling,”120 and (thus) gives the impulse.

विश्वास-प्रस्तुतिः

स एवमेव प्रसुवन्द्वादशभिरग्निष्टोमं प्रसौति त्रयोदशभिर्वाजपेयमेकान्नत्रिँ शतातिरात्रँसर्वैरप्तोर्यामं स यत्र राथन्तराय सन्धये प्रसर्पन्ति तदाह वसुकोऽसि वेषश्रिरसि वस्यष्टिरसीति

मूलम्

स एवमेव प्रसुवन्द्वादशभिरग्निष्टोमं प्रसौति त्रयोदशभिर्वाजपेयमेकान्नत्रिँ शतातिरात्रँसर्वैरप्तोर्यामं स यत्र राथन्तराय सन्धये प्रसर्पन्ति तदाह वसुकोऽसि वेषश्रिरसि वस्यष्टिरसीति

English

Giving impulse in this manner he gives the impulse with twelve (Stomabhāgas) at the Agniṣṭoma; thirteen at the Atyagniṣṭoma, fifteen at the Ukthya, sixteen at the Ṣoḍaśin, seventeen at the Vājapeya, twentynine at the Atirātra, all at the Aptoryāma. When they enter (the Sadas) in connection with the chanting of the Saṁdhi Stotra based on Rathantara Sāman, he says, “Thou art the wealthy, thou art the brilliant, thou art the gainer of good.”

विश्वास-प्रस्तुतिः

स एवमेव प्रसौत्याप्तोर्यामादथातोऽतिक्रामाणामेवाभिचरन्भ्रातृव्यवान्स्पर्धमानो ऽभिचरणीयशिल्पान्यायात्य संवत्सरमेतैः क्रमैः क्रमेताग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण पूर्वजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामीन्द्रे ण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण सहजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामाम्य्

He similarly gives impulse upto the Aptoryāma.
After this (there is the discussion) of the (Viṣṇu-) strides. One who is going to practise exorcixm or one who has enemies or one who is in dispute should apply exorcistic devices and strides for a year with these strides: “Through god Agni, I win battles with the Gāyatrī metre, Trivṛt stoma, Rathantara Sāman; with Vaṣaṭ- utterance the thunderbolt I trample under foot my foes born before me; I depress them. I repel them in this residence in this earthly world (and also) one who hates us and whom we hate; I step over them with Viṣṇu-strides.-Through god Indra.. with Triṣṭubh metre, Pañcadaśa Stoma, Br̥hat Sāman …..foes born along with

विश्वास-प्रस्तुतिः

विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन्क्षयेऽस्मिन्भूमिलोके योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामीत्यपि वाभिचरणीयास्विष्टिष्वनुवर्तेतापि वापोद्धत्येतरान्क्रमान्संवत्सरमेतैः क्रमैः क्रमेतोक्तँ शुक्रामन्थिनोरधिद्र वणम्

-Through Viśve Devas …. Jagatī metre, Saptadaśa. Stoma, Vāmadevya Sāman foes born after me ….”121
Or he may adopt them in the Iṣṭis intended for exorcism. Or discarding the usual Viṣṇukrama formulas, he should stride with these formulas for a year. Next is spoken the stepping up (upon the Uttaravedi from east to west by the Adhvaryu and the Pratiprasthātṛ) in connection with offering of Śukra and Manthin draughts.

विश्वास-प्रस्तुतिः

अथातोऽतीमोक्षाणामेव

मूलम्

अथातोऽतीमोक्षाणामेव

English

Then (there is the discussion) of Atimokṣa formulas.

विश्वास-प्रस्तुतिः

वैश्वकर्मणानि हुत्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोत्यन्वारब्धे यजमाने २०

मूलम्

वैश्वकर्मणानि हुत्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोत्यन्वारब्धे यजमाने २०

English

After having made the Vaiśvakarmaṇa offerings,122 having melted clarified butter, having purified it and having taken four spoonfuls into the ladle, he makes the offering on the Gārhapatya while the sacrificer has contacted him.

२१

विश्वास-प्रस्तुतिः

ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँस्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा गार्हपत्य एव जुहोति ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँस्वाहेत्यथाग्नीध्रमभिप्रैत्यागन्म ..मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिव इत्यथाग्नीध्रं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वाग्नीध्रे जुहोत्यन्वारब्धे यजमाने ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँस्वाहेत्य्

With the verse, “The evil demons destroying the sacrifice, who are seated on earth, may Agni protect me from them, may we go to those who did good deeds, Svāhā.”123 Having taken up another four spoonfuls, he makes the offering again on the Gārhapatya with the verse, “The evil demons stealing the sacrifice.”123 He approaches the Āgnīdhra chamber with the verse, “We have come O Mitra and Varuṇa, noble ones, to the share of the nights which is yours, grasping the firmament, in the place of good deeds on the third ridge above the light of heaven.”123 Having entered the Āgnīdhra chamber and having taken up four spoonfuls into the ladle, he makes an offering on the Āgnīdhrīya fire while the sacrificer has contacted him, with the verse, “The evil demons destroying the sacrifice who sit in the midregion; may Vāyu guard me from them; may we go to them who did good deeds, svāhā.”123 Having taken another four spoonfuls he makes an offering on the Āgnīdhrīya fire itself with the verse, “The evil demons stealing the sacrifice…”124 He goes towards the Āhavanīya with the verse, “The nights of thine O Savitr̥, which go, traversed by gods, between heaven and earth, with them and all your houses and offspring, do you first mounting the light, traverse the regions.”125

विश्वास-प्रस्तुतिः

अपरं चतुर्गृहीतं गृहीत्वाग्नीध्र एव जुहोति ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँस्वाहेत्यथाहवनीयमभिप्रैति यास्ते रात्रीः सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजया न्वग्रे सुवो रुहाणास्तरता रजाँसीत्यथाहवनीयं द्रुत्वा स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँस्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाहवनीय एव जुहोति ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयँ स्वाहेत्यथाहवनीयमुपतिष्ठते येनेन्द्रा य समभरः पयाँस्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमँ सजातानाँश्रैष्ठ्य आधेह्येनमिति

Having reached the Āhavanīya and having taken four spoonfuls into the ladle, he makes an offering on the Āhavanīya fire, while the sacrificer has maintained his contact, with the verse, “The evil demons destroying the sacrifice who are seated in the heaven, may Sūrya protect me from them; may we go to them who have done good deeds, svāhā.”125 Having taken another four spoonfuls he makes an offering on the Āhavanīya itself with the verse, “The evil demons stealing the sacrifice who are seated in the heaven, may Sūrya protect me from them; may we go to them who have done good deeds, svāhā.”[^l-913]

Then he prays to the Āhavanīya with the verse, “O Jātavedas Agni, do thou feed this (sacrificer) with that best oblation with which thou didst provide Indra with milk (mixed with Soma). Do thou place him in superiority among his kinsmen.”125

विश्वास-प्रस्तुतिः

यज्ञहनो वै देवा यज्ञमुषः सन्ति

मूलम्

यज्ञहनो वै देवा यज्ञमुषः सन्ति

English

Demons are indeed the destroyers and stealers of sacrifice.

विश्वास-प्रस्तुतिः

त एषु लोकेष्वासत आददाना विमथ्नाना यो ददाति यो यजते तस्य

मूलम्

त एषु लोकेष्वासत आददाना विमथ्नाना यो ददाति यो यजते तस्य

English

They live in these worlds snatching from and struggling with one who gives away and who sacrifices.

विश्वास-प्रस्तुतिः

ये देवा यज्ञहनः पृथिव्यामध्यासते ये अन्तरिक्षे ये दिवीत्याहेमानेव लोकाँ स्तीर्त्वा सगृहः सपशुः सुवर्गं लोकमेतीति ब्राह्मणम्

मूलम्

ये देवा यज्ञहनः पृथिव्यामध्यासते ये अन्तरिक्षे ये दिवीत्याहेमानेव लोकाँ स्तीर्त्वा सगृहः सपशुः सुवर्गं लोकमेतीति ब्राह्मणम्

English

Those demons who destroying the sacrifice sit on the earth, in the midregion, in the heaven. So is it said. Having crossed over these worlds, he goes to the heaven together with his household and cattle.” So says the Brāhmaṇa.126

विश्वास-प्रस्तुतिः

अपि वा तिस्र एव गार्हपत्ये जुहोति तिस्र आग्नीध्रे तिस्र आहवनीयेऽपि वा गार्हपत्याज्जपन्ननुद्र वेदाहवनीयादुक्तोदवसानीयेष्टिरत्रैतां तृतीयां प्रवृताहुतिं जुहोति सूर्यो मा देवो देवेभ्यः पातु वायुरन्तरिक्षाद्यजमानोऽग्निर्मा पातु चक्षुषः स्वाहेत्य्

Alternatively, he offers three offerings on the Gārhapatya, three on the Āgnīdhra and three on the Āhavanīya. Or while murmuring (this verse) he should pass from the Gārhapatya up to the Āhavanīya. The Udavasānīyeṣṭi has been explained.[^3-913]
He offers the third Pravṛta offering with the formula, “May god Sūrya guard me from gods, Vāyu from the midregion, may the sacrificing Agni guard me from (evil) sight, svāhā.”127

विश्वास-प्रस्तुतिः

अथाभिचरन्बभ्रुवे बभ्रुवत्सायै कार्ष्मर्यमयेन पात्रेण पयो जुहोति सक्ष शूष सवितर्विश्वचर्षण एतेभिः सोम नामभिर्विधेम ते तेभिः सोम नामभिर्विधेम ते स्वाहेति

मूलम्

अथाभिचरन्बभ्रुवे बभ्रुवत्सायै कार्ष्मर्यमयेन पात्रेण पयो जुहोति सक्ष शूष सवितर्विश्वचर्षण एतेभिः सोम नामभिर्विधेम ते तेभिः सोम नामभिर्विधेम ते स्वाहेति

English

One who practises exorcism offers milk of a brown cow with a brown calf through a ladle of Gmelina arborea with the formula, “O strong one, O impetuous one, O instigator, O thou belonging to all, O Soma, with these names we praise thee, with these names we praise thee, svāhā.”128

विश्वास-प्रस्तुतिः

साक्षादस्य हृदयं भित्त्वान्त्राणि परिकासयातै

मूलम्

साक्षादस्य हृदयं भित्त्वान्त्राणि परिकासयातै

English

Having strictly torn his (enemy’s) heart, he throws around his entrails.

विश्वास-प्रस्तुतिः

स्तृणुते हैव तं भ्रातृव्यम्

मूलम्

स्तृणुते हैव तं भ्रातृव्यम्

English

He indeed strews that enemy.

विश्वास-प्रस्तुतिः

अथ येनास्यर्त्विजाँस्पर्धा स्यात्तमाह मास्य चमसमनुप्रसृपतादभिमर्शनं करिष्यामीति

मूलम्

अथ येनास्यर्त्विजाँस्पर्धा स्यात्तमाह मास्य चमसमनुप्रसृपतादभिमर्शनं करिष्यामीति

English

With regard to that priest with whom one has a dispute, one should say, “Do thou not convey his goblet, I shall take hold of it.”

विश्वास-प्रस्तुतिः

तस्यैतेनैव मन्त्रेण चमसं जुहुयात्

मूलम्

तस्यैतेनैव मन्त्रेण चमसं जुहुयात्

English

He offers his goblet with this very formula.

विश्वास-प्रस्तुतिः

तमूर्ध्वोऽवाङ्वा राजातिपवत उक्तं पात्नीवतस्य श्रयणम्

मूलम्

तमूर्ध्वोऽवाङ्वा राजातिपवत उक्तं पात्नीवतस्य श्रयणम्

English

He vomits or purges Soma. The mixing of the Pātnīvata cup (with ghee) is spoken of.129

विश्वास-प्रस्तुतिः

उक्तमादित्यग्रहस्योद्धननम्

मूलम्

उक्तमादित्यग्रहस्योद्धननम्

English

The lifting up of the Āditya-cup is spoken of.128

विश्वास-प्रस्तुतिः

उक्ता प्रायणीयस्य स्रुवाहुतिरुक्तोदयनीयस्योक्तं यूपस्योपस्थानम् २१

मूलम्

उक्ता प्रायणीयस्य स्रुवाहुतिरुक्तोदयनीयस्योक्तं यूपस्योपस्थानम् २१

English

The spoonful-offering at the Prāyaṇīeṣṭi is spoken of.130 That at the Udayanīya-offering is spoken of.131 The praying to the sacrificial post is spoken of.132

२२

विश्वास-प्रस्तुतिः

उक्तानि पत्नीयजूँष्येवमेवैताः स्रुचो यथैतद्ब्राह्मणम्

मूलम्

उक्तानि पत्नीयजूँष्येवमेवैताः स्रुचो यथैतद्ब्राह्मणम्

English

Patnīyajus formulas have been recorded (in the next Anuvāka).133 The ladles should be made of the wood of such trees as are mentioned (in the next Anuvāka).134

विश्वास-प्रस्तुतिः

उक्तो दधिग्रहोऽथ वै भवत्याज्यग्रहं गृह्णीयात्तेजस्कामस्येति

मूलम्

उक्तो दधिग्रहोऽथ वै भवत्याज्यग्रहं गृह्णीयात्तेजस्कामस्येति

English

The formulas pertaining to the Dadhigraha are recorded (in the next Anuvāka).135 It is indeed said, “(The Adhvaryu) should take up the draught of clarified butter for a sacrificer desiring brilliance.”136

विश्वास-प्रस्तुतिः

बर्हिषी अन्तर्धायाज्यग्रहं गृह्णाति

मूलम्

बर्हिषी अन्तर्धायाज्यग्रहं गृह्णाति

English

Having held two darbha-blades inbetween, he should take up the draught of clarified butter.

विश्वास-प्रस्तुतिः

सोमग्रहं गृह्णीयाद्ब्रह्मवर्चसकामस्येत्यँशूनुपसङ्गृह्य सोमग्रहं गृह्णात्यथैतं महाव्रतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति

He should take up the Soma-draught for the sacrificer desiring Brahman-splendour."136 He takes up the Soma-draught holding Soma-shoots with his fingers. Having recited the verse, “All turn their minds towards thee since these (draughts) taken twice, thrice (etc.) guard thee. Do thou mix up the sweeter, thou sweet, with sweet; I have won the honey with honey,“5 he takes up the Atigrāhya draught for Prajāpati on the day of the Mahāvrata sacrifice (in the Gavamayana) with the formula, “Thou art taken with a support, I take thee dear to Prajāpati.”137

विश्वास-प्रस्तुतिः

परिमृज्य सादयत्येष ते योनिः प्रजापतये त्वेत्यथातः प्राणग्रहाणामेव ग्रहणं सन्तृप्तँराजानं पुञ्जीकृत्वा नवाँशून्प्राच आयातयत्ययं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्रादुपाँशुरुपाँशोस्त्रिवृत्त्रिवृतो रथन्तरँरथन्तराद्वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्य इत्ययं दक्षिणा विश्वकर्मेति नव दक्षिणा आयातयति

Having wiped around, he keeps it down with the formula, “This is thy birth-place; for Prajāpati thee.”137
Now the taking up of Prāṇa-draughts (at the Udayanīya sacrifice). Having collected together the satiated Soma, he extends nine shoots towards the east with the formula, “This in front is Prajāpati; Prāṇa born of Prajāpati; Vasanta born of Prāṇa, Gāyatrī born of Vasanta; Gāyatra (Sāman) born of Gāyatrī metre; Upāṁśu draught born of Gāyatra, born if Upāmśu is Trivṛt (stoma); born of Trivṛt is Rathantara (Pr̥ṣṭha), from the Rathantara is born Vasiṣṭha R̥ṣi; (Obrick) from thee taken by Prajāpati I take up Prāṇa for the progeny.”138 Then he extends nine towards the south with the formula, “This Viśvakarman is towards the south; Manas born of Viśvakarman, Grīṣma born of Manas: Trişṭubh metre born of Grīṣma; Aiḍasāman born of Triṣṭubh; Antaryāma cup from the Aidasāman; Pañcadaśa stoma from the Antaryāma cup; Br̥hat Pr̥ṣṭha from the Pañcadaśa stoma. Bharadvāja R̥ṣi from the Br̥hat Pr̥ṣṭha, with thee held by Prajāpati I take Manas for the progeny.”138

विश्वास-प्रस्तुतिः

अयं पश्चाद्विश्वव्यचा इति नव प्रतीच आयातयतीदमुत्तरात्सुवरिति नवोदीच आयातयतीयमुपरि मतिरिति नवोपरिष्टात्

मूलम्

अयं पश्चाद्विश्वव्यचा इति नव प्रतीच आयातयतीदमुत्तरात्सुवरिति नवोदीच आयातयतीयमुपरि मतिरिति नवोपरिष्टात्

English

He extends nine towards the west with the formula, “This all-extending is towards the west; eye born of all-extending; rains born of eye; Jagatī metre born of rains; Ṛkṣama sāman born of Jagatī; Śukra cup born of Rkṣama Sāman; Saptadaśa stoma from the Sukra, Vairupa Pṛṣṭha from the Saptadaśa; Viśvāmitra R̥ṣi from the Vairūpa Pṛṣtha. With thee taken by Prajāpati I take up the eye for the progeny.”139 He extends nine towards the north with the formula, “This heaven is towards the north. The ear born of heaven; the autumn born of the ear; Anuṣṭubh born of the autumn; the Svāra sāman born of the Anuṣṭubh born of the autumn; the Svāra Sāman born of the Anuṣṭubh the Manthin draught from the Svāra; the Ekaviṁśa stoma from the Manthin, the Vairāja Pṛṣṭha from the Ekaviṁśa; Jamadagni R̥ṣi from the Vairāja Pṛṣṭha. With thee taken by Prajāpati I take hold of the ear for the progeny.”139 He extends nine above with the formula, “This one above is thought; speech born of thought; Hemanta (winter) born of speech; Paṅkti metre born of winter; Nidhanavat; Sāman from Paṅkti; Āgrayaṇa vessel from Nidhanavat; Triṇava and Trayaṣṭriṁśa stomas from Āgrayaṇa; Śākvara and Raivata Pr̥ṣṭhas from Triṇava and Trayastrimsa. Viśvakarman Ṛṣi from Sākvara and Raivata. With thee taken by Br̥haspati I take speech for the progeny.”140

विश्वास-प्रस्तुतिः

प्रदक्षिणं पर्यायातयति

मूलम्

प्रदक्षिणं पर्यायातयति

English

He extends them around by the right.

विश्वास-प्रस्तुतिः

तानपानभृद्भिः प्रत्यूहति प्राची दिशां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्र विणं त्रिवृत्स्तोमः स उ पञ्चदशवर्तनिस्त्र्यविर्वयः कृतमयानां पुरोवातो वातः सानग ऋषिरिति

मूलम्

तानपानभृद्भिः प्रत्यूहति प्राची दिशां वसन्त ऋतूनामग्निर्देवता ब्रह्म द्र विणं त्रिवृत्स्तोमः स उ पञ्चदशवर्तनिस्त्र्यविर्वयः कृतमयानां पुरोवातो वातः सानग ऋषिरिति

English

He suppresses them with the Apānabhṛt formulas, “East among the quarters, spring among the seasons, Agni among the gods, Brahman among the articles of wealth. Trivṛt among the Stomas; it turns towards the Pañcadasa Stoma, eighteen-months old calf among the cattle, Krta among the Yugas, eastern wind among the winds, Sānaga among the Rṣis.”141

विश्वास-प्रस्तुतिः

वाचयति पितरः पितामहाः परेऽवर इति ये पुरस्ताद्भवन्ति

मूलम्

वाचयति पितरः पितामहाः परेऽवर इति ये पुरस्ताद्भवन्ति

English

He makes the sacrificer recite the formula, “Fathers and grandgfathers, far and near, may they guard us, may they protect us, in this Brahman class, in this ruling class, in this yearning, in this priesthood, in this rite, in this invocation of god,”142” in regard to those (shoots) which are towards the east.

विश्वास-प्रस्तुतिः

दक्षिणा दिशामिति ये दक्षिणतो भवन्ति

मूलम्

दक्षिणा दिशामिति ये दक्षिणतो भवन्ति

English

He supresses those which are towards the south with the formula, “South among the quarters, summer of the seaons, Indra of the gods, rulerhood of the articles of wealth, Pañcadaša of the Stomas which turns towards the Saptadaśa, two-years old cow among the cattle, the Trita among the Yugas, southward wind among the winds, Sanātana among the R̥ṣis.”141 He causes the sacrificer to recite the formula, “Fathers, grandfathers….” in regard to those (shoots) which are towards the south.

विश्वास-प्रस्तुतिः

प्रतीची दिशामिति ये पश्चाद्भवन्त्युदीची दिशामिति य उत्तरतो भवन्त्यूर्ध्वा दिशामिति य उपरिष्टात्

मूलम्

प्रतीची दिशामिति ये पश्चाद्भवन्त्युदीची दिशामिति य उत्तरतो भवन्त्यूर्ध्वा दिशामिति य उपरिष्टात्

English

He suppresses those which are towards the west with the formula, “The west among the quarters, rainy season among the seasons, Viśve Devas among the gods, settlers as the article of wealth, Saptadaśa among the Stomas turning towards the Ekaviṁśa, three-years old cow among the cattle, Dvāpara among the Yugas, the westward wind among the winds, Ahabhūna among the R̥ṣis.”142 (He makes the sacrificer recite the formula, “Fathers, grandfathers…).142 He extends them towards the north with the formula, “The north among the quarters, autumn among the seasons, Mitra-Varuṇa among the gods, the serving class as the article of wealth. Ekaviṁśa among the stomas turning towards the Triṇava, the bull entering the fourth year among the cattle, Askanda (kali age) among the Yugas, northward wind among the winds, Pratna among the R̥ṣis.”142 (He makes the sacrificer recite the formula, “Fathers, grandfathers….”) 142 He extends them above with th formula, “The upward among the quarters, winter and cold seasons among the seasons, Br̥haspati among the gods, splendour as the article of wealth, Triṇava among the Stomas turning towards the Trayastriṁśa, four-years old bull among the cattle. Abhibhu (end of the Kali age) among the ages, all-round blowing wind as the wind and Suparna as the R̥ṣi “142 (He makes the sacrificer recite the formula, “Fathers, grandfathers…).”[^10-917]

विश्वास-प्रस्तुतिः

प्रदक्षिणं पर्यायातिता भवन्ति

मूलम्

प्रदक्षिणं पर्यायातिता भवन्ति

English

(The shoots) are turned around by the right.

विश्वास-प्रस्तुतिः

ते वा एते प्रायणीयोदयनीययोरेव नियुक्ता दशमेऽहंस्तदु रात्रिसत्त्रेष्वप्यग्निष्टोम आमयाविन उपसृतो वा गृह्णीयादगदो हैव भवति २२

मूलम्

ते वा एते प्रायणीयोदयनीययोरेव नियुक्ता दशमेऽहंस्तदु रात्रिसत्त्रेष्वप्यग्निष्टोम आमयाविन उपसृतो वा गृह्णीयादगदो हैव भवति २२

English

These (shoots) are arranged in the Prāyaṇīya and Udayanīya (Atirātra) sacrifices. In the Rātrisattras they are arranged on the tenth day. One should arrange them even in the Agniṣṭoma performed by one suffering from a chronic illnes or by one approaching (death). He thereby becomes diseaseless.

२३

विश्वास-प्रस्तुतिः

अथ वै भवत्युभये वा एते प्रजापतेरध्यसृज्यन्तेति ब्राह्मणमेव

मूलम्

अथ वै भवत्युभये वा एते प्रजापतेरध्यसृज्यन्तेति ब्राह्मणमेव

English

It is indeed said, “These twofold (Devas and Asuras) were born from Prajāpati.” So the Brāhmaṇa143 says,

विश्वास-प्रस्तुतिः

युवँसुराममश्विनेति सौत्रामण्यामेव भवत्यथ वै भवतीयं वा अग्निहोत्रीयं वा एतस्य निषीदति यस्याग्निहोत्री निषीदति

मूलम्

युवँसुराममश्विनेति सौत्रामण्यामेव भवत्यथ वै भवतीयं वा अग्निहोत्रीयं वा एतस्य निषीदति यस्याग्निहोत्री निषीदति

English

(The Anuvāka beginning with yuvam surāmam aśvinā)…..144 concerns the Sautrāmaṇī sacrifce. It is indeed said, “The Agnihotra-cow is indeed this (earth). This (earth) plunges down for him whose Agnihotra-cow sits down when her calf has approached her.

विश्वास-प्रस्तुतिः

तामुत्थापयेदिति

मूलम्

तामुत्थापयेदिति

English

One should make her stand.”145

विश्वास-प्रस्तुतिः

स यस्याग्निहोत्री निषीदति तामुत्थापयत्युदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात्। इन्द्रा य कृण्वती भागं मित्राय वरुणाय चेत्यथ वै भवत्यवर्तिं वा एषैतस्य पाप्मानं प्रतिख्याय निषीदति यस्याग्निहोत्र्युपसृष्टा निषीदति

One causes the Agnihotra-cow to stand, when she has sat down when her calf has approached her, with the verse, “May Goddess Aditi, multi-coloured, providing share for Indra, Mitra and Varuṇa get up; may she grant (long) life to the sacrificer.”145 It is indeed said, “The Agnihotra-cow which sits down when her calf has approached her sits down indicating the evil scarcity.

विश्वास-प्रस्तुतिः

तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति

मूलम्

तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति

English

Having milked her, one should give her away to a brāhmaṇa whose food he should not eat.”146

विश्वास-प्रस्तुतिः

स यस्याग्निहोत्र्युपसृष्टा निषीदति तामेतदेव दुग्ध्वा ब्राह्मणाय ददाति

मूलम्

स यस्याग्निहोत्र्युपसृष्टा निषीदति तामेतदेव दुग्ध्वा ब्राह्मणाय ददाति

English

One whose Agnihotra-cow sits down when her calf has approached her, milks her and gives her away to a brāhmaṇa.

विश्वास-प्रस्तुतिः

न चास्यात ऊर्ध्वमन्नमत्त्यथ वै भवति

मूलम्

न चास्यात ऊर्ध्वमन्नमत्त्यथ वै भवति

English

Hereafter he does not take food at his home. It is indeed said,

विश्वास-प्रस्तुतिः

पृथिवीं वा एतस्य पयः प्रविशति यस्याग्निहोत्रं दुह्यमानँस्कन्दति

मूलम्

पृथिवीं वा एतस्य पयः प्रविशति यस्याग्निहोत्रं दुह्यमानँस्कन्दति

English

“His milk goes to the earth whose Agnihotra-milk, being milked, spills out.

विश्वास-प्रस्तुतिः

तदभिमन्त्रयेतेति

मूलम्

तदभिमन्त्रयेतेति

English

One should recite a formula over it.”147

विश्वास-प्रस्तुतिः

स यस्याग्निहोत्रं दुह्यमानँस्कन्दति तदभिमन्त्रयते

मूलम्

स यस्याग्निहोत्रं दुह्यमानँस्कन्दति तदभिमन्त्रयते

English

One whose Agnihotra-milk, while being milked, spills out, recites over it the verse,

विश्वास-प्रस्तुतिः

यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्याह

मूलम्

यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्याह

English

“The milk which has fallen on the ground, which passed on to plants and water, may that milk be in our house, in our cows, in our calves and in me.” So he says.

विश्वास-प्रस्तुतिः

पय एवात्मन्गृहेषु पशुषु धत्तेऽप उपसृजत्यद्भिरेवैनदाप्नोतीति ब्राह्मणम्

मूलम्

पय एवात्मन्गृहेषु पशुषु धत्तेऽप उपसृजत्यद्भिरेवैनदाप्नोतीति ब्राह्मणम्

English

“He holds the milk unto him, unto his house and cattle. He pours water. He acquires it through water.” So says the Brāhmaṇa.147

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यो वै यज्ञस्यार्तेनानातँर्सँसृजत्युभे वै ते तर्ह्यार्च्छत आर्च्छति खलु वा एतदग्निहोत्रं यद्दुह्यमानँस्कन्दति यदभिदुह्यादिति

मूलम्

यो वै यज्ञस्यार्तेनानातँर्सँसृजत्युभे वै ते तर्ह्यार्च्छत आर्च्छति खलु वा एतदग्निहोत्रं यद्दुह्यमानँस्कन्दति यदभिदुह्यादिति

English

“Both the parts become injured for him who mixes the uninjured part of the sacrifice with the injured. The Agnihotra indeed becomes injured when, being milked, it spills out and one milks milk over the already milked one.”148

विश्वास-प्रस्तुतिः

स यस्याग्निहोत्रं दुह्यमानँस्कन्दति नैनदभिदोग्धि

मूलम्

स यस्याग्निहोत्रं दुह्यमानँस्कन्दति नैनदभिदोग्धि

English

If one’s Agnihotra-milk, when being milked spills out, one does not milk over the remaining part.”

विश्वास-प्रस्तुतिः

तदेव यादृक्कीदृक्च होतव्यम्

मूलम्

तदेव यादृक्कीदृक्च होतव्यम्

English

Whatever quantity has remained one should offer it.

विश्वास-प्रस्तुतिः

अथान्यां दुग्ध्वा पुनर्होतव्यम्

मूलम्

अथान्यां दुग्ध्वा पुनर्होतव्यम्

English

Then having milked another cow, he should again offer the Agnihotra.

विश्वास-प्रस्तुतिः

अनार्तेनैवार्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

मूलम्

अनार्तेनैवार्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

English

Through the non-injured part, he removes the injured part of the sacrifice." So says the Brāhmaṇa.148

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यद्युद्द्रुतस्य स्कन्देद्यत्ततोऽहुत्वा पुनरेयाद्यज्ञं विच्छिन्द्याद्यत्र स्कन्देत्तन्निषद्य पुनर्गृह्णीयादिति

मूलम्

यद्युद्द्रुतस्य स्कन्देद्यत्ततोऽहुत्वा पुनरेयाद्यज्ञं विच्छिन्द्याद्यत्र स्कन्देत्तन्निषद्य पुनर्गृह्णीयादिति

English

“If while (the Agnihotra-milk) spills out when carried forward, one comes back without making an offering out of it, he would violate the sacrifice. At the spot where it spills out, he should sit down and again take up (milk).”149

विश्वास-प्रस्तुतिः

स यत्रैव स्कन्दति तदेव स्थालीं निधायातिशिष्टमानीय पुनरभ्युन्नीय तदेव यादृक्कीदृक्च होतव्यम्

मूलम्

स यत्रैव स्कन्दति तदेव स्थालीं निधायातिशिष्टमानीय पुनरभ्युन्नीय तदेव यादृक्कीदृक्च होतव्यम्

English

At the spot where the milk has spilt out, he should keep down the vessel, bring into it the remaining milk, fill in the ladle again and offer it as it is.

विश्वास-प्रस्तुतिः

अथान्यां दुग्ध्वा पुनर्होतव्यम्

मूलम्

अथान्यां दुग्ध्वा पुनर्होतव्यम्

English

He should milk another cow and again make the offering.

विश्वास-प्रस्तुतिः

अनार्तेनैवार्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

मूलम्

अनार्तेनैवार्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

English

“He (thereby) removes the injured part of the sacrifice with the non-injured one.” So says the Brāhmaṇa.149

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

वि वा एतस्य यज्ञश्छिद्यते यस्याग्निहोत्रेऽधिश्रिते श्वान्तरा धावति

मूलम्

वि वा एतस्य यज्ञश्छिद्यते यस्याग्निहोत्रेऽधिश्रिते श्वान्तरा धावति

English

“The sacrifice of one becomes violated at whose Agnihotra (milk) while it has been kept on fire, a dog traverses in between (the Gārhapatya and the Āhavanīya).

विश्वास-प्रस्तुतिः

रुद्र ःखलु वा एष यदग्निर्यद्गामन्वत्यावर्तयेद्रुद्रा य पशूनपिदध्यादपशुर्यजमानः स्याद्यदपोऽन्वतिषिञ्चेदनाद्यमग्नेरापोऽनाद्यमाभ्यामपिदध्याद्गार्हपत्याद्भस्मादायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाहवनीयाद्ध्वँसयन्नुद्द्रवेदिति

Rudra indeed is this Agni. If one makes a cow pass across, one would dispose the cattle to Rudra. The sacrificer would thereby be void of cattle. If he sprinkles water across, that water cannot be the food of Agni; he would be deemed as giving uneatable to the two Agnis. (Therefore) having taken ashes from the Gārhapatya, he should pass up to the Āhavanīya while scattering those ashes with the verse addressed to Viṣṇu, namely, “Viṣṇu traversed this, he stepped three steps.

विश्वास-प्रस्तुतिः

स वैष्णव्यर्चाहवनीयाद्ध्वँसयन्नुद्द्रवति

मूलम्

स वैष्णव्यर्चाहवनीयाद्ध्वँसयन्नुद्द्रवति

English

In his step covered with ashes, the entire world is wrapped.”150

विश्वास-प्रस्तुतिः

यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँसन्तनोतीति ब्राह्मणम्

मूलम्

यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँसन्तनोतीति ब्राह्मणम्

English

“Viṣṇu indeed is sacrifice. He extends the sacrifice with sacrifice.” So says the Brāhmaṇa.”151

विश्वास-प्रस्तुतिः

अथ भस्मना शुनः पदमपि वपति शान्त्या इति ब्राह्मणम् २३

मूलम्

अथ भस्मना शुनः पदमपि वपति शान्त्या इति ब्राह्मणम् २३

English

“He covers the dog’s footprints with the ashes.” So says the brāhmaṇa.151

२४

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

नि वा एतस्याहवनीयो गार्हपत्यं कामयते नि गार्हपत्य आहवनीयं यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति

मूलम्

नि वा एतस्याहवनीयो गार्हपत्यं कामयते नि गार्हपत्य आहवनीयं यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति

English

“His Āhavanīya desires to denounce the Gārhapatya, the Gārhapatya desires to denounce the Āhavanīya, on whose fire still not carried forward the sun sets.

विश्वास-प्रस्तुतिः

दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेदथाग्निमथाग्निहोत्रमिति

मूलम्

दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेदथाग्निमथाग्निहोत्रमिति

English

Having tied a piece of gold with a darbha-blade, he should carry it ahead and then carry the Agnihotra.”152

विश्वास-प्रस्तुतिः

स यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति दर्भेण हिरण्यं प्रबध्य परिकर्मी पूर्वः प्रतिपद्यतेऽन्वग्ब्राह्मण आर्षेय इध्मेनान्वगात्मनाग्निहोत्रेणाथैतद्धिरण्यमाहवनीयस्यायतने सादयित्वापोद्धृत्य हिरण्यं प्रदक्षिणमावृत्येध्मं प्रतिष्ठापयत्यथ वै भवत्यग्निहोत्रमुपसाद्यातमितोरासीत

One, on whose Agnihotra still not carried forward the sun sets, should tie a piece of gold with a darbha-blade. An assistant moves ahead; a brāhmaṇa having R̥ṣi-ancesstors should follow him taking a faggot, and he himself should follow him with the Agnihotra. Having put down the piece of gold into the Āhavanīya fire-place, he lifts up the piece of gold, turns by the right and deposits the faggot. It is indeed said, “Having placed the Agnihotra, he should stand restraing his breath as long as he can.

विश्वास-प्रस्तुतिः

व्रतमेव हतमनुम्रियतेऽन्तं वा एष आत्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति

मूलम्

व्रतमेव हतमनुम्रियतेऽन्तं वा एष आत्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति

English

Thereby he as if dies following the violated vow. One who restrains his breath as if meets with an end of his life. One at whose Agnihora the sun sets while his (Āhavanīya) fire is not yet carried forward, meets with the end of his sacrifice.

विश्वास-प्रस्तुतिः

पुनः समन्य जुहोत्यन्तेनैवान्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

मूलम्

पुनः समन्य जुहोत्यन्तेनैवान्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

English

Having again breathed in, he makes the offering. He compensates for the end of the sacrifice (as if) through his death.” So says the brāhmaṇa."153

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

वरुणो वा एतस्य यज्ञं गृह्णाति यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति

मूलम्

वरुणो वा एतस्य यज्ञं गृह्णाति यस्याग्निमनुद्धृतँसूर्योऽभिनिम्रोचति

English

“Varuṇa attacks his sacrifice at whose Agnihotra-offering the sun sets while the (Āhavanīya) fire has not yet been carried forward.

विश्वास-प्रस्तुतिः

वारुणं चरुं निर्वपेत्

मूलम्

वारुणं चरुं निर्वपेत्

English

He should offer cooked rice to Varuṇa.

विश्वास-प्रस्तुतिः

तेनैव यज्ञं निष्क्रीणीत इति ब्राह्मणम्

मूलम्

तेनैव यज्ञं निष्क्रीणीत इति ब्राह्मणम्

English

Thereby he expiates for the sacrifice.” So says the Brāhmaṇa.154

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

नि वा एतस्याहवनीयो गार्हपत्यं कामयते नि गार्हपत्य आहवनीयं यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति

मूलम्

नि वा एतस्याहवनीयो गार्हपत्यं कामयते नि गार्हपत्य आहवनीयं यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति

English

“His Āhavanīya desires to denounce the Gārhapatya and the Gārhapatya desires to denounce the Āhavanīya, at whose Agnihotra-offering the sun rises while the (Āhavanīya) fire is not yet carried forward.

विश्वास-प्रस्तुतिः

चतुर्गृहीतमाज्यं पुरस्ताद्धरेदथाग्निमथाग्निहोत्रमिति

मूलम्

चतुर्गृहीतमाज्यं पुरस्ताद्धरेदथाग्निमथाग्निहोत्रमिति

English

He should carry ahead four spoonfuls of clarified butter, then the fire, then the Agnihotra. “154

विश्वास-प्रस्तुतिः

स यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति चतुर्गृहीतेनाज्येन परिकर्मी पूर्वः प्रतिपद्यतेऽन्वग्ब्राह्मण आर्षेय इध्मेनान्वगात्मनाग्निहोत्रेणाथैतदाज्यमाहवनीयस्यायतने सादयित्वापोद्धृत्याज्यमथेध्मं प्रतिष्ठापयत्यथ वै भवति

If at the Agnihotra-offering the sun rises while the (Āhavanīya) fire is not yet carried forward,an assistant walks ahead together with four spoonfuls of clarified butter; a brāhmaṇa having R̥ṣi-ancestors follows him taking the faggot, and he himself follows taking the Agnihotra.”154 Having placed the clarified butter in the Āhavanīya fire-place and having taken it away, one lays down the faggot. It is indeed said,

विश्वास-प्रस्तुतिः

पराची वा एतस्मै व्युच्छन्ती व्युच्छति यस्याग्निमनुद्धृतँ सूर्योऽभ्युदेत्युषाः केतुना जुषतां यज्ञं देवेभिरन्वितम्। देवेभ्यो मधुमत्तमँस्वाहेति प्रत्यङ्निषद्याज्येन जुहुयात्प्रतीचीमेवास्मै विवासयतीति ब्राह्मणम्

“The dawn dawns upon him so as not to return at whose Agnihotra the sun rises while the (Āhavnīya) fire is not yet carried forward. Having sat down to the rear, one should make the offering with the verse, “May the dawn enjoy through brightness the sacrifice adopted by the gods and the sweetest for the gods, svāhā.” “Thereby (the dawn) shines so as to return for him.” So says the Brāhmaṇa.155

विश्वास-प्रस्तुतिः

अथ वै भवत्यग्निहोत्रमुपसाद्यातमितोरासीत

मूलम्

अथ वै भवत्यग्निहोत्रमुपसाद्यातमितोरासीत

English

It is indeed said, “Having placed the Agnihotra, he should stand restraining his breath as long as he can.

विश्वास-प्रस्तुतिः

व्रतमेव हतमनुम्रियतेऽन्तं वा एष आत्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति

मूलम्

व्रतमेव हतमनुम्रियतेऽन्तं वा एष आत्मनो गच्छति यस्ताम्यत्यन्तमेष यज्ञस्य गच्छति यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति

English

Thereby he as if dies following the violated vow. One who restrains his breath (as if) meets with an end of his life. He meets with the end of the sacrifice at whose Agnihotra the sun rises while the (Āhavanīya) fire is not yet carried forward.

विश्वास-प्रस्तुतिः

पुनः समन्य जुहोत्यन्तेनैवान्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

मूलम्

पुनः समन्य जुहोत्यन्तेनैवान्तं यज्ञस्य निष्करोतीति ब्राह्मणम्

English

Having inhaled he makes the offering. He thereby compensates for the end of sacrifice (as if) through his death.” So the Brāhmaṇa says.156

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

मित्रो वा एतस्य यज्ञं गृह्णाति यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति

मूलम्

मित्रो वा एतस्य यज्ञं गृह्णाति यस्याग्निमनुद्धृतँसूर्योऽभ्युदेति

English

“Mitra seizes his sacrifice at whose sacrifice the sun rises while the (Āhavanīya) fire is not yet carried forth.

विश्वास-प्रस्तुतिः

मैत्रं चरुं निर्वपेत्

मूलम्

मैत्रं चरुं निर्वपेत्

English

He should offer cooked rice to Mitra.

विश्वास-प्रस्तुतिः

तेनैव यज्ञं निष्क्रीणीत इति ब्राह्मणम्

मूलम्

तेनैव यज्ञं निष्क्रीणीत इति ब्राह्मणम्

English

Thereby he compensates for the sacrifice.” So says the Brāhmaṇa.156

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेद्यदाहवनीयमनुद्वाप्य गार्हपत्यं मन्थेद्विच्छिन्द्याद्भ्रातृव्यमस्मै जनयेद्यद्वै यज्ञस्य वास्तव्यं क्रियते तदनु रुद्रो ऽवचरति

मूलम्

यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेद्यदाहवनीयमनुद्वाप्य गार्हपत्यं मन्थेद्विच्छिन्द्याद्भ्रातृव्यमस्मै जनयेद्यद्वै यज्ञस्य वास्तव्यं क्रियते तदनु रुद्रो ऽवचरति

English

“The Gārhapatya possibly becomes extinguished while the Āhavanīya remains unextinguished. In such a case if one churns out the Gārhapatya without extinguishing the Āhavanīya, he would violate (his sacrifice). (That violated sacrifice) would create enmity for him. Whatever secular is done in respect of a sacrifice, Rudra follows it.

विश्वास-प्रस्तुतिः

यत्पूर्वमन्ववस्येद्वास्तव्यमग्निमुपासीत

मूलम्

यत्पूर्वमन्ववस्येद्वास्तव्यमग्निमुपासीत

English

If he finishes the rite with reference to the eastern (Āhavanīya) fire, he would be deemed to have worshipped secular fire.

विश्वास-प्रस्तुतिः

रुद्रो ऽस्य पशून्घातुकः स्यादाहवनीयमुद्वाप्य गार्हपत्यं मन्थेदिति

मूलम्

रुद्रो ऽस्य पशून्घातुकः स्यादाहवनीयमुद्वाप्य गार्हपत्यं मन्थेदिति

English

Rudra would kill his cattle. So having extinguished the Āhavanīya, he should churn out the Gārhapatya.”157

विश्वास-प्रस्तुतिः

स आहवनीयमुद्वाप्य गार्हपत्यं मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति

मूलम्

स आहवनीयमुद्वाप्य गार्हपत्यं मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति

English

Having extinguished the Āhavanīya he churns out the Gārhapatya with the verse, “Jātavedas Agni is born here first from his birth-place. Knowing, may he carry oblation to gods with the assistance of Gāyatrī, Triṣṭubh and Jagatī.

विश्वास-प्रस्तुतिः

छन्दोभिरेवैनँस्वाद्योनेः प्रजनयतीति ब्राह्मणम्

मूलम्

छन्दोभिरेवैनँस्वाद्योनेः प्रजनयतीति ब्राह्मणम्

English

He produces him from his womb with the assistance of the metres.” So says the brāhmaṇa.158

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

गार्हपत्यं मन्थति

मूलम्

गार्हपत्यं मन्थति

English

“He churns out the Gārhapatya.

विश्वास-प्रस्तुतिः

गार्हपत्यं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते

मूलम्

गार्हपत्यं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते

English

Following the Gārhapatya the cattle reside with one who has set up the fires.

विश्वास-प्रस्तुतिः

स यदुद्वायति तदनु पशवोऽपक्रामन्तीत्यथैनमुपतिष्ठत इषे रय्यै रमस्व सहसे द्युम्नायोर्जे पत्यायेत्यथैनमुपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धाताम्सम्राडसि विराडसीति २४

मूलम्

स यदुद्वायति तदनु पशवोऽपक्रामन्तीत्यथैनमुपतिष्ठत इषे रय्यै रमस्व सहसे द्युम्नायोर्जे पत्यायेत्यथैनमुपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धाताम्सम्राडसि विराडसीति २४

English

If it becomes extinguished, following it the cattle leave him.’158 He prays to him (the Gārhapatya) with the formula, “Do thou be cherished with food, wealth, might, brilliance, vigour and lordship.”158 Then he adds fuel to it with the formula, “May the two springs of Sarasvatī flare thee; thou art sovereign ruler, thou art Virāj. “159

२५

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

वज्रो वै चक्रं

मूलम्

वज्रो वै चक्रं

English

“The thunderbolt is indeed a wheel.

विश्वास-प्रस्तुतिः

वज्रो वा एतस्य यज्ञं विच्छिनत्ति यस्यानो वा रथो वान्तराग्नी यात्याहवनीयमुद्वाप्य गार्हपत्यादुद्धरेदिति

मूलम्

वज्रो वा एतस्य यज्ञं विच्छिनत्ति यस्यानो वा रथो वान्तराग्नी यात्याहवनीयमुद्वाप्य गार्हपत्यादुद्धरेदिति

English

The thunderbolt injures the sacrifice of one at whose fire-place a cart or a chariot passes betwen the two fires. Having extinguished the Āhavanīya, he should carry forward fire from the Gāhapatya.”160

विश्वास-प्रस्तुतिः

स आहवनीयमुद्वाप्य गार्हपत्यादिध्ममुद्धरति यदग्ने पूर्वं प्रभृतं पदँहि ते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भरैतं सं नः सृज सुमत्या वाजवत्येति

मूलम्

स आहवनीयमुद्वाप्य गार्हपत्यादिध्ममुद्धरति यदग्ने पूर्वं प्रभृतं पदँहि ते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भरैतं सं नः सृज सुमत्या वाजवत्येति

English

Having extinguished the Āhavanīya he carries forward a firebrand from the Gārhapatya with the verse, “O Agni, thy former place which extended itself following the rays of the sun, on that place do thou furnish this (fire) equipped with wealth. Grant us good intention together with strength.”160

विश्वास-प्रस्तुतिः

पूर्वेणैवास्य यज्ञेन यज्ञमनुसन्तनोतीति ब्राह्मणम्

मूलम्

पूर्वेणैवास्य यज्ञेन यज्ञमनुसन्तनोतीति ब्राह्मणम्

English

He joins his sacrifce with his former sacrifice.” So says the Brāhmaṇa.160

विश्वास-प्रस्तुतिः

अथैनमुपतिष्ठते त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वत इत्यग्निः सर्वा देवता देवताभिरेव यज्ञँसन्तनोतीति ब्राह्मणम्

मूलम्

अथैनमुपतिष्ठते त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वत इत्यग्निः सर्वा देवता देवताभिरेव यज्ञँसन्तनोतीति ब्राह्मणम्

English

He then prays tohim with the verse, “O Agni, thou art well known, an agreeable Hotr̥ to be chosen by all. Men perform sacrifce by means of thee.”161 “Agni is all deities; through the deities he attains the continuity of the sacrifice.” So says the Brāhamaṇa.160

विश्वास-प्रस्तुतिः

अथाग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपत्य्

मूलम्

अथाग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपत्य्

English

Then he pours out paddy for a cake on eight potsherds to Pathikṛt Agni.

विश्वास-प्रस्तुतिः

अन्वाहार्यमासाद्यानड्वाहं ददाति

मूलम्

अन्वाहार्यमासाद्यानड्वाहं ददाति

English

Having placed the Anvāhārya cooked rice (within the altar) the sacrificer gives away an ox.

विश्वास-प्रस्तुतिः

सा प्रसिद्धेष्टिः सन्तिष्ठतेऽथ वै भवति

मूलम्

सा प्रसिद्धेष्टिः सन्तिष्ठतेऽथ वै भवति

English

The Iṣṭi is concluded in the prescribed manner. It is indeed said,

विश्वास-प्रस्तुतिः

यस्य प्रातःसवने सोमोऽतिरिच्यते माध्यन्दिनँसवनं कामयमानोऽभ्यतिरिच्यत इति

मूलम्

यस्य प्रातःसवने सोमोऽतिरिच्यते माध्यन्दिनँसवनं कामयमानोऽभ्यतिरिच्यत इति

English

“If the Soma-juice is left over after the morning pressing, it remains longing for the Midday-pressing.”162

विश्वास-प्रस्तुतिः

स प्रातःसवने सोमेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति

मूलम्

स प्रातःसवने सोमेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति

English

When the Soma is left over after the morning pressing, while moving forward he says, “Do you fill in the goblets following the Hotr̥’s goblet; O Unnetṛ, fill up the entire Soma-juice, do not keep back.”

विश्वास-प्रस्तुतिः

होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्

मूलम्

होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्

English

The Hotr̥’s goblet is filled in first and then the others at one’s will.

विश्वास-प्रस्तुतिः

सर्वश एव राजानँसमुन्नीयोत्तरवेद्याँसँसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

मूलम्

सर्वश एव राजानँसमुन्नीयोत्तरवेद्याँसँसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

English

After having filled in the entire Soma, they place (the goblets) on the Uttaravedi. Having touched water, having taken two darbha-blades, restraining speach and having hastened to the west, he introduces the chanting of the Stotra.

विश्वास-प्रस्तुतिः

स्तुवते

मूलम्

स्तुवते

English

(The Udgātṛs) chant the Stotra.

विश्वास-प्रस्तुतिः

तदेतद्गायत्रँसाम पञ्चदशं गौर्धयति मरुतामिति धयद्वतीषु कुर्वन्ति

मूलम्

तदेतद्गायत्रँसाम पञ्चदशं गौर्धयति मरुतामिति धयद्वतीषु कुर्वन्ति

English

They chant this Gāyatra Sāman in Pañcadaśa Stoma on the Dhayadvati verses beginning with gaur dhayati marutām ..

विश्वास-प्रस्तुतिः

होत्र एषोत्तमेति प्राहुः

मूलम्

होत्र एषोत्तमेति प्राहुः

English

They say to the Hotr̥, “This is the last verse.”

विश्वास-प्रस्तुतिः

समानमत ऊर्ध्वम्

मूलम्

समानमत ऊर्ध्वम्

English

The subsequent rite is similar.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्य माध्यन्दिने सवने सोमोऽतिरिच्यत आदित्यं तृतीयसवनं कामयमानोऽभ्यतिरिच्यत इति

मूलम्

यस्य माध्यन्दिने सवने सोमोऽतिरिच्यत आदित्यं तृतीयसवनं कामयमानोऽभ्यतिरिच्यत इति

English

“If the Soma-juice is left over after the Midday pressing, it remains longing for the Third pressing dedicated to the Adityas.163

विश्वास-प्रस्तुतिः

स माध्यन्दिने सवने सोमेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति

मूलम्

स माध्यन्दिने सवने सोमेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति

English

If the Soma is left over at the Midday pressing, while moving towards the east, he says, “Do you fill in (the goblets) following the Hotr̥’s goblet; O Unnetṛ, do thou finish the entire Soma; do not keep back.”

विश्वास-प्रस्तुतिः

होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्

मूलम्

होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्

English

The Hotr̥’ goblet is filled in first, and then the others at will.

विश्वास-प्रस्तुतिः

सर्वश एव राजानँसमुन्नीयोत्तरवेद्याँसँसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

मूलम्

सर्वश एव राजानँसमुन्नीयोत्तरवेद्याँसँसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

English

Having filled up the entire Soma, they keep (the goblets) on the Uttaravedi. Having touched water, having taken two darbha-blades, restraining speech and having hastened to the west, he introduces the chanting of the Stotra.

विश्वास-प्रस्तुतिः

स्तुवते

मूलम्

स्तुवते

English

(The Udgātṛs) chant the Stotra.

विश्वास-प्रस्तुतिः

तदेतद्गौरिवीतँसाम सप्तदशं बण्महाँअसि सूर्येत्येतासु कुर्वन्ति

मूलम्

तदेतद्गौरिवीतँसाम सप्तदशं बण्महाँअसि सूर्येत्येतासु कुर्वन्ति

English

They chant the Gaurivita Sāman in seventeen Stomas based on the verses beginning with ban mahān asi sūrya.

विश्वास-प्रस्तुतिः

होत्र एषोत्तमेति प्राहुः

मूलम्

होत्र एषोत्तमेति प्राहुः

English

They say to the Hotr̥, “This is the last one.”

विश्वास-प्रस्तुतिः

समानमत ऊर्ध्वम्

मूलम्

समानमत ऊर्ध्वम्

English

The subsequent procedure is similar.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्य तृतीयसवने सोमोऽतिरिच्येतोक्थ्यं कुर्वीत

मूलम्

यस्य तृतीयसवने सोमोऽतिरिच्येतोक्थ्यं कुर्वीत

English

“If the Soma-juice is left over at the end of the third prssing, one should perform the Ukthya.

विश्वास-प्रस्तुतिः

यस्योक्थ्येऽतिरिच्येतातिरात्रं कुर्वीत

मूलम्

यस्योक्थ्येऽतिरिच्येतातिरात्रं कुर्वीत

English

If it is left over ar the end of the Ukthya sacrifice, one should perform the Atirātra.

विश्वास-प्रस्तुतिः

यस्यातिरात्रेऽतिरिच्यते तं वै दुष्प्रज्ञानमित्यतिरात्रेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति

मूलम्

यस्यातिरात्रेऽतिरिच्यते तं वै दुष्प्रज्ञानमित्यतिरात्रेऽतिरिक्ते प्राङायन्नाह होतुश्चमसमनून्नयध्वमुन्नेतः सर्वश एव राजानमुन्नय मातिरीरिच इति

English

If the Soma is left over at the end of the Atirātra, the contingency becomes difficult of solution. If Soma is left over at the end of the Atirātra, while moving towards the east he says, “Do you fill in (the goblets) following the Hotr̥’s goblet; O Unnetṛ, do thou take up the entire Soma; do not keep back.”

विश्वास-प्रस्तुतिः

होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्

मूलम्

होतृचमसमेव प्रथममुन्नयन्ति यथोपपादमितरान्

English

The Hotr̥’s goblet is filled up first, then the others at will.

विश्वास-प्रस्तुतिः

सर्वश एव राजानँसमुन्नीयोत्तरवेद्याँसँसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

मूलम्

सर्वश एव राजानँसमुन्नीयोत्तरवेद्याँसँसादयन्त्यथाप उपस्पृश्य बर्हिषी आदाय वाचंयमः प्रत्यङ्द्रुत्वा स्तोत्रमुपाकरोति

English

Having filled up the entire Soma, they place (the goblets) on the Uttaravedi. Having touched water, taking two darbha-blades, restraining speech and having hastened to the west, he introduces the Stotra.

विश्वास-प्रस्तुतिः

स्तुवते

मूलम्

स्तुवते

English

(The Udgātṛs) chant (the Stotra).

विश्वास-प्रस्तुतिः

तदेतद्बृहत्सामैकविँशं वैष्णवीषु शिपिविष्टवतीषु कुर्वन्ति

मूलम्

तदेतद्बृहत्सामैकविँशं वैष्णवीषु शिपिविष्टवतीषु कुर्वन्ति

English

They chant this Br̥hat Sāman in Ekaviṁśa Stoma based on the verses addressed to Śipiviṣṭa Viṣṇu.

विश्वास-प्रस्तुतिः

होत्र एषोत्तमेति प्राहुः

मूलम्

होत्र एषोत्तमेति प्राहुः

English

They say to the Hotr̥, “This is the last one.”

विश्वास-प्रस्तुतिः

समानमत ऊर्ध्वम् २५

मूलम्

समानमत ऊर्ध्वम् २५

English

The subsequent procedure is similar.

२६

विश्वास-प्रस्तुतिः

इति नु छन्दोगबह्वृचेषु कामयमानेषु

मूलम्

इति नु छन्दोगबह्वृचेषु कामयमानेषु

English

This is if the priests belonging to the Sāmaveda and R̥gveda so desire.

विश्वास-प्रस्तुतिः

ते चेन्न कामयेरन्प्रातःसवनेऽतिरिक्ते याँस्थालीमलँराज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति

मूलम्

ते चेन्न कामयेरन्प्रातःसवनेऽतिरिक्ते याँस्थालीमलँराज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति

English

If they do not agree, in the contingency of Soma being left over at the morning pressing, he procures a vessel capable of accomodating the left over Soma, pours into it from above the Soma in the Āgrayaṇa vessel.

विश्वास-प्रस्तुतिः

त्रिरभिविष्यन्दयति

मूलम्

त्रिरभिविष्यन्दयति

English

He makes it flow down continuously for a long time.

विश्वास-प्रस्तुतिः

सोऽभिविष्यन्दमानः सर्व आग्रयणः सम्पद्यते

मूलम्

सोऽभिविष्यन्दमानः सर्व आग्रयणः सम्पद्यते

English

That entire Soma which flows down becomes the Agrayaṇa draught.

विश्वास-प्रस्तुतिः

तं त्रिरभिहिङ्कृत्य परिमृज्य सादयति

मूलम्

तं त्रिरभिहिङ्कृत्य परिमृज्य सादयति

English

Having uttered him thrice ovet it, he clasnses (the vessel) around and places it on the ground.

विश्वास-प्रस्तुतिः

माध्यन्दिने सवनेऽतिरिक्ते तथैव याँस्थालीमलँराज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति

मूलम्

माध्यन्दिने सवनेऽतिरिक्ते तथैव याँस्थालीमलँराज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति

English

If (the Soma) is left over after the Midday pressing, he similarly takes up a vessel capable of accomodating the left over Soma, pours into it from above the Soma in the Āgrayaṇa vessel.

विश्वास-प्रस्तुतिः

त्रिरभिविष्यन्दयति

मूलम्

त्रिरभिविष्यन्दयति

English

He makes it flow down continuously for long.

विश्वास-प्रस्तुतिः

सोऽभिविष्यन्दमानः सर्व एवाग्रयणः सम्पद्यते

मूलम्

सोऽभिविष्यन्दमानः सर्व एवाग्रयणः सम्पद्यते

English

That entire Soma which flows down becomes the Āgrayaṇa draught.

विश्वास-प्रस्तुतिः

तं तथैव त्रिरभिहिङ्कृत्य परिमृज्य सादयति

मूलम्

तं तथैव त्रिरभिहिङ्कृत्य परिमृज्य सादयति

English

Having uttered him thrice over it, he cleanses the vessel around.

विश्वास-प्रस्तुतिः

तृतीयसवनेऽतिरिक्ते हारियोजनमेवात्राभिविष्यन्दयति

मूलम्

तृतीयसवनेऽतिरिक्ते हारियोजनमेवात्राभिविष्यन्दयति

English

If (the Soma) is left over after the third pressing, he causes the Hāriyojana cup to flow down.

विश्वास-प्रस्तुतिः

न हि पुनर्ग्रहणं विद्यतेऽथातो ध्रुवस्यैव परिहीणस्य मीमाँसैन्द्रा ग्निभ्यामेनमृग्भ्यां परिगृह्य जुहुयादिन्द्रा ग्नी वै देवानां पुनःपुनरभ्युपाकारं यजामह इत्येतदेकम्

मूलम्

न हि पुनर्ग्रहणं विद्यतेऽथातो ध्रुवस्यैव परिहीणस्य मीमाँसैन्द्रा ग्निभ्यामेनमृग्भ्यां परिगृह्य जुहुयादिन्द्रा ग्नी वै देवानां पुनःपुनरभ्युपाकारं यजामह इत्येतदेकम्

English

There is no further taking up of draughts. Now the discussion about the Dhruva draught being lost. Having taken it with two verses addressed to Indra-Agni, he makes the offering with the intention that “We shall offer to Indra-Agni among the gods invoking again and again.” This is one view.

विश्वास-प्रस्तुतिः

आश्विनीभ्यामेनमृग्भ्यां परिगृह्य जुहुयादश्विनौ वै देवानां भिषजौ ताभ्यामेवास्मै भेषजं करोतीत्येतदेकम्वैष्णवीभ्यामेनमृग्भ्यां परिगृह्य जुहुयाद्यद्वै यज्ञस्यातिरिच्यते विष्णुं तच्छिपिविष्टमभ्यतिरिच्यत इत्येतदेकम्

One should offer having taken it with two verses addressed to the Aśvins. Asvins are the physicians of gods. Through them he provides remedy for him. This is one view. He should offer having taken it with two verses addressed to Viṣṇu. Whatever is left over of the sacrifice, it is meant for Śipiviṣṭa Viṣṇu. This is one view.

विश्वास-प्रस्तुतिः

अवभृथेनैनँसहाभ्यवहरेद्यथा मेऽन्यानि सोमलिप्तानि पात्राण्येवं म एव भविष्यतीत्येतदेकम्बर्हिषैनँसहाभ्युपोषेदेष वा अग्निर्वैश्वानरो यत्प्रदाव्योऽग्नय एष वैश्वानराय गृह्यते

मूलम्

अवभृथेनैनँसहाभ्यवहरेद्यथा मेऽन्यानि सोमलिप्तानि पात्राण्येवं म एव भविष्यतीत्येतदेकम्बर्हिषैनँसहाभ्युपोषेदेष वा अग्निर्वैश्वानरो यत्प्रदाव्योऽग्नय एष वैश्वानराय गृह्यते

English

One should dispose of it along with the Avabhṛtha thinking “Just as my other utensils besmeared with Soma are disposed, similarly this also will be disposed.” This is one view. One should burn it along with the sacrificial grass. The conflagration is indeed Vaiśvānara Agni. It is taken for Vaiśvānara Agni.

विश्वास-प्रस्तुतिः

ध्रुव एवमग्नौ वैश्वानरे हुतो भविष्यतीत्येतदपरम्

मूलम्

ध्रुव एवमग्नौ वैश्वानरे हुतो भविष्यतीत्येतदपरम्

English

In this manner the Dhruva vessel will be deemed to have been offered into Vaiśvanara Agni. This is another view.

विश्वास-प्रस्तुतिः

अथ पुनर्दीक्षते

मूलम्

अथ पुनर्दीक्षते

English

Then the sacrificer again becomes initiated.

विश्वास-प्रस्तुतिः

यज्ञो ह वै यज्ञस्य प्रायश्चित्तिरिति न्वेकाहयाजिनोऽथ सत्त्रिणाम्मार्जालीये परिष्यन्दं निष्यन्दनवन्तं कृत्वा तदेनं निनयन्ति

मूलम्

यज्ञो ह वै यज्ञस्य प्रायश्चित्तिरिति न्वेकाहयाजिनोऽथ सत्त्रिणाम्मार्जालीये परिष्यन्दं निष्यन्दनवन्तं कृत्वा तदेनं निनयन्ति

English

Sacrifice is indeed the expiation for a sacrifice. This applies to one performing an Ekāha sacrifice. Now for the Sattrins. Having formed a current with a gush on the Mārjālīya mound, they pour it down there.

विश्वास-प्रस्तुतिः

श्वो भूते हि ते सोष्यन्तो भवन्ति २६

मूलम्

श्वो भूते हि ते सोष्यन्तो भवन्ति २६

English

Next day they do the pressing.

२७

विश्वास-प्रस्तुतिः

उक्तः सँसवोऽथ वै भवत्यार्तिं वा एते नियन्ति येषां दीक्षितानां प्रमीयते

मूलम्

उक्तः सँसवोऽथ वै भवत्यार्तिं वा एते नियन्ति येषां दीक्षितानां प्रमीयते

English

The Saṁsava has been explained (in the next Anuvāka).164 It is indeed said, “Those initiated out of whom somebody becomes deceased meet with injury.

विश्वास-प्रस्तुतिः

तं यदववर्जेयुः क्रूरकृतामिवैषां लोकः स्याद्

मूलम्

तं यदववर्जेयुः क्रूरकृतामिवैषां लोकः स्याद्

English

If they disregard him, they would meet with the world of those who are evil-doers.

विश्वास-प्रस्तुतिः

आहर दहेति ब्रूयादिति

मूलम्

आहर दहेति ब्रूयादिति

English

One should say (to his descendant), “Do thou carry him and cremate.”165

विश्वास-प्रस्तुतिः

दीक्षितं चेदुपतपद्विन्देदाग्नीध्रीयशयनो ह भवति

मूलम्

दीक्षितं चेदुपतपद्विन्देदाग्नीध्रीयशयनो ह भवति

English

If an initiated becomes ill, he is made to lie down in the Āgnīdhra-chamber.

विश्वास-प्रस्तुतिः

तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते

मूलम्

तदस्मै भक्षानाहरन्ति यावदलं भक्षाय मन्यते

English

His Soma-portions are brought over to him as long as he is capable of consuming.

विश्वास-प्रस्तुतिः

स यद्यहागदो भवति पुनरैति

मूलम्

स यद्यहागदो भवति पुनरैति

English

If he becomes free from disease, he rejoins the Sattra.

विश्वास-प्रस्तुतिः

यद्यु वै प्रैति सर्वेभ्योऽग्निभ्योऽङ्गारान्निर्वर्त्यारण्योरग्नीन्समारोह्यान्तरेण चात्वालोत्करावुदङ्ङुपनिर्हृत्य तेनैनं दहेयुस्

मूलम्

यद्यु वै प्रैति सर्वेभ्योऽग्निभ्योऽङ्गारान्निर्वर्त्यारण्योरग्नीन्समारोह्यान्तरेण चात्वालोत्करावुदङ्ङुपनिर्हृत्य तेनैनं दहेयुस्

English

If he dies, having drawn embers from all fires, having consigned (his) fires into kindling woods, having taken out (the dead body) towards the north inbetween the Cātvāla and the rubbish-heap, they should cremate him with that fire.

विश्वास-प्रस्तुतिः

तं त्रिरात्रेण शीतीकृत्वा सञ्चिनुयुस्

मूलम्

तं त्रिरात्रेण शीतीकृत्वा सञ्चिनुयुस्

English

Having allowed the pyre to be cooled down after three nights, they should collect (his bones).

विश्वास-प्रस्तुतिः

ते तथाकृतेन षडहसँस्थां काङ्क्षेयुरथ सँस्थिते षडहेऽस्थिकुम्भं याचति

मूलम्

ते तथाकृतेन षडहसँस्थां काङ्क्षेयुरथ सँस्थिते षडहेऽस्थिकुम्भं याचति

English

Through these rites they should await the conclusion of the (ongoing) Ṣaḍaha. At the conclusion of the Ṣaḍaha (the Adhvaryu) asks for a pitcher for the bones.

विश्वास-प्रस्तुतिः

तस्मिन्सञ्चितमवधाय तं दक्षिणतो वेद्यै निधाय सर्पराज्ञिया ऋग्भि स्तुयुरियं वै सर्पतो राज्ञ्यस्या एवैनं परिददति

मूलम्

तस्मिन्सञ्चितमवधाय तं दक्षिणतो वेद्यै निधाय सर्पराज्ञिया ऋग्भि स्तुयुरियं वै सर्पतो राज्ञ्यस्या एवैनं परिददति

English

Having poured the gathered bones into is and having kept that pitcher to the south of the altar, the Udgātṛs should chant the stotra based on Sarparājñī Ṛks. “This (earth) is the queen of the crawling ones. They assign him to her.

विश्वास-प्रस्तुतिः

व्यृद्धं तदित्याहुर्यत्स्तुतमननुशस्तमिति

मूलम्

व्यृद्धं तदित्याहुर्यत्स्तुतमननुशस्तमिति

English

Defective is it, they say, which is the chanting not followed by the reciting of the Śastra.

विश्वास-प्रस्तुतिः

होता प्रथमः प्राचीनावीती मार्जालीयं परीयाद्यामीरनुब्रुवन्सर्पराज्ञीनां कीर्तयेदिति

मूलम्

होता प्रथमः प्राचीनावीती मार्जालीयं परीयाद्यामीरनुब्रुवन्सर्पराज्ञीनां कीर्तयेदिति

English

The Hotr̥, suspending his sacred cord over the right shoulder and under the left arm, should go round the Mārjālīya mound first, reciting the verses addressed to Yama. He should then recite the Sarparājñi verses.166

विश्वास-प्रस्तुतिः

तेषां तथा परीतानामध्वर्युर्जघन्यः पर्येत्यथ यज्ञोपवीतं कृत्वा यथेतं त्रिः पुनः प्रतिपरियन्ति

मूलम्

तेषां तथा परीतानामध्वर्युर्जघन्यः पर्येत्यथ यज्ञोपवीतं कृत्वा यथेतं त्रिः पुनः प्रतिपरियन्ति

English

The Adhvaryu goes around the last of all those similarly going around. Having suspended the sacred cord over the left shoulder, they go the other way round thrice.

विश्वास-प्रस्तुतिः

तेषां तथा परीतानामध्वर्युः पूर्वः पर्येत्यथैनमादायान्तरेण चात्वालोत्करावश्मानं चास्थिकुम्भं च निधायाद्भिरवोक्षत्यप नः शोशुचदघमिति

मूलम्

तेषां तथा परीतानामध्वर्युः पूर्वः पर्येत्यथैनमादायान्तरेण चात्वालोत्करावश्मानं चास्थिकुम्भं च निधायाद्भिरवोक्षत्यप नः शोशुचदघमिति

English

The Adhvaryu goes around first of all those similarly going the other way round. Having taken it (=the pitcher of bones), having kept down a stone and the pitcher of bones between the Cātvāla and the rubbish-heap, he sprinkles water (over them) with the verse, “O Agni, do thou burn away our evil; purify the wealth; burn away the evil; to Mr̥tyu svāhā.”167

विश्वास-प्रस्तुतिः

तस्मिन्मैत्रावरुणाग्रान्ग्रहान्गृह्णन्त्यथातिशिष्टँसत्त्रस्यासते

मूलम्

तस्मिन्मैत्रावरुणाग्रान्ग्रहान्गृह्णन्त्यथातिशिष्टँसत्त्रस्यासते

English

In that (Soma-offering) they take up the draughts with that for Mitra-Varuṇa to be the first. Then they go through the remaining part of the Sattra.

विश्वास-प्रस्तुतिः

तस्यावभृथवेलायामस्थिकुम्भं निधायाद्भिरवोक्षत्येतदवभृत उ वैवैष भवत्यपि वा योऽस्य स्वो नेदिष्ठी स्यात्तस्य स्थाने तं दीक्षयेत्

मूलम्

तस्यावभृथवेलायामस्थिकुम्भं निधायाद्भिरवोक्षत्येतदवभृत उ वैवैष भवत्यपि वा योऽस्य स्वो नेदिष्ठी स्यात्तस्य स्थाने तं दीक्षयेत्

English

At the time of its Avabhṛtha (the Advaryu) keeps down the pitcher of bones and sprinkles it with water. This becomes his (deceased Sattrin’s) Avabhṛtha. Or otherwise one should initiate in his place his nearest relative.

विश्वास-प्रस्तुतिः

संवत्सरेऽस्थीनि याजयन्त्यथ वै भवति २७

मूलम्

संवत्सरेऽस्थीनि याजयन्त्यथ वै भवति २७

English

At the end of the year the bones are made to make the offering. It is indeed said:

२८

विश्वास-प्रस्तुतिः

असुर्यं वा एतस्माद्वर्णं कृत्वा पशवो वीर्यमपक्रामन्ति यस्य यूपो विरोहति

मूलम्

असुर्यं वा एतस्माद्वर्णं कृत्वा पशवो वीर्यमपक्रामन्ति यस्य यूपो विरोहति

English

“Cattle and valour leave him after having transferred their form to the Asuras in whose sacrifice the sacrificial post shoots out.

विश्वास-प्रस्तुतिः

त्वाष्ट्रं बहुरूपमालभेतेति

मूलम्

त्वाष्ट्रं बहुरूपमालभेतेति

English

(Such a sacrificer) should offer a variegated animal to Tvaṣṭr̥.”168

विश्वास-प्रस्तुतिः

सत्त्रिणां चेद्यूपो विरोहेत्सम्प्रच्छिद्यास्य चषालँसवनीयस्य त्वाष्ट्रमुपालम्भ्यं कुर्युरपि वा त्वाष्ट्रं ब्रह्मौदनँश्रपयित्वैताः शाखाः प्रवृश्चेयुः प्र वा तक्ष्णुयुरपि वा त्वाष्ट्रीः स्रुवाहुतीर्हुत्वैताः शाखाः प्रवृश्चेयुः प्र वा तक्ष्णुयुरपि वा त्वाष्ट्रे त्वष्ट्र इत्येव ब्रूयादित्य्

If the sacrificial post of the Sattrins shoots out, one should cut off the Caṣāla on it, and offer the Savanīya animal to Tvaștṛ. Or having cooked Brahmaudana for Tvaṣṭr̥, they should either cut off its twigs or fashion (the post). Or having offered spoonfuls to Tvaṣṭr̥, one should cut off the twigs or fashion (the post). Or he should simply say, “To Tvaṣṭr̥ what belongs to Tvastṛ.”

विश्वास-प्रस्तुतिः

अथ वै भवत्यार्तिमेते नियन्ति येषां दीक्षितानामग्निरुद्वायति

मूलम्

अथ वै भवत्यार्तिमेते नियन्ति येषां दीक्षितानामग्निरुद्वायति

English

It is indeed said, “The initiated ones whose fire becomes extinguished meet with calamity. If the Āhavanīya becomes extinguished and if one churns it, it would violate (the sacrifice); it would create enemies for him.

विश्वास-प्रस्तुतिः

यदाहवनीय उद्वायेद्यत्तं मन्थेद्विच्छिन्द्याद्भ्रातृव्यमस्मै जनयेद्यदाहवनीय उद्वायेदाग्नीध्रादुद्धरेद्यदाग्नीध्र उद्वायेद्गार्हपत्यादुद्धरेद्यद्गार्हपत्य उद्वायेदत एव पुनर्मन्थेदत्र वाव स निलयते

If the Āhavanīya becomes extinguished, one should carry forth fire from the Āgnīdhrīya fire. If the Āgnīdhrīya fire becomes extinguished, one should carry forth from the Gārhapatya. If the Gārhapatya becomes extinguished, one should churn out fire at its place. Herein it becomes merged.

विश्वास-प्रस्तुतिः

यत्र खलु वै निलीनमुत्तमं पश्यन्ति तदेनमिच्छन्ति

मूलम्

यत्र खलु वै निलीनमुत्तमं पश्यन्ति तदेनमिच्छन्ति

English

Where they perceive a precious thing disappearing, there only they try to find it.

विश्वास-प्रस्तुतिः

यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात्

मूलम्

यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात्

English

One should prepare kindling woods from that wood from which (the fire) becomes extinguished.

विश्वास-प्रस्तुतिः

क्रुमुकमपि कुर्यातिति

मूलम्

क्रुमुकमपि कुर्यातिति

English

One should prepare them even out of the Krumuka wood.”169

विश्वास-प्रस्तुतिः

स यस्माद्दारोरुद्वायति तस्यारणी कृत्वा क्रुमुकशकलमन्ववधाय तान्येवावक्षाणानि सन्निधाय मन्थेदिति

मूलम्

स यस्माद्दारोरुद्वायति तस्यारणी कृत्वा क्रुमुकशकलमन्ववधाय तान्येवावक्षाणानि सन्निधाय मन्थेदिति

English

One should get prepared kindling woods out of that wood from which the fire becomes extinguished, put down a chip, collect together the burnt embers and churn out.

विश्वास-प्रस्तुतिः

स तान्येवावक्षाणानि सन्निधाय मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति

मूलम्

स तान्येवावक्षाणानि सन्निधाय मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति

English

Having put together the burnt embers, he churns out with the verse, “Jātavedas Agni is born here first from his birth-place. Knowing, may he carry oblation to gods with the assistance of Gāyatrī, Triṣṭubh and Jagatī.”

विश्वास-प्रस्तुतिः

छन्दोभिरेवैनँस्वाद्योनेः प्रजनयतीति ब्राह्मणम् २८

मूलम्

छन्दोभिरेवैनँस्वाद्योनेः प्रजनयतीति ब्राह्मणम् २८

English

“He produces him from his womb with the assistance of the metres.”170 So says the Brāhmaṇa.

२९

विश्वास-प्रस्तुतिः

अथ यद्याहवनीयगार्हपत्यावुद्वायेयातां गार्हपत्यं मथित्वाग्नीध्रीयादाहवनीयमुद्धरेद्यद्याग्नीध्रीयगार्हपत्यावुद्वायेयातां गार्हपत्यं मथित्वाग्नीध्रीयमुद्धरेदथ यद्याग्नीध्रीयाहवनीयावुद्वायेयातां गार्हपत्यादाग्नीध्रीयमुद्धृत्य तत आहवनीयमुद्धरेदथ यदि सर्व एवोद्वायेयुर्गार्हपत्यं मथित्वाग्नीध्रीयमुद्धृत्य तत आहवनीयमुद्धरेदित्यथ वै भवति

If the Āhavanīya and the Gārhapatya become extinguished, having churned out the Gārhapatya, one should carry forth the Āhavanīya from the Āgnīdhrīya. If the Āgnīdhrīya and the Gārhapatya become extinguished, having churned out the Gārhapatya one should carry forth the Āgnīdhrīya. If the Āgnīdhrīya and the Āhavanīya become extinguished, having carried forth the Āgnīdhrīya from the Gārhapatya, one should carry forth the Āhavanīya from that (Āgnīdhrīya). If all the fires become extinguished, having churned out the Gārhapatya, and having carried forth the Āgnīdhrīya, one should carry forth the Āhavanīya from that (Āgnīdhrīya). It is indeed said,

विश्वास-प्रस्तुतिः

गार्हपत्यं मन्थति

मूलम्

गार्हपत्यं मन्थति

English

“He churns out the Gārhapatya.

विश्वास-प्रस्तुतिः

गार्हपत्यो वा अग्नेर्योनिः

मूलम्

गार्हपत्यो वा अग्नेर्योनिः

English

Gārhapatya is indeed the birth-place of Agni.

विश्वास-प्रस्तुतिः

स्वादेवैनं योनेर्जनयति

मूलम्

स्वादेवैनं योनेर्जनयति

English

He generates him from his womb.

विश्वास-प्रस्तुतिः

नास्मै भ्रातृव्यं जनयतीति ब्राह्मणम्

मूलम्

नास्मै भ्रातृव्यं जनयतीति ब्राह्मणम्

English

He does not create enemy for him.” So says the Brāhmaṇa.171

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्य सोम उपदस्येत्सुवणँर्हिरण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधूनुयाज्जुहुयादन्यदिति

मूलम्

यस्य सोम उपदस्येत्सुवणँर्हिरण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधूनुयाज्जुहुयादन्यदिति

English

“One whose Soma-juice is exhausted, should make two parts of a piece of gold, stir one part into the residue of Soma and offer another on the fire.”172

विश्वास-प्रस्तुतिः

स यस्य सोम उपदस्यति तत्सुवणँर्हिरण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधूनोति मुख्ये चमसेऽन्यदवधाय जुहोति

मूलम्

स यस्य सोम उपदस्यति तत्सुवणँर्हिरण्यं द्वेधा विच्छिद्यर्जीषेऽन्यदाधूनोति मुख्ये चमसेऽन्यदवधाय जुहोति

English

One whose Soma-juice becomes exhausted should make two parts of piece of gold, stir one part into the residue of Soma, and offer another having put it into the principal goblet.

विश्वास-प्रस्तुतिः

सोममेवाभिषुणोति सोमं जुहोतीति ब्राह्मणम्

मूलम्

सोममेवाभिषुणोति सोमं जुहोतीति ब्राह्मणम्

English

“He presses Soma and offers Soma,” So says the brāhmaṇa.172

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत्

मूलम्

सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत्

English

“The beloved body of the Soma being pressed passed upwards.

विश्वास-प्रस्तुतिः

तत्सुवणँर्हिरण्यमभवद्यत्सुवणँर्हिरण्यं कुर्वन्ति प्रिययैवैनं तनुवा समर्धयन्तीति ब्राह्मणम्

मूलम्

तत्सुवणँर्हिरण्यमभवद्यत्सुवणँर्हिरण्यं कुर्वन्ति प्रिययैवैनं तनुवा समर्धयन्तीति ब्राह्मणम्

English

It became gold. In that they stir gold into it, they furnish it with a beloved body.” So says the Brahmaņa.173

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्याक्रीतँसोममपहरेयुः क्रीणीयादेव

मूलम्

यस्याक्रीतँसोममपहरेयुः क्रीणीयादेव

English

“If Soma is stolen away while it is not yet formally purchased, one should purchase (another Soma).

विश्वास-प्रस्तुतिः

सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्

मूलम्

सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्

English

That is the expiation therefor.” So says the brāhmaṇa.174

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

यस्य क्रीतमपहरेयुरादाराँश्च फाल्गुनानि चाभिषुणुयादित्यादाराः क्षुद्र तृणानि

मूलम्

यस्य क्रीतमपहरेयुरादाराँश्च फाल्गुनानि चाभिषुणुयादित्यादाराः क्षुद्र तृणानि

English

“If the purchased Soma is stolen away, one should press Ādāra and Phālguna plants,”174 Ādāra is inferior grass.

विश्वास-प्रस्तुतिः

फाल्गुनानि हैमवतानि

मूलम्

फाल्गुनानि हैमवतानि

English

The Phālguna plants grows on the Himālayas.

विश्वास-प्रस्तुतिः

तेषामलाभे श्वेतकानां प्रतिनिधिर्विज्ञायते

मूलम्

तेषामलाभे श्वेतकानां प्रतिनिधिर्विज्ञायते

English

If they are not available, white plants should be used as the substitute. It is indeed said,

विश्वास-प्रस्तुतिः

तृतीयस्यामितो दिवि सोम आसीत्

मूलम्

तृतीयस्यामितो दिवि सोम आसीत्

English

“Soma grew in the third world from here.

विश्वास-प्रस्तुतिः

तं गायत्र्याहरत्

मूलम्

तं गायत्र्याहरत्

English

Gāyatrī brought it.

विश्वास-प्रस्तुतिः

तस्य पर्णमच्छिद्यत

मूलम्

तस्य पर्णमच्छिद्यत

English

Its leaf fell down.

विश्वास-प्रस्तुतिः

तत्पर्णोऽभवत्

मूलम्

तत्पर्णोऽभवत्

English

It became the Parṇa tree (Butea frondosa).

विश्वास-प्रस्तुतिः

तत्पर्णस्य पर्णत्वमिति

मूलम्

तत्पर्णस्य पर्णत्वमिति

English

This is why Parṇa is so called.

विश्वास-प्रस्तुतिः

तस्मात्पर्णत्सरूणामेवाभिषवः कार्य इति

मूलम्

तस्मात्पर्णत्सरूणामेवाभिषवः कार्य इति

English

Therefore one should press the stalks of leaves of Parṇa.

विश्वास-प्रस्तुतिः

शृतेन प्रातःसवने श्रीणीयादिति

मूलम्

शृतेन प्रातःसवने श्रीणीयादिति

English

“One should mix up (the juice) with hot milk in the morning pressing.175

विश्वास-प्रस्तुतिः

शृतमेतद्भवति

मूलम्

शृतमेतद्भवति

English

That becomes hot milk.

विश्वास-प्रस्तुतिः

दध्ना मध्यन्दिन इति

मूलम्

दध्ना मध्यन्दिन इति

English

“With curds at the Midday pressing.”175

विश्वास-प्रस्तुतिः

दध्येतद्भवति

मूलम्

दध्येतद्भवति

English

It becomes the curds.

विश्वास-प्रस्तुतिः

नीतमिश्रेण तृतीयसवन इति

मूलम्

नीतमिश्रेण तृतीयसवन इति

English

“With the curds not yet made into butter at the third pressing.”175

विश्वास-प्रस्तुतिः

विमथितँसपिलकमुद्धृतं प्राङ्नवनीतभावादित्येतदाचक्षतेऽग्निष्टोमः सोमः स्याद्र थन्तरसामा

मूलम्

विमथितँसपिलकमुद्धृतं प्राङ्नवनीतभावादित्येतदाचक्षतेऽग्निष्टोमः सोमः स्याद्र थन्तरसामा

English

It is said to be the curds which is churned and extracted together with exhuberances before they reach the stage of butter. “The Soma-sacrifice should be the Agniṣṭoma characterised by the Rathantara Pṛṣṭha.

विश्वास-प्रस्तुतिः

य एवर्त्विजो वृताः स्युस्त एनं याजयेयुरिति

मूलम्

य एवर्त्विजो वृताः स्युस्त एनं याजयेयुरिति

English

The kriests who have been chosen should perform his sacrifice.”176

विश्वास-प्रस्तुतिः

त एवैनं याजयन्त्येकां गां दक्षिणां दद्यादित्येकां गामत्र दक्षिणां ददाति

मूलम्

त एवैनं याजयन्त्येकां गां दक्षिणां दद्यादित्येकां गामत्र दक्षिणां ददाति

English

Those very priests cause him to offer the sacrifice. “(The sacriicer) should give away one cow as the Dakṣiṇā.176 He gives one cow as Dakṣiņā in this sacrifice.

विश्वास-प्रस्तुतिः

यदिह दास्यन्भवति तदमुत्र ददाति

मूलम्

यदिह दास्यन्भवति तदमुत्र ददाति

English

The Dakṣiņa which he had proposed for this sacrifice, he should give away in the next sacrifice.

विश्वास-प्रस्तुतिः

पुनः सोमं क्रीणीयाद्यज्ञेनैव तद्यज्ञमिच्छति

मूलम्

पुनः सोमं क्रीणीयाद्यज्ञेनैव तद्यज्ञमिच्छति

English

“He should again purchase Soma. Through the subsequent sacrifice he is deemed to have performed the (genuine) sacrifce.

विश्वास-प्रस्तुतिः

सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्

मूलम्

सैव ततः प्रायश्चित्तिरिति ब्राह्मणम्

English

“That is the expiation.” So says the Brāhmaṇa.176

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः कामेभ्यः सर्वेभ्य स्तोमेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते यः सत्त्रायागुरत एतावान्खलु वै पुरुषो यावदस्य वित्तँसर्ववेदसेन यजेतेत्यतिरात्रं विश्वजितमुपयन्त्यथात्र सर्ववेदसं ददाति

“One who proclaims his intention to perform a Sattra expresses his intention with regard to all deities, all desires, all Stomas, all metres, and all Pṛsthas. A man is that much what is his wealth. (Therefore) one should perform a Soma-sacrifice involving his entire property as Dakṣiṇā.”176 They perform the Viśvajit Atirātra. In this sacrifice one gives away all his belongings.

विश्वास-प्रस्तुतिः

सर्वपृष्ठोऽस्य सोमः स्यात्

मूलम्

सर्वपृष्ठोऽस्य सोमः स्यात्

English

“His Soma-sacrifce is characterised by all Pr̥ṣṭhas.

विश्वास-प्रस्तुतिः

सर्वाभ्य एव देवताभ्यः सर्वेभ्यः कामेभ्यः सर्वेभ्य स्तोमेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीत इति ब्राह्मणम् २९

मूलम्

सर्वाभ्य एव देवताभ्यः सर्वेभ्यः कामेभ्यः सर्वेभ्य स्तोमेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीत इति ब्राह्मणम् २९

English

Thereby he redeems himself from all deities, all desires, all Stomas, all metres and all Pr̥ṣṭhas.” So says the Brāhmaṇa.176

३०

विश्वास-प्रस्तुतिः

पवमानः सुवर्जन इति सौत्रामण्यामेष भवति

मूलम्

पवमानः सुवर्जन इति सौत्रामण्यामेष भवति

English

(The Anuvāka177 beginning with) pavamānaḥ suvarjanaḥ is employed in the Sautrāmaṇī sacrifice.178

विश्वास-प्रस्तुतिः

ब्राह्मणमुत्तरम्

मूलम्

ब्राह्मणमुत्तरम्

English

The next Anuvāka179 is its brāhmaṇa.

विश्वास-प्रस्तुतिः

अथ वै भवति

मूलम्

अथ वै भवति

English

It is indeed said,

विश्वास-प्रस्तुतिः

तस्माद्वैश्वदेवेन यजमानः संवत्सरीणाँस्वस्तिमाशास्त इत्याशासीत

मूलम्

तस्माद्वैश्वदेवेन यजमानः संवत्सरीणाँस्वस्तिमाशास्त इत्याशासीत

English

“Therefore one performing the Vaiśvadevaparvan (of the Cāturmāsyas) should ask for a blessing as expressed in the formula, “He seeks blessing lasting for a year.

विश्वास-प्रस्तुतिः

तस्माद्वरुणप्रघासैर्यजमानः परिवत्सरीणाँस्वस्तिमाशास्त इत्याशासीत

मूलम्

तस्माद्वरुणप्रघासैर्यजमानः परिवत्सरीणाँस्वस्तिमाशास्त इत्याशासीत

English

“Therefore the sacrificer performing the Varuṇapreghāsaparvan seeks blessing expressed in the formula, ‘He seeks blessing lasting for a Parivatsara.”180

विश्वास-प्रस्तुतिः

तस्मात्साकमेधैर्यजमान इदावत्सरीणाँस्वस्तिमाशास्त इत्याशासीत

मूलम्

तस्मात्साकमेधैर्यजमान इदावत्सरीणाँस्वस्तिमाशास्त इत्याशासीत

English

“Therefore the sacrificer performing the Śākamedhaparvan seeks blessing expressed in the formula, ‘He seeks blessing lasting for an Idāvatsara.”180

विश्वास-प्रस्तुतिः

तस्माच्छुनासीरीयेण यजमानोऽनुवत्सरिणाँस्वस्तिमाशास्त इत्याशासीतेत्यथ वै भवत्यग्नेः कृत्तिकाः शुक्रं परस्ताज्ज्योतिरवस्तादिति नक्षत्रेष्टकाभिर्विकल्पन्त इति ब्रुवतेऽथ वै भवति

मूलम्

तस्माच्छुनासीरीयेण यजमानोऽनुवत्सरिणाँस्वस्तिमाशास्त इत्याशासीतेत्यथ वै भवत्यग्नेः कृत्तिकाः शुक्रं परस्ताज्ज्योतिरवस्तादिति नक्षत्रेष्टकाभिर्विकल्पन्त इति ब्रुवतेऽथ वै भवति

English

“Therefore the sacrifcer performing the Śunāsīyaparvan seeks the blessing expressed in the formula, ‘He seeks blessing lasting for an Anuvatsara.’181
It is inde said,

विश्वास-प्रस्तुतिः

यत्पुण्यं नक्षत्रं तद्बट्कुर्वीतोपव्युषमिति

मूलम्

यत्पुण्यं नक्षत्रं तद्बट्कुर्वीतोपव्युषमिति

English

“Kṛttikās belong to Agni; the bright beyond, the flame below.”182-These formulas are optionally employed in connection with the piling up of Nakṣatra-bricks. It is indeed said, “That which is an auspicious constellation at the appearance of dawn, one should indeed adopt it.”183

विश्वास-प्रस्तुतिः

प्रातः कुर्वीत

मूलम्

प्रातः कुर्वीत

English

One may adopt the period in the morning,

विश्वास-प्रस्तुतिः

सङ्गवे कुर्वीत

मूलम्

सङ्गवे कुर्वीत

English

at the time when the cows are gathered together;

विश्वास-प्रस्तुतिः

मध्यन्दिने कुर्वीतापराह्णे कुर्वीत

मूलम्

मध्यन्दिने कुर्वीतापराह्णे कुर्वीत

English

at midday; in the afternoon;

विश्वास-प्रस्तुतिः

सायं कुर्वीत

मूलम्

सायं कुर्वीत

English

in the evening.

विश्वास-प्रस्तुतिः

यावति तत्र सूर्यो गच्छेद्यत्र जघन्यं पश्येत्तावति कुर्वीत

मूलम्

यावति तत्र सूर्यो गच्छेद्यत्र जघन्यं पश्येत्तावति कुर्वीत

English

“One may adopt that period at which he would perceive the sun to the east of the constellation.

विश्वास-प्रस्तुतिः

यत्कारी स्यात्पुण्याह एव कुरुत इति

मूलम्

यत्कारी स्यात्पुण्याह एव कुरुत इति

English

Whatever one performs (at that period) he is deemed to have performed it on an auspicious day.”184

विश्वास-प्रस्तुतिः

ब्राह्मणमुत्तरे ब्राह्मणमुत्तरे ३०

मूलम्

ब्राह्मणमुत्तरे ब्राह्मणमुत्तरे ३०

English

The next two Anuvākas184 are the Brāhmaṇa.

  1. TS III.1.1.1 ↩︎

  2. TS III.1.1.2 ↩︎ ↩︎

  3. TS III.1.1.3 ↩︎ ↩︎

  4. TS III.1.1.4 ↩︎

  5. BaudhŚS VI.8 ↩︎ ↩︎

  6. TS III.1.2.1 ↩︎

  7. The Caturviṁśa, Catuścatvāriṁśa and Aṣṭācatvāriṁśa Stomas. ↩︎

  8. TS III.1.2.2 ↩︎ ↩︎

  9. TS III.1.2.3 ↩︎

  10. TS III.1.2.4 ↩︎ ↩︎

  11. TS III.1.3.1 ↩︎ ↩︎

  12. TS III.1.3.2 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  13. TS I.8.21.1 ↩︎

  14. BaudhŚS IV.6 ↩︎ ↩︎

  15. TS III.1.4-5 ↩︎

  16. TS III.1.6.1 ↩︎

  17. BaudhŚS VII.1 ↩︎ ↩︎

  18. BaudhŚS VII.2 ↩︎

  19. TS III.1.7.1 ↩︎ ↩︎

  20. This brāhmaṇa passage remains untraced. ↩︎ ↩︎ ↩︎

  21. TS III.1.6.2 does not have etivanti. TBr 1.4.6 has etivanti. ↩︎ ↩︎ ↩︎

  22. BaudhŚS VII.5 ↩︎

  23. TS III.1.8.2 ↩︎

  24. TS III.1.8.3 ↩︎

  25. cf. BaudhŚS XIV.5 ↩︎

  26. TS III.1.9.2; BaudhŚS VIII.2 ↩︎

  27. TS III.1.9.2: BaudhŚS VII.11 ↩︎

  28. TS III.1.9.2-3 ↩︎

  29. TS III.1.9.3; BaudhŚS VII.12 ↩︎

  30. TS III.1.9.3 ↩︎

  31. TS III.1.9.4 ↩︎

  32. TS III.1.9.4-5 ↩︎

  33. TS III.1.10.1; BaudhŚS VII.9 ↩︎

  34. TS III.5.5.1; BaudhŚS XIV.21 ↩︎

  35. TS III.1.10.1; BaudhŚS VIII.2 ↩︎

  36. TS III.1.10.2 ↩︎ ↩︎

  37. TS III.2.1.1 ↩︎ ↩︎ ↩︎ ↩︎

  38. TS III.2.1.2-3 ↩︎ ↩︎

  39. TS III.2.2.1 ↩︎ ↩︎ ↩︎

  40. TĀ IV.20.1; BaudhŚS IX.17 ↩︎

  41. cf. TS III.2.6.1 ↩︎ ↩︎ ↩︎

  42. TS III.2.2.2 ↩︎

  43. TS 1.4.10 ↩︎

  44. TS III.2.2.2-3 ↩︎ ↩︎

  45. TS III.2.3.1 ↩︎ ↩︎

  46. TS III.2.3.1 ↩︎ ↩︎ ↩︎ ↩︎

  47. TS III.2.3.2 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  48. TS III.2.3.3 ↩︎ ↩︎

  49. TS III.2.4 ↩︎

  50. TS III.2.5 ↩︎

  51. TS III.2.6.1 ↩︎ ↩︎

  52. TS III.2.6.2 ↩︎ ↩︎

  53. TS III.2.6.3 ↩︎ ↩︎ ↩︎

  54. For the Pravargya rite. ↩︎ ↩︎ ↩︎

  55. TS III.1.10.3 ↩︎

  56. Caland’s text reads abhyāsam. The variant abhyāsam recorded in the foot-note gives the correct meaning. cf. ApŚS XII.17.18. ↩︎

  57. TS III.2.7.2 ↩︎ ↩︎

  58. TS III.2.7.3 ↩︎

  59. TS III.2.8 ↩︎ ↩︎

  60. with the words śoṁsāvo3m etc. at the beginning of a Śastra. ↩︎

  61. TS III.2.9.1 ↩︎

  62. TS III.2.9.2 ↩︎ ↩︎

  63. TS III.2.9.4 ↩︎ ↩︎

  64. TS III.2.9.4-5 ↩︎

  65. TS III.2.9.6 ↩︎

  66. TS III.2.9.7 ↩︎ ↩︎

  67. TS III.2.10 ↩︎ ↩︎ ↩︎ ↩︎

  68. TS III.3.1.1 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  69. TS III.3.1.2 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  70. TS VI.6.8 ↩︎

  71. TS II13.2.1 ↩︎

  72. TS III.3.2.2 ↩︎

  73. TS III.3.3.1 ↩︎

  74. TS III.3.3.1-2 ↩︎

  75. TS III.3.3.2 ↩︎ ↩︎ ↩︎

  76. TS III.3.3.2-3 ↩︎

  77. TS III.3.3.3 ↩︎ ↩︎

  78. TS III.3.4 ↩︎

  79. According to Sāyaṇa “Grant me cattle.” ↩︎

  80. TS III.3.5.1-2 ↩︎

  81. TS III.3.6 ↩︎

  82. TS III.3.7 ↩︎

  83. TS III.3.8 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  84. BaudhŚS VIII.18; six rgmiya offerings, three samiṣṭayajus offerings and the tenth āyurdā offering. ↩︎

  85. TS III.3.8.4 ↩︎

  86. TS III.3.8.2 ↩︎ ↩︎

  87. TBr. 1.4.8.1-3. The Anuvāka comprises seventeen verses out of which the first eight versrs have been employed herre. The Anuvāka is not employed for a specific purpose (añarabhyādhīta). While the other Śrautasūtras belonging to the Taittiriya recension have employed this entire Anuvāka towards the purification of a Soma-sacrificer at his initiation, Baudhāyana has prescribed a part of it in a domestic rite (Samăvartana) which is really speakig outside the scope of a Śrautasūtra. ↩︎

  88. TS III.3.8.5 ↩︎

  89. TS III.1.11.2 ↩︎

  90. TS III.3.9.1 ↩︎ ↩︎ ↩︎

  91. TS III.3.9.2 ↩︎ ↩︎

  92. cf. BaudhŚS IV.5 ↩︎

  93. TS III.3.10.1 ↩︎ ↩︎

  94. TS III.3.10.2 ↩︎ ↩︎ ↩︎ ↩︎

  95. TS III.4.3 ↩︎

  96. TS III.4.2.1 ↩︎ ↩︎

  97. TS III.4.2.2 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  98. TS III.4.3.7-8 ↩︎

  99. TS III.4.4.1 ↩︎ ↩︎ ↩︎

  100. TS III.4.6 ↩︎

  101. TS III.4.8 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  102. TS III.4.7 ↩︎

  103. TS III.4.8.2 ↩︎ ↩︎ ↩︎

  104. TS III.4.8.3 ↩︎

  105. TS III.4.8.4 ↩︎ ↩︎ ↩︎

  106. TS III.4.7.2; BaudhŚS XIV.17 ↩︎

  107. TS III.4.8.6 ↩︎ ↩︎

  108. TS III.4.7.2-3 ↩︎

  109. TS III.4.8.7 ↩︎ ↩︎ ↩︎

  110. TS III.4.9.1 ↩︎ ↩︎

  111. TS III.4.10.1-3 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  112. TS III.4.10.4 ↩︎

  113. The text reads tat pratyācchedyām parṇamayyāṁ sruct: The word pratyācchedyām is obscure. Baudh Pitr̥S 1.7 reads tat pracchādyena parṇamayena sruvena. Here Caland in his text reads tam pratyachedya. Anyway the purport is not clear. ↩︎

  114. TS III.4.10.4; TBr. I.2.1.16 ↩︎

  115. TS III.4.10.5 ↩︎ ↩︎

  116. TBr II.5.8.8 The relative brāhmaṇa is given in TS III.4.10.5. ↩︎

  117. TBr. II. 5.8.8 ↩︎

  118. TS III.5.1 ↩︎

  119. Relating to the chanting of Sāmans in a Soma-sacrifice ↩︎

  120. TS IV.4.1.1; III.5.2.1 ↩︎

  121. TS III.5.3 ↩︎

  122. TS III.2.8.1 ↩︎

  123. TS III.5.4 ↩︎ ↩︎ ↩︎ ↩︎

  124. TS III.5.3.2; cf. BaudhŚS VII.13 ↩︎

  125. TS III.5.4.2 ↩︎ ↩︎ ↩︎

  126. TS III.5.4.3 ↩︎

  127. TS III.5.5.1 BaudhŚS VII.9 prescribes Pravr̥ta-offerings to be offered by each one of the seven Hotṛs at the Savanīya animal-sacrifce. The formula in question is the third one prescribed for the Adhvaryu and the Pratiprasthātṛ. ↩︎

  128. TS III.5.5.1 ↩︎ ↩︎

  129. cf. BaudhŚS VIII.14, TS III.5.5.1 ↩︎

  130. TS III.5.5.3; BaudhŚS VI.10 ↩︎

  131. TS III.5.5.3; BaudhŚS VIII.21 ↩︎

  132. BaudhŚS IV; TS IV.5.5.3 ↩︎

  133. TS III.5.6 ↩︎

  134. TS III.5.7 ↩︎

  135. TS III.5.8 ↩︎

  136. TS III.5.9 ↩︎ ↩︎

  137. TS III.5.10.1 ↩︎ ↩︎

  138. TS IV.3.2.1 ↩︎ ↩︎

  139. TS IV.3.2.2 ↩︎ ↩︎

  140. TS IV.3.2.3 ↩︎

  141. TS IV.3.3.1 ↩︎ ↩︎

  142. TS IV.3.3.2 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  143. TBr I.4.1 ↩︎

  144. TBr I.4.2 ↩︎

  145. TBr I.4.3.1 ↩︎ ↩︎

  146. TBr I.4.3.2 ↩︎

  147. TBr I.4.3.3 ↩︎ ↩︎

  148. TBr I.4.3.4 ↩︎ ↩︎

  149. TBr I.4.3.5 ↩︎ ↩︎

  150. TBr I.4.13.1 ↩︎

  151. TBr I.4.3.6 ↩︎ ↩︎

  152. TBr I.4.4.1 ↩︎

  153. TBr I.4.4.2 ↩︎

  154. TBr I.4.4.3 ↩︎ ↩︎ ↩︎

  155. TBr I.4.4.5 ↩︎

  156. TBr I.4.4.6 ↩︎ ↩︎

  157. TBr I.4.4.7 ↩︎

  158. TBr I.4.4.8 ↩︎ ↩︎ ↩︎

  159. TBr I.4.4.9 ↩︎

  160. TBr I.4.4.10 ↩︎ ↩︎ ↩︎ ↩︎

  161. TBr II.4.1.6; I.4.4.10 ↩︎

  162. TBr I.4.5.1 ↩︎

  163. TBr I.4.5.2 ↩︎

  164. TBr I.4.6 ↩︎

  165. TBr I.4.6.5 ↩︎

  166. TBr I.4.6.5-6 ↩︎

  167. TĀ VI.10 ↩︎

  168. TBr I.4.7.1 ↩︎

  169. TBr I.4.7.1-3 ↩︎

  170. TBr I.4.4.8 ↩︎

  171. TBr I.4.7.3-4 ↩︎

  172. TBr I.4.7.4 ↩︎ ↩︎

  173. TBr I.4.7.4-5 ↩︎

  174. TBr I.4.7.5 ↩︎ ↩︎

  175. TBr I.4.7.6 ↩︎ ↩︎ ↩︎

  176. TBr I.4.7.7 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  177. TBr I.4.8 ↩︎

  178. BaudhŚS XVII.36 ↩︎

  179. TBr I.4.9 ↩︎

  180. TBr I.4.10.2 ↩︎ ↩︎

  181. TBr I.4.10.3 ↩︎

  182. TBr I.5.1 ↩︎

  183. TBr I.5.2.1 ↩︎

  184. TBr I.5.2.3 ↩︎ ↩︎