षष्ठः प्रश्नः
०१
विश्वास-प्रस्तुतिः
अग्निष्टोमेन यक्ष्यमाणो भवति
मूलम्
अग्निष्टोमेन यक्ष्यमाणो भवति
English
(The sacrificer) is going to perform the Agniṣṭoma sacrifice.
विश्वास-प्रस्तुतिः
स उपकल्पयते कृष्णाजिनं च कृष्णविषाणां च वासश्च मेखलां च सैषा पृथ्वी वेणीकार्या भवति त्रिवृदेकतःपाशा द्वाविँशतिं च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूलां च शरेषीकामौदुम्बरं च दण्डं चमसं च व्रतप्रदानँ स्थालीँसशिक्याँसमेक्षणाम्

He procures a skin of black antelope, a horn of a black antelope, a piece of cloth, a girdle-it is large, braided with three strands and with a noose at one end, twenty two bunches of darbha-blades, butter, collyrium, a blade of Śara-grass together with a panicle, a staff of Ficus glomerata and a goblet of Ficus glomerata for providing Vrata-milk, a vessel together with a sling and a stirring stick.
विश्वास-प्रस्तुतिः
एतानि त्रयोदश यजमानस्
मूलम्
एतानि त्रयोदश यजमानस्
English
These thirteen for the sacrificer.
विश्वास-प्रस्तुतिः
तावन्त्येव पत्नीमभितो भवन्ति कुम्बं च कुरीरं च वासश्च योक्त्रं चापरिमितानि च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूला च शरेषीकामृन्मयश्च पात्रः शङ्कुश्च स्थाली सशिक्या समेक्षणा
मूलम्
तावन्त्येव पत्नीमभितो भवन्ति कुम्बं च कुरीरं च वासश्च योक्त्रं चापरिमितानि च दर्भपुञ्जीलानि नवनीतं चाञ्जनं च सतूला च शरेषीकामृन्मयश्च पात्रः शङ्कुश्च स्थाली सशिक्या समेक्षणा
English
So many are by the side of the sacrificer’s wife: a head-dress, a net of grass, a piece of cloth, a yoke-halter, a large number of bunches of darbha-blades, butter, collyrium, a blade of Sara-grass with a panicle; a pot made of a substance other than clay, and a vessel together with a sling and a stirring stick.
विश्वास-प्रस्तुतिः
जुष्टे देवयजने शाला कारिता भवति
मूलम्
जुष्टे देवयजने शाला कारिता भवति
English
A shed is got constructed on an acquired sacrificial place
विश्वास-प्रस्तुतिः
पुरोहविषि देवयजने याज्येदित्येतेषां यज्जोषयते
मूलम्
पुरोहविषि देवयजने याज्येदित्येतेषां यज्जोषयते
English
selected out of those mentioned in the passage beginning with “one should cause a sacrifice to be performed in a sacrificial place which has havis1 in the east.”
विश्वास-प्रस्तुतिः
प्राचीनवँशा दिक्ष्वतीकाशा दक्षिणतो वर्षीयसी
मूलम्
प्राचीनवँशा दिक्ष्वतीकाशा दक्षिणतो वर्षीयसी
English
It should be having the central beam pointing towards the east, having openings towards the corners and higher towards the south.
विश्वास-प्रस्तुतिः
तस्यै चतस्रो द्वारः कुर्वन्ति प्राचीं दक्षिणां प्रतीचीमुदीचीं दक्षिणतो व्रतश्रपणागारं कुर्वन्ति पश्चात्पत्नीशालम्
मूलम्
तस्यै चतस्रो द्वारः कुर्वन्ति प्राचीं दक्षिणां प्रतीचीमुदीचीं दक्षिणतो व्रतश्रपणागारं कुर्वन्ति पश्चात्पत्नीशालम्
English
Four doors are provided for it-eastern, southern, western and northern. A chamber for boiling Vrata-milk is constructed towards the south, the chamber for the sacrificer’s wife towards the west.
विश्वास-प्रस्तुतिः
अथ यदि दूरे तीर्थं भवत्युत्तरेण शालां द्वौ कटपरिवारौ कुर्वन्ति पूर्वं यजमानायापरं पत्न्यै
मूलम्
अथ यदि दूरे तीर्थं भवत्युत्तरेण शालां द्वौ कटपरिवारौ कुर्वन्ति पूर्वं यजमानायापरं पत्न्यै
English
If the water-place is at a distance, two mat-chambers are made towards the north-the eastern one for the sacrificer and the rear one for the sacrificer’s wife.
विश्वास-प्रस्तुतिः
तयोः प्राची द्वारौ कुर्वन्ति
मूलम्
तयोः प्राची द्वारौ कुर्वन्ति
English
Doors facing the east are provided for them,
विश्वास-प्रस्तुतिः
तदुदकुम्भौ निधापयत्यथामावास्येन वा हविषेष्ट्वा नक्षत्रे वारण्योरग्नीन्समारोह्य शालामभिप्रैत्युत्तरेण शालां परीत्य पूर्वया द्वारा शालां प्रपाद्य गार्हपत्यस्यायतने मथित्वाग्नीन्विहृत्य मध्यमे वँशे राजानं प्रग्रथ्नन्ति

two water-jars are caused to be deposited therein.
After having performed the New-moon sacrifice or having performed a sacrifice under (an auspicious) constellation and after having consigned the fires into the kindling woods, (the Adhvaryu) moves towards the (Prāgvaśa) shed. Having gone round along the north of the shed, having carried them (the kindling woods) into the shed through the eastern door, he churns out fire and spreads out the fires. (The load of) king (Soma) is tied to the central pole.
विश्वास-प्रस्तुतिः
परिस्तृणन्ति
मूलम्
परिस्तृणन्ति
English
Darbha-blades are strewn round (the fires).
विश्वास-प्रस्तुतिः
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य्
मूलम्
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा सप्तहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्य्
English
The Brahman and the sacrificer seat themselves towards the south. Having melted clarified butter over the Gārhapatya, having purified it, having taken four spoonfuls into the ladle, and having mentally gone along the Saptahotr̥ formula, he makes an offering on the Āhavanīya with svāhā while the sacrificer has contacted (the Adhvaryu).
विश्वास-प्रस्तुतिः
अपरं चतुर्गृहीतं गृहीत्वा यूपाहुतिं जुहोति यद्यत्र जुहोति
मूलम्
अपरं चतुर्गृहीतं गृहीत्वा यूपाहुतिं जुहोति यद्यत्र जुहोति
English
Having taken up another four spoonfuls, he offers an oblation pertaining to the sacrificial post if he means to offer at this stage.
विश्वास-प्रस्तुतिः
पूर्वाह्ण एवैतौ व्रतदुघयोर्वत्सौ बध्नन्त्यथाभ्यां व्रतोपायनीयं पाचयति
मूलम्
पूर्वाह्ण एवैतौ व्रतदुघयोर्वत्सौ बध्नन्त्यथाभ्यां व्रतोपायनीयं पाचयति
English
The calves of the two Vrata-yielding (cows) are tied away in the afternoon itself. He causes the Vrata-food to be cooked for them (sacrificer and his wife).
विश्वास-प्रस्तुतिः
तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्याथाध्वर्युस्तीर्थ्यान्सम्भारान्याचत्यथाहैहि यजमानेति
मूलम्
तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्याथाध्वर्युस्तीर्थ्यान्सम्भारान्याचत्यथाहैहि यजमानेति
English
They partake of it mixed with ghee and milk. The Adhvaryu asks for the substances relating to the bathing. Then he says, “Come, O sacrificer."
विश्वास-प्रस्तुतिः
पूर्वया द्वारोपनिष्क्रम्य यत्रापस्तद्यन्त्यथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्ति १
मूलम्
पूर्वया द्वारोपनिष्क्रम्य यत्रापस्तद्यन्त्यथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्ति १
English
Having gone out through the eastern door, they go to that place where there is water. He then moistens with water the hair above the right ear of the sacrificer sitting facing the east.
०२
विश्वास-प्रस्तुतिः
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इत्यूर्ध्वाग्रं बर्हिरनूच्छ्रयत्योषधे त्रायस्वैनमिति
मूलम्
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इत्यूर्ध्वाग्रं बर्हिरनूच्छ्रयत्योषधे त्रायस्वैनमिति
English
With the formula, “May the water moisten for life, long life and glory.”2 He holds erect a darbha-blade with its tip above with the formula, “O plant, do thou guard him."2
विश्वास-प्रस्तुतिः
स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँहिँसीरिति
मूलम्
स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँहिँसीरिति
English
He holds across the razor with the formula, “O razor, do thou not injure him."2
विश्वास-प्रस्तुतिः
प्रवपति देवश्रूरेतानि प्रवप इति
मूलम्
प्रवपति देवश्रूरेतानि प्रवप इति
English
He shaves (his hair) with the formula, “Obedient to gods, I shave these (hair).2
विश्वास-प्रस्तुतिः
स्वस्त्युत्तराण्यशीयेत्युप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरं गोदानमद्भिरुनत्ति यजुषा वा तूष्णीं वा
मूलम्
स्वस्त्युत्तराण्यशीयेत्युप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरं गोदानमद्भिरुनत्ति यजुषा वा तूष्णीं वा
English
(The sacrificer) touches the shaved portion with the formula, “May I accomplish the succeeding (rites) in a safe manner.”2 With the same procedure (the Adhvaryu) moistens the hair above the northern ear with the formula or without reciting the formula.
विश्वास-प्रस्तुतिः
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तकेशश्मश्रुं मे निकृत्तनखं प्रब्रूतादिति
मूलम्
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तकेशश्मश्रुं मे निकृत्तनखं प्रब्रूतादिति
English
Handing over the razor to the barber, he says, “O, shaver, do thou report to me when the hair and beard (of the sacrificer) have been shaven and the nails have been pared.”
विश्वास-प्रस्तुतिः
तं तथा प्राहाथैनमद्भिरभिषिञ्चत्यापो अस्मान्मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्त्विति
मूलम्
तं तथा प्राहाथैनमद्भिरभिषिञ्चत्यापो अस्मान्मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्त्विति
English
(The barber) reports accordingly. Then (the Adhvaryu) sprinkles water over him with the formula, “May the waters, the mothers, cleanse us, may those who purify the clarified butter purify us with clarified butter.”2
विश्वास-प्रस्तुतिः
सम्प्रधाव्य रजः प्रप्लावयति विश्वमस्मत्प्रवहन्तु रिप्रमित्युदेत्युदाभ्यः शुचिरा पूत एमीति
मूलम्
सम्प्रधाव्य रजः प्रप्लावयति विश्वमस्मत्प्रवहन्तु रिप्रमित्युदेत्युदाभ्यः शुचिरा पूत एमीति
English
Having cleansed (the sacrificer) he washes away the dirt with the formula, “May (the waters) wash away all impurity from us.” (The sacrificer) comes out (of water) with the formula, “I come out of these, clean and purified.”
विश्वास-प्रस्तुतिः
वसनस्यान्तेन प्रतिच्छाद्याप आचामत्यपोऽश्नादिति ब्राह्मणम्
मूलम्
वसनस्यान्तेन प्रतिच्छाद्याप आचामत्यपोऽश्नादिति ब्राह्मणम्
English
After having covered himself with the end of the garment, he sips water, “He sips water,” so says the Brāhmaṇa.3
विश्वास-प्रस्तुतिः
अथ प्रदक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीत्यथास्यैतन्नवनीतं विचितमुदशराव उपशेते
मूलम्
अथ प्रदक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीत्यथास्यैतन्नवनीतं विचितमुदशराव उपशेते
English
He wears a new piece of cloth by the right with the formula, “Thou art the body of Soma; do thou guard my body.”2 Fresh butter collected in a pot filled with water lies near him.
विश्वास-प्रस्तुतिः
तस्य पाणिभ्याँसम्प्रम्लाय मुखमेव प्रथममभ्यङ्क्ते महीनां पयोऽसि वर्चोधा असि वर्चो मयि धेहीत्य्
मूलम्
तस्य पाणिभ्याँसम्प्रम्लाय मुखमेव प्रथममभ्यङ्क्ते महीनां पयोऽसि वर्चोधा असि वर्चो मयि धेहीत्य्
English
Having grasped it by means of the palms, he first anoints his mouth with the formula, “Thou art the milk of big (cows), thou art the giver of glory; place glory in me.”2
विश्वास-प्रस्तुतिः
अनुलोममा पादाभ्याम्
मूलम्
अनुलोममा पादाभ्याम्
English
(He anoints) (other parts of his body) down to the feet.
विश्वास-प्रस्तुतिः
अन्योऽस्य पृष्ठमभ्यनक्त्यथास्यैतदाञ्जनं पिष्टं दृषद्युपशेते सतूला च शरेषीका
मूलम्
अन्योऽस्य पृष्ठमभ्यनक्त्यथास्यैतदाञ्जनं पिष्टं दृषद्युपशेते सतूला च शरेषीका
English
Somebody anoints his back.
The collyrium crushed on the mortar lies near him; also a blade of Śara-grass having a panicle.
विश्वास-प्रस्तुतिः
तस्य प्राङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणमक्ष्यनक्ति वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहीति त्रिरनिधावं द्विरुत्तरम्
मूलम्
तस्य प्राङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणमक्ष्यनक्ति वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहीति त्रिरनिधावं द्विरुत्तरम्
English
Having sat down facing the west in front of the sacrificer facing the east, (the Adhvaryu) anoints his right eye with his left hand with the formula, “Thou art the pupil of Vr̥tra; thou art the guardian of the eye, do thou guard my eye.”4 Three times without moving (the grass-blade) backwards. Twice the left eye.
विश्वास-प्रस्तुतिः
अप्यु पञ्च कृत्व आङ्क्त इति ब्राह्मणम्पञ्च कृत्व एव दक्षिणं पञ्च कृत्व उत्तरम्
मूलम्
अप्यु पञ्च कृत्व आङ्क्त इति ब्राह्मणम्पञ्च कृत्व एव दक्षिणं पञ्च कृत्व उत्तरम्
English
“He anoints five times,” so says the Brāhmaṇa.5 Five times the right eye, five times the left one.
विश्वास-प्रस्तुतिः
अथैनमेकविँशत्या दर्भपुञ्जीलैः पवयति चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति
मूलम्
अथैनमेकविँशत्या दर्भपुञ्जीलैः पवयति चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति
English
He purifies him with twentyone clusters of darbha-blades with the formula, “May the lord of thought purify you; may the lord of speech purify you; may god Savitr̥ purify you by means of the flawless purifier, by means of the of rays the bright sun.”4
विश्वास-प्रस्तुतिः
यजमानमतिवाचयति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्यथैनँ सव्ये पाणावभिपात्य शालामानयत्या वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इति
मूलम्
यजमानमतिवाचयति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्यथैनँ सव्ये पाणावभिपात्य शालामानयत्या वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इति
English
He makes the sacrificer pronounce the formula, “O lord of the purifier, may I be able (to obtain) with thy purifier that for which I purify myself.”4 Having grasped him by the left hand, he brings him in the shed with the formula, “O gods who have true ordinances, we approach you at the sacrifice while, O gods, we, desirous of performing a sacrifice, call you for approval.”"5
विश्वास-प्रस्तुतिः
पूर्वया द्वारा शालां प्रपादयतीन्द्रा ग्नी द्यावापृथिवी आप ओषधीरित्यथैनमग्रेणाहवनीयं पर्याणीय दक्षिणत उदङ्मुखमुपवेश्याहवनीयमीक्षयति त्वं दीक्षाणामधिपतिरसीतीह मा सन्तं पाहीत्यात्मानम् २
मूलम्
पूर्वया द्वारा शालां प्रपादयतीन्द्रा ग्नी द्यावापृथिवी आप ओषधीरित्यथैनमग्रेणाहवनीयं पर्याणीय दक्षिणत उदङ्मुखमुपवेश्याहवनीयमीक्षयति त्वं दीक्षाणामधिपतिरसीतीह मा सन्तं पाहीत्यात्मानम् २
English
He makes him enter the shed through the eastern door with the formula, “Indra-Agni, Dyāvāpṛthivi, waters and plants.”4 Leading him along the Āhavanīya and having seated him towards the south facing the north, he makes him gaze at the Āhavanīya with the formula, “Thou art the lord of consecrations.”4 Towards himself with the formula, “Guard me being here.”4
०३
विश्वास-प्रस्तुतिः
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता पत्न्यै दक्षिणमुपपक्षमद्भिरुनत्ति तूष्णीं तूष्णीमूर्ध्वाग्रं बर्हिरनूच्छ्रयति
मूलम्
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता पत्न्यै दक्षिणमुपपक्षमद्भिरुनत्ति तूष्णीं तूष्णीमूर्ध्वाग्रं बर्हिरनूच्छ्रयति
English
While the Adhvaryu is functioning, the Pratiprasthātr̥ moistens the right armpit of the sacrificer’s wife without reciting any formula. He holds silently a darbha-blade with its tip upwards.
विश्वास-प्रस्तुतिः
तूष्णीँस्वधितिं तिर्यञ्चं निदधाति
मूलम्
तूष्णीँस्वधितिं तिर्यञ्चं निदधाति
English
He holds the razor across silently.
विश्वास-प्रस्तुतिः
तूष्णीं प्रवपति
मूलम्
तूष्णीं प्रवपति
English
He shaves silently.
विश्वास-प्रस्तुतिः
तूष्णीमुप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरमुपपक्षमद्भिरुनत्ति तूष्णीमेव
मूलम्
तूष्णीमुप्तान्तं प्रत्यभिमृशत एतयैवावृतोत्तरमुपपक्षमद्भिरुनत्ति तूष्णीमेव
English
He touches the shaven region silently. With the same procedure he moistens the left armpit silently.
विश्वास-प्रस्तुतिः
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तोपपक्षां मे निकृत्तनखां प्रब्रूतादिति
मूलम्
नापिताय क्षुरं प्रयच्छन्नाह नापितोप्तोपपक्षां मे निकृत्तनखां प्रब्रूतादिति
English
Handing over the razor to the barber, he says, “O barber, report to me when the armpits (of the sacrificer’s wife) have been shaven and nails have been pared.”
विश्वास-प्रस्तुतिः
तां तथा प्राहाथैनामद्भिरभिषिञ्चति तूष्णीं
मूलम्
तां तथा प्राहाथैनामद्भिरभिषिञ्चति तूष्णीं
English
He reports accordingly. He sprinkles water over her silently.
विश्वास-प्रस्तुतिः
तूष्णीँसम्प्रधाव्य रजः प्रप्लावयति तूष्णीम्
मूलम्
तूष्णीँसम्प्रधाव्य रजः प्रप्लावयति तूष्णीम्
English
Having cleansed her, he washes away the dirt silently.
विश्वास-प्रस्तुतिः
अद्भिरुदेति तूष्णीम्वसनस्यान्तेन प्रतिच्छाद्याप आचामति
मूलम्
अद्भिरुदेति तूष्णीम्वसनस्यान्तेन प्रतिच्छाद्याप आचामति
English
She comes out of the water silently. Having covered herself with the border of the garment, she sips water.
विश्वास-प्रस्तुतिः
तूष्णीं प्रदक्षिणमहतं वासः परिधत्ते
मूलम्
तूष्णीं प्रदक्षिणमहतं वासः परिधत्ते
English
She wears a new garment by the right silently.
विश्वास-प्रस्तुतिः
तूष्णीमभ्यङ्क्ते
मूलम्
तूष्णीमभ्यङ्क्ते
English
She applies fresh butter silently;
विश्वास-प्रस्तुतिः
तूष्णीमाङ्क्तेऽथैनामपरिमितैर्दर्भपुञ्जीलैः पवयति तूष्णीन्तूष्णीमेवाथैनामानीयापरया द्वारा शालां प्रपाद्य प्राचीमुदानयन्वाचयति प्रैतु ब्रह्मणस्पत्नी वेदिं वर्णेन सीदतु । अथाहमनुकामिनी स्वे लोके विशा इहेत्यथ जघनेन गार्हपत्यमुपसीदति सुप्रजसस्त्वा वयं सुपत्नीरुपसेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यमित्यथ पृष्ठ्याँस्तीर्त्वापः प्रणीयाग्नावैष्णवमेकादशकपालं दीक्षणीयामिष्टिं निर्वपति

puts collyrium silently.
(The Adhvaryu) purifies her with a large number of clusters of darbha-blades each time silently. Having led her, and having made her enter the shed through the western door and leading her towards the east, he makes her recite while leading her towards the east, the verse “Let the Brahman’s wife go forward; let her sit on the Mahāvedi with fair colour so that I, aspiring for the fulfilment of a desire, may sit here on my seat.”6 She sits down to the rear of the Gārhapatya with the verse, “With fair offspring, with a noble husband we have come to thee O Agni, to thee that deceivest the foes the undeceivable we that are not deceived.”7
Having strewn the Pr̥ṣṭhya line, and having carried forth (Praṇītā) water (the Adhvaryu) performs the Dīkṣaṇīyā Iṣṭi (for which) he pours out paddy for a cake on eleven potsherds for Agni-Viṣṇu.
विश्वास-प्रस्तुतिः
तस्यै दशतयमुत्सीदति न यजमानं व्रतमुपनयति न पत्नीँसन्नह्यति न यजमानभागं करोति न ब्रह्मभागं न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं याचति न फलीकरणहोमेन चरति न समिष्टयजुर्जुहोति न पूर्णपात्रे यजमानं वाचयति न विष्णुक्रमान्क्रमतेऽथाध्वयुः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याज्यस्थाल्यां प्रत्यवनीयाज्यस्थाल्याः स्रुवेणोपघातं दीक्षाहुतीर्जुहोति ३

In this Iṣṭi he drops out ten rites: he does not administer the vow to the sacrificer, does not girdle the sacrificer’s wife, does not provide the sacrificer’s portion (of the cake), nor the Brahman’s portion, does not put down the cake on the sacrificial grass, does not ask for the Anvāhārya cooked rice, does not offer the chaff of grains, does not offer the Samiṣṭayajus, does not cause the sacrificer to recite the mantra pertaining to (the pouring down of) the Praṇīta-goblet, (the sacrificer) does not stride the Viṣṇu-steps. The Adhvaryu, having turned by the right, moving to the west, having made the Patnīsaṁayāja offerings, having moved towards the east, having filled the Dhruva-ladle, and having poured it back into the vessel of clarified butter, makes the Dikṣāhuti- offerings each time taking a spoonful from the vessel of clarified butter with the formulas.
०४
विश्वास-प्रस्तुतिः
आकूत्यै प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै पूष्णेऽग्नये स्वाहेत्यथ स्रुचि चतुर्गृहीतं गृहीत्वा स्रुचा पञ्चमीं जुहोत्यापो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहेत्य्

“To the purpose, to the impulse to Agni svāhā; to wisdom, to thought, to Agni svāhā; to consecration, to penance to Agni svāhā; to Sarasvatī, to Puṣan, to Agni svāhā.”8 Having taken four spoonfuls into the ladle, he makes the fifth offering by means of the ladle with the verse, “O you divine, vast, all-soothing waters, Dyāvā- pr̥thivī and wide midregion, may Br̥haspati rejoice in our oblation svāḥā.”8
विश्वास-प्रस्तुतिः
अपरं चतुर्गृहीतं गृहीत्वाज्यस्य पूणाँर्स्रुचमौद्ग्रहणं जुहोति विस्वे देवस्य नेतुर्मर्तो वृणीत सख्यम्। विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहेत्यत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथाग्रेणाहवनीयं पर्याहृत्य यजमानाय प्रयच्छति कृष्णाजिनं च कृष्णविषाणां च वासश्च मेखलां चौदुम्बरं दण्डं पञ्चममुष्णीषँषष्ठम्

Having taken up another four spoonfuls, he offers the Pūrṇāhuti, the audgrahaṇa, with the verse, “Let every man choose the friendship of the god who leads. Everyman prays for wealth; let him choose glory that he may prosper, svāhā.”8 At this stage he pours the Pūrṇapātra within the altar.
After having brought (the things) along the front of the Āhavanīya, he hands over to the sacrificer the skin of black antelope, horn of black antelope, the garment, the girdle, the staff of Udumbara as the fifth and the turban as the sixth.
विश्वास-प्रस्तुतिः
अथ प्रतिप्रस्थाता पत्न्यै प्रयच्छति कुम्बं च कुरीरं च वासश्च योक्त्रं च शङ्कुं च ४
मूलम्
अथ प्रतिप्रस्थाता पत्न्यै प्रयच्छति कुम्बं च कुरीरं च वासश्च योक्त्रं च शङ्कुं च ४
English
The Pratiprasthātr̥ gives to the sacrificer’s wife, the net of grass, the head-dress, garment, girdle and a pin.
०५
विश्वास-प्रस्तुतिः
अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
मूलम्
अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
English
(The Adhvaryu) spreads on the sacrificer’s seat the skin of black antelope with its neck towards the east and hairy side upwards.
विश्वास-प्रस्तुतिः
तस्य शुक्लकृष्णे सम्मृशति शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरृक्सामयोः शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृच इत्यथ दक्षिणं जान्वाच्याभिसर्पतीमां धियँशिक्षमाणस्य देव क्रतुं दक्षं वरुण सँ शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावँ रुहेमेत्यथोपस्थं कृत्वा प्रदक्षिणं मेखलां पर्यस्यत्यूर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छेति

(The sacrificer) touches together the white and black parts-the thumb on the white part and the finger on the black, with the formula, “You are the images of the R̥k and the Sāman. I grasp you two. Do you protect me until the completion of the sacrifice.”9 Having bent the right knee, he moves upon it with the verse, “Do thou sharpen, O Varuņa, this prayer of him who implores thee; sharpen his strength, his insight. May we mount that safe ship whereby we may pass over all our difficulties.”10 Having sat cross-legged, he moves around his cord towards the right with the formula, “Thou art the strength of Aṅgirases, soft as wool, grant me strength.”10
विश्वास-प्रस्तुतिः
पाहि मा मा मा हिँसीरिति निष्टर्क्यं ग्रन्थिं ग्रथ्नात्येतस्मिन्काले प्रतिप्रस्थाता योक्त्रेण पत्नीँसन्नह्यत्याशासाना सौमनसं सं त्वा नह्यामीति द्वाभ्याम्
मूलम्
पाहि मा मा मा हिँसीरिति निष्टर्क्यं ग्रन्थिं ग्रथ्नात्येतस्मिन्काले प्रतिप्रस्थाता योक्त्रेण पत्नीँसन्नह्यत्याशासाना सौमनसं सं त्वा नह्यामीति द्वाभ्याम्
English
With the formula, “Do thou guard me, do not injure me,” he ties a loose knot.
At this juncture the Pratiprasthātr̥ ties the girdle round the waist of the sacrificer’s wife with the two verses, “Beseeching favour, offspring, prosperity and (good) form, I, observing the vow in connection with Agni, gird myself for good action.”11 “I fasten thee with milk and clarified butter, I fasten thee (with) water and with plants; I fasten thee today with offspring; do thou who hast been consecrated, give us strength.”12
विश्वास-प्रस्तुतिः
अथ यजमानं वाससा प्रोर्णोति विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छेति
मूलम्
अथ यजमानं वाससा प्रोर्णोति विष्णोः शर्मासि शर्म यजमानस्य शर्म मे यच्छेति
English
He covers the sacrificer with the garment with the formula, “Thou art the protection of Viṣṇu, the protection of the sacrificer; grant me protection.”13
विश्वास-प्रस्तुतिः
वसनस्यातीकाशेषु वाचयति नक्षत्राणां मातीकाशात्पाहीति
मूलम्
वसनस्यातीकाशेषु वाचयति नक्षत्राणां मातीकाशात्पाहीति
English
With regard to the cavities of the garment he makes the sacrificer recite the formula, “Do thou guard me from the lustre of stars.”13
विश्वास-प्रस्तुतिः
प्रतिकृष्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेण शिरो वेष्टयति श्रिया ते शिरो वेष्टयामि श्रियै यशसे ब्रह्मवर्चसायेत्य्
मूलम्
प्रतिकृष्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेण शिरो वेष्टयति श्रिया ते शिरो वेष्टयामि श्रियै यशसे ब्रह्मवर्चसायेत्य्
English
Folding the ends of the garment, he covers round his head with the turban with the formula, “I cover round thy head with glory for glory, honour and Brahman-splendour.”
विश्वास-प्रस्तुतिः
एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै कुम्बकुरीरमध्यूहति तूष्णीम्
मूलम्
एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै कुम्बकुरीरमध्यूहति तूष्णीम्
English
At this juncture, the Pratiprasthātr̥ sets the net of grass and head-work on the sacrificer’s wife silently.
विश्वास-प्रस्तुतिः
अथास्यैषा कृष्णविषाणा त्रिवलिर्वा पञ्चवलिर्वा शाण्या रज्ज्वा परितृणा मण्डचरवद्विग्रथिता
मूलम्
अथास्यैषा कृष्णविषाणा त्रिवलिर्वा पञ्चवलिर्वा शाण्या रज्ज्वा परितृणा मण्डचरवद्विग्रथिता
English
This horn of black antelope intended for the sacrificer has three curves or five curves, is pierced with a string of cannabis sativa and tied round like a cord joining the angle to a pole.14
विश्वास-प्रस्तुतिः
तां यजमानाय प्रयच्छतीन्द्र स्य योनिरसीति
मूलम्
तां यजमानाय प्रयच्छतीन्द्र स्य योनिरसीति
English
He hands it over to the sacrificer with the formula, “Thou art the womb of Indra.”13
विश्वास-प्रस्तुतिः
मा मा हिँसीरिति यजमानः प्रतिगृह्णाति
मूलम्
मा मा हिँसीरिति यजमानः प्रतिगृह्णाति
English
The sacrificer accepts it with the formula, “Do thou not injure me.
विश्वास-प्रस्तुतिः
तां वसनस्यान्तमायां दशायां बद्ध्वा तयान्तर्वेदि लोष्टमुद्धन्ति कृष्यै त्वा सुसस्याया इति
मूलम्
तां वसनस्यान्तमायां दशायां बद्ध्वा तयान्तर्वेदि लोष्टमुद्धन्ति कृष्यै त्वा सुसस्याया इति
English
Having fastened it to the last fringe of the garment, he digs out a clod within the altar with the formula, “(I dig) thee for fruitful cultivation.”15
विश्वास-प्रस्तुतिः
सुपिप्पलाभ्यस्त्वौषधीभ्य इति दक्षिणं गोदानं कण्डूयत एतस्मिन्काले प्रतिप्रस्थाता पत्न्यै शङ्कुमाबध्नात्येतेन कण्डूयस्वेत्यथास्मा ऊर्ध्वाग्रमौदुम्बरं दण्डं प्रयच्छति मुखेन सम्मितं सूपस्था देवो वनस्पतिरित्यूर्ध्वो मा पाह्योदृच इति यजमानः प्रतिगृह्णात्यथैनं यज्ञस्यान्वारम्भं वाचयति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याँ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इत्यत्र मुष्टी करोति वाचं यच्छत्यथाहादीक्षिष्टायं ब्राह्मणोऽसावित्थङ्गोत्रोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ता तमिन्द्रा येन्द्रा ग्निभ्यां वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभो देवेभ्यो ब्राह्मणेभ्यश्च सोमपेभ्यः प्रब्रूम इति

With the formula, “(I scratch) thee for plants bearing good fruit,”15 he scratches the region of head above the right ear.
At this juncture, the Pratiprasthātr̥ ties a pin for the sacrificer’s wife saying “Do thou scratch with this.” He hands over to him (the sacrificer) a staff of Udumbara with its tip upwards, as high as his mouth with the formula, “The divine tree is of good shoot.” The sacrificer receives it with the formula, “Being erect, do thou guard me until the completion (of the sacrifice).” The Adhvaryu makes him recite the grasping formula, “Svāhā from the spirit, svāhā from Dyāvāpr̥thivī, svāhā from wide midregion, svāhā I grasp the sacrifice from the wind.”15 At this stage (the sacrificer) closes his fists; he restrains speech. Now the Adhvaryu announces, “Consecrated has been this brāhmaṇa N.N., belonging to the gotra N.N., son of N.N., grandson of N.N. great grandson of N.N. We announce him to Indra, Indra-Agni, Vasus, Rudras, Ādityas, Viśve Devas, and the brāhmaṇas who have drunk Soma.”
विश्वास-प्रस्तुतिः
त्रिरुपाँश्वाह
मूलम्
त्रिरुपाँश्वाह
English
Thrice he utters in a low tone.
विश्वास-प्रस्तुतिः
देवेभ्य एवैनं प्राह
मूलम्
देवेभ्य एवैनं प्राह
English
Thus, he announces to the gods.
विश्वास-प्रस्तुतिः
त्रिरुच्चैरुपनिष्क्रम्योभयेभ्य एवैनं देवमनुष्येभ्यः प्राहेति ब्राह्मणम्
मूलम्
त्रिरुच्चैरुपनिष्क्रम्योभयेभ्य एवैनं देवमनुष्येभ्यः प्राहेति ब्राह्मणम्
English
Having gone out, thrice loudly. “He announces both to the gods and to men.16 So says the Brāhmaṇa.
विश्वास-प्रस्तुतिः
अथैनँसँशास्ति ५
मूलम्
अथैनँसँशास्ति ५
English
Then he instructs him.
०६
विश्वास-प्रस्तुतिः
दीक्षितोऽसि दीक्षितवादं वद सत्यमेव वद मानृतम्मा स्मयिष्ठार्मा कण्डूयथार्मापावृथा यदि स्मयासा अपिगृह्य स्मयासै यदि कण्डूयासै कृष्णविषाणया कण्डूयासै यदि वाचं विसृजेर्वैष्णवीमृचमनुद्र वताद्मा त्वान्यत्र दीक्षितविमितात्सूर्योऽभ्युदियाद्माभिनिम्रुक्ताद्यानि देवतानामानि यथाख्यातं तान्याचक्ष्वाथ यान्यदेवतानामानि यथाख्यातं तान्याचक्षाण उपरिष्टाद्विचक्षणं धेहि चनसितवतीं विचक्षणवतीं वाचं वद कृष्णाजिनान्मा व्यवच्छेत्था दण्डाच्चेति

“You are consecrated. Speak befitting the conscerated. Speak truth alone; not untruth. Do not smile. Do not scratch yourself. Do not expose yourself. If you have to smile, smile (with you mouth) covered. If you have to scratch yourself, scratch with the horn of black antelope. If you have to release speech, follow it with a verse addressed to Viṣṇu. Let the sun not rise nor set while you are away from the apartment meant for the consecrated. Those words which denote the names of divinites, mention them as they may be. Those words which do not denote names of divinities, mentioning them as they are, utter the word vicakṣaṇa subsequently. Utter speech (preceded and succeeded respectively) by canasita and vicakṣaṇa. Do not become separate from the skin of black antelope and from the staff.”
विश्वास-प्रस्तुतिः
स एवमेवैतत्सर्वं करोत्यथोपसमिन्धनवेलायामुत्तरेणाहवनीयं तिष्ठन्सम्प्रैषमाहाग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति
मूलम्
स एवमेवैतत्सर्वं करोत्यथोपसमिन्धनवेलायामुत्तरेणाहवनीयं तिष्ठन्सम्प्रैषमाहाग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति
English
He abides by all this.
At the time of inflaming the fires, standing to the north of the Āhavanīya, (the Adhvaryu) gives out the call; “Render the fires flagrant; O consecrated, you restrain speech; O sacrificer’s wife, do you restrain speech.”
विश्वास-प्रस्तुतिः
सम्प्रेष्य वाचंयमयोर्व्रते दोहयतोऽथाध्वर्युः पूर्वया द्वारोपनिष्क्रम्य दोहयित्वैतेनैव यथेतमेत्य गार्हपत्येऽग्निहोत्रविधिं चेष्टित्वा तप्त्वोदगुद्वास्य शीतीकृत्वातच्य वानातच्य वोत्तरे शालाखण्डे शिक्य आसजत्यथ प्रतिप्रस्थाता दक्षिणया द्वारोपनिष्क्रम्य दोहयित्वैतेनैव यथेतमेत्य व्रतश्रपणे तप्त्वोदगुद्वास्य शीतीकृत्वातच्य वानातच्य वा दक्षिणे शालाखण्डे शिक्य आसजत्य्

After the call, the Vrata-milks of the two who have restrained speech are caused to be milked. The Adhvaryu, having gone out by the eastern door, having caused the milk to be milked, having returned by the passage by which he had gone, having gone through the procedure in respect of the Gārhapatya as at the Agnihotra rite, having boiled the milk, having taken it down towards the north, having allowed it to cool down, having it coagulated or not coagulated, hangs it in a loop in the northern part of the shed. The Pratiprasthātr̥, having gone out by the southern door, having caused the milk to be milked, having returned by the same passage by which he had gone, having boiled it on the fire intended for boiling, having taken it down towards the north, having allowed it to cool down, having it coagulated or not coagulated, hangs it in a loop in the southern part of the shed.
विश्वास-प्रस्तुतिः
अथोदितेषु नक्षत्रेषु यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजतेऽथातिथीनामुपस्थामेति
मूलम्
अथोदितेषु नक्षत्रेषु यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजतेऽथातिथीनामुपस्थामेति
English
After the stars have arisen, the sacrificer, having suspended the skin of black antelope and having gone out by the eastern door, and standing in front of the shed, utters Om bhūr bhuvaḥ svaḥ and thrice says, “Do you procure Vrata-milk,” and thus releases speech. Then he meets the guests.
विश्वास-प्रस्तुतिः
चनसितवतीं विचक्षणवतीं वाचं वदति
मूलम्
चनसितवतीं विचक्षणवतीं वाचं वदति
English
He utters speech preceded and succeeded respectively by canasita and vicakṣaṇa.
विश्वास-प्रस्तुतिः
स यद्यु हामेध्यमुपाधिगच्छति तज्जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँश्रेष्ठो दीक्षे मा मा हासीरित्यथ यद्येनमभिवर्षत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त म मे दीक्षां मा तपो निर्वधिष्टेत्येवं तत्र जपति

If he comes across any impure object, he murmurs the formula, “My mind is not firm and my sight wretched; the sun is the most excellent of all luminaries, O consecration, do not abandon me.”17 If it rains upon him he murmurs the formula,” (O waters) wetting, give me strength, give me vigour, give strength, do not ruin my consecration and my penance."
विश्वास-प्रस्तुतिः
तस्यैते यजुषी परिप्लवे आ सँस्थायै भवतोऽथास्मै निपतः काले यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
मूलम्
तस्यैते यजुषी परिप्लवे आ सँस्थायै भवतोऽथास्मै निपतः काले यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमोपस्तृणाति
English
These two formulas are to be murmured by him at such mishaps until the conclusion (of the sacrifice). At the time of lying down one spreads for him the skin of black antelope with its neck towards the east and hairy side upwards on the sacrificer’s place.
विश्वास-प्रस्तुतिः
स यदि बहुतयमुपस्तीर्णं भवति कृष्णाजिनादेवानन्तर्हितः संविशत्यथ संवेशनयजुर्जपति ६
मूलम्
स यदि बहुतयमुपस्तीर्णं भवति कृष्णाजिनादेवानन्तर्हितः संविशत्यथ संवेशनयजुर्जपति ६
English
Even if many things are spread out, he (the sacrificer) lies down unseparated from (that is, directly upon) the skin of black antelope. He murmurs the formula for lying down.
०७
विश्वास-प्रस्तुतिः
अग्ने त्वँसु जागृहि वयँसु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति
मूलम्
अग्ने त्वँसु जागृहि वयँसु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति
English
“O Agni, do thou be well awake, may we well rejoice. Guard us for prosperity; give us back to awakening.”18
विश्वास-प्रस्तुतिः
दक्षिणतः शय एतद्वै यजमानस्यायतनँस्व एवायतने शयेऽग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शय इति ब्राह्मणम्
मूलम्
दक्षिणतः शय एतद्वै यजमानस्यायतनँस्व एवायतने शयेऽग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शय इति ब्राह्मणम्
English
“He lies down towards the south. This is the sacrificer’s place. He lies down in his own place. He lies down turning towards the fire. He lies down turning towards the gods and sacrifice.” So says the Brahmana.
विश्वास-प्रस्तुतिः
अथैषा पत्नी जघनेन गार्हपत्यँसंविशति तूष्णीम्
मूलम्
अथैषा पत्नी जघनेन गार्हपत्यँसंविशति तूष्णीम्
English
The sacrificer’s wife lies down silently to the rear of the Gārhapatya.
विश्वास-प्रस्तुतिः
अथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धयजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य इत्यथाप आचामति दैवीं धियं मनामहे सुमृडीकामभिष्टये । वर्चोधाम्यज्ञवाहसं सुपारा नो असद्वश इत्य्

The Adhvaryu, having approached at midnight, makes the sacrificer recite the yajus pertaining to awakening, “O god Agni, thou art guardian of ordinance among the mortals; thou art worthy of being honoured in sacrifice.”18 The sacrificer sips water with the verse, “We meditate, for our help, upon the divine thought which is merciful, giving splendour and carrying the sacrifice. May it lead us safely according to our will.”18
विश्वास-प्रस्तुतिः
अथास्मै कँसे वा चमसे वा निःषिच्य व्रतं प्रयच्छति
मूलम्
अथास्मै कँसे वा चमसे वा निःषिच्य व्रतं प्रयच्छति
English
(The Adhvaryu) gives him vrata-milk pouring it into a bronze-vessel or a goblet.
विश्वास-प्रस्तुतिः
तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्य्यजुषा यावन्मात्रं व्रतयित्वा तूष्णीं भूयो व्रतयत्येतस्मिन्काले प्रतिप्रस्थाता पत्न्यै पात्रे निःषिच्य व्रतं प्रयच्छति

Being curtained off, he consumes it towards the south with the formula, “May the gods who are born of mind, employing the mind, the wise, sons of the wise, guard us, protect us. Obeisance to them; svāhā to them.”18 Having consumed a little with the formula, he consumes more silently. At this time the Pratiprasthātr̥, pouring vrata-milk in a pot gives it over to the sacrificer’s wife. Being curtained off she consumes it silently.
विश्वास-प्रस्तुतिः
तत्सा परिश्रित्य व्रतयति तूष्णीं निर्णिज्य पात्रे प्रयच्छतोऽथ तथैव पुरा नक्षत्राणामन्तर्धानात्सम्प्रेष्य वाचंयमयोर्व्रते दोहयतोऽथोदित आदित्ये यजमानः कृष्णाजिनमासज्य पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्व्रतं कृणुत व्रतं कृणुतेति त्रिर्वाचं विसृजते

They give over the pots having cleansed them. Similarly, prior to the disappearance of stars, (the Adhvaryu and Pratiprasthātr̥) giving calls, cause the vrata-milk to be milked. At sunrise the sacrificer, suspending the skin of black antelope, having gone out by the eastern door, standing in front of the shed, utters bhūr bhuvaḥ suvaḥ and thrice says, “Do you procure vrata-milk” and thus releases speech.
विश्वास-प्रस्तुतिः
समानो वाचो विसर्गः समानँसंवेशनयजुः समानं प्रबुद्धयजुः समानमपामाचमनँ समानं व्रतनम्
मूलम्
समानो वाचो विसर्गः समानँसंवेशनयजुः समानं प्रबुद्धयजुः समानमपामाचमनँ समानं व्रतनम्
English
The mantra for release of speech is similar, the formula for lying down is similar, the formula for getting up is similar, the formula for sipping water is similar, and the formula for consuming milk is similar.
विश्वास-प्रस्तुतिः
अथ सनीहारान्प्रहिणोति
मूलम्
अथ सनीहारान्प्रहिणोति
English
He then sends away the bringers of wealth.
विश्वास-प्रस्तुतिः
स यं मन्यते न मा प्रत्याख्यास्यतीति तं प्रथममभि प्रहिणोति विश्वे देवा अभि मामाववृत्रन्पूषा सन्या सोमो राधसा देवः सविता वसोर्वसुदावेत्याहरन्तं दृष्ट्वा जपति नानाहरन्तं रास्वेयत्सोमा भूयो भर मा पृणन्पूर्त्या विराधि माहमायुषेति

He first sends one to such a person about whom he thinks that he would not reject me, with the verse “All gods have turned towards me, Pūṣan with wealth, Soma, with bounty, god Savitr̥ granting treasure.”18 Seeing one bringing wealth, not one who is not bringing, he murmurs “Give Soma this much, bring still more providing me with abundance; may I not be deprived of long life.”
विश्वास-प्रस्तुतिः
स यथारूपं प्रतिगृह्णाति ७
मूलम्
स यथारूपं प्रतिगृह्णाति ७
English
He receives as the case may be.
०८
विश्वास-प्रस्तुतिः
चन्द्र मसीति हिरण्यम्वस्त्रमसीति वास उस्रासीति गां हयोऽसीत्यश्वं छागोऽसीति छागम्मेषोऽसीति मेषम्
मूलम्
चन्द्र मसीति हिरण्यम्वस्त्रमसीति वास उस्रासीति गां हयोऽसीत्यश्वं छागोऽसीति छागम्मेषोऽसीति मेषम्
English
Gold with “Thou art brilliant (be for my use),”19 piece of cloth with “Thou art piece of cloth;”19 a cow with “Thou art a cow;19 a horse with “Thou art a horse;”19 goat with “Thou art a goat,”19 a sheep with “Thou art a sheep;”19
विश्वास-प्रस्तुतिः
अथ यद्ब्राह्मणेनानादिष्टं भवति प्राजापत्यमसि मम भोगाय भवेत्येव तत्प्रतिगृह्णाति
मूलम्
अथ यद्ब्राह्मणेनानादिष्टं भवति प्राजापत्यमसि मम भोगाय भवेत्येव तत्प्रतिगृह्णाति
English
that which is not mentioned in the Brāhmaṇa, he receives with the formula, “Thou belongest to Prajāpati; do thou be for my use.”
विश्वास-प्रस्तुतिः
ताः समुदायुत्य रक्षन्ति
मूलम्
ताः समुदायुत्य रक्षन्ति
English
Bringing together, they guard them.
विश्वास-प्रस्तुतिः
तासां या नश्यति वा म्रियते वा वायवे त्वेति तामनुदिशति
मूलम्
तासां या नश्यति वा म्रियते वा वायवे त्वेति तामनुदिशति
English
Out of them, which is lost or dies, he points “To Vāyu thee.”19
विश्वास-प्रस्तुतिः
याप्सु वा पाशे वा वरुणाय त्वेति तां या सं वा शीर्यते गर्तं वा पतति निरृत्यै त्वेति तां यामहिर्वा व्याघ्रो वा हन्ति रुद्रा य त्वेति तां तासां तिस्रः पराच्योऽथ येयं नष्टा यदि विन्देयुः कथँ स्यादित्येतदनुदिष्टैव स्यादित्येतदेकं कमस्या अतः श्रेयाँसं प्रतिग्रहीतारं लभेत

That which (dies) in water or while being in bond, (he points) “To Varuṇa thee.”19 That which perishes or falls in a pit (he points) “To Nirr̥ti thee.”19 That whom a serpent or tiger kills (he points out) “To Rudra thee.”19 Three out of these are gone for ever. If they regain one which was lost, what should be done? It should remain as assigned. This is one view. What better receiver one can avail of?
विश्वास-प्रस्तुतिः
दक्षिणाभिरेवैनाँसह दद्यादित्येकम्वायव्ययैवैनया यजेतेत्येतदपरम् ८
मूलम्
दक्षिणाभिरेवैनाँसह दद्यादित्येकम्वायव्ययैवैनया यजेतेत्येतदपरम् ८
English
One should give it away together with the Dakṣiṇās. This is one view. One should offer her in a sacrifice to Vāyu. This is another view.
०९
विश्वास-प्रस्तुतिः
अथातः प्रयाणस्यैव मीमाँसा
मूलम्
अथातः प्रयाणस्यैव मीमाँसा
English
Now the discussion about departure.
विश्वास-प्रस्तुतिः
दीक्षितं वायोगक्षेमो विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सँसृजन्ति व्रते
मूलम्
दीक्षितं वायोगक्षेमो विन्दत्यन्यत्र वा देवयजनाद्दीक्षते सँसृजन्ति व्रते
English
If the initiated meets with absence of means of livelihood, or if he is initiated at a place other than the sacrificial place, the Vrata-milks (of the sacrificer and his wife) are hung together.
विश्वास-प्रस्तुतिः
सम्बध्नन्ति व्रतदुघयोर्वत्सवादधति यदाघेयं भवति नीडे गार्हपत्यं प्रौग आहवनीयम्
मूलम्
सम्बध्नन्ति व्रतदुघयोर्वत्सवादधति यदाघेयं भवति नीडे गार्हपत्यं प्रौग आहवनीयम्
English
The calves of the cows yielding Vrata-milk are fastened together. Whatever is to be loaded, is placed (in the bullock-cart), the Gārhapatya in the seat (of the cart), the Āhavanīya on the yoke,
विश्वास-प्रस्तुतिः
अपि वारण्योरग्नीन्समारोह्य बृहस्पतिवत्यर्चा प्रयाति भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ यद्येनं यान्तं व्रतनवेलोपाधिगच्छत्युत्तरतोऽरणी निधाय दक्षिणतः परिश्रित्य व्रतयति

or having consigned the fires into the kindling woods, he moves with the verse addressed to Br̥haspati: “Do thou go to better from the good, may Br̥haspati be thy forerunner.”20 If the hour of consuming Vrata-milk comes while he is passing, having deposited the two kindling woods towards the north, and having put an enclosure towards the south, he consumes the Vrata-milk.
विश्वास-प्रस्तुतिः
तूष्णीं तृणोदकायावस्यत्यथ यद्यपर्याणा अप उपाधिगच्छति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रि यावान्मदिन्तमस्तं वो मावक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनु गेषमिति
मूलम्
तूष्णीं तृणोदकायावस्यत्यथ यद्यपर्याणा अप उपाधिगच्छति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रि यावान्मदिन्तमस्तं वो मावक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनु गेषमिति
English
He makes a halt silently for (providing the oxen with) grass and water. If he meets with uncrossable waters, he murmurs the formula, “O divine waters, son of the waters, may I not travel upon the stream of yours which is worthy of oblation, mighty and most exhilarating. May I go along an unbroken thread of earth."20
विश्वास-प्रस्तुतिः
सं वा गाहते सं वा तरति
मूलम्
सं वा गाहते सं वा तरति
English
He either enters into the waters or crosses them (in a boat).
विश्वास-प्रस्तुतिः
सेतुमेव कृत्वात्येतीति ब्राह्मणम्
मूलम्
सेतुमेव कृत्वात्येतीति ब्राह्मणम्
English
“Having made a bridge, he passes beyond."21 So the Brāhmaṇa says.
विश्वास-प्रस्तुतिः
अथ यत्र वत्स्यन्भवति तदवस्यत्यथेमवस्य वर आ पृथिव्या इत्यथादित्यमुद्यन्तमुपतिष्ठत आरे शत्रून्कृणुहि सर्ववीर इत्यथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्यान्तादनुवाकस्य ९

He halts at the spot where he wants to camp with the formula, “Set one free on the chosen spot of the earth.”20 He prays to the rising sun, with the formula, “Do thou who art the bravest of all, drive away the enemies."20 He settles down where he is going to perform the sacrifice with the formula, “We have come to the sacrificial place on earth which formerly all gods enjoyed,” upto the end of the Anuvāka (“going through the rites with the R̥k., the Sāman and the Yajus, may we rejoice with abundunce of wealth and with food.”)22
१०
विश्वास-प्रस्तुतिः
अथातः क्रयस्यैवोपवसथः पर्याप्लवते
मूलम्
अथातः क्रयस्यैवोपवसथः पर्याप्लवते
English
Now the day preceding the Soma-purchasing day comes up.
विश्वास-प्रस्तुतिः
स उपकल्पयते चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीँसैषारुणा पिङ्गलैकहायनी भवति सोमवाहनावनड्वाहौ सोमवाहनमनः प्रक्षालितमुद्धृतफलकँरोहितं चर्मानडुहं द्वयमिध्माबर्हिः कार्ष्मर्यमयान्परिधीनाश्ववालं प्रस्तरमैक्षवी विधृती स्थालीं पद्धरणीमँशुग्रहणँहिरण्यमौदुम्बरीँ राजासन्दीं तस्यै नाभिदघ्नाः पादा भवन्त्यरत्निमात्राणि शीर्षाण्यनूच्यानि

He (the sacri-ficer) procures a piece of gold, a female goat, two tufts of wool, one black and the other white, a turban, two pieces of cloth, two skins of black antelope, a Soma- purchasing cow-she is ruddy, reddish brown and one year old, two oxen carrying the Soma, a Soma-carrying cart-washed up and with the plank lifted up, skin of a red ox, two sets of sacrificial grass and faggot, enclosing sticks of Kārṣmarya ( Gmelina arboria), the Prastara of Saccharum spontaneum, two blades of sugarcane, an earthen vessel for holding earth below the foot of the cow, a piece of gold for holding Soma-shoots, a stool of Udumbara-wood (Ficus glomerata) for king Soma, its feet are as high as the navel-it has perpendicular heads as high as aratni;
विश्वास-प्रस्तुतिः
सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिर्मनाग्वर्षीयसीमिव सम्राडासन्दीं यदि प्रवर्ग्यवान्सोमो भवत्यथाध्वर्युरपररात्र आद्रुत्य सँशास्ति त्रिस्तनव्रतं दोहयतेति
मूलम्
सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिर्मनाग्वर्षीयसीमिव सम्राडासन्दीं यदि प्रवर्ग्यवान्सोमो भवत्यथाध्वर्युरपररात्र आद्रुत्य सँशास्ति त्रिस्तनव्रतं दोहयतेति
English
it is woven with one-stranded threads of muñja grass, a little higher Samrāḍāsandī if the Soma-sacrifice is characterised by the Pravargya rite. The Adhvaryu, having ap proached in the latter part of night, gives out the call, “Do you cause to be milked the Vrata-milk from three udders of the cow.”
विश्वास-प्रस्तुतिः
प्रातरुदित आदित्ये विसृष्टायां वाच्यग्रेण शालां तिष्ठन्देवयजनमध्यवस्यति यदि पुरस्तादनध्यवसितं भवत्यथाहैहि यजमानेति
मूलम्
प्रातरुदित आदित्ये विसृष्टायां वाच्यग्रेण शालां तिष्ठन्देवयजनमध्यवस्यति यदि पुरस्तादनध्यवसितं भवत्यथाहैहि यजमानेति
English
In the morning, after the sun has risen, after he has released speech, (the sacrificer) standing in front of the (Prāgvarśa) shed, enters the sacrificial place if he has not already entered. (The Adhvaryu) says, “Come O sacrificer.”
विश्वास-प्रस्तुतिः
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याँस्तीर्त्वापः प्रणीयादित्यं चरुम्प्रायणीयामिष्टिं निर्वपति
मूलम्
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याँस्तीर्त्वापः प्रणीयादित्यं चरुम्प्रायणीयामिष्टिं निर्वपति
English
Having made him enter the shed by the eastern door, having strewn the Pr̥ṣṭhya line, having carried forth (Praṇītā) water, he pours out paddy for rice cooked for Aditi (for) the Prāyaṇīyā Iṣṭi.
विश्वास-प्रस्तुतिः
हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूयाहवनीये स्रुवाहुतिं जुहोति कविर्यज्ञस्य वितनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान्स्वाहेत्यथोपनिष्क्रम्य सम्प्रैषमाह सोमविक्रयिन्सोमँशोधयोपरवाणां काले रोहिते चर्मण्यानडुहेऽपामन्ते ब्राह्मणो दक्षिणत आस्तां ता गावो दूरं मा गुर्यासु सोमक्रयणी च सोमवाहनौ चानड्वाहौ सोमवाहनमनः प्रक्षालयतोद्धृतफलकमिति

Having released speech with the call to the preparer of the oblation- material, having melted clarified butter over the Gārhapatya and having purified it, he offers a spoonful on the Āhavanīya with the verse, “The sage stretches the path of the sacrifice on the back of the vault above the light of the heaven along which thou carriest the oblation. Thou goest as messenger hence wisely, thence with more gain, svāhā.”23 Having gone out he gives out the call, “O Soma-seller, do thou sift the Soma; let a brāhmaṇa sit down towards the south with a water-jar placed near, at the spot for the (prospective) Uparava holes on the skin of a red bull; let the cattle not go away among whom are included the cow for purchase of Soma and two oxen carrying Soma; do you cleanse the Soma-carrying cart with its plank lifted up.”
विश्वास-प्रस्तुतिः
यथासम्प्रैषं ते कुर्वन्त्यथैतेनैव यथेतमेत्याथैतं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वास्य षड्ढोत्रा प्रायणीयमासादयति
मूलम्
यथासम्प्रैषं ते कुर्वन्त्यथैतेनैव यथेतमेत्याथैतं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वास्य षड्ढोत्रा प्रायणीयमासादयति
English
They act as per the call. Having returned by the same route by which he had gone, having cooked the rice, having poured clarified butter over it and having taken the pot down towards the north, he places the Prāyaṇīya cooked rice (within the Vedi) with the Ṣaḍḍhotr̥ formula.”24
विश्वास-प्रस्तुतिः
समानं कर्मा प्रयाजेभ्यः
मूलम्
समानं कर्मा प्रयाजेभ्यः
English
The procedure upto the Prayāja-offerings is similar.
विश्वास-प्रस्तुतिः
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँस्रावेण पञ्चकृत्वो ध्रुवामभिघार्य चरुमभिघारयत्युपभृतमन्ततोऽथ चतुर आज्यस्य गृह्णान आह १०
मूलम्
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँस्रावेण पञ्चकृत्वो ध्रुवामभिघार्य चरुमभिघारयत्युपभृतमन्ततोऽथ चतुर आज्यस्य गृह्णान आह १०
English
Having made five Prayāja-offerings, having crossed towards the north, having dropped the remnants five times into the Dhruvā, he pours clarified butter over the cooked rice, lastly into the Upabhr̥t. While taking four spoonfuls of clarified butter, he says (to the Hotr̥).
११
विश्वास-प्रस्तुतिः
पथ्यायै स्वस्तय इत्युपाँश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह पथ्याँ स्वस्तिमित्युपाँशु यजेत्युच्चैर्वषट्कृते पूर्वार्धे जुहोत्यथ चतुर एवाज्यस्य गृह्णान आहाग्नय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाँ शु यजेत्युच्चैर्वषट्कृते दक्षिणार्धे जुहोत्य्

(Loudly) “Do you recite the puronuvākyā (to himself) for Pathyā Svasti.” Having crossed and having made to announce, he says (loudly), “Do you recite the yājyā (to himself) for Pathyā Svasti." At the Vaṣaṭ-utterance he makes the offering in the eastern half (of the fire). While taking four spoonfuls of clarified butter he says (loudly), “Do you recite the puronuvākyā (to himself) for Agni.” Having crossed and having caused to announce, he says (loudly), “Do you recite the yājyā (to himself) for Agni.” At the Vaṣaṭ-utterance he makes the offering in the southern half.
विश्वास-प्रस्तुतिः
अथ चतुर एवाज्यस्य गृह्णान आह सोमायेत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह सोममित्युपाँशु यजेत्युच्चैर्वषट्कृतेऽपरार्धे जुहोत्यथ चतुर एवाज्यस्य गृह्णान आह सवित्र इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह सवितारमित्युपाँशु यजेत्युच्चैर्वषट्कृत उत्तरार्धे जुहोत्यथोपस्तीर्य पूर्वार्धाच्चरोरवद्यन्नाहादित्यईत्युपाँश्वनुब्रूहीत्युच्चैः

While taking four spoonfuls of clarified butter, he says (loudly), “Do you recite the puronuvākyā (to himself) for Soma.” Having crossed and having caused to announce, he says (loudly), “Do you recite the yājyā (to himself) for Soma.” At the Vaṣaṭ-utterance he makes the offering in the rear half. While taking four spoonfuls of clarified butter he says (loudly), “Do you recite the puronuvākyā (to himself) for Savitr̥." Having crossed and having caused to announce, he says (loudly) “Do you recite the yājyā (to himself) for Savitr̥. “At the Vaṣaṭ-utterance he makes the offering in the northern half.
विश्वास-प्रस्तुतिः
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्त्यत्याक्रम्याश्राव्याहादितिमित्युपाँ शु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ वै भवत्यदितिमिष्ट्वा मारुतीमृचमन्वाह
मूलम्
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्त्यत्याक्रम्याश्राव्याहादितिमित्युपाँ शु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ वै भवत्यदितिमिष्ट्वा मारुतीमृचमन्वाह
English
Having spread clarified butter (into the ladle), while taking portions of cooked rice from the eastern half, he says (loudly), “Do you recite the puronuvākyā (to himself) for Aditi.” Having taken portions from the eastern half, he takes from the rear half. He pours clarified butter over the portion (taken up); smears the portion from which he took the oblation. Having crossed and having caused to announce, he says (loudly), “Do you recite the yājyā (to himself) for Aditi.” At the Vaṣaṭ-utterance he makes the offering in the middle. It is indeed said, “Having made an offering to Aditi, (the Adhvaryu) recites a verse addressed to the Maruts25
विश्वास-प्रस्तुतिः
मरुतो यद्ध वो दिव इत्यथोपस्तीर्योत्तरार्धाच्चरोरवद्यन्नाहाग्नये स्विष्टकृतेऽनुब्रूहीत्यथ वै भवत्यष्टावत्तः स्विष्टकृद्द्वादशावत्तेडा
मूलम्
मरुतो यद्ध वो दिव इत्यथोपस्तीर्योत्तरार्धाच्चरोरवद्यन्नाहाग्नये स्विष्टकृतेऽनुब्रूहीत्यथ वै भवत्यष्टावत्तः स्विष्टकृद्द्वादशावत्तेडा
English
-O Maruts, desirous of happiness, we invoke you (to come) from the heaven. Do you come to us.”26 Having spread clarified butter into the ladle, while taking portion from the northern half of the cooked rice, (the Adhvaryu) says (to the Hotr̥), “Do you recite the puronuvākyā for Sviṣṭakr̥t Agni.” It is indeed said, “The Sviṣṭakr̥t oblation comprises eight portions, the Iḍā comprises twelve portions.”
विश्वास-प्रस्तुतिः
द्विरभिघारयति न प्रत्यनक्त्यथैतन्मेक्षणमधोऽधः स्रुचावाग्नीध्रायोत्प्रयच्छन्नाहातिवालयतादेव मानुप्रहार्षीरित्यत्याक्रम्याश्राव्याहाग्निँस्विष्टकृतं यजेति
मूलम्
द्विरभिघारयति न प्रत्यनक्त्यथैतन्मेक्षणमधोऽधः स्रुचावाग्नीध्रायोत्प्रयच्छन्नाहातिवालयतादेव मानुप्रहार्षीरित्यत्याक्रम्याश्राव्याहाग्निँस्विष्टकृतं यजेति
English
The Adhvaryu pours clarified butter twice, he does not besmear the cut up part of the oblation. Giving the corn-stirring stick to him from below the two ladles, he says to the Āgnīdhra, “Do thou move (the stick) beyond, do not throw (on the fire).” Having crossed and having caused to announce, he says (to the Hotr̥), “Do you recite the yājyā for Sviṣṭakr̥t Agni.”
विश्वास-प्रस्तुतिः
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणमाहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथोदङ्ङत्याक्रम्य यथायतनँस्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यत्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति

At the Vaṣaṭ-utterance he makes the offering in the eastern half of the northern half (of the fire) beyond the earlier offerings. At this stage (the Āgnīdhra) having moved over the Āhavanīya and having sprinkled it with water, places the corn-stirring stick towards the north. (The Adhvaryu), having crossed towards the north, having deposited the ladles at their places, and having cut up the Prāśitra-portion, takes up the Iḍā. After the Iḍā has been invoked, he gives to the Āgnīdhra (his portion) in six cuttings.
विश्वास-प्रस्तुतिः
मार्जयन्ते ११
मूलम्
मार्जयन्ते ११
English
(The relevant priests) consume (the Iḍā) and sprinkle water upon themselves.
१२
विश्वास-प्रस्तुतिः
अथ परिक्रमिणः सँशास्त्यनुच्छिष्टीकुर्वन्त एतं चरुं व्युद्धृत्य प्राश्नीताथैतां चरुस्थालीँसक्षामकाषामेतन्मेक्षणमेतं वेदमेतद्बर्हिश्चतुष्टयमुदयनीयाय निधत्तादिति
मूलम्
अथ परिक्रमिणः सँशास्त्यनुच्छिष्टीकुर्वन्त एतं चरुं व्युद्धृत्य प्राश्नीताथैतां चरुस्थालीँसक्षामकाषामेतन्मेक्षणमेतं वेदमेतद्बर्हिश्चतुष्टयमुदयनीयाय निधत्तादिति
English
(The Adhvaryu) instructs his assistant: “Do you consume this rice, having scooped it out without having any remnant, then preserve for the Udayanīya sacrifce these four things (namely), this vessel of rice together with the scrapings, this corn-stirring stick, the Veda and this sacrificial grass.”
विश्वास-प्रस्तुतिः
शंय्वन्तः प्रायणीयः सन्तिष्ठत
मूलम्
शंय्वन्तः प्रायणीयः सन्तिष्ठत
English
The Prāyaṇīya sacrifice comes to a conclusion at the end of the Saṁyuvāka.
विश्वास-प्रस्तुतिः
अत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यथैतद्ध्रुवाज्यमाप्याय्य स्रुचि चतुर्गृहीतं गृहीत्वा सूत्रेण हिरण्यं निष्टर्क्यं बद्ध्वा दर्भनाड्यां प्रग्रथ्य स्रुच्यवदधातीयं ते शुक्र तनूरिदं वर्चस्तया सम्भव भ्राजं गच्छेत्यत्रैतां दर्भनाडीँस्रुग्दण्ड उपसङ्गृह्याहवनीये जुहोत्यन्वारब्धे यजमाने जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचति स्फ्यमुदपात्रं बर्हिर्हिरण्यमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्नी स्थालीं पद्धरणीमादाय पूर्वया द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्यजमानमाज्यमवेक्षयति शुक्रमस्यमृतमसि वैश्वदेवँ हविरित्यथैनँहिरण्यमन्तर्धायादित्यमुदीक्षयति सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चितेत्यथैताँसोमक्रयणीमग्रेण शालामुदीचीमतिवित्सयन्ति

(The sacrificer) pours down within the altar the Praṇītā-goblet. (The Adhvaryu) having swollen the clarified butter in the Dhruvā, having taken up four spoonfuls into the ladle, having tied a piece of gold with a loose knot of a thread, having strung it into darbha-blade, puts it down into the ladle with the formula, “O brilliant one, this is thy body. This is thy splendour. Be united with it. Attain brilliance.”27 Having suspended the darbha- blade on the handle of the ladle, he makes an offering on the Āhavanīya, while the sacrificer has contacted him, with the formula, “Thou art urging, grasped by mind, dear to Viṣṇu. May I attain the support of speech in that impulse of thine whose impulse is true, svāhā.”27
Having taken up another four spoonfuls, (the Adhvaryu) asks for the wooden sword, a pot filled with water, sacrificial grass and a piece of gold. Having taken up these, he says, “Come, O sacrificer." The sacrificer follows him, and the sacrificer’s wife having taken up the vessel containing the soil, follows him. Having gone out by the eastern door, (the Adhvaryu) standing in front of the (Prāgvaṁśa) shed, makes the sacrificer gaze at the clarified butter with the formula, “Thou art bright, thou art nector the offering to all gods.”27 Having held the piece of gold in between he causes the sacrificer to gaze at the sun with the formula, “I have mounted the eye of sun the pupil of the eye of Agni, when thou shining goest with thy steeds along with the wise."27 The Soma-purchasing cow is driven in front of the shed towards the north.
विश्वास-प्रस्तुतिः
तामनुमन्त्रयते चिदसि मनासीत्यान्तादनुवाकस्याथाह दक्षिणस्येर्मस्य सप्तमं पदं जोषयध्वमिति
मूलम्
तामनुमन्त्रयते चिदसि मनासीत्यान्तादनुवाकस्याथाह दक्षिणस्येर्मस्य सप्तमं पदं जोषयध्वमिति
English
(The sacrificer) follows her with the formula, “Thou art thought, thou art mind,” thus, upto the end of the Anuvāka (thou art meditation; thou art dakṣiṇā thou art holy; thou art supreme, thou art two-headed Aditi. Be thou going forward and backward for us. May Mitra fasten thee by foot. May Pūṣan guard the ways for Indra the overseer. May the mother give thee consent, thy father, thy brother who has sprung of the same womb, and thy companion in the herd. O goddess, do thou approach god Soma for the sake of Indra. May Rudra bring thee back along the path of Mitra. May the friend of Soma bring well being. Do thou come back together with wealth)."28 Then (the Adhvaryu) says, “Do you take note of the seventh foot-print of the right forefoot (of the cow).”
विश्वास-प्रस्तुतिः
तस्यै षट्पदान्यनुनिक्रामति १२
मूलम्
तस्यै षट्पदान्यनुनिक्रामति १२
English
(The Adhvaryu) passes along her six foot-steps.
१३
विश्वास-प्रस्तुतिः
वस्व्यसि रुद्रा स्यदितिरस्यादित्यासि शुक्रासि चन्द्रा सीति
मूलम्
वस्व्यसि रुद्रा स्यदितिरस्यादित्यासि शुक्रासि चन्द्रा सीति
English
With the formula, “Thou art Vasvī, thou art Rudrā; thou art Aditi; thou art Ādityā; thou art Śukrā; thou art Candrā.”29
विश्वास-प्रस्तुतिः
सप्तमं पदमभिगृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिराचिकेत्वित्यथैतस्मिन्पदे हिरण्यं निधाय सम्परिस्तीर्याभिजुहोति पृथिव्यास्त्वा मूर्धन्नाजिघर्मि देवयजन इडायाः पदे घृतवति स्वाहेत्यपोद्धृत्य हिरण्यँस्फ्येन वा कृष्णविषाणया वा पदं परिलिखति परिलिखितँरक्षः परिलिखिता अरातय इदमहँरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्य्

He takes hold of (the soil of) the seventh foot-print with the formula, “May Br̥haspati make thee rejoice in happiness; may Rudra perceive thee along with Vasus.”29 Having deposited a piece of gold on this (seventh) foot-print, and having strewn it around, he makes an offering on it with the formula, “I pour thee on the head of the earth, on the sacrificial place, on the abode of Iḍā which is full of clarified butter, svāhā.”29 Having taken away the piece of gold, he draws a line around (the foot-print) with the wooden sword or with the horn of black antelope with the formula, “The Rakṣas is encircled; the evil spirits are encircled. Here do I cut out the neck of the Rakṣas. I cut out the neck of one who hates us and whom we hate.”29
विश्वास-प्रस्तुतिः
अथैनत्स्फ्येनोपसङ्ग्राहं यावत्त्मूतं पद्धरण्याँसंवपत्यस्मे रायोऽस्मे राय इति त्रिस्त्वे राय इति यजमानाय प्रयच्छति
मूलम्
अथैनत्स्फ्येनोपसङ्ग्राहं यावत्त्मूतं पद्धरण्याँसंवपत्यस्मे रायोऽस्मे राय इति त्रिस्त्वे राय इति यजमानाय प्रयच्छति
English
Collecting it by means of the wooden sword he pours into the vessel for holding the soil of foot-print as much soil as is mixed with clarified butter with the formula, “Wealth be with us”30 recited thrice. He hands it over to the sacrificer with the formula, “Wealth be with thee.”30
विश्वास-प्रस्तुतिः
तोते राय इति यजमानः पत्न्या अथ पत्नीँसोमक्रयण्या समीक्षयति सं देवि देव्योर्वश्या पश्यस्वेत्यथ पत्नी यजमानमीक्षते त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव सन्दृशीत्यथ यजमानः सोमक्रयणीमीक्षते माहँरायस्पोषेण वियोषमित्यथैनद्धिरण्यमद्भिः प्रक्षाल्य मध्यमायामङ्गुलौ बध्नीतेऽथैनं पदाशयमद्भिरुपसृजत्युत्सृजन्ति सोमक्रयणीं नयन्ति पत्नीं नि पद दधति १३

The sacrificer to his wife with the formula, “Wealth be thine.”30
The Adhvaryu makes the Soma-purchasing cow gaze at the sacrificer’s wife with the formula, “O goddess, gaze together with goddess Urvaśī.”30 The wife gazes at the sacrificer with the formula, “Let me attend on thee with Tvaṣṭr̥’s aid; rich in seed and bearing seed, may I get a heroic son in thy presence.”30 The sacrificer gazes at the Soma-purchasing cow with the formula, “May I not be separated from the fullness of wealth.”30 Having washed the piece of gold with water, he fixes it on the middle finger. He pours water on the cavity of the foot-print. The Soma-purchasing cow is released. The sacrificer’s wife should be led back. The soil of foot-print is preserved.
१४
विश्वास-प्रस्तुतिः
अथात्रैव तिष्ठन्याचति चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीमित्यथ पृच्छति सोमविक्रयिञ्छुद्धस्ते सोमा३
इति
मूलम्
अथात्रैव तिष्ठन्याचति चन्द्रं च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीमित्यथ पृच्छति सोमविक्रयिञ्छुद्धस्ते सोमा३
इति
English
Standing here only, he asks for the piece of gold, the she-goat, two tufts of wool-a black and a white one, the turban, the two pieces of cloth, two skins of black antelope and the Soma-purchasing cow. He enquires, “O Soma-seller, is thy Soma sifted?”
विश्वास-प्रस्तुतिः
शुद्ध इतीतरः प्रत्याह
मूलम्
शुद्ध इतीतरः प्रत्याह
English
“Sifted,” says the other one.
विश्वास-प्रस्तुतिः
सुविचितँराजानं पुरस्ताद्भागाभिरुपतिष्ठत एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताद्छन्दोमानाँसाम्राज्यं गच्छेति मे सोमाय ब्रूतादित्यथैतद्रो हितं चर्मानडुहमुत्तरलोमास्तीर्याथैतद्द्विगुणं वासः प्राचीनदशमुत्तरार्धे चर्मण उपस्तृणात्यथ हिरण्यवता पाणिना राजानमभिमृशत्यँशुना ते अँशुः पृच्यतां परुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रह इत्यथैनमतिच्छन्दसर्चा मिमीत एकयैकयोत्सगं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते

The sacrificer prays to the well-sifted Soma with the purastādbhāga formulas, “Do thou speak unto Soma, “This is thy Gāyatra part.31 Do thou speak unto Soma “This is thy Triṣṭubh part.’ Do thou speak unto Soma for me: ‘This is thy Jāgata part.’ Do thou speak unto Soma for me; ‘Do thou become the lord of Chandomas.”31 Having spread the red hide of a bull with hairy side upwards, (the Adhvaryu) spreads the folded piece of cloth with its fringes towards the north on the northern half of the skin. He touches King Soma with the hand equipped with gold with the formula, “Let thy shoot be mixed with shoot, joint with joint; may thy fragrance evoke the desire; may the firm juice cause excitement. Thou art a house-holder; thy libation is bright.”32
He measures it (the Soma) with the Atichandas verse. He measures with one finger at a time leaving (a finger each time). He measures him with a fresh finger each time.
विश्वास-प्रस्तुतिः
सर्वास्वङ्गुष्ठमुपनिगृह्णात्यभि त्यं देवँसवितारमूण्योः कविक्रतुमर्चामि सत्यसवसँरत्नधामभि प्रियं मतिम्। ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवरिति
मूलम्
सर्वास्वङ्गुष्ठमुपनिगृह्णात्यभि त्यं देवँसवितारमूण्योः कविक्रतुमर्चामि सत्यसवसँरत्नधामभि प्रियं मतिम्। ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवरिति
English
In respect of all (fingers) he applies the thumb. (The verse in the Atichandas metre is) “I send my prayer to god Savitr̥ within the two bowls, the wise, having true impulse the bestower of treasures, at whose impulse the resplendent light shines high. The golden-handed wise has measured the heaven with his form.”32
विश्वास-प्रस्तुतिः
पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानोऽर्धवेलाँराज्ञो मिमीतेऽथातिशिष्टँराजानं प्रजाभ्यस्त्वेत्युपसमूहति
मूलम्
पञ्चकृत्वो यजुषा पञ्चकृत्वस्तूष्णीं दशकृत्वो मिमानोऽर्धवेलाँराज्ञो मिमीतेऽथातिशिष्टँराजानं प्रजाभ्यस्त्वेत्युपसमूहति
English
Five times with the formula, five times silently. Measuring ten times, he measures half the quantity of king Soma. He collects the remaining quantity of king Soma with the formula, “For progeny thee.”
विश्वास-प्रस्तुतिः
समुच्चित्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेणोपनह्यति प्राणाय त्वेति
मूलम्
समुच्चित्य वसनस्यान्तान्प्रदक्षिणमुष्णीषेणोपनह्यति प्राणाय त्वेति
English
Having folded together the ends of the piece of cloth, he binds it with the turban by the right with the formula, “For Prāṇa thee.”32
विश्वास-प्रस्तुतिः
व्यानाय त्वेत्यनुशृन्थत्यथोपरिष्टादङ्गुल्यावकाशं कृत्वा यजमानमवेक्षयति प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्त्वित्यथैनं चर्मणि निदधाति
मूलम्
व्यानाय त्वेत्यनुशृन्थत्यथोपरिष्टादङ्गुल्यावकाशं कृत्वा यजमानमवेक्षयति प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्त्वित्यथैनं चर्मणि निदधाति
English
Having caused a cavity above by means of a finger, he makes the sacrificer gaze (at it) with the formula, “Do thou breathe after the offspring; may the offspring breathe after thee.”32 He deposits it (the Soma) on the skin.
विश्वास-प्रस्तुतिः
तं ततः कौत्स आदत्तेऽद्भिरभ्युक्ष्य चर्मोदूहत्य्
मूलम्
तं ततः कौत्स आदत्तेऽद्भिरभ्युक्ष्य चर्मोदूहत्य्
English
One belonging to Kutsa gotra takes charge of it. The Adhvaryu lifts up the skin after having sprinkled it with water.
विश्वास-प्रस्तुतिः
अथोपोत्थाय पृच्छति सोमविक्रयिन्क्रय्यस्ते सोमा३
इति
मूलम्
अथोपोत्थाय पृच्छति सोमविक्रयिन्क्रय्यस्ते सोमा३
इति
English
Having stood up, he enquires, “O Soma-seller, is thy Soma to be purchased (by us)?”
विश्वास-प्रस्तुतिः
क्रय्य इतीतरः प्रत्याह
मूलम्
क्रय्य इतीतरः प्रत्याह
English
“It is for purchase,” says the other.
विश्वास-प्रस्तुतिः
मूजवता३
इति
मूलम्
मूजवता३
इति
English
“Is it from the Mūjavat mountain?”
विश्वास-प्रस्तुतिः
मूजवतो हीतीतरः प्रत्याहाथैनं गवा पणते गवा ते क्रीणानीति
मूलम्
मूजवतो हीतीतरः प्रत्याहाथैनं गवा पणते गवा ते क्रीणानीति
English
“Indeed from the Mūjavat,” says the other. Then he barters for a cow, “I purchase it for a cow.”
विश्वास-प्रस्तुतिः
क्रीतः सोम इत्याह सोमविक्रयी वयाँसि व्याचक्ष्वेत्येषा ते सोमक्रयणी चन्द्रं ते छागा ते वस्त्रं त इत्यथैनँहिरण्येन पणते १४
मूलम्
क्रीतः सोम इत्याह सोमविक्रयी वयाँसि व्याचक्ष्वेत्येषा ते सोमक्रयणी चन्द्रं ते छागा ते वस्त्रं त इत्यथैनँहिरण्येन पणते १४
English
“The Soma has been purchased. Speak out the valuables.” “This Soma-purchasing cow is thine. Gold is thine; the female goat is thine; piece of cloth is thine.” Then he barters for gold.
१५
विश्वास-प्रस्तुतिः
सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यवन्तमभिमातिषाहँशुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रे णामृतममृतेन संयत्ते गोरित्युक्त्वास्मे चन्द्रा णीति यजमानाय प्रयच्छत्यथैनं प्रतीचीनग्रीवयाजया पणते तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणामीत्यस्मे ते बन्धुरिति यजमानमीक्षते

“I purchase thy Soma which is full of vigour, full of sap, full of strength and overcoming the enemy. I purchase thy bright (Soma) for bright (gold). The glittering for glittering; the immortal for immortal, to match thy cow.” Having said this he gives (the gold) to the sacrificer saying, “Gold be with us.”33 Then he barters this (Soma) for the female goat with its neck towards the west with the formula, “Thou art the form of heat, the colour of Prajāpati, with thee who hast a thousandfold prosperity, with the least animal. I purchase (Soma).” He gazes at the sacrificer with the formula, “Thy kith and kin be with us.”33
विश्वास-प्रस्तुतिः
मयि ते रायः श्रयन्तामित्यात्मानम्
मूलम्
मयि ते रायः श्रयन्तामित्यात्मानम्
English
At himself with the formula, “May thy wealth be with me.”33
विश्वास-प्रस्तुतिः
अथैनां प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदीचीमुत्सृजति
मूलम्
अथैनां प्रदक्षिणमावर्त्याद्भिरभ्युक्ष्योदीचीमुत्सृजति
English
Having turned the cow by the right and having sprinkled her with water, he leaves her towards the north.
विश्वास-प्रस्तुतिः
सैषा कौत्सस्य भवत्यथ कौत्साद्रा जानमादत्ते मित्रो न एहि सुमित्रधा इति
मूलम्
सैषा कौत्सस्य भवत्यथ कौत्साद्रा जानमादत्ते मित्रो न एहि सुमित्रधा इति
English
She belongs to the Kautsa. He takes up king Soma from the Kautsa with the formula, “Come to me as a friend, giving good friends.”33
विश्वास-प्रस्तुतिः
तं यजमानस्योरौ दक्षिण आसादयतीन्द्र स्योरुमाविश दक्षिणमुशन्नुशन्तँस्योनः स्योनमित्यथैनं प्रत्यपोर्णुते यजमानोऽद्भिरभ्युक्ष्य कौत्साय वा परिकर्मिणे वोष्णीषं प्रयच्छत्यथ यजमानँ शुक्लयोर्णास्तुकयाध्यस्यत्यस्मे ज्योतिरित्यथैतां कृष्णामुपग्रथ्नातीदमहँ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामीति

He deposits him (Soma) on the right lap of the sacrificer with the formula, “Do thou enter upon the right lap of Indra, longing for one who longs you and favourable to one who is favourable to you.”33 The sacrificer uncovers it. Having sprinkled with water, the Adhvaryu gives away the turban either to the Kausta or a servant. He strikes at the sacrificer with the white tuft of wool with the formula, “Light be with us.”33 He ties up together the tuft of black wool with the formula, “Herewith do I tie up the necks of biting serpents.”34
विश्वास-प्रस्तुतिः
तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इत्यथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्नित्य्
मूलम्
तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इत्यथ सोमक्रयणाननुदिशति स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्नित्य्
English
With it he hits the Soma-seller saying “Darkness be with the Soma-seller.”33 He points at the articles for which Soma was purchased with the formula, “O Svāna, Bhrāja, Aṅghāri, Bambhāri, Hasta, Suhasta and Kr̥śānu, these are the articles for which Soma has been bought. Guard them; let them not fail you.”35
विश्वास-प्रस्तुतिः
अथैनमादायोपोत्तिष्ठत्युदायुषा स्वायुषोदोषधीनाँरसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँअन्विति
मूलम्
अथैनमादायोपोत्तिष्ठत्युदायुषा स्वायुषोदोषधीनाँरसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँअन्विति
English
Taking him (Soma, the Adhvaryu) stands up with the formula, “I have arisen following the immortals with life, good life, with the sap of plants, with the force of rains.”36
विश्वास-प्रस्तुतिः
दक्षिणत एतत्सोमवाहनमनः प्रागीषं योग्यकृतमुपस्थितं भवति
मूलम्
दक्षिणत एतत्सोमवाहनमनः प्रागीषं योग्यकृतमुपस्थितं भवति
English
The Soma-carrying cart with its pole pointing towards the east and provided with a yoke, stands towards the south.
विश्वास-प्रस्तुतिः
तदभिप्रैत्युर्वन्तरिक्षमन्विहीति
मूलम्
तदभिप्रैत्युर्वन्तरिक्षमन्विहीति
English
He approaches it with the formula, “Go along the wide midregion.”36
विश्वास-प्रस्तुतिः
तस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
मूलम्
तस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
English
He spreads skin of black antelope in his seat with the formula, “Thou art the seat of Aditi.”36 (He deposits) king Soma on the skin of black antelope with the formula, “Do thou sit on the seat of Aditi.”36
विश्वास-प्रस्तुतिः
अथैनमुपतिष्ठतेऽस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानीत्यथैनं वाससा परितनोति वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्र वित्यथोदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यथ सोमवाहनावानीयमानौ प्रतिमन्त्रयत उस्रावेतं धूर्षाहावनश्रू अवीरहणौ ब्रह्मचोदनविति

He prays to him with the verse, “The bull has supported the heaven and the midregion, has measured the width of the earth. He, the overruler, governed all worlds. All these are Varuṇa’s ordinances.”36 He enfolds him with a piece of cloth with the verse, “Varuṇa has expanded the midregion over the woods, swiftness in horses, milk in cows, will in hearts, the fire among the settlers, the sun in the heaven and Soma on the mountain.”36 With the verse addressed to Sūrya, “The beams hold up god Jātavedas the sun, so that all might see,” he unfolds the skin of black antelope from the front. He recites with reference to the Soma-carrying bulls being brought, the formula, “Come hither O bulls, you who bear the yoke, not shedding tears, not killing our heroic progeny, and inciting the priests.”36
विश्वास-प्रस्तुतिः
तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति
मूलम्
तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति
English
He first yokes the southern side bull with the formula, “Thou art the support of Varuṇa.”36
विश्वास-प्रस्तुतिः
वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति
मूलम्
वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति
English
He fixes the yoke-pin with the formula, “Thou art the prop of the support of Varuṇa.”36
विश्वास-प्रस्तुतिः
प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्
मूलम्
प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्
English
The yokehalter with the formula, “Varuṇa’s noose is tied.”36
विश्वास-प्रस्तुतिः
एतयैवावृतोत्तरमनड्वाहं युनक्त्यथ दक्षिणामीषामन्वारभ्य सम्प्रैषमाह १५
मूलम्
एतयैवावृतोत्तरमनड्वाहं युनक्त्यथ दक्षिणामीषामन्वारभ्य सम्प्रैषमाह १५
English
With this very procedure he yokes the northern side bull. Touching the southern pole he gives out the call.
१६
विश्वास-प्रस्तुतिः
सोमाय क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वय मा तु त्वमाह्वा यजमान आह्वास्यतीति
मूलम्
सोमाय क्रीताय प्रोह्यमाणायानुब्रूहि सुब्रह्मण्य सुब्रह्मण्यामाह्वय मा तु त्वमाह्वा यजमान आह्वास्यतीति
English
“Do you (O Hotr̥) recite verses for the Soma which has been purchased being carried forth. O Subrahmaṇya, do thou invoke Subrahmaṇyā. Do thou, however, not invoke (until) the sacrificer invokes.”
विश्वास-प्रस्तुतिः
यदा यजमानस्त्रिरुपाँश्वाह्वयतेऽथैष सुब्रह्मण्योऽन्तरेणेषे तिष्ठन्पलाशशाखां धारयन्सुब्रह्मण्यामाह्वयति सुब्रह्मण्योँसुब्रह्मण्योमिति त्रिस्
मूलम्
यदा यजमानस्त्रिरुपाँश्वाह्वयतेऽथैष सुब्रह्मण्योऽन्तरेणेषे तिष्ठन्पलाशशाखां धारयन्सुब्रह्मण्यामाह्वयति सुब्रह्मण्योँसुब्रह्मण्योमिति त्रिस्
English
When the sacrificer invokes three times in a low voice, then the Subrahmaṇya, standing between the two poles and holding a twig of Butea frondosa invokes Subrahmaṇyā by saying subrahmaṇyom subrahmaṇyom three times.
विश्वास-प्रस्तुतिः
त्रिरुक्तायां प्रच्यावयन्ति प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरादघद्श्येनो भूत्वा परापत यजमानस्य नो गृहे देवैः सँस्कृतमिति

After (the first verse) has been recited thrice by (the Hotr̥) they cause the cart to move with the formula, “O lord of the earth, do thou move forward towards all abodes. Let no opponent find thee; let no robber find thee; let not the wicked wolves find thee; let not Viśvāvasu Gandharva injure thee. Do thou become an eagle and fly away towards the house of the sacrificer which has been accomplished by gods. Thou art the producer of happiness for the sacrificer.”37
विश्वास-प्रस्तुतिः
प्रदक्षिणँराजानं परिवहन्त्यथैतावञ्जसोपसङ्क्रामतोऽध्वर्युश्च यजमानश्च यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्वित्यथाग्रेण शालां तिष्ठन्नोह्यमानँराजानं प्रतिमन्त्रयते नमो मित्रस्य वरुणस्य चक्षसे महो द्वाय तदृतँसपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शँसतेत्यथैतत्सोमवाहनमनोऽग्रेण शालामुदगीषमुपस्थापयन्ति

King Soma is turned around by the right. The Adhvaryu and the sacrificer step up straight on (towards the Prāgvaṁśa shed) with the formula, “We have stridden the path which leads to happiness and which is secure by which one keeps off all his enemies and obtains wealth.”37
Standing in front of the (Prāgvaṁśa) shed, the Adhvaryu recites with reference to king Soma being carried the verse, “Homage to the brightness of Mitra and Varuṇa. Do you pay homage to the god. Do you praise Sūrya the far-seeing, god-born light, son of heaven.”37 The Soma-carrying cart is made to stand in front of the (Prāgvamśa) shed with its poles pointing towards the north.
विश्वास-प्रस्तुतिः
तदुपस्तभ्नोति वरुणस्य स्कम्भनमसीति
मूलम्
तदुपस्तभ्नोति वरुणस्य स्कम्भनमसीति
English
(The Adhvaryu) supports it with the formula, “Thou art the support of Varuṇa.”37
विश्वास-प्रस्तुतिः
वरुणस्य स्कम्भसर्जनमसीति शम्यामुद्गूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्
मूलम्
वरुणस्य स्कम्भसर्जनमसीति शम्यामुद्गूहत्युन्मुक्तो वरुणस्य पाश इति योक्त्रम्
English
He lifts up the yoke with the formula, “Thou art the prop of Varuṇa’s support.”37 The yoke-halter with the formula, “Varuṇa’s noose is loosened.”37
विश्वास-प्रस्तुतिः
अथ वै भवति
मूलम्
अथ वै भवति
English
It is indeed said,
विश्वास-प्रस्तुतिः
विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथातिथ्यं गृह्णाति यज्ञस्य सन्तत्यै पत्न्यन्वारभत इति ब्राह्मणम्
मूलम्
विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथातिथ्यं गृह्णाति यज्ञस्य सन्तत्यै पत्न्यन्वारभत इति ब्राह्मणम्
English
“While one ox is removed, the other not removed, the Adhvaryu pours out oblation-material for the Ātithyeṣṭi for the continuity of the sacrifice. The sacrificer’s wife holds contact (at the pouring).” So says the Brāhmaṇa38
विश्वास-प्रस्तुतिः
अथाहैहि यजमानेति
मूलम्
अथाहैहि यजमानेति
English
(The Adhvaryu) says, “Come O sacrificer.”
विश्वास-प्रस्तुतिः
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याँस्तीर्त्वापः प्रणीयातिथ्यं निर्वपत्यन्वारब्धायां पत्न्याम्
मूलम्
पूर्वया द्वारा शालां प्रपाद्य पृष्ठ्याँस्तीर्त्वापः प्रणीयातिथ्यं निर्वपत्यन्वारब्धायां पत्न्याम्
English
Having caused the sacrificer to enter (the shed) by the eastern door, having strewn the Pr̥ṣṭhya line and having carried forth Praṇītā waters, he pours out (paddy) for the Ātithyeṣṭi while the sacrificer’s wife has maintained contact.
विश्वास-प्रस्तुतिः
अथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वा १६
मूलम्
अथ देवस्य त्वा सवितुः प्रसव इति प्रतिपदं कृत्वा १६
English
Having made a beginning with the formula, “In the impulse of god Savitr̥.
१७
विश्वास-प्रस्तुतिः
अग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा सोमस्यातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वातिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वाग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा जुष्टं निर्वपामीत्येतामेव प्रतिपदं कृत्वा श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामीति

(The Adhvaryu pours out paddy) with the formula, “Thou art the guest- offering of Agni; I pour out the dear oblation for Viṣṇu thee.”39 Having made a similar beginning (he pours with the formula), “Thou art the guest-offering for Soma; I pour out the dear oblation for Viṣṇu thee.”39 Having made a similar beginning, (he pours out with the formula) “Thou art the guest-offering for the guest; I pour out the dear oblation for Viṣṇu thee.”39 Having made a similar beginning (he pours out with the formula) “For Agni the giver of wealth thee; I pour out dear oblation for Viṣṇu thee.” Having made a similar beginning (he pours out with the formula), “For Soma-carrying eagle thee; I pour the dear oblation for Viṣṇu thee.”39
विश्वास-प्रस्तुतिः
पञ्चकृत्वो यजुषा
मूलम्
पञ्चकृत्वो यजुषा
English
Five times (he pours out) to the accompaniment of the (relevant) yajus.
विश्वास-प्रस्तुतिः
हविष्कृता वाचं विसृज्यैतयैवावृतोत्तरमनड्वाहं विमुञ्चत्यथैते ब्राह्मणाश्चत्वार आसन्दीमाददतेऽथ यजमानो नीडाद्रा जानमादत्ते या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञमिति
मूलम्
हविष्कृता वाचं विसृज्यैतयैवावृतोत्तरमनड्वाहं विमुञ्चत्यथैते ब्राह्मणाश्चत्वार आसन्दीमाददतेऽथ यजमानो नीडाद्रा जानमादत्ते या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञमिति
English
Having released speech with the call to the preparer of the oblation-material, he removes the other ox with a similar procedure. Four brāhmaṇas take up the stool. The sacrificer takes up Soma from the seat with the verse, “Thy splendours which they worship with oblations may all these surround the sacrificer.
विश्वास-प्रस्तुतिः
पूर्व एवासन्द्या प्रतिपद्यन्तेऽन्वग्राज्ञा यजमानोऽन्वक्छूद्र उदपात्रेण
मूलम्
पूर्व एवासन्द्या प्रतिपद्यन्तेऽन्वग्राज्ञा यजमानोऽन्वक्छूद्र उदपात्रेण
English
(The brāhmaṇas) first enter (the shed) together with the stool. Following them the sacrificer together with the Soma. Following him the Śūdra together with a pot full of water.
विश्वास-प्रस्तुतिः
पूर्वया द्वारा शालां प्रपादयति गयस्फानः प्रतरणः सुवीरोऽवीरः प्रचरा सोम दूर्यानित्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधति
मूलम्
पूर्वया द्वारा शालां प्रपादयति गयस्फानः प्रतरणः सुवीरोऽवीरः प्रचरा सोम दूर्यानित्यथैतामासन्दीमग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निदधति
English
(The sacrificer) carries the Soma into the shed by the eastern door with the verse, “Increasing the family-wealth, impeller, rich in heroes, not killing our heroes, O Soma, enter the dwellings.”39 Having brought around the stool along the front of the Āhavanīya, they keep it towards the south with the formula, “Thou art the seat of Aditi."39
विश्वास-प्रस्तुतिः
तस्यां कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
मूलम्
तस्यां कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्
English
(The Adhvaryu) spreads on it the skin of black antelope with the formula, “Do thou sit on the seat of Aditi.”39 King Soma on the skin of black antelope.
विश्वास-प्रस्तुतिः
अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुणमसीति
मूलम्
अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुणमसीति
English
(The sacrificer) prays to him with the formula, “Thou art Varuṇa, the possessor of ordinances. Thou belongest to Varuṇa.”40
विश्वास-प्रस्तुतिः
समुच्चित्य कृष्णाजिनस्यान्तान्स्पन्द्यया विग्रथ्य वँशे प्रग्रथ्नाति शंयोर्देवानाँसख्यादित्यथापरावासन्दीपादावन्तरेण ब्राह्मणोऽभिषिञ्चति शूद्र ः! प्रक्षालयति मा देवानामपसश्छित्स्महीत्यथैनं वारुण्यर्चा परिचरति तत्त्वा यामि ब्रह्मणा वन्दमान इत्यथैनँसँशास्ति मा राजानं चाहवनीयं चान्तरेण कश्चन सञ्चारीद्मैनँसायुधो मा सदण्डो मा सच्छत्त्रो मा सोष्णीषो मा साधस्पाद्योऽनुप्रपादीदित्यथास्मै मधुपर्कं च गां च प्राहुस्

Having collected together the ends of the skin of black antelope and having fastened them with a cord, the Adhvaryu ties it to the heaven with the formula, “From the beneficent friendship with gods.” In between the two rear legs of the stool a brāhmaṇa sprinkles water (over the Soma) and the Śūdra cleanses with the formula, “May we not be deprived of friendship with gods”40 (recited by the Adhvaryu). He then worships him with the verse addressed to Varuṇa, “Praying to thee with the divine song, I come to thee. The sacrificer rules that (favour of thine) through oblations. Without getting angry, O Varuṇa, do thou know of this (divine song). Praised widely, do thou not steal away our life.”41 Then he gives instructions with regard to him (Soma): “Let nobody pass between king Soma and Āhavanīya, whoever enters (the shed), let him not enter with any instrument, staff, umbrella, turban or footwear.” Madhuparka worship and a cow are offered to him (Soma).
विश्वास-प्रस्तुतिः
तामध्वर्युर्विशास्ति १७
मूलम्
तामध्वर्युर्विशास्ति १७
English
The Adhvaryu gives suitable instructions in respect of her.
१८
विश्वास-प्रस्तुतिः
श्रपयन्त्येतमातिथ्यं वैष्णवं नवकपालं तेन सह मदन्तीरधिश्रयति
मूलम्
श्रपयन्त्येतमातिथ्यं वैष्णवं नवकपालं तेन सह मदन्तीरधिश्रयति
English
The cake on nine potsherds for Viṣṇu pertaining to the Ātithya-oblation is baked. Along with it one boils water.
विश्वास-प्रस्तुतिः
शिल्पवदेतदिध्माबर्हिरातिथ्यस्य भवति
मूलम्
शिल्पवदेतदिध्माबर्हिरातिथ्यस्य भवति
English
The sacrificial grass and faggot for the Ātithyeṣṭi is specific.
विश्वास-प्रस्तुतिः
कार्ष्मर्यमयैः परिधिभिराश्ववालेन प्रस्तरेणैक्षवीभ्यां विधृतीभ्यां तेन शिल्पवत्
मूलम्
कार्ष्मर्यमयैः परिधिभिराश्ववालेन प्रस्तरेणैक्षवीभ्यां विधृतीभ्यां तेन शिल्पवत्
English
It is said to be specific for the reason of the enclosing sticks of Gmelina arborea, the Prastra of Saccharum spontaneum and the two separating blades of sugarcane.
विश्वास-प्रस्तुतिः
त्वचं पुरोडाशस्य ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
मूलम्
त्वचं पुरोडाशस्य ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
English
Having allowed the cake to catch skin, having put on fire, having covered (with embers and ashes), having gone forward, and having poured down the wash-water for the Āpyas, the Adhvaryu carries Stambayajus. (The rite) is prescribed in the Pauroḍāśika Brāhmaṇa.42 (The Adhvaryu carries the Stambayajus) three times with the formula and the fourth time silently. He does the first tracing of the altar.
विश्वास-प्रस्तुतिः
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
मूलम्
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
English
He murmurs the Karaṇa-formula. He digs out the altar. From the dug out region the Āgnīdhra carries (grass with earth) three times.
विश्वास-प्रस्तुतिः
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिग्राह्य योयुपित्वा तिर्यञ्चँ स्फ्यँस्तब्ध्वा सम्प्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च सम्मृड्ढ्याज्येनोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च सम्मार्ष्ट्याज्येनोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं चतुर्गृहीतानि वा पञ्चगृहीतानि वाज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति

When the Āgnīdhra carries thrice, the Adhvaryu, having done the second tracing, having levelled and having struck the wooden sword across, gives out the call, “Do thou put down the Prokṣaṇī ladle, put down in sacrificial grass and faggot, do thou cleanse the spoons and ladles and come up with the clarified butter.” After the Prokṣaṇī-waters have been brought, having thrown the wooden sword, having sprinkled (upon himself), having put down the sacrificial grass and faggot, having turned by the right and having moved to the rear, he cleanses the spoon and ladles. He comes up with the clarified butter. Having purified the clarified butter and the Prokṣaṇī-waters, having taken up clarified butter in four spoonfuls or five spoonfuls, he stands up taking up Prokṣaṇī-waters. He sprinkles the faggot;
विश्वास-प्रस्तुतिः
वेदिं प्रोक्षति
मूलम्
वेदिं प्रोक्षति
English
sprinkles the altar;
विश्वास-प्रस्तुतिः
बर्हिः प्रोक्षति
मूलम्
बर्हिः प्रोक्षति
English
sprinkles the sacrificial grass.
विश्वास-प्रस्तुतिः
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
मूलम्
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
English
Having sprinkled the sacrificial grass held (within the altar) and having poured down water (on the knot of the grass), he takes from the front side the Prastara of saccharum spontaneum).
विश्वास-प्रस्तुतिः
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तर पाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
मूलम्
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तर पाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
English
Having spread the sacrificial grass in five rows, having moved eastwards with the Prastara in his hand, he lays down the enclosing sticks of Gmelina arborea. He keeps erect two fire-sticks. He places across two separating blades of sugarcane
विश्वास-प्रस्तुतिः
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
मूलम्
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
English
the Prastara of Saccharum spontaneum upon the separating blades. The Juhū ladle on the Prastara. The other two ladles upon the sacrificial grass.
विश्वास-प्रस्तुतिः
एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्य चतुर्होत्रातिथ्यमासादयत्यत्र सम्भारान्व्याचष्टेऽथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
मूलम्
एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्याथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्य चतुर्होत्रातिथ्यमासादयत्यत्र सम्भारान्व्याचष्टेऽथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
English
Having touched them all together with the formula, “These have sat down in the world of good action, protect them, O Viṣṇu, protect the sacrifice; protect the lord of sacrifice, protect me the leader of sacrifice,”43 having turned by the right and moving to the rear, having taken down the cake by first spreading and then pouring clarified butter, the Adhvaryu deposits the Ātithya oblation reciting the Caturhotr̥ formula. Here he pronounces the Sambhārayajus formula.44
He goes through the churning with the procedure for churning.45
विश्वास-प्रस्तुतिः
प्रहृत्याभिहुत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मं न समिधं पैशिनष्टि
मूलम्
प्रहृत्याभिहुत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मं न समिधं पैशिनष्टि
English
Having put (the churned out fire into the Āhavanīya) and having made an offering, while taking a fire-stick from the faggot he says (to the Hotr̥), “Do you recite verses for the fire being enkindled.” He puts the faggot (one by one); he does not keep back a fire-stick.
विश्वास-प्रस्तुतिः
वेदेनोपवाज्ययत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
मूलम्
वेदेनोपवाज्ययत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
English
He fans (the fire) by means of the Veda. After the Sāmidhenī verses have been recited (by the Hotr̥) one by one, he pours the Āghāra-line by means of the spoon.
विश्वास-प्रस्तुतिः
सम्मृष्टे स्रुग्भ्यामुत्तरम्
मूलम्
सम्मृष्टे स्रुग्भ्यामुत्तरम्
English
After (the Āhavanīya) has been cleansed (by means of the wooden sword) thrice, he pours down the posterior Āghāra by means of two ladles.
विश्वास-प्रस्तुतिः
अथासँस्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँसमज्य सादयित्वा स्रुचौ प्रवरं प्रवृनीते
मूलम्
अथासँस्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँसमज्य सादयित्वा स्रुचौ प्रवरं प्रवृनीते
English
Without letting the two ladles touch each other, having crossed towards the north, having anointed the Dhruva with the Juhū, having put down the two ladles, he chooses the Pravara.
विश्वास-प्रस्तुतिः
प्रसिद्धँहोतारं वृणीते
मूलम्
प्रसिद्धँहोतारं वृणीते
English
He chooses the Hotr̥ as prescribed."46
विश्वास-प्रस्तुतिः
सीदति होता
मूलम्
सीदति होता
English
The Hotr̥ sits down.
विश्वास-प्रस्तुतिः
प्रसवमाकाङ्क्षति
मूलम्
प्रसवमाकाङ्क्षति
English
The Adhvaryu awaits the impulse (by the Hotr̥).
विश्वास-प्रस्तुतिः
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
मूलम्
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
English
Being impelled, having taken up the two ladles, having crossed and having caused to announce, he says (to the Hotr̥), “Do you recite the yājyā for Samidhs."
विश्वास-प्रस्तुतिः
वषट्कृते जुहोति यज यजेति
मूलम्
वषट्कृते जुहोति यज यजेति
English
At the Vaṣaṭ-utterance he makes the offering. (He gives two subsequent calls as) “Do you recite the yājyā,” “Do you recite the yājyā.”
विश्वास-प्रस्तुतिः
चतुर्थं यक्ष्यन्नत्रैतदौपभृतमाज्यँसर्वश एव जुह्वाँसमानयते
मूलम्
चतुर्थं यक्ष्यन्नत्रैतदौपभृतमाज्यँसर्वश एव जुह्वाँसमानयते
English
When going to give the fourth yājyā-call, he brings the entire quantity of clarified butter from the Upabhr̥t ladle into the Juhū.
विश्वास-प्रस्तुतिः
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँस्रावेण ध्रुवामभिघार्य पुरोडाशमभिघारयति नोपभृतम्
मूलम्
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँस्रावेण ध्रुवामभिघार्य पुरोडाशमभिघारयति नोपभृतम्
English
Having offerred five Prayājas, having crossed towards the north, having put a drop into the Dhruvā, he pours clarified butter over the cake, not into the Upabhr̥t.
विश्वास-प्रस्तुतिः
अथाग्नये सोमायेत्याज्यभागाभ्यां चरत्युपाँशु हविषा चरति विष्णवेऽनुब्रूहि विष्णुं यजेत्यथ स्विष्टकृता चरतीडान्त आतिथ्यः सन्तिष्ठतेऽत्रैतत्पूर्णपात्रमन्तर्वेदि निनयत्यत्रैतद्ध्रुवाज्यमाप्याय्य कँसं वा चमसं वा याचति

He offers the two Ājyabhāgas respectively to Agni and Soma. He offers the principal oblation in a low voice: “Do you recite the puronuvākyā for Viṣṇu: Do you recite the yājyā for Viṣṇu.” He offers the Sviṣṭakr̥t- oblation. The Ātithya sacrifice is concluded with the Iḍā. He pours down the Praṇītā goblet within the altar. Having swollen the clarified water into the Dhruvā, he asks for a bronze-vessel or a wooden goblet.
विश्वास-प्रस्तुतिः
तमन्तर्वेदि निधाय तस्मिन्नेतत्तानूनप्त्रं निगृह्णाति १८
मूलम्
तमन्तर्वेदि निधाय तस्मिन्नेतत्तानूनप्त्रं निगृह्णाति १८
English
Having kept it within the altar, he takes up this Tānūnaptra (clarified butter from the Dhruvā):
१९
विश्वास-प्रस्तुतिः
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति
मूलम्
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति
English
(With the formula), “I take thee for one who rushes on; I take thee for one who rushes around; I take thee for Tanūnaptr̥; I take thee for the mighty; I take thee for the mightiest strength.”
विश्वास-प्रस्तुतिः
स यावन्त ऋत्विजस्त एनत्समवमृशन्त्यनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यमिति
मूलम्
स यावन्त ऋत्विजस्त एनत्समवमृशन्त्यनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यमिति
English
As many priests as there are, they touch it together with the formula, “Thou art unapproached, the unapproachable, the unconquerable vigour of gods, protecting from the imprecations, impervious to imprecations.”
विश्वास-प्रस्तुतिः
यजमानमतिवाचयत्यनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुपगेषं सुविते मा धा इति
मूलम्
यजमानमतिवाचयत्यनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुपगेषं सुविते मा धा इति
English
He makes the sacrificer recite the formula, “May the guardian of consecration approve of my consecration; may the Lord of consecration approve of my consecration; the lord of penance my penance. May I quickly attain the truth; keep me in welfare.”47
विश्वास-प्रस्तुतिः
स यावन्त ऋत्विजस्तेषूपहवमिष्ट्वा यजमान एव त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमीत्यथैनदद्भिरभ्युन्नीयोत्तरतः सिञ्चत्यथाहाग्नीन्मदन्त्यापा३ इति
मूलम्
स यावन्त ऋत्विजस्तेषूपहवमिष्ट्वा यजमान एव त्रिरवजिघ्रति प्रजापतौ त्वा मनसि जुहोमीत्यथैनदद्भिरभ्युन्नीयोत्तरतः सिञ्चत्यथाहाग्नीन्मदन्त्यापा३ इति
English
As many priests as there are, having sought their consent, the sacrificer himself licks it thrice with the formula, “I offer thee unto Prajāpatī, unto the intellect.”48 Having mixed it with water, he scatters it towards the north.
He enquires: “O Agnīdh, are the waters boiling?”
विश्वास-प्रस्तुतिः
मदन्ति देवीरमृता ऋतावृध इति
मूलम्
मदन्ति देवीरमृता ऋतावृध इति
English
(He replies), “The divine, immortal, rejoicing in the divine law; they are boiling.”
विश्वास-प्रस्तुतिः
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यँशुरँशुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ःप्यायतामा त्वमिन्द्रा य प्यायस्वेति
मूलम्
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यँशुरँशुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ःप्यायतामा त्वमिन्द्रा य प्यायस्वेति
English
“Come up with them,” (says the Adhvaryu). Having touched the hot water, having stood, having untied (the bundle of Soma), having placed a piece of gold into it; the priests swell king Soma with the formula, “O god Soma, may every shoot of thee swell for Indra who gains the invaluable wealth. May Indra swell for thee; do thou swell for Indra,”49
विश्वास-प्रस्तुतिः
यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याँ स्रुचौ व्यूहति
मूलम्
यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याँ स्रुचौ व्यूहति
English
He makes the sacrificer recite the formula, “Cause thy friends to swell with gift and wisdom. O god Soma; may I attain the pressing happily.”49 Having touched water, they take their seats. The Adhvaryu separates the two ladles with the two Vājavatī verses.50
विश्वास-प्रस्तुतिः
विधृतीभ्यां प्रस्तरँसमुल्लुप्याप्रतिशृणँस्त्रेधानक्ति
मूलम्
विधृतीभ्यां प्रस्तरँसमुल्लुप्याप्रतिशृणँस्त्रेधानक्ति
English
Having seized the Prastara together with the two separating blades, he besmears it at three places without bruising it.
विश्वास-प्रस्तुतिः
न प्रस्तरायाश्रावयति
मूलम्
न प्रस्तरायाश्रावयति
English
He does not cause to announce in connection with the Prastara.50
विश्वास-प्रस्तुतिः
न बर्हिरनुप्रहरति
मूलम्
न बर्हिरनुप्रहरति
English
He does not throw the Barhis into the fire.
विश्वास-प्रस्तुतिः
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
मूलम्
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
English
Having kept it (the Prastara) into the southern half of the altar, the priests (respectively) pay homage with their palms, the right one being upwards, with the formula, “Riches are exceedingly desired for food, for prosperity. Be right to the speakers of right; obeisance to the heaven; obeisance to the earth.”49
विश्वास-प्रस्तुतिः
परिधिषु शकलानुपसङ्गृह्णाति प्रस्तरे बर्हिर्यावन्मात्रँस्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथ यजमानमवान्तरदीक्षामुपनयत्यग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरियँसा मयि सह नौ व्रतपते व्रतिनोर्व्रतानीत्यथैनँसँशास्ति सन्तरं मेखलाँसमायच्छस्व सन्तरां मुष्टी कुरुष्व तप्तव्रत एधि मदन्तीभिर्मार्जयस्वोत्पूर्वं व्रतनँसृज या ते अग्ने रुद्रि या तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येतेनातोऽधि व्रतयेति

He keeps pieces of wood upon the enclosing sticks. Having tied a few blades of sacrificial grass upon the Prastara with a cord, having moved it over the Āhavanīya and having sprinkled it with water, he keeps it towards the north. He then initiates the sacrificer into intermediate consecration with the formula, “O Agni, the lord of vows, thou art the lord of vows, let this body of mine be in thee, let this body of thine be in me. O lord of vows, let the vows of us who are the holders of vows be together.”49 He then gives instructions to him (the sacrificer), “Do you tighten the girdle round the waist, close the fists tightly; take hot milk; sprinkle yourself with hot water; give up the earlier formula used for taking Vrata milk. Hereafter consume milk with the formula, “O Agni do thou guard us with thy Rudra form. For that form of thine, svāhā.”
विश्वास-प्रस्तुतिः
स एवमेवैतत्सर्वं करोति १९
मूलम्
स एवमेवैतत्सर्वं करोति १९
English
He (the sacrificer) abides by all this.
२०
विश्वास-प्रस्तुतिः
अथ प्रवर्ग्यस्यावृता प्रवर्ग्येण चरत्यथ स्फ्यमाददान आहाग्नीन्मदन्तीरधिश्रय हविरधिश्रयेह्युपसीदेत्येतास्वेव मदन्तीषु भूयसीरप आनयत्याज्यमधिश्रयति
मूलम्
अथ प्रवर्ग्यस्यावृता प्रवर्ग्येण चरत्यथ स्फ्यमाददान आहाग्नीन्मदन्तीरधिश्रय हविरधिश्रयेह्युपसीदेत्येतास्वेव मदन्तीषु भूयसीरप आनयत्याज्यमधिश्रयति
English
(The Adhvaryu) performs the Pravargya rite with the procedure for Pravargya. Taking up the wooden sword, he says (to the Āgnīdhra); “O Agnīdh, do thou boil the water; put the oblation on fire, come and be by my side.” (The Āgnīdhra) adds water to that very hot water, puts clarified butter on fire.
विश्वास-प्रस्तुतिः
तद्धविरथैतस्यैव बर्हिष स्तीर्णस्य पर्यवलोपँस्तम्बयजुर्हरत्य्
मूलम्
तद्धविरथैतस्यैव बर्हिष स्तीर्णस्य पर्यवलोपँस्तम्बयजुर्हरत्य्
English
It is the oblation. He carries the Stambayajus taken out of the same spread out sacrificial grass.
विश्वास-प्रस्तुतिः
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
मूलम्
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
English
The rite is well established in the Pauroḍāśika Brāhmaṇa.51 (He carries stambayajus) thrice with. the relevant yajus and the fourth time silently. He does the first tracing (of the altar).
विश्वास-प्रस्तुतिः
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
मूलम्
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
English
He murmurs the Karaṇa-formula. The Āgnīdhra carries (grass and earth) three times from the dug out region.
विश्वास-प्रस्तुतिः
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँस्तब्ध्वा सम्प्रैषमाह मदन्तीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचौ च सम्मृड्ढि हविषोदेहीत्याहृतासु मदन्तीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचौ च सम्मार्ष्टि

When the Āgnīdhra carries three times, then (the Adhvaryu), having done the second tracing, having levelled, having held the wooden sword across, gives out the call, “Keep down the hot water, put down the sacrificial grass and faggot, cleanse the spoon and the two ladles and come up with the oblation.” After the hot water has been brought in, having thrown the wooden sword, having sprinkled (upon himself), having put down the sacrificial grass and faggot, having turned by the right and having moved towards the west, he cleanses the spoons and ladles.
विश्वास-प्रस्तुतिः
हविषोदेति
मूलम्
हविषोदेति
English
Comes up with the oblation.
विश्वास-प्रस्तुतिः
हविश्च मदन्तीश्चोत्पूयाष्टौ कृत्वो जुह्वां गृह्णीते
मूलम्
हविश्च मदन्तीश्चोत्पूयाष्टौ कृत्वो जुह्वां गृह्णीते
English
Having purified the oblation and hot water, he takes up clarified butter into the Juhū eight times;
विश्वास-प्रस्तुतिः
चतुरुपभृत्याज्यस्थाल्यां तृतीयामुत्प्रदाय मदन्तीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
मूलम्
चतुरुपभृत्याज्यस्थाल्यां तृतीयामुत्प्रदाय मदन्तीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
English
four times into the Upabhr̥t. Having poured back into the vessel for clarified butter (first having drawn from the same) and having deemed it as the third (ladle), he stands up with hot water. He sprinkles the faggot;
विश्वास-प्रस्तुतिः
वेदिं प्रोक्षति
मूलम्
वेदिं प्रोक्षति
English
sprinkles the altar;
विश्वास-प्रस्तुतिः
बर्हिः प्रोक्षति
मूलम्
बर्हिः प्रोक्षति
English
sprinkles the sacrificial grass.
विश्वास-प्रस्तुतिः
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णात्येकविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति

Having sprinkled the sacrificial grass (held within the altar) and having poured (water over its knot), he takes up the Prastara of Saccharum spontaneum from the front. Having spread the grass in a single row, taking the Prastara in his hand, having moved eastwards, he lays down the enclosing sticks of Gmelina arborea. He keeps erect two fire-sticks. He places across two separating blades of sugarcane.
विश्वास-प्रस्तुतिः
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
मूलम्
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरे
English
The Prastara of Saccharum spontaneum upon the separating blades. The Juhū on the Prastara. The other two ladles on the sacrificial grass.
विश्वास-प्रस्तुतिः
एते असदतामिति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्य देवपत्नीर्व्याचष्टेऽथैतेनैव यथेतमेत्याथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मँसकृद्वा त्रिर्वा

Having touched them together with the verse, “These (two) have sat down…”52, having turned by the right, having moved towards the west and having sat down to the rear of the Gārhapatya, he recites the Devapatnī formulas.53
Having come back by the way by which he had gone, taking a fire-stick from the faggot, he says (to the Hotr̥), “Do you recite verses for the fire being enkindled.” He puts the faggot once or in three parts.
विश्वास-प्रस्तुतिः
न समिधं परिशिनष्टि
मूलम्
न समिधं परिशिनष्टि
English
He does not keep back a fire-stick.
विश्वास-प्रस्तुतिः
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
मूलम्
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
English
He fans (the fire) by means of the Veda. After the Sāmidhenī verses have been recited one by one, he pours an Aghara-line by means of the spoon.
विश्वास-प्रस्तुतिः
सम्मृष्टे न स्रुग्भ्यामुत्तरम्
मूलम्
सम्मृष्टे न स्रुग्भ्यामुत्तरम्
English
After (the Āhavanīya) has been cleansed, he does not pour the second line by means of the two ladles.
विश्वास-प्रस्तुतिः
अथ प्रवरं प्रवृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषट्सीद होतरित्येतावान्प्रवरः
मूलम्
अथ प्रवरं प्रवृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषट्सीद होतरित्येतावान्प्रवरः
English
Then he chooses the Pravara. He causes to announce, “Do thou announce,” “Let it be heard,” “Seat yourself O Hotr̥.” This much is the Pravara.
विश्वास-प्रस्तुतिः
सीदति होता
मूलम्
सीदति होता
English
The Hotr̥ sits down.
विश्वास-प्रस्तुतिः
प्रसवमाकाङ्क्षति
मूलम्
प्रसवमाकाङ्क्षति
English
(The Adhvaryu) awaits the impulse (by the Hotr̥).
विश्वास-प्रस्तुतिः
प्रसूतः स्रुचावाददान आह २०
मूलम्
प्रसूतः स्रुचावाददान आह २०
English
Impelled, taking the ladles, he says (to the Hotr̥):
२१
विश्वास-प्रस्तुतिः
अग्नय इत्युपाँश्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याहाग्निमित्युपाँशु यजेत्युच्चैर्वषट्कृते पूर्वार्धेऽर्धवेलां जुहोत्यथात्रैव तिष्ठन्नाह सोमायेत्युपाँश्वनुब्रूहीत्युच्चैराश्राव्याह सोममित्युपाँशु यजेत्युच्चैर्वषट्कृते मध्ये जुहोत्यथ समानयमान आह विष्णव इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह विष्णुमित्युपाँशु यजेत्युच्चैर्वषट्कृते पश्चात्सर्वं जुहोत्यथोदङ्ङत्याक्रम्य यथायतनँस्रुचौ सादयित्वाथाहाग्नीन्मदन्त्यापा३

(loudly) “Do you recite the puronuvākyā (in a low tone) for Agni.” Having crossed and having caused to announce he says, (loudly) “Do you recite the yājyā (in a low tone) for Agni.” At the Vaṣaṭ-utterance he offers half the quantity in the eastern half. Standing here only he says (loudly) “Do you recite the puronuvākyā (in a low tone) for Soma.” Having caused to announce he says (loudly), “Do you recite the yājyā (in a low tone) for Soma.” At the Vaṣaṭ-utterance he makes the offering in the middle. While taking clarified butter from the Upabhr̥t into the (Juhū) he says (loudly) “Do you recite the puronuvākyā (in a low tone) for Viṣṇu.” Having caused to announce he says (loudly) “Do you recite the yājyā (in a low tone) for Viṣṇu.” At the Vaṣaṭ-utterance he offers the entire quantity into three parts. Having crossed towards the north and having deposited the ladles in their places, he says, “O Agnīdh, are the waters boiling?"
विश्वास-प्रस्तुतिः
मदन्ति देवीरमृता ऋतावृध इति
मूलम्
मदन्ति देवीरमृता ऋतावृध इति
English
(The latter says), “The divine, immortal, rejoicing in the divine law, they are boiling,”
विश्वास-प्रस्तुतिः
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यँशुरँशुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ःप्यायतामा त्वमिन्द्रा य प्यायस्वेति
मूलम्
ताभिराद्र वेत्यथ मदन्तीरुपस्पृश्योपोत्थाय विस्रस्य हिरण्यमवधाय राजानमाप्याययन्त्यँशुरँशुस्ते देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ःप्यायतामा त्वमिन्द्रा य प्यायस्वेति
English
“Do thou come up with them.” Having touched the hot water, having stood, having untied (the bunch of Soma), having placed a piece of gold into it, the priests swell king Soma with the formula, “O god Soma, may every shoot of thee swell for Indra who gains the invaluable wealth. May Indra swell for thee; do thou swell for Indra.”54
54 TS. I.2.11.1
विश्वास-प्रस्तुतिः
यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याँ स्रुचौ व्यूहति
मूलम्
यजमानमतिवाचयत्याप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीयेत्यथाप उपस्पृश्य यथायतनमुपविशन्त्यथाध्वर्युर्वाजवतीभ्याँ स्रुचौ व्यूहति
English
He makes the sacrificer recite the formula, “Cause thy friends to swell with gift and wisdom. O god Soma, may I attain the pressing happily.”54 Having touched water, they take their seats.
The Adhvaryu separates the two ladles with the two Vājavatī verses.55
विश्वास-प्रस्तुतिः
विधृतीभ्यां प्रस्तरँसमुल्लुप्याप्रतिशृणँस्त्रेधानक्ति
मूलम्
विधृतीभ्यां प्रस्तरँसमुल्लुप्याप्रतिशृणँस्त्रेधानक्ति
English
Having seized the Prastara together with the two separating blades, he besmears it at three places without bruising it.
विश्वास-प्रस्तुतिः
न प्रस्तरायाश्रावयति
मूलम्
न प्रस्तरायाश्रावयति
English
He does not cause to announce in connection with the Prastara.
विश्वास-प्रस्तुतिः
न बर्हिरनुप्रहरति
मूलम्
न बर्हिरनुप्रहरति
English
He does not throw the Barhis into the fire.
विश्वास-प्रस्तुतिः
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
मूलम्
तं दक्षिणार्धे वेद्यै निधाय तस्मिन्दक्षिणोत्तरिणो निह्नुवत एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
English
Having kept it into the southern half of the altar the priests pay homage with their palms, the right one being upwards, with the formula, “The riches are exceedingly desired for food, for prosperity. Be right to the speakers of right. Obeisance to the heaven, obeisance to the earth.”54
विश्वास-प्रस्तुतिः
सव्ये पाणौ प्रस्तरँसमावृत्याज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीम्त्वेषं वचो अपावधीँस्वाहेति
मूलम्
सव्ये पाणौ प्रस्तरँसमावृत्याज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीम्त्वेषं वचो अपावधीँस्वाहेति
English
Having placed the Prastara into the left hand, having struck clarified butter from the vessel of clarified butter by means of the spoon, he offers the first Upasad with the formula, “That form of thine, O Agni, which rests in iron, the highest that dwells in the depth-by that speech I have driven away harsh speech; I have driven away angry speech, svāhā.”56
विश्वास-प्रस्तुतिः
परिधिषु शकलानुपसङ्गृह्णाति प्रस्तरे बर्हिर्यावन्मात्रँस्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्य्
मूलम्
परिधिषु शकलानुपसङ्गृह्णाति प्रस्तरे बर्हिर्यावन्मात्रँस्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्य्
English
He keeps piece of wood upon the enclosing sticks. Having tied a few blades of sacrifical grass upon the Prastara with a cord, having moved it over the Āhavanīya and having sprinkled it with water, he keeps it towards the north.
विश्वास-प्रस्तुतिः
अथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छत्यथापराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति

Having gone out, he gives the call, “O Subrahmaṇya, do thou invoke Subrahmaṇyā; give (to the sacrificer) Vrata-milk derived from three udders of the cow.” The Subrahmaṇya invokes Subrahmaṇya. One gives (to the sacrificer) Vrata-milk derived from three udders of the cow. In the afternoon the Adhvaryu performs the afternoon Pravargya and Upasad.
विश्वास-प्रस्तुतिः
तयोः समानी चर्यैतावदेव नाना
मूलम्
तयोः समानी चर्यैतावदेव नाना
English
Their procedure is similar; this much is different:
विश्वास-प्रस्तुतिः
सव्योत्तरिणो निह्नुवतेऽथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं दोहयति
मूलम्
सव्योत्तरिणो निह्नुवतेऽथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं दोहयति
English
(the priests) pay homage by means of the palms with the left one upwards. Having gone out (the Adhvaryu) gives out the call, “O Subrahmaṇya, do thou invoke Subrahmaṁyā; do you cause the Vrata-milk to be milked from three udders." The Subrahmaṇya invokes Subrahmaṇyā. One causes the Vrata-milk to be milked from three udders.
विश्वास-प्रस्तुतिः
तदर्धरात्रे प्रयच्छति २१
मूलम्
तदर्धरात्रे प्रयच्छति २१
English
He gives it (to the sacrificer) at midnight.
२२
विश्वास-प्रस्तुतिः
अथाध्वर्युरपररात्र आद्रुत्य सँशास्ति द्विस्तनव्रतं दोहयतेति
मूलम्
अथाध्वर्युरपररात्र आद्रुत्य सँशास्ति द्विस्तनव्रतं दोहयतेति
English
Having come up in the latter part of night, the Adhvaryu gives out the call, “Do you cause the Vrata-milk to be milked from two udders (of the cow)."
विश्वास-प्रस्तुतिः
प्रातरुदित आदित्ये विसृष्टायां वाचि मध्यमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
मूलम्
प्रातरुदित आदित्ये विसृष्टायां वाचि मध्यमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
English
In the morning after the sun has risen, and speech has been released, the Adhvaryu goes through the rites of middle Pravargya and Upasad.
विश्वास-प्रस्तुतिः
रजाशयामत्र जुहोत्यथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं प्रयच्छति
मूलम्
रजाशयामत्र जुहोत्यथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं प्रयच्छति
English
Here he makes the rajāśayā offering.57 Having gone out, he gives out the call, “O Subrahmaṇya, do thou invoke Subrahmaṇyā, do you give (to the sacrificer) Vrata-milk obtained from two udders (of the cow).” Subrahmaṇya invokes Subrahmaṇyā. One gives (to the sacrificer) Vrata-milk obtained from two udders.
विश्वास-प्रस्तुतिः
स आहवनीयादेवाग्रे षट्प्राचः प्रक्रमान्प्रक्रामति
मूलम्
स आहवनीयादेवाग्रे षट्प्राचः प्रक्रमान्प्रक्रामति
English
(The Adhvaryu) first strides six steps from the Āhavanīya towards the east.
विश्वास-प्रस्तुतिः
तच्छङ्कुं निहन्ति
मूलम्
तच्छङ्कुं निहन्ति
English
There he fixes a pin.
विश्वास-प्रस्तुतिः
स शालामुखीयः शङ्कुः
मूलम्
स शालामुखीयः शङ्कुः
English
That is the Śālāmukhīya58 pin.
विश्वास-प्रस्तुतिः
शालामुखीयाच्छङ्कोः षट्त्रिँशत्प्राचः प्रक्रमान्प्रक्रामति
मूलम्
शालामुखीयाच्छङ्कोः षट्त्रिँशत्प्राचः प्रक्रमान्प्रक्रामति
English
From the Śālāmukhīya pin he strides thirty six steps towards the east.
विश्वास-प्रस्तुतिः
तच्छङ्कुं निहन्ति
मूलम्
तच्छङ्कुं निहन्ति
English
There he fixes a pin.
विश्वास-प्रस्तुतिः
स यूपावटीयः शङ्कुः
मूलम्
स यूपावटीयः शङ्कुः
English
That is the Yūpāvaṭīya pin.59
विश्वास-प्रस्तुतिः
शालामुखीयाच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान्प्रक्रामति पञ्चदशोदीचस्
मूलम्
शालामुखीयाच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान्प्रक्रामति पञ्चदशोदीचस्
English
From the Śālāmukhīya pin he strides fifteen steps towards the south; fifteen towards the north,
विश्वास-प्रस्तुतिः
तच्छङ्कू निहन्ति
मूलम्
तच्छङ्कू निहन्ति
English
there he fixes pins.
विश्वास-प्रस्तुतिः
ते श्रोणी
मूलम्
ते श्रोणी
English
These two are the buttocks.
विश्वास-प्रस्तुतिः
यूपावटीयाच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान्प्रक्रामति द्वादशोदीचस्
मूलम्
यूपावटीयाच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान्प्रक्रामति द्वादशोदीचस्
English
From the Yūpāvaṭīya pin he strides twelve steps towards the south; twelve towards the north.
विश्वास-प्रस्तुतिः
तच्छङ्कू निहन्ति
मूलम्
तच्छङ्कू निहन्ति
English
He fixes pins there.
विश्वास-प्रस्तुतिः
तावँसवथैनामक्ष्णया मानेन प्रमाय समन्तँस्पन्द्यया परितनोति
मूलम्
तावँसवथैनामक्ष्णया मानेन प्रमाय समन्तँस्पन्द्यया परितनोति
English
They are the shoulders. Having measured it (the Mahāvedi) by a diagonal measure, he stretches a cord around on all sides.
विश्वास-प्रस्तुतिः
पृष्ठ्यामातनोति
मूलम्
पृष्ठ्यामातनोति
English
He stretches the Pr̥ṣṭhyā line.
विश्वास-प्रस्तुतिः
यूपावटीयाच्छङ्कोरनुस्पन्द्यं द्वादश प्रत्यञ्चि क्षुद्र पदानि प्रक्रामति
मूलम्
यूपावटीयाच्छङ्कोरनुस्पन्द्यं द्वादश प्रत्यञ्चि क्षुद्र पदानि प्रक्रामति
English
From the Yūpavaṭīya pin he strides twelve feet towards the west along the Pr̥ṣṭhyā. He fixes a pin there.
विश्वास-प्रस्तुतिः
स मध्यम औत्तरवेदिकः शङ्कुर्मध्यमादौत्तरवेदिकाच्छङ्कोः पञ्च दक्षिणा क्षुद्र पदानि प्रक्रामति पञ्चोदञ्चि
मूलम्
स मध्यम औत्तरवेदिकः शङ्कुर्मध्यमादौत्तरवेदिकाच्छङ्कोः पञ्च दक्षिणा क्षुद्र पदानि प्रक्रामति पञ्चोदञ्चि
English
That is the central pin pertaining to the Uttaravedi. From the central pin he strides five feet towards the south; five towards the north.
विश्वास-प्रस्तुतिः
तच्छङ्कू निहन्ति
मूलम्
तच्छङ्कू निहन्ति
English
He fixes pins there.
विश्वास-प्रस्तुतिः
ते श्रोणी
मूलम्
ते श्रोणी
English
They are the buttocks.
विश्वास-प्रस्तुतिः
यूपावटीयाच्छङ्कोश्चत्वारि दक्षिणा क्षुद्र पदानि प्रक्रामति चत्वार्युदञ्चि
मूलम्
यूपावटीयाच्छङ्कोश्चत्वारि दक्षिणा क्षुद्र पदानि प्रक्रामति चत्वार्युदञ्चि
English
From the Yūpāvaṭīya pin he strides four feet towards the south, four towards the north.
विश्वास-प्रस्तुतिः
तच्छङ्कू निहन्ति
मूलम्
तच्छङ्कू निहन्ति
English
He fixes two pins there.
विश्वास-प्रस्तुतिः
तावँसवथैनामक्ष्णया मानेन प्रमाय समन्तँस्पन्द्यया परितनोति
मूलम्
तावँसवथैनामक्ष्णया मानेन प्रमाय समन्तँस्पन्द्यया परितनोति
English
They are the shoulders. Having measured it (the Mahāvedi) by a diagonal measure, he stretches out a cord round it on all sides.
विश्वास-प्रस्तुतिः
पृष्ठ्यामातनोति
मूलम्
पृष्ठ्यामातनोति
English
He stretches the Pr̥ṣṭhyā line.
विश्वास-प्रस्तुतिः
मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यँषट्प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं तत्स्फ्यं निदधाति
मूलम्
मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यँषट्प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं तत्स्फ्यं निदधाति
English
From the central pin pertaining to the Uttaravedi he strides six steps towards the west along the cord. A seventh step towards the south. He places the wooden sword there.
विश्वास-प्रस्तुतिः
स उपरवाणां कालोऽथ महावेद्या उत्तरादँसीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति
मूलम्
स उपरवाणां कालोऽथ महावेद्या उत्तरादँसीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति
English
That is the spot for the Uparava holes. From the pin on the northern shoulder of the Mahāvedi he strides twelve steps towards the west along the border of the Mahāvedi; a thirteenth step towards the north. The Āgnīdhra sits there.
विश्वास-प्रस्तुतिः
स उत्करस्य कालोऽथोपरवाणां कालात्स्तम्बयजुर्हरति २२
मूलम्
स उत्करस्य कालोऽथोपरवाणां कालात्स्तम्बयजुर्हरति २२
English
That is the spot for the rubbish-heap. He carries Stambayajus from the spot for the Uparava holes.
२३
विश्वास-प्रस्तुतिः
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
मूलम्
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
English
The rite is prescribed in the Pauroḍāśika Brāhmaṇa.60 (He carries Stambayajus) three times with the relevant formula and the fourth time silently.
विश्वास-प्रस्तुतिः
करणं जपतीमां नराः कृणुत वेदिमेत्य वसुमतीँरुद्र वतीमादित्यवतीं विश्वदेव्यावतीम्वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येदित्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
मूलम्
करणं जपतीमां नराः कृणुत वेदिमेत्य वसुमतीँरुद्र वतीमादित्यवतीं विश्वदेव्यावतीम्वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येदित्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
English
He does the first tracing of the altar. He murmurs the Karaṇa-formula: “O men, do you come and prepare this altar occupied by the Vasus, Rudras, Ādityas and Viśve Devas at the height of the heaven, on the navel of the earth so that this sacrificer may not be injured.”61 He digs up. The Āgnīdhra carries three times (grass and earth) from the dug up spot.
विश्वास-प्रस्तुतिः
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्सम्प्रैषमाह वेदिकारा वेदिं कल्पयत प्र स्थलानि भिन्दत प्रति निम्नान्पूरयत किँशारूणि निरस्यत प्राचीमुदीचीं प्रणवां निस्तिष्ठतेति
मूलम्
यदाग्नीध्रस्त्रिर्हरत्यथाग्रेण शालां तिष्ठन्सम्प्रैषमाह वेदिकारा वेदिं कल्पयत प्र स्थलानि भिन्दत प्रति निम्नान्पूरयत किँशारूणि निरस्यत प्राचीमुदीचीं प्रणवां निस्तिष्ठतेति
English
When the Āgnīdhra carries three times, the Adhvaryu standing in front of the shed gives out the call, “O workers of the altar, do you prepare the altar, break up the heights, fill in the depths, remove the beards of corn, render it slopy towards the north-east.”
विश्वास-प्रस्तुतिः
यथासम्प्रैषं ते कुर्वन्त्यथ महावेद्या उत्तरादँसीयाच्छङ्कोर्वेद्यन्तेन त्रीन्प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं चतुर्थं
मूलम्
यथासम्प्रैषं ते कुर्वन्त्यथ महावेद्या उत्तरादँसीयाच्छङ्कोर्वेद्यन्तेन त्रीन्प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं चतुर्थं
English
They do according to the call.
From the pin at the northern shoulder of the Mahāvedi, he strides three steps towards the west along the border and a fourth towards the north.
विश्वास-प्रस्तुतिः
तच्चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याथैनां प्रतिच्छाद्यापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं दोहयति

Here he draws around the Cātvāla following the procedure of the Cātvāla.62 He raises the Uttaravedi following the procedure for the Uttaravedi.62 Having carved out the Uttaranābhi and having covered it,"62 he goes through the rites of the afternoon Pravargya and Upasad. Having gone out he gives out the call, “O Subrahmaṇya, do thou invoke Subrahmaṇya; do you cause the Vrata-milk to be obtained from two udders." The Subrahmaṇya invokes Subrahmaṇyā. One causes the Vrata-milk to be milked from two uddrs.
विश्वास-प्रस्तुतिः
तदर्धरात्रे प्रयच्छति २३
मूलम्
तदर्धरात्रे प्रयच्छति २३
English
He gives it (to the sacrificer) at midnight.
२४
विश्वास-प्रस्तुतिः
अथाध्वर्युरपररात्र आद्रुत्य सँशास्त्येकस्तनव्रतं दोहयतेति
मूलम्
अथाध्वर्युरपररात्र आद्रुत्य सँशास्त्येकस्तनव्रतं दोहयतेति
English
The Adhvaryu, having approached in the latter part of night, gives the instruction, “Do you cause the Vrata-milk to be milked from one udder (of the cow).
विश्वास-प्रस्तुतिः
प्रातरुदित आदित्ये विसृष्टायां वाच्युत्तमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
मूलम्
प्रातरुदित आदित्ये विसृष्टायां वाच्युत्तमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति
English
“In the morning, after the sun has risen and speech has been released, he goes through the last Pravargya and Upasad.
विश्वास-प्रस्तुतिः
हराशयामत्र जुहोत्यथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयार्धस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्याम्
मूलम्
हराशयामत्र जुहोत्यथोपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयार्धस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्याम्
English
Here he makes the harāśayā offering.63 Having gone out, he gives the call, “O Subrahmaṇya, do thou invoke Subrahmaṇyā; do you give (to the sacrificer) half of the Vrata-milk obtained from one udder.” The Subrahmaṇya invokes Subrahmaṇyā.
विश्वास-प्रस्तुतिः
अर्धस्तनव्रतं प्रयच्छत्यथ तदानीमेवापराह्णिकी प्रवर्ग्योपसदौ समस्योपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः प्रवर्ग्यस्यावृता प्रवग्यँ र्सँसादयोद्वासनायेति
मूलम्
अर्धस्तनव्रतं प्रयच्छत्यथ तदानीमेवापराह्णिकी प्रवर्ग्योपसदौ समस्योपनिष्क्रम्य सम्प्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः प्रवर्ग्यस्यावृता प्रवग्यँ र्सँसादयोद्वासनायेति
English
One gives half of the Vrata-milk obtained from one udder. At that very time, having hastened with the afternoon Pravargya and Upasad and having gone out, he gives out the call, “O Subrahmaṇya, do thou invoke Subrahmaṇyā; O Pratiprasthātr̥, do you collect the Pravargya-implements for disposal, following the procedure for the Pravargya.”
विश्वास-प्रस्तुतिः
त्रेधैतत्पदं कुर्वन्ति
मूलम्
त्रेधैतत्पदं कुर्वन्ति
English
(The soil of) the foot-print (of the cow) is divided into three parts:
विश्वास-प्रस्तुतिः
गार्हपत्ये तृतीयमुपयमनीषु तृतीयं नि तृतीयं दधत्यथ प्रवर्ग्यस्यावृता प्रवर्ग्यमुद्वासयत्यग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँस्फ्यँस्तब्ध्वा सम्प्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादयेत्येतावान्सम्प्रैषोऽत्रैवैतद्बर्हिरनुस्पन्द्यँ स्तृणाति सकृदेवैतदेवेध्माबर्हिरग्नीषोमीयाय पशवे परिशयीतेत्येक आहुरथास्यैते अनसी प्रक्षालिते प्रपन्ने योग्यकृते अभितः शालां तिष्ठतस्

one part into the Gārhapatya fire-place, one in the soil in the supporting ladle, one is preserved. He disposes of the Pravargya-implements following the procedure laid down in the Pravargya-rite.64
He carries forth the fire following the procedure of carrying forth of fire.65 After having done the second tracing (of the altar) when it is equipped with fire, having levelled, having held the wooden sword across, (the Adhvaryu) gives the call, “Do you keep the Prokṣaṇī-water, put down the sacrificial grass and faggot.” This much is the call. Here he spreads the sacrificial grass along the cord only once. This sacrificial grass and faggot lies for the Agni-ṣomīya animal. So say some teachers. The two carts, washed out, brought in and provided with a yoke, stand on the two sides of the shed.
विश्वास-प्रस्तुतिः
तयोर्दक्षिणं वर्षीय उत्तरँह्रसीय उद्धृतफलकं दक्षिणमनुद्धृतफलकमुत्तरं तयोर्यदक्षे बद्धं तदवस्यत्यथैने अन्तर्वेद्यभ्यावर्तयन्त्यथाग्रेण शालामरत्निमात्रमभित स्पन्द्याँस्थापयित्वाथैने प्रोक्षति वैष्णवी विष्णवे शुन्धेथामित्यथाहैहि यजमानेति

The southern one of the two is higher and the northern-one is shorter. The southern one with its plank lifted; the northern one with its plank not lifted up. He loosens (the cord) which is tied to their axles. They are brought in within the altar. Having stayed them on both sides of the cord one aratni away from the shed, he sprinkles them with the formula, “You two belonging to Viṣṇu, be purified for Viṣṇu.” Then he says, “Come, O sacrificer."
विश्वास-प्रस्तुतिः
पूर्वया द्वारा शालां प्रपाद्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये सावित्रं जुहोत्यन्वारब्धे यजमाने युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इद्मही देवस्य सवितुः परिष्टुतिः स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वाथ याचत्याज्यस्थालीँसस्रुवाँस्फ्यमुदपात्रं बर्हिर्हिरण्यमित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्नी पदतृतीयमादाय पूर्वया द्वारोपनिष्क्रम्य दक्षिणस्य हविर्धानस्य पश्चादक्षमुपसृप्य दक्षिणस्यां वर्तन्याँ स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय सम्परिस्तीर्याभिजुहोतीदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पाँसुरे स्वाहेत्यथैतेषां पदपाँ सूनामर्धान्पत्न्यञ्जलावावपत्यथैनान्संस्रावेणाभिघारयति

Having caused him to enter the shed by the eastern door, having melted clarified butter over the Gārhapatya, having purified it, and having taken four spoonfuls into the ladle, he makes an offering to Savitr̥ on the Śālāmukhīya, while the sacrificer has contacted him, with the verse, “The priests of the mighty wise priest yoke their mind, yoke their thoughts. He alone who knows the path ordains their priestly functions. The praise of god Savitr̥ is great,66 svāhā.”
Having taken up another four spoonfuls, he asks for the vessel for clarified butter together with the spoon, wooden sword, pot filled with water, sacrificial grass and a piece of gold. Having taken this, he says, “Come O sacrificer.” The sacrificer following him, the sacrificer’s wife following him taking up a third part of soil of the footprint. Having gone out by the eastern door, having approached the spot to the rear of the axle of the southern Havirdhāna cart, having dug up by means of the wooden sword on the southern track, having sprinkled water with downward palm; having placed a piece of gold, and having strewn grass around it; the Adhvaryu makes an offering with the verse, “Viṣṇu has traversed this, he has set his foot at three places; all is gathered in its dust, svāhā.” He pours half of the dust of the footprint in the folded palms of the sacrificer’s wife. He pours over it drops of clarified butter in the ladle.
विश्वास-प्रस्तुतिः
सा प्राचोत्तानेन पाणिना दक्षिणमक्षधुरमुपानक्त्या नो वीरो जायतां कर्मण्यो यँसर्वेऽनुजीवाम यो बहूनामसद्वशीत्यपरं चतुर्गृहीतं गृहीत्वोत्तरस्य हविर्धानस्य पश्चादक्षमुपसृप्योत्तरस्यां वर्तन्याँ स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निधाय सम्परिस्तीर्याभिजुहोतीरावती धेनुमती हि भूतँ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः स्वाहेत्य्

She anoints the southern end of the axle by means of the palm turned upwards and pointing towards the east with the formula, “May a heroic active son be born to us on whom we all shall depend, who shall control many.”67 Having taken up another four spoonfuls, having moved towards the west of the axle of the northern Havirdhāna-cart, having struck with the wooden sword on the northern track, having sprinkled water, having placed a piece of gold and having strewn it around; he makes an offering with the verse, “O heaven and earth, do you become possessors of food, cattle and good grains, and glorious for the sacrificer. Viṣṇu fixed you separately and held you on both sides by means of his rays, svāhā.”68
विश्वास-प्रस्तुतिः
अत्रैतान्पदपाँसून्सर्वश एव पत्न्यञ्जलावावपत्यथैनान्सँस्रावेणाभिघारयति
मूलम्
अत्रैतान्पदपाँसून्सर्वश एव पत्न्यञ्जलावावपत्यथैनान्सँस्रावेणाभिघारयति
English
At this stage he pours down the entire soil of the foot-print within the joined palms of the sacrificer’s wife. He spreads drops of clarified butter over it.
विश्वास-प्रस्तुतिः
सा प्राचोत्तानेनैव पाणिनोत्तरमक्षधुरमुपानक्ति
मूलम्
सा प्राचोत्तानेनैव पाणिनोत्तरमक्षधुरमुपानक्ति
English
She besmears the northern axle-end by means of the palm turned upwards and pointing towards the east.
विश्वास-प्रस्तुतिः
समान उपाञ्जनोऽथैतानि शस्त्राणि प्रतिप्रस्थात्र उत्प्रयच्छति
मूलम्
समान उपाञ्जनोऽथैतानि शस्त्राणि प्रतिप्रस्थात्र उत्प्रयच्छति
English
The formula for besmearing is the same.69 He hands over all the implements to the Pratiprasthātr̥.
विश्वास-प्रस्तुतिः
नयन्ति पत्नीँह्वयन्ति होतारम्
मूलम्
नयन्ति पत्नीँह्वयन्ति होतारम्
English
The sacrificer’s wife is led (towards her apartment). The Hotr̥ is called.
विश्वास-प्रस्तुतिः
अथैने सम्परिगृह्य सम्प्रैषमाह २४
मूलम्
अथैने सम्परिगृह्य सम्प्रैषमाह २४
English
Touching the two (Havirdhāna-carts) together, he gives out the call.
२५
विश्वास-प्रस्तुतिः
हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति
मूलम्
हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति
English
“Do you recite the verses for the two Havirdhāna-carts being moved.”
विश्वास-प्रस्तुतिः
त्रिरुक्तायां प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमित्यथ यद्यक्ष उत्सर्जति सुवाग्देव दुयाआँर्! वदेत्येव तत्र जपत्यथैतावञ्जसोपसङ्क्रामतोऽध्वर्युश्च प्रतिप्रस्थाता चोत्तरेण हविर्धाने परीत्य पूर्वाव्युपातीत्य मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यं त्रीन्प्रतीचः प्रक्रमान्प्रक्रामतस्

When the (first) verse has been recited thrice, they move (the carts) with the Adhvaryu reciting the verse, “Do you (O carts), move towards the east, furnishing the sacrifice. Do you lead the sacrifice upwards (towards the gods). Do not stumble.”70 If the axle creaks, he should murmur the formula, “Speak O god, good speech about the residence."71 The Adhvaryu and Pratiprasthātr̥ go forward straight. Having gone round along the north72 and having traversed towards the east (of the respective carts), they step three steps towards the west (from the spots) along the cord touching the middle pin pertaining to the Uttaravedi.
विश्वास-प्रस्तुतिः
तदेनयोर्नभ्यस्थयोश्चुबुके रमयतोऽत्र रमेथां वर्ष्मन्पृथिव्या इत्यथ दिवो वा विष्णवुत वा पृथिव्या इत्याशीर्पदयर्चाध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणतो मेथीं निहन्त्यथैनाँस्पन्द्यया सूपनिबद्धामुपनिबध्नाति विष्णोर्नुकं वीर्याणि प्रवोचमित्येवमेव प्रतिप्रस्थातोत्तरस्य हविर्धानस्योत्तरतो मेथीं निहन्त्य्

At these points they station those planks of the wheels of the two carts out of which the navels of the carts have been prepared, with the formula, “Do you stand here on the height of the earth.”70 The Adhvaryu fixes a pin towards the south of the southern Havirdhāna cart with the verse known as āśīrpadā, “Do you, O Viṣṇu, fill in my hands with many kinds of wealth from the heaven or from the earth, from the Maharloka or the midregion. Grant me wealth from the right hand and the left one."70 He ties it well with a cord (to the cart) with the verse, “I shall proclaim the heroic deeds of Viṣṇu who measured out the earthly regions, who supported the upper abode, traversing the space of three steps, the wide-going.”70 Similarly the Pratiprasthātr̥ fixes a pin, towards the north of the northern cart.
विश्वास-प्रस्तुतिः
अथैनाँस्पन्द्यया सूपनिबद्धामुपनिबध्नात्येतेनैव मन्त्रेणाथाध्वर्युर्दक्षिणस्य हविर्धानस्य चुबुकात्प्राञ्चमरत्निं मीत्वा लोके न्यस्य गर्तं खानयत्यथ दक्षिणाद्युगान्तात्प्राञ्चं बाहुं मीत्वा लोके न्यस्य गर्तं खानयति

He ties it well with a cord (to the cart) with the same verse.
The Adhvaryu, having measured one aratni from the (resting) plank of southern Havirdhāna-cart and having placed a clod,73 causes a hole to be dug. Then having measured one arm towards the east from the southern yoke-end and having placed a clod, he causes a hole to be dug.
विश्वास-प्रस्तुतिः
तावुभावुत्तरेणान्यं गर्तं खानयत्येवमेव प्रतिप्रस्थातोत्तरतस्त्रीन्गर्तान्खानयत्येवमपरतस्
मूलम्
तावुभावुत्तरेणान्यं गर्तं खानयत्येवमेव प्रतिप्रस्थातोत्तरतस्त्रीन्गर्तान्खानयत्येवमपरतस्
English
He causes another hole to be dug between these two. Similarly the Pratiprasthātr̥ causes three holes to be dug towards the north. Similarly towards the west.
विश्वास-प्रस्तुतिः
तेषु प्राचीनकर्णा स्थूणा उच्छ्रयन्ति
मूलम्
तेषु प्राचीनकर्णा स्थूणा उच्छ्रयन्ति
English
In these (holes) poles with their forked tops pointing towards the east are raised.
विश्वास-प्रस्तुतिः
तासूदञ्चौ वँशौ प्रोहन्त्यध्यस्यन्ति पुरस्ताद्र राटीं विष्णो रराटमसीति
मूलम्
तासूदञ्चौ वँशौ प्रोहन्त्यध्यस्यन्ति पुरस्ताद्र राटीं विष्णो रराटमसीति
English
On those (posts) two bamboos pointing towards the north are fixed. Towards the east they put up a frontlet with the formula, “Thou art the forehead of Viṣṇu.74
विश्वास-प्रस्तुतिः
विष्णोः पृष्ठमसीति मध्यमं छदिरधिनिदधाति
मूलम्
विष्णोः पृष्ठमसीति मध्यमं छदिरधिनिदधाति
English
With the formula, “Thou art the back of Viṣṇu,”74 the Adhvaryu places over the middle roof.
विश्वास-प्रस्तुतिः
विष्णो श्न्यप्त्रे स्थ इति ये अभितो भवतो दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
मूलम्
विष्णो श्न्यप्त्रे स्थ इति ये अभितो भवतो दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
English
With the formula, “You are the mouth-corners of Viṣņu”74 (he places) those which are on both sides. They enclose (the structure) towards the south and north.
विश्वास-प्रस्तुतिः
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्याम्विष्णोः स्यूरसीति
मूलम्
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्याम्विष्णोः स्यूरसीति
English
Two doors are made-one towards the east and the other towards the west. Having fixed a handful of Kuśa-grass on the southern post of the (eastern) door, he insinuates a poker, and a thread into the poker with the formula, “Thou art the thread of Viṣṇu.”74
विश्वास-प्रस्तुतिः
विष्णोर्ध्रुवमसीति ग्रन्थिं करोति
मूलम्
विष्णोर्ध्रुवमसीति ग्रन्थिं करोति
English
He ties a knot with the formula, “Thou art a fixed point of Viṣṇu.”74
विश्वास-प्रस्तुतिः
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
मूलम्
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
English
Having loosened it the Adhvaryu says, “Do you decorate (the door-post) with hand-skill without tying any knots.” In the same way northern door-post.
विश्वास-प्रस्तुतिः
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशति वैष्णवमसि विष्णवे त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य शालामुखीयाच्छङ्कोरनुस्पन्द्यँ षट्प्राचः प्रक्रमान्प्रक्रामति दक्षिणा सप्तमं

In the same way he decorates the posts of the rear door. He then touches (the structure) with the formula, “Thou beliongst to Viṣṇu; for Viṣṇu thee.”74 The Adhvaryu, having turned by the right and hastening to the west, steps six eastward steps along the cord from the pin related to the Śālāmukhīya fire-place, and the seventh step towards the south.
विश्वास-प्रस्तुतिः
तदभ्रिं निदधाति
मूलम्
तदभ्रिं निदधाति
English
He keeps the hoe there.
विश्वास-प्रस्तुतिः
स औदुम्बर्यै कालेऽउदुम्बर्यै कालादभ्रिमादत्ते २५
मूलम्
स औदुम्बर्यै कालेऽउदुम्बर्यै कालादभ्रिमादत्ते २५
English
That is the spot for the post of Udumbara (Ficus glomerata). From the spot for the Udumbara post, he takes up the hoe.
२६
विश्वास-प्रस्तुतिः
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
मूलम्
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
English
(With the formula) “I take up (thee) under the impulse of god Savitr̥ with the arms of Aśvins with the hands of Pūṣan.” Having taken it up, he recites over it the formula, “Thou art the hoe; thou art not an enemy.”75
विश्वास-प्रस्तुतिः
तयौदुम्बर्या अवटं परिलिखति परिलिखितँरक्षः परिलिखिता अरातय इदमहँरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्यथोद्गातारमाहोद्गातरेहीममौदुम्बर्या अवटं खन प्राक्पुरीषमुद्वपतादिति

By means of it he draws around a line for the hole with the formula, “The Rakṣas is marked around, the evil spirits are marked around; here do I cut off the neck of the Rakṣas who hates us and whom we hate; here do I cut off the neck of the Rakṣas.”75 He then says to the Udgātr̥, “Do you come O Udgātr̥; do you dig out the hole for the Udumbara-post; take out the soil towards the east.”
विश्वास-प्रस्तुतिः
तँस खनति वा खानयति वा
मूलम्
तँस खनति वा खानयति वा
English
He himself digs or makes one dig.
विश्वास-प्रस्तुतिः
सोऽत एव सदो विमिमीते
मूलम्
सोऽत एव सदो विमिमीते
English
At this point (the Adhvaryu) measures the Sadas hall.
विश्वास-प्रस्तुतिः
यथा त्रीणि छदीँषि तिर्यञ्च्येवं प्राक्शो यथा त्रीणि छदीँ ष्यन्वञ्च्येवमुदक्शोऽपि वा यथा द्वौ भागावुदक्स्पन्द्यायै स्यातामेको दक्षिणत इति
मूलम्
यथा त्रीणि छदीँषि तिर्यञ्च्येवं प्राक्शो यथा त्रीणि छदीँ ष्यन्वञ्च्येवमुदक्शोऽपि वा यथा द्वौ भागावुदक्स्पन्द्यायै स्यातामेको दक्षिणत इति
English
Towards the east (it should be so extensive that there would be) three roofs crosswise. So extensive towards the north that lengthwise there would be three roofs. Alternately there would be two parts towards the north, one towards the south.
विश्वास-प्रस्तुतिः
तस्य त्रिश्रेणिगर्तान्खानयति
मूलम्
तस्य त्रिश्रेणिगर्तान्खानयति
English
For it he gets holes dug out in three rows.
विश्वास-प्रस्तुतिः
सोऽत एव प्राङ्द्रुत्वा दक्षिणस्य हविर्धानस्य पुरोऽक्षमुपरवान्विमिमीते प्रादेशमुखान्प्रादेशान्तस्पादान्
मूलम्
सोऽत एव प्राङ्द्रुत्वा दक्षिणस्य हविर्धानस्य पुरोऽक्षमुपरवान्विमिमीते प्रादेशमुखान्प्रादेशान्तस्पादान्
English
At this point, having moved towards the east, he measures Uparava-holes in front of the axle of the southern Havirdhāna-cart with openings of one span and with a distance of one span.
विश्वास-प्रस्तुतिः
अथोन्नेतारमाहोन्नेतरे हीमानुपरवान्खन प्रादेशमुखान्प्रादेशान्तस्पादान्बाहुमात्रानवाचोऽसम्भिन्दन्नुपरिष्टादधस्तात्सन्तृण्णानिति
मूलम्
अथोन्नेतारमाहोन्नेतरे हीमानुपरवान्खन प्रादेशमुखान्प्रादेशान्तस्पादान्बाहुमात्रानवाचोऽसम्भिन्दन्नुपरिष्टादधस्तात्सन्तृण्णानिति
English
He says to the Unnetr̥, “Come O Unnetr̥, do thou dig out these Uparavas having openings of one span each, having distance inbetween of one span each, one hand deep, not joined on the surface but hollowed out below.
विश्वास-प्रस्तुतिः
तान्स खनति वा खानयति वाथैषां पुरीषं दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं निवपति
मूलम्
तान्स खनति वा खानयति वाथैषां पुरीषं दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं निवपति
English
He digs them or gets dug. He pours down their soil in front of the support of the southern Havirdhāna-cart.
विश्वास-प्रस्तुतिः
तं चतुरश्रं खरं करोत्यथैनँसिकताभिराभ्राशिनं करोत्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
मूलम्
तं चतुरश्रं खरं करोत्यथैनँसिकताभिराभ्राशिनं करोत्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
English
He makes a four-cornered mound out of it. He renders it bright by means of sand. From the spot of the Uparavas he takes up the hoe with the formula, “I take (thee) under the impulse of god Savitr̥, with the arms of Aśvins, with the hands of Pūṣan.” Having taken it up, he recited over the formula, “Thou art a hoe; thou art not an enemy.”75
विश्वास-प्रस्तुतिः
तया यूपावटं परिलिखति यथान्तर्वेद्यधँर्स्याद्बहिर्वेद्यर्धम्परिलिखितँ रक्षः परिलिखिता अरातय इदमहँरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीत्यथाग्नीध्रमाहाग्नीदेहीमं यूपावटं खनोपरसम्मितं प्राक्पुरीषमुद्वपताद्चतुरङ्गुलेनोपरमतिखनतादिति

With it he marks around the hole for the sacrificial post in such a way that it would be half within the Vedi and half outside the Vedi, with the formula, “The Rakṣas is marked around; evil spirits are marked around. Here do I cut off the neck of the Rakṣas who hates us and whom we hate. Here do I cut off the neck of the Rakṣas.”75 He says to the Āgnīdhra, “O Agnīdh, do thou come, do thou dig up this hole for the sacrificial post as deep as the bottom of the post; do thou pour out the soil towards the east; do thou dig out as deep as the bottom and four angulas above.”
विश्वास-प्रस्तुतिः
तँस खनति वा खानयति वा
मूलम्
तँस खनति वा खानयति वा
English
He digs out the hole or gets it dug out.
विश्वास-प्रस्तुतिः
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थातौदुम्बरीँस्थूणां यजमानेन सम्मायाधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य याचति यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँसस्रुवां मैत्रावरुणदण्डँ हिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेत्यौदुम्बर्येषा स्थूणा प्रक्षालिता प्रपन्ना प्रागवटादुपशेते

While the Adhvaryu acts here, the Pratiprasthātr̥, having measured the Udumbara post equal to (the height of) the sacrificer, cuts it at the lower part with the formula, “May the wealth consisting of brave sons be uninterrupted.”76 The Adhvaryu, having turned by the right and having hastened to the west, asks for Prokṣaṇī water mixed with barly-grains, a handful of sacrificial grass, vessel of clarified butter together with the spoon, the staff for the Maitrāvaruṇa, a piece of gold and a pot full of water. Having taken this up, he says, “Come O sacrificer.” This Udumbara-post, cleansed, and got ready, lies down to the east of the hole.
विश्वास-प्रस्तुतिः
तां परस्तादर्वाचीं प्रोक्षति २६
मूलम्
तां परस्तादर्वाचीं प्रोक्षति २६
English
He sprinkles water over it from the top downwards.
२७
विश्वास-प्रस्तुतिः
दिवे त्वानतरिक्षाय त्वा पृथिव्यै त्वेत्यवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति
मूलम्
दिवे त्वानतरिक्षाय त्वा पृथिव्यै त्वेत्यवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति
English
(With the formula) “For heaven thee, for midregion thee, for earth thee.”77 He pours water into the hole with the formula, “May the region for seating the Pitr̥s be purified.”77
विश्वास-प्रस्तुतिः
यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति
मूलम्
यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति
English
He scatters barley-grains (into the hole) with the formula, “Thou art a barley-grain; do thou drive away the enemy from us; do thou drive away the evil spirits.”77
विश्वास-प्रस्तुतिः
बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँसदनमसीत्य्
मूलम्
बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणाँसदनमसीत्य्
English
He spreads the handful of sacrificial grass, held crosswise, with the formula, “Thou art the seat of Pitr̥s.”77
विश्वास-प्रस्तुतिः
अथैनद्धिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति पितृभ्यः स्वाहेत्यथैनामुच्छ्रयत्युद्दिवँ स्तभानान्तरिक्षं पृण पृथिवीं दृँहेत्यथैनां प्राचीनकर्णां मिनोति द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणेत्यथैना प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिँसुप्रजावनिँरायस्पोषवनिं पर्यूहामीति

He offers a spoonful through a piece of gold with the formula, “Svāhā to Pitr̥s." He erects it with the formula, “Supporting the heaven, do thou fill in the midregion; strengthen the earth."77 He fixes it with its wood-knot turned towards the east with the formula, “May Dyutāna, the son of Maruts, fix thee with the firm law of Mitra and Varuṇa.”78 He surrounds it with the soil by the right with the formula, “I pile around thee, the winner of Brahmanhood, the winner of Kṣatriyahood, the winner of good progeny, and the winner of abundance of wealth.”78
विश्वास-प्रस्तुतिः
मैत्रावरुणदण्डेन सँहन्ति ब्रह्म दृँह क्षत्रँदृँह प्रजां दृँह आयस्पोषं दृँहेत्यन्यूनमनतिरिक्तं परिन्यस्योदपात्रमुपनिनीयाथास्यै विशाखे हिरण्यं निधाय स्रुवाहुत्याभिजुहोति घृतेन द्यावापृथिवी आपृणेथाँ स्वाहेत्यान्तमन्ववस्रावयत्यान्तमेव यजमानं तेजसानक्तीति ब्राह्मणम्

He praises it with the staff of the Maitrāvaruṇa with the formula. “Do thou strengthen the Brahman, do thou strengthen Kṣatra, do thou strengthen progeny, do thou strengthen the abundance of wealth.”78 Having put around (the soil) not more not less, having poured a potful of water, and having placed a piece of gold within its two prongs, he offers a spoonful with the formula, “Be you, O heaven and earth, filled with clarified butter, svāhā.”78 “He causes it to flow up to the bottom. He thereby besmears the sacrificer with splendour.” So says the Brāhmaṇa.79
विश्वास-प्रस्तुतिः
अथैनामुद्गातृभ्यः प्राहुस्
मूलम्
अथैनामुद्गातृभ्यः प्राहुस्
English
(The erection of) the Udumbara-post is announced to the Upagātr̥s.
विश्वास-प्रस्तुतिः
तस्यां तच्चेष्टन्ति यत्ते विदुरेतस्या उच्छ्रयणमनु प्राचीनकर्णा स्तूणा उच्छ्रयन्ति
मूलम्
तस्यां तच्चेष्टन्ति यत्ते विदुरेतस्या उच्छ्रयणमनु प्राचीनकर्णा स्तूणा उच्छ्रयन्ति
English
They act with regard to it what they know.
Following the erection of this (post), the post (of the hall) are erected with their wood-knots turned towards the east.
विश्वास-प्रस्तुतिः
तासूदीचो वँशान्प्रोहन्त्यध्यस्यन्ति मध्यमं छदिरिन्द्र स्य सदोऽसीति
मूलम्
तासूदीचो वँशान्प्रोहन्त्यध्यस्यन्ति मध्यमं छदिरिन्द्र स्य सदोऽसीति
English
Bamboos are placed upon them with their tops pointing towards the north. The middle roof is set up with the formula, “Thou art the seat of Indra.”78
विश्वास-प्रस्तुतिः
विश्वजनस्य छायेति ये अभितो भवतो नवच्छदि तेजस्कामस्य मिनुयादिति
मूलम्
विश्वजनस्य छायेति ये अभितो भवतो नवच्छदि तेजस्कामस्य मिनुयादिति
English
The two (roofs) which are on both sides with the formula, “Thou art the shade of Viśvajana.”78 “One should set up (the Sadas) with nine roofs.”79
विश्वास-प्रस्तुतिः
त्रीणित्रीण्येव सर्वाणि भवन्ति
मूलम्
त्रीणित्रीण्येव सर्वाणि भवन्ति
English
The roofs on all sides are three each.
विश्वास-प्रस्तुतिः
दक्षिणान्युत्तराणि करोति
मूलम्
दक्षिणान्युत्तराणि करोति
English
“He makes the southern ones resting upon (the middle ones).”79
विश्वास-प्रस्तुतिः
स दक्षिणानिदक्षिणान्येवोत्तराणि करोत्यन्तर्वर्तान्करोति व्यावृत्त्या इति
मूलम्
स दक्षिणानिदक्षिणान्येवोत्तराणि करोत्यन्तर्वर्तान्करोति व्यावृत्त्या इति
English
He makes all the southern roofs resting upon (the middle ones). “He provides fillings of gaps with grass for discrimination.”80
विश्वास-प्रस्तुतिः
सन्धिषु तृणवर्तान्प्रत्यस्यति
मूलम्
सन्धिषु तृणवर्तान्प्रत्यस्यति
English
On the joints he puts fillings of grass.
विश्वास-प्रस्तुतिः
तेऽन्तर्वर्ता अथैनत्परिश्रयन्ति परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति
मूलम्
तेऽन्तर्वर्ता अथैनत्परिश्रयन्ति परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इति
English
They are called the antarvartas. This (hall) is enclosed with the verse, “May these songs, O rich in praise, encompass thee; may the favours be favourable to thee.”78
विश्वास-प्रस्तुतिः
दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
मूलम्
दक्षिणतश्चोत्तरतश्च परिश्रयन्ति
English
They enclose it towards the south and north.
विश्वास-प्रस्तुतिः
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्यामिन्द्र स्य स्यूरसीतीन्द्र स्य ध्रुवमसीति ग्रन्थिं करोति
मूलम्
प्राचीं च प्रतीचीं च द्वारौ कुर्वन्त्यथ दक्षिणे द्वार्बाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भणे स्पन्द्यामिन्द्र स्य स्यूरसीतीन्द्र स्य ध्रुवमसीति ग्रन्थिं करोति
English
They provide doors towards the east and the west. After having fixed a handful of Kuśa-grass on the southern post of the (eastern) door, he insinuates a poker, and a thread into the poker with the formula, “Thou art the thread of Viṣṇu.[^5-333] He ties a knot with the formula, “Thou art a fixed point of Viṣṇu.”[^5-333]
विश्वास-प्रस्तुतिः
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
मूलम्
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीन्हस्तकौशलैर्निस्तिष्ठतेत्येवमेवोत्तरं द्वार्बाहुम्
English
Having loosened it, the Adhvaryu says, “Do you decorate (the door - post) with the handskill without tying any knots.”
विश्वास-प्रस्तुतिः
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशत्यैन्द्र मसीन्द्रा य त्वेत्यथ महावेद्या उत्तरादँसीयाच्छङ्कोर्वेद्यन्ते नाष्टादश प्रतीचः प्रक्रमान्प्रक्रामति
मूलम्
एवमपरे द्वार्बाहू निस्तिष्ठत्यथैनदभिमृशत्यैन्द्र मसीन्द्रा य त्वेत्यथ महावेद्या उत्तरादँसीयाच्छङ्कोर्वेद्यन्ते नाष्टादश प्रतीचः प्रक्रमान्प्रक्रामति
English
In the same way the northern posts. In the same way he decorates the posts of the western door. He then touches (the structure) with the formula, “Thou belongst to Indra, for Indra thee.”81
He strides eighteen steps towards the west along the border of the Mahāvedi from pin for the northern shoulder of Mahāvedi.
विश्वास-प्रस्तुतिः
तदाग्नीध्रागारं विमिमीते यथान्तर्वेद्यधँर्स्याद्बहिर्वेद्यर्धम्
मूलम्
तदाग्नीध्रागारं विमिमीते यथान्तर्वेद्यधँर्स्याद्बहिर्वेद्यर्धम्
English
There he prepares Āgnīdhra’s chamber in such a way that it would be half within the Vedi and half without.
विश्वास-प्रस्तुतिः
अथैनत्समुच्चित्य परिश्रयन्ति
मूलम्
अथैनत्समुच्चित्य परिश्रयन्ति
English
Having piled it up, they enclose it;
विश्वास-प्रस्तुतिः
तस्य दक्षिणां द्वारं कुर्वन्त्याग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निरेतेन मार्जालीयो व्याख्यातस्
मूलम्
तस्य दक्षिणां द्वारं कुर्वन्त्याग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निरेतेन मार्जालीयो व्याख्यातस्
English
a door is left to it towards the south. Each side of the Āgnīdhra’s chamber is five aratnis. The Mārjālīya (mound) is explained hereby.
विश्वास-प्रस्तुतिः
तस्योदीचीं द्वारं कुर्वन्ति २७
मूलम्
तस्योदीचीं द्वारं कुर्वन्ति २७
English
A door is left to it towards the north.
२८
विश्वास-प्रस्तुतिः
अथात्रैव तिष्ठन्याचत्यभ्रिं यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँ सस्रुवामधिषवणं चर्माधिषवणे फलके षट्छङ्कून्ग्रावाणँ हिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेति
मूलम्
अथात्रैव तिष्ठन्याचत्यभ्रिं यवमतीः प्रोक्षणीर्बर्हिर्हस्तमाज्यस्थालीँ सस्रुवामधिषवणं चर्माधिषवणे फलके षट्छङ्कून्ग्रावाणँ हिरण्यमुदपात्रमित्येतत्समादायाहैहि यजमानेति
English
Standing here only, (the Adhvaryu) asks for the hoe, Prokṣaṇī-water mixed with barley-grains, a handful sacrificial grass, the vessel for clarified butter together with the spoon, the skin for pressing (Soma), two planks for pressing, six pins, a stone, a piece of gold, and a pot full of water. Having taken this up, he says, “Come O sacrificer.”
विश्वास-प्रस्तुतिः
पूर्वया द्वारा हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्य नीड एतच्चर्मोत्सादयति
मूलम्
पूर्वया द्वारा हविर्धानं प्रपाद्य दक्षिणस्य हविर्धानस्य नीड एतच्चर्मोत्सादयति
English
Having made him enter the Havirdhāna shed by the eastern door, he spreads the skin in the seat of the southern Havirdhāna cart.
विश्वास-प्रस्तुतिः
पुरोऽक्षमितराणि सँसादयन्त्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इ इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
मूलम्
पुरोऽक्षमितराणि सँसादयन्त्यथोपरवाणां कालादभ्रिमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इ इत्यादायाभिमन्त्रयतेऽभ्रिरसि नारिरसीति
English
All other implements are placed in front of the axle. Then from the place assigned to the Uparavas he takes the hoe with the formula, “I take (thee) under the impulse of god Savitr̥, with the arms of Aśvins, with the hands of Pūṣan.” Having taken it up, he recites over it the formula, “Thou art a hoe, thou art not an enemy.”
विश्वास-प्रस्तुतिः
तयोपरवान्परिलिखति पूर्वयोर्दक्षिणमेवाग्रे परिलिखितँरक्षः परिलिखिता अरातय इदमहँरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीति सर्वानेवानुपूर्वं
मूलम्
तयोपरवान्परिलिखति पूर्वयोर्दक्षिणमेवाग्रे परिलिखितँरक्षः परिलिखिता अरातय इदमहँरक्षसो ग्रीवा अपिकृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामीति सर्वानेवानुपूर्वं
English
With it he marks around the Uparavas first the southern one of the two eastern ones with the formula, “The Rakṣas is marked around; the evil spirits are marked around. Here do I cut off the neck of the Rakṣas who hates us and whom we hate; here do I cut off the neck of the Rakṣas.”82 In this way all (Uparavas) one by one.
विश्वास-प्रस्तुतिः
खनति रक्षोहणो वलगहनो वैष्णवान्खनामीति सर्वानेवानुपूर्वम्
मूलम्
खनति रक्षोहणो वलगहनो वैष्णवान्खनामीति सर्वानेवानुपूर्वम्
English
He digs with the formula. “I dig (the Uparavas) dispelling the Rakṣas, dispelling the magical substance, and belonging to Viṣṇu.”83 In this way all (Uparavas) one by one.
विश्वास-प्रस्तुतिः
अथैभ्यः पाँसूनुद्वपतीदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसेत्यवबाढो वलग इति यजमानस्याधस्पदं पाँसूनुद्वपति पूर्वयोर्दक्षिणात्

He takes out the soil from them with the formula, “Here do I cast out the magical substance which an equal or an unequal has buried against us. With the Gāyatrī metre I here put him down who, equal or unequal, is hostile to us.”83 With the formula, “The magical substance is driven away, he puts the soil of the southern one out of the two eastern ones under the feet of the sacrificer.
विश्वास-प्रस्तुतिः
त्रैष्टुभेन छन्दसेत्यपरयोर्दक्षिणाद्जागतेन छन्दसेत्यपरयोरुत्तरादानुष्टुभेन छन्दसेति पूर्वयोरुत्तरादत्रैतान्पदपाँसूनसञ्चरे परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्याथैनानवमृशतोऽध्वर्युश्च यजमानश्च पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानोऽथ यजमानः पृच्छति अध्वर्यो किमत्रेति

With the formula (modified as) “With the Triṣṭubh metre” (he takes out the soil) from the southern one of the rear two. With the formula (modified as) “With the Jagatī metre” (he takes out the soil) from the northern one of the rear two. With the formula (modified as) “With Anuṣṭubh metre (he takes out soil) from the northern one of the eastern two. He discards the soil under the sacrificer’s feet on a nontraversable spot. Here the sacrificer meditates upon him whom he hates.
Having touched water, the Adhvaryu and the sacrificer touch each other’s hands from below-the Adhvaryu in the southern one of the eastern two, the sacrificer in the northern one. The sacrificer asks, “O Adhvaryu, what is here?”
विश्वास-प्रस्तुतिः
भद्र मिति
मूलम्
भद्र मिति
English
“Auspicious,”
विश्वास-प्रस्तुतिः
तन्नौ सहेत्यथाध्वर्युः पृच्छति यजमान किमत्रेति
मूलम्
तन्नौ सहेत्यथाध्वर्युः पृच्छति यजमान किमत्रेति
English
“(Let it be) for us together.” Now the Adhvaryu asks, “O sacrificer, what is here?”
विश्वास-प्रस्तुतिः
भद्र मिति
मूलम्
भद्र मिति
English
“Auspicious.”
विश्वास-प्रस्तुतिः
तन्नौ सहेति
मूलम्
तन्नौ सहेति
English
“(Let it be) for us together.”
विश्वास-प्रस्तुतिः
यमेवाध्वर्युः प्रजहाति तं यजमानोऽवमृशति
मूलम्
यमेवाध्वर्युः प्रजहाति तं यजमानोऽवमृशति
English
The sacrificer puts his hand into that one which the Adhvaryu leaves.
विश्वास-प्रस्तुतिः
दक्षिणयोरपरमेवाध्वर्युरवमृशति पूर्वं यजमानोऽध्वर्युरत्र पृच्छत्यथ यजमानोऽपरयोरुत्तरमेवाध्वर्युरवमृशति दक्षिणं यजमानो यजमानोऽत्र पृच्छत्यथाध्वर्युरुत्तरयोः पूर्वमेवाध्वर्युरवमृशत्यपरं यजमानोऽध्वर्युरत्र पृच्छत्यथ यजमानो यजमानः प्रथमः पृच्छति यजमान उत्तमोऽथैनानभिमृशति विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणाँ हन्तेति सर्वानेवानुपूर्वम्

The Adhvaryu puts his hand into that one which the Adhvaryu leaves. The Advaryu puts his hand into the rear one of the two southern ones; the sacrificer the front one. Here the Adhvaryu asks first, then the sacrificer. The Adhvaryu puts his hand into the northern one of the rear two, the sacrificer the southern one. Here the sacrficer asks first, then the Adhvaryu. The Adhvaryu puts his hand into the eastern one of the two northern ones; the sacrificer the rear one. Here the Adhvaryu asks first, then the sacrificer. The sacrificer asks first; the sacrificer asks the last. Then the Adhvaryu touches all of them (the Uparavas) one by one with the formulas, “Thou art Virāt, killer of enemies,” “Thou art Samrat, killer of enemies,” “Thou art Svarāt, killer of evils;” “Thou art Viśvārāt, killer of all destroyers.”83
विश्वास-प्रस्तुतिः
अथैनानद्भिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति सर्वानेवानुपूर्वम्
मूलम्
अथैनानद्भिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति सर्वानेवानुपूर्वम्
English
He sprinkles them with water with the formula, “I sprinkle all (the Uparavas) smiting the Rakṣas, smiting the magical substance and belonging to Viṣṇu” one by one.
विश्वास-प्रस्तुतिः
अथैष्वपोऽवनयति रक्षोहणो वलगहनेऽवनयामि वैष्णवानिति सर्वेष्वेवानुपूर्वम्
मूलम्
अथैष्वपोऽवनयति रक्षोहणो वलगहनेऽवनयामि वैष्णवानिति सर्वेष्वेवानुपूर्वम्
English
He pours water into all one by one with the formula, “I pour water (into the Uparavas) smiting the Rakṣas, omitting the magical substance and belonging to Viṣṇu.”84
विश्वास-प्रस्तुतिः
अथैषु यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति सर्वेष्वेवानुपूर्वम्
मूलम्
अथैषु यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति सर्वेष्वेवानुपूर्वम्
English
He scatters barley-grains into all one by one with the formula, “Thou art barley-grain; drive away our haters, drive away evil spirits.”84
विश्वास-प्रस्तुतिः
अथैनान्बर्हिषावस्तृणाति रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति सर्वानेवानुपूर्वम्
मूलम्
अथैनान्बर्हिषावस्तृणाति रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति सर्वानेवानुपूर्वम्
English
“he spreads sacrificial grass into all of them one by one with the formula. “I spread down sacrifical grass (into the Uparavas) smiting the Rakṣas, smiting the magical substance and belonging to Viṣṇu.”84
विश्वास-प्रस्तुतिः
अथैनान्हिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान्स्वाहेति सर्वानेवानुपूर्वम्
मूलम्
अथैनान्हिरण्यमन्तर्धाय स्रुवाहुत्याभिजुहोति रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान्स्वाहेति सर्वानेवानुपूर्वम्
English
Having held a piece of gold in between, he woffers a spoonful of clarified butter into all of them one by one with the formula, “I make an offering (into the Uparavas) smiting the Rakṣas, smiting the magical substance and belonging to Viṣṇu, svāhā.”84
विश्वास-प्रस्तुतिः
अथास्यैते फलके दीर्घसोमे सन्तृण्णे भवतोऽसन्तृण्णे एकाहे
मूलम्
अथास्यैते फलके दीर्घसोमे सन्तृण्णे भवतोऽसन्तृण्णे एकाहे
English
Now his two boards are fastened together by a perforation in a Soma-sacrifice going on for a long time, and not fastened in a one-day sacrifice.
विश्वास-प्रस्तुतिः
ते सँस्पृष्टे उपदधाति रक्षोहणौ वलगहनावुपदधामि वैष्णवी इत्यथैने शङ्कुभिः परिणिहन्ति द्वाभ्यां पुरस्ताद्द्वाभ्यां पश्चाद्द्वाभ्यामभितोऽनवसर्पणायाथैने प्रदक्षिणं पुरीषेण पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यथैने बर्हिषा परिस्तृणाति रक्षोहणौ वलगहनौ परिष्तृणामि वैष्णवी इत्यथैने अभिमृशति रक्षोहणौ वलगहनौ वैष्णवी इत्यथैतच्चर्म फलकयोः प्राचीनग्रीवमुत्तरलोमोपस्तृणाति यज्ञ प्रतितिष्ठेति वा तूष्णीं वा

He arrarges them touching each other with the formula, “I arrange (the boards) smiting the Rakṣas, smiting the magical substance and belonging to Viṣṇu.”84 He fixes them round by means of pins-two in front and two in the rear for the purpose of non-stirring on both sides. Then he covers them around with soil by the right with the formula, “I cover around (the boards) smiting the Rakṣas, smiting the magical substance and belonging to Viṣṇu.”84 He strews them around with sacrificial grass with the formula, “I strew around (the boards) smiting the Rakṣas, smiting the magical substance and belonging to Viṣṇu.84 He touches them with the formula, “(The two boards) smiting Rakṣas, smiting the magical substance and belonging to Viṣṇu.”84 He spreads the skin over the boards with the neck towards the east and hairy side upwards with the verse, “O sacrifice, do thou, very gracious, be firm in thy favour. May the riches enter thee on all sides. Giving long life to the sacrificer, do thou anoint the worshipper with ambrosia.”85 Or silently.
विश्वास-प्रस्तुतिः
तिरश्चर्मन्फलके ग्राव्णोद्वादयति २८
मूलम्
तिरश्चर्मन्फलके ग्राव्णोद्वादयति २८
English
He makes the two boards sound by means of a stone across the skin.
२९
विश्वास-प्रस्तुतिः
बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्रा य वाचं वदेति
मूलम्
बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्रा य वाचं वदेति
English
(With the formula) “Thou art big, a big stone; do thou make a big sound for Indra.”86
विश्वास-प्रस्तुतिः
नीड एतच्चर्मोत्सादयति
मूलम्
नीड एतच्चर्मोत्सादयति
English
He transposes the skin to the seat (of the southern Havirdhāna cart).
विश्वास-प्रस्तुतिः
ग्रावसु ग्रावाणमप्यर्जत्यथ दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनं बर्हिर्मुष्टिमुपनिबध्नाति स्तोत्रेभ्योऽथ याचति स्फ्यमुदपात्रं चात्वालात्पुरीषँसिकता इत्येतत्समादायाहैहि यजमानेत्याग्नीध्रं द्रुत्वा स्फ्येनोद्धत्यावोक्ष्य चात्वालात्पुरीषँसिकता इति निवपति विभूरसि प्रवाहणो रौद्रे णानीकेन पाहि माग्ने पिपृहि मा मा मा हिँसीरिति

He inserts the stone among stones. In front of the support of the southern Havirdhāna cart he fastens a handful of sacrificial grass for the purpose of the Stotras. Then he asks for the wooden sword, a pot full of water, soil from Cātvāla and sand. Having taken this up, he says, “Come O sacrificer.” Having hastened to the Āgnīdhra chamber, having dug up with the wooden sword and having sprinkled water, he pours the soil from the Cātvāla and sand with the formula, “Thou art the expanding, the carrier; O Agni, guard me, with thy dreadful countenance; content me; do not injure me.”87
विश्वास-प्रस्तुतिः
तं परिमण्डलं धिष्णियं करोत्यथैनँसिकताभिराभ्राशिनं करोत्यथान्तःसदसं धिष्णियान्निवपति होतुः प्रथमम्वह्निरसि हव्यवाहन इति
मूलम्
तं परिमण्डलं धिष्णियं करोत्यथैनँसिकताभिराभ्राशिनं करोत्यथान्तःसदसं धिष्णियान्निवपति होतुः प्रथमम्वह्निरसि हव्यवाहन इति
English
He makes it a round mound. He makes it shining with sand. Then he prepares mounds within the Sadas-first the Hotr̥’s with the formula, “Thou art the bearer, the carrier of oblation;”87
विश्वास-प्रस्तुतिः
श्वात्रोऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य
मूलम्
श्वात्रोऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य
English
Maitrāvaruṇa’s towards the south with the formula, “Thou art savoury the wise,”87
विश्वास-प्रस्तुतिः
तुथोऽसि विश्ववेदा इत्युत्तरतो ब्राह्मणाच्छँसिन उशिगसि कविरित्युत्तरतः पोतुरङ्घारिरसि बम्भारिरित्युत्तरतो नेष्टुरवस्युरसि दुवस्वानित्युत्तरतोऽच्छावाकस्याथ दक्षिणे वेद्यन्ते मार्जालीयं धिष्णियं निवपति शुन्ध्यूरसि मार्जालीय इति

the Brāhmaṇācchaṁsin’s towards the north with the formula, “Thou art Tutha, the all-knower,”87 the Potr’s towards the north with the formula, “Thou art Uśij, the wise, the Neṣṭr̥’s towards the north with the formula, “Thou art Aṅghāri, Bambhāri,” the Acchāvāka’s towards the north with the formula, “Thou art the seeker of help, the worshipper;”87 towards the southern end of the Mahāvedi he prepares the Mārjālīya mound with the formula, “Thou art a purifier, the Mārjālīya.”87
विश्वास-प्रस्तुतिः
सर्वेष्वेव रौद्र मनुवर्तयत्याग्नीध्रेऽन्ततो निवपत्युदक्सँस्थताया इत्यष्टौ न्यवाप्सीदित्यथाष्टावनुदिशति
मूलम्
सर्वेष्वेव रौद्र मनुवर्तयत्याग्नीध्रेऽन्ततो निवपत्युदक्सँस्थताया इत्यष्टौ न्यवाप्सीदित्यथाष्टावनुदिशति
English
To all these formulas he joins the Raudra portion (raudreṇāṅīkena “with thy dreadful countenance …”). Finally he prepares a mound in the Āgnīdhra’s chamber for the conclusion towards the north. He prepared eight (mounds). Then (the sacrificer) points to eight (spots).
विश्वास-प्रस्तुतिः
सम्राडसि कृशानुरित्याहवनीयमुपतिष्ठते
मूलम्
सम्राडसि कृशानुरित्याहवनीयमुपतिष्ठते
English
He prays to the Āhavanīya with the formula, “Thou art the overlord, Kr̥śānu.”87
विश्वास-प्रस्तुतिः
परिषद्योऽसि पवमान इत्यास्तावम्प्रतक्वासि नभस्वानिति चात्वालम्
मूलम्
परिषद्योऽसि पवमान इत्यास्तावम्प्रतक्वासि नभस्वानिति चात्वालम्
English
To the Āstāva88 with the formula, “Thou art the purifying round which men sit; to the Cātvāla with the formula, “Thou art the impetuous, the cloudy,
विश्वास-प्रस्तुतिः
असम्मृष्टोऽसि हव्यसूद इति पशुश्रपणम्
मूलम्
असम्मृष्टोऽसि हव्यसूद इति पशुश्रपणम्
English
to the fire for cooking the flesh of the animal with the formula, “Thou art the untouched the preparer of the oblation.”87
विश्वास-प्रस्तुतिः
अथ सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठत ऋतधामासि सुवर्ज्योतिरिति
मूलम्
अथ सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठत ऋतधामासि सुवर्ज्योतिरिति
English
Standing at the door of the Sadas, he prays to the Udumbara-post with the formula, “Thou art having the cosmic order for thy abode, light of the sun,”87
विश्वास-प्रस्तुतिः
ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनम्
मूलम्
ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनम्
English
to the seat of Brahman with the formula, “Thou art having Brahman for thy brilliance, the abode of sun.”87
विश्वास-प्रस्तुतिः
अथात्रैव तिष्ठन्गार्हपत्यमुपतिष्ठतेऽजोऽस्येकपादित्यहिरसि बुध्निय इति यं प्रहास्यन्तो भवन्ति २९
मूलम्
अथात्रैव तिष्ठन्गार्हपत्यमुपतिष्ठतेऽजोऽस्येकपादित्यहिरसि बुध्निय इति यं प्रहास्यन्तो भवन्ति २९
English
Standing here only, he prays to the Gārhapatya with the formula, “Thou art the one-footed goat.”87 To the fire which is going to be left over,89 he prays with the formula, “Thou art Ahi Budhniya.”90
३०
विश्वास-प्रस्तुतिः
अथात्रैव तिष्ठन्सम्प्रैषमाह स्तृणीत बर्हिः प्र व्रतं यच्छत समपिव्रतान्ह्वयध्वमास्तावं बहुलँस्तृणीत सदोहविर्धाने बहुले स्तृणीतोन्नेतर्ग्राव्णो वायव्यानि द्रो णकलशे दशपवित्रे समवधाय पत्नीशाले सँसादयाग्नीदाज्यमधिश्रय प्रतिप्रस्थातः स्रुचः सम्मृड्ढ्याज्येनोदेहि पृषदाज्याय दध्याहरेति

Standing here only, (the Adhvaryu) gives out the call, “Spread the sacrificial grass, give Vrata-milk (to the sacrificer), call out the relatives, spread thickly sacrificial grass on the Astava, spread thickly sacrificial grass in the Havirdhāna shed and the Sadas; O Unnetr̥, do thou keep in the chamber of the sacrificer’s wife the pressing stone, the Vāyavya cups and the Droṇakalaśa with the fringe and woollen filter placed in it; O Āgnīdhra, do thou melt the clarified butter over the fire; O Pratiprasthātr̥, do thou cleanse the ladles, come up with the clarified butter and fetch curds for the Pr̥ṣadājya.”
विश्वास-प्रस्तुतिः
यथासम्प्रैषं ते कुर्वन्त्यथ दक्षिणे वेद्यन्ते बर्हिर्मुष्टिँस्तृणाति देवबर्हिरूर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति
मूलम्
यथासम्प्रैषं ते कुर्वन्त्यथ दक्षिणे वेद्यन्ते बर्हिर्मुष्टिँस्तृणाति देवबर्हिरूर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति
English
They act according to the call. The Adhvaryu spreads a bundle of sacrificial grass at the southern end of the Mahāvedi with the formula, “O sacrificial grass for the gods, soft as wool, I spread thee, offering a good seat to the Gods.”91
विश्वास-प्रस्तुतिः
तां बहुलां पुरस्तात्प्रत्यञ्च स्तृणन्तो यन्त्यथान्तःशालं पृषदाज्यवन्त्याज्यानि गृहीत्वा परिकर्मिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छति
मूलम्
तां बहुलां पुरस्तात्प्रत्यञ्च स्तृणन्तो यन्त्यथान्तःशालं पृषदाज्यवन्त्याज्यानि गृहीत्वा परिकर्मिभ्य उत्प्रदाय ब्रह्मणे राजानमुत्प्रयच्छति
English
They go on spreading the Mahāvedi profusely from east to west.
Having taken up within the Pragvamsa shed the ladles filled with clarified butter together with Pṛṣadājya and having handed them over to the attendants, (the Adhvaryu) hands over king Soma to the Brahman.
विश्वास-प्रस्तुतिः
तं ब्रह्मादायोत्तरतस्तिष्ठत्युत्तरतस्तिष्ठन्नग्निमन्वानयत्युदग्ने तिष्ठानु मानुदेहि विश्वैर्देवैर्यज्ञियैः संविदानः । सुवर्गे लोके यजमानँहि धेहि मास्यै हास्था आहुत्यै यामुपेम इत्यथाभ्यादधातीध्मं प्रणयनीयम्

Taking him, the Brahman stands towards the north. Standing towards the north, the Adhvaryu puts a part of the Garhapatya into the Āhavanīya with the verse, “Rise up, O Agni, follow me, united with all gods worthy of sacrifice. Do you lead the sacrificer to heaven; do not abandon this oblation which we are offering.”92 He keeps on the fire the faggot to be carried forward.
विश्वास-प्रस्तुतिः
उपोपयमनीः कल्पयन्ति चात्वालात्
मूलम्
उपोपयमनीः कल्पयन्ति चात्वालात्
English
Supporting earth is procured from the Cātāvala.
विश्वास-प्रस्तुतिः
समन्वारब्धेष्वपिव्रतेषु सम्प्रच्छन्नेषु गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जनानि जुहोति त्वँ सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथँस्वाहेति

While the sacrificer’s relatives, with a canopy over their heads, have contacted one to the other, the Adhvaryu, having melted clarified butter over the Gārhapatya, having purified it and having taken four spoonfuls in the ladle, makes Vaisarjana offerings on the Śālāmukhīya fire with the formula, “O Soma, thou art the giver of wide protection from hostility brought about by ourselves or by others, svāhā.”93
विश्वास-प्रस्तुतिः
स्रुवेणाप्तुं प्रस्कन्दयति जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा सम्प्रैषमाहाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति
मूलम्
स्रुवेणाप्तुं प्रस्कन्दयति जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा सम्प्रैषमाहाग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीति
English
He drops a drop by means of the spoon with the formula, “May the active one gladly partake of the clarified butter, svāhā.”93 Having taken up another four spoonfuls, he gives out the call, “Do you (O Hotr̥) recite verses for the fire and Soma being carried forward.”
विश्वास-प्रस्तुतिः
त्रिरुक्तायामुद्यच्छन्ते
मूलम्
त्रिरुक्तायामुद्यच्छन्ते
English
After (the first verse) has been recited thrice, they lift up (the fire).
विश्वास-प्रस्तुतिः
होतुर्वशं यन्त्यथ वै भवति
मूलम्
होतुर्वशं यन्त्यथ वै भवति
English
They move in pursuance of the Hotr̥. It is indeed said,
विश्वास-प्रस्तुतिः
प्राञ्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनाँसि प्रवर्तयन्तीति
मूलम्
प्राञ्चमग्निं प्रहरन्त्युत्पत्नीमानयन्त्यन्वनाँसि प्रवर्तयन्तीति
English
“They carry the fire forward, they get the sacrificer’s wife come over, they cause the carts to move.”94
विश्वास-प्रस्तुतिः
यदस्यात्र शस्त्रं भवति पूर्वं तेनाग्निमन्ववस्यन्त्यथाग्निप्रथमाः प्रतिपद्यन्तेऽन्वग्राज्ञा चाज्यैश्चान्वग्ग्राव्णो वायव्यानि
मूलम्
यदस्यात्र शस्त्रं भवति पूर्वं तेनाग्निमन्ववस्यन्त्यथाग्निप्रथमाः प्रतिपद्यन्तेऽन्वग्राज्ञा चाज्यैश्चान्वग्ग्राव्णो वायव्यानि
English
Whatever implement he has here, with that they adhere to the front fire (= Śālāmukhīya).
With the fire in the forefront, they move forward, with the Soma and the ladles of clarified butter following and with the pressing stones and Vāyavya wooden cups following them.
विश्वास-प्रस्तुतिः
पूर्वया द्वारोपनिष्क्रामन्त्ययं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन्। अयं शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातवित्युत्तरेण सदः परीत्याग्नीधागारेऽग्निं निधाय नयवत्यर्चाग्नीध्रे जुहोत्यग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम स्वाहेत्यत्रैवैतद्ग्रावोवायव्यँ समुपसाद्योपातियन्ति राज्ञा चाज्यैश्चाहवनीये स्रुवाहुतिं जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति ३०

They go out by the eastern door with the verse, “May Agni here make room for us, breaking the enemies; may he go ahead; rejoicing, may he conquer the enemies; may he wins booty in the contest for booty.”93 Having moved around along the north of the Sadas, and having placed the fire in the Āgnīdhra-chamber, he makes an offering on the Āgnīdhra-fire with the verse containing the word naya, “O Agni, lead us by a fair path to wealth, O god, knowing all the ways. Drive from us the sin that leads astray; we shall pay deep homage to thee, svāhā.”95 Having placed here only the pressing stones and Vāyavya wooden cups, they move forward with the king Soma and ladle filled with clarified butter. The Adhvaryu offers a spoonful on the Āhavanīya with the verse, “O Viṣṇu, step widely; give us broad space for dwelling in. Do thou who hast clarified butter as the birth-place, drink the clarified butter as the birth-place, drink the clarified butter; lengthen (the years of) the lord of sacrifice, svāhā.”93
३१
विश्वास-प्रस्तुतिः
अथ प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
मूलम्
अथ प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
English
(The Adhvaryu) rises together with the Prokṣaṇī-water; he sprinkles the faggot,
विश्वास-प्रस्तुतिः
वेदिं प्रोक्षति
मूलम्
वेदिं प्रोक्षति
English
sprinkles the Vedi;
विश्वास-प्रस्तुतिः
बर्हिः प्रोक्षति
मूलम्
बर्हिः प्रोक्षति
English
sprinkles the sacrificial grass.
विश्वास-प्रस्तुतिः
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
मूलम्
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तादाश्ववालं प्रस्तरं गृह्णाति
English
Having sprinkled the sacrificial grass kept (within the Vedi) and having poured water (upon its knot), he takes out the Prastara of aśvavāla grass (Saccharum sponteneum) from the front.
विश्वास-प्रस्तुतिः
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
मूलम्
पञ्चविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधात्यैक्षवी विधृती तिरश्ची सादयति
English
Having spread the sacrificial grass in five rows, the Adhvaryu with the Prastara in his hand, having moved forward, lays down the enclosing sticks of Kārṣmarya ( Gmelina arborea.) He keeps two fire-sticks erect. He places crosswise the two separating blades of sugarcane.
विश्वास-प्रस्तुतिः
विधृत्योराश्ववालं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्याथाप उपस्पृश्य ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं प्रपादयति सोमो जिगाति गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदमित्यथ दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीत्यदित्याः सद आसीदेति कृष्णाजिने राजानम्

The Prastara of Aśvavāla on the two separating blades. The Juhū on the Prastara. Other blades upon the sacrificial grass. Having touched them all together with the formula, “These have sat down in the place of good action, protect them, O Viṣṇu, protect the sacrifice, protect the lord of sacrifice, protect me the leader of sacrifice,”96 having touched water and having taken up king Soma from the Brahman, he leads him into the Havirdhana shed by the eastern door with the verse, “Soma who knows the way goes; he goes to the abode of gods to sit on the birth-place of cosmic order.”97 He spreads a skin of black antelope on the seat of the southern Havirdhāna cart with the formula, “Thou art the seat of Aditi.”98 He places king Soma on the skin of black antelope with the formula, “Do thou sit on the seat of Aditi.”98
विश्वास-प्रस्तुतिः
अथैनं देवताभ्यः सम्प्रयच्छत्येष वो देव सवतितः सोमस्तँरक्षध्वं मा वो दभदिति
मूलम्
अथैनं देवताभ्यः सम्प्रयच्छत्येष वो देव सवतितः सोमस्तँरक्षध्वं मा वो दभदिति
English
He gives him away to the gods with the formula, “This O god Savitr̥, is thy Soma, do thou guard him; let him not escape thee.”98
विश्वास-प्रस्तुतिः
सम्प्रदायोपतिष्ठत एतत्त्वँसोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्सह प्रजया सह रायस्पोषेणेति
मूलम्
सम्प्रदायोपतिष्ठत एतत्त्वँसोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्सह प्रजया सह रायस्पोषेणेति
English
Having given away, he prays to him with the formula, “O Soma, thou, god, hast gone to the gods. Here I, man, have gone to men with offspring, with increase of wealth.”98
विश्वास-प्रस्तुतिः
नमो देवेभ्य इति प्राञ्चमञ्जलिं करोति
मूलम्
नमो देवेभ्य इति प्राञ्चमञ्जलिं करोति
English
He joins his palms facing the east.
विश्वास-प्रस्तुतिः
स्वधा पितृभ्य इति दक्षिणा न्यचत्यथोपनिष्क्रामतीदमहं निर्वरुणस्य पाशादित्यथाहवनीयमुपतिष्ठते सुवरभिविख्येषं वैश्वानरं ज्योतिरित्यथ यजमानमवान्तरदीक्षां विसर्जयत्यग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूस्त्वय्यभूदियँसा मयि या तव तनूर्मय्यभूदेषा सा त्व्ययि यथायथं नौ व्रतपते व्रतिनोर्व्रतानीत्यथैनँसँ शास्ति स्रस्नीष्व मेखलां प्र मुष्टी सारय मैत्रावरुणाय दण्डं प्रयच्छ यजमान इति त्वाचक्षतां नामग्राहं ते पितृभिः पितामहैः प्रपितामहैः पुत्रैः पौत्रैः सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्विति

He bends them down towards the south with the formula, “Svadhā to Pitr̥s.”98
He goes out with the formula, “Here may I be free from Varuṇa’s bond.”98 He prays to the Āhavanīya with the formula, “May I gaze at the sun, the light of Vaiśvānara.”98 He makes the sacrificer release the intemediate consecretion with the formula, “O Agni, lord of vows, thou art the lord of vows. May my body that has been in thee be here in me, may thy body which has been in me, be there in thee. O lord of vows, let the vows of us, the observers of vows, be as before.”99 Then he instructs him (the sacrificer) “Do you loosen the girdle, spread out your fists, hand over the staff to the Maitrāvaruṇa; let people address you with the appellation “sacrificer,” let Subrahmaṇya invoke Subrahamaṇyā pronouncing thy name together with the father, grandfather, great grandfather, sons and grandsons.”
विश्वास-प्रस्तुतिः
स एवमेवैतत्सर्वं करोत्यथ यूपाहुतिँहुत्वा यूपं यजुषा करोति
मूलम्
स एवमेवैतत्सर्वं करोत्यथ यूपाहुतिँहुत्वा यूपं यजुषा करोति
English
He (the sacrificer) acts accordingly. Having offered the offering pertaining to the sacrificial post, (the Adhvaryu) prepares the sacrificial post to the accompaniment of the relevant formulas.
विश्वास-प्रस्तुतिः
यूपावटं यजुषा करोति
मूलम्
यूपावटं यजुषा करोति
English
He digs the hole for the post with yajus.
विश्वास-प्रस्तुतिः
तदेतद्यूपावटान्तम् ३१
मूलम्
तदेतद्यूपावटान्तम् ३१
English
This rite goes up to the digging of the hole for the post.
३२
विश्वास-प्रस्तुतिः
अथ यूपस्यावृता यूपमुच्छ्रयति
मूलम्
अथ यूपस्यावृता यूपमुच्छ्रयति
English
(The Adhvaryu) raises the sacrificial post with the procedure for the post.
विश्वास-प्रस्तुतिः
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
मूलम्
स्वर्वन्तं यूपमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
English
After having gone through the procedure for the post ending with (the fixing of) the svaru, he formally dedicates the animal to Agni-Soma.
विश्वास-प्रस्तुतिः
तस्य प्रसिद्धं वपया चरित्वा वपाश्रपणी अनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ यो वीडितः कुम्भस्तं याचति
मूलम्
तस्य प्रसिद्धं वपया चरित्वा वपाश्रपणी अनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ यो वीडितः कुम्भस्तं याचति
English
Having gone through the procedure of offering the omentum in the established manner, having thrown into the fire the two forks of omentum and having moved together, they sprinkle themselves near the Cātavāla. Then (the Adhvaryu) asks for a pitcher which is strong.
विश्वास-प्रस्तुतिः
तमादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति
मूलम्
तमादायान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति
English
Taking it up and having gone out from between the Cātavāla and rubbish heap, they go to that place where they come across waters.
विश्वास-प्रस्तुतिः
नान्तमा वहन्तीरत्येति
मूलम्
नान्तमा वहन्तीरत्येति
English
One does not cross over those flowing waters which are the nearest.
विश्वास-प्रस्तुतिः
न स्थावराणां गृह्णाति
मूलम्
न स्थावराणां गृह्णाति
English
One does not take water from that which is stagnant.
विश्वास-प्रस्तुतिः
प्रतीपं तिष्ठन्गृह्णाति
मूलम्
प्रतीपं तिष्ठन्गृह्णाति
English
He takes water standing against the current.
विश्वास-प्रस्तुतिः
छायायै चातपतश्च सन्धौ गृह्णाति हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माआँविवासति हविष्माँस्तु सूर्य इत्यथैना आदाय प्रदक्षिणमावृत्य सव्येऽँसे निधायैतेनैव यथेतमेत्योत्तरेणाग्नीध्रीयं परीत्योत्तरेण सदः परीत्य पूर्वया द्वारा शालां प्रपाद्य जघनेन गार्हपत्यमौपसदायां वेद्याँ सँस्पृष्टाः सादयत्यग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीः सुम्ने मा धत्तेत्यथ पशुपुरोडाशं निर्वपतीडान्तः पशुपुरोडाशः सन्तिष्ठते

He takes water from the spot marked by the conjunction of shade and light with the verse, “These waters are possessed of oblation, god is possessed of oblation; the sacrifice possessed of oblation serves (the gods). May Sūrya be possessed of oblation.”100 Having taken them, having turned by the right, having held (the pitcher) on the left shoulder, having returned by the same route by which he had gone, having gone around along the north of the Āgnīdhrīya fire, having gone round along the north of the the Sadas, having entered it into the (Pragvaṁśa shed) by the eastern door, he places those waters to the rear of the (new) Gārhapatya in the altar employed for the Upasad sacrifice and touching it, with the formula, “O gracious waters, I set you for favour in the seat of Agni whose house is unharmed. Do you hold me in favour.”100 He offers the Paśupuroḍāśa. The Paśupuroḍāśa sacrifice comes to an end with the (rite of) Iḍā.
विश्वास-प्रस्तुतिः
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येके ३२
मूलम्
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येके ३२
English
The animal-sacrifice comes to an end with the Patnīsaṁyāja offerings. Some teachers say that it ends with the (discarding of) the heart-spike.
३३
विश्वास-प्रस्तुतिः
अथ वसतीवरीः परिहरिष्यन्नाह व्यपक्रामत मा वोऽभिपरिहारिषमिति
मूलम्
अथ वसतीवरीः परिहरिष्यन्नाह व्यपक्रामत मा वोऽभिपरिहारिषमिति
English
While going to carry round the Vasatīvarī waters, (the Adhvaryu) says, “Do you disperse, let me not carry (the waters) around you.”
विश्वास-प्रस्तुतिः
यजमानायतने यजमान उपविशति
मूलम्
यजमानायतने यजमान उपविशति
English
The sacrificer sits in the sacrificer’s seat;
विश्वास-प्रस्तुतिः
जघनेन गार्हपत्यं पत्न्यथैना आदाय दक्षिणया द्वारोपनिर्हृत्य सव्येऽँसे निधाय दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्णियं पर्याहृत्य दक्षिणतो यूपेन सँस्पृष्टाः सादयतीन्द्रा ग्नियोर्भागधेयी स्थेत्यथैना आदायोदङ्ङावृत्य दक्षिणेऽँसे निधायैतेनैव यथेतमेत्य जघनेन गार्हपत्यमौपसदायां वेद्याँसँस्पृष्टाः सादयति मित्रावरुणयोर्भागधेयी स्थेत्यथैना आदाय पूर्वया द्वारोपनिर्हृत्य दक्षिण एवाँसे निधायोत्तरेण सदः परीत्योत्तरेणाग्नीध्रीयं धिष्णियं पर्याहृत्योत्तरतो यूपेन सँ स्पृष्टाः सादयति विश्वेषां देवानां भागधेयी स्थेत्यथैना आदाय प्रदक्षिणमावृत्य सव्येऽँसे निधायैतेनैव यथेतमेत्य जघनेनाग्नीध्रीयं धिष्णियँसँस्पृष्टाः सादयति यज्ञे जागृतेति ३३

the wife to the rear of the Gārhapatya. Having taken the waters, having taken them out by the southern door, having held on the left shoulder, having gone round along the south of the Sadas, having brought them around the south of the Mārjālīya mound, he places them to the south of the sacrificial post and touching it with the formula, “You are the portions of Indra-Agni.”100 Having taken them, having turned towards the north, having held them on the right shoulder and having come back by the same route by which he had gone, he places them to the rear of the (now) Gārhapatya in the altar pertaining to the Upasads and touching it with the formula, “You are the portions of Mitra-Varuṇa.”100 Having taken them up, having gone out by the eastern door, having held the waters on the right shoulder itself, having gone round along the north of the Sadas, having carried along the north of the Āgnīdhrīya mound, he places them to the north of the sacrificial post and touching it with the formula, “You are the portions of Viśve Devas.”100 Having taken them up, having turned by the right, having held them on the left shoulder, and having come back along the same route by which he had gone, he places them to the rear of the Āgnīdhrīya mound and touching it with the formula, “Do you keep awake in the sacrifice.”100
३४
विश्वास-प्रस्तुतिः
अथ पयाँसि विशास्ति या सम्राड्धुक्तस्यै दधिघर्माय दधि कुरुत या यजमानस्य तस्या आमिक्षायै या पत्न्यै तस्या आशिरे पयश्च सक्तूँश्च कुरुत शृतातङ्क्यमादित्यग्रहाय दधि कुरुत पुरोडाशीयानि पिष्टानि कुरुत धाना हारियोजनीः कुरुत चतुरोऽम्भृणाँ स्त्रीनुदचनानयुज एकधनाँस्त्र्यवमानेकादशपरमाँश्चतस्रो रशनाश्चतस्रो वपाश्रपणीर्द्वयमिध्माबर्हिरौदुम्बरान्महापरिधीन्कुरुत सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्विति

(The Adhvaryu) gives instructions concerning the milks (and other oblations etc.): “Do you prepare curds for Dadhigharma (out of the milk) of the cow yielding milk for Pravargya, for Āmikṣā from the milk of the one belonging to the sacrificer; do you procure milk for mixing (with Soma) and for mixture with barley-flour from the milk of the cow of the sacrificer’s wife; prepare curds from milk coagulated when hot for the Āditya cup; prepare flours for cakes, prepare parched barley for the Hāriyojana cup, procure four pitchers, three drawing spoons, Ekadhana pitchers in odd numbers—three in minimum and eleven maximum, four cords, four omentum forks, two sets of sacrificial grass and faggot, and big enclosing sticks of Udumbara; may the Subrahmaṇya invoke Subrahmaṇyā.”
विश्वास-प्रस्तुतिः
यथासम्प्रैषं ते कुर्वन्त्यथैतानम्भृणानायातयत्युत्तरस्य हविर्धानस्य नीड आधवनीयम्प्रौगे पूतभृतं तयोः समान उदचन आग्नीध्र एकँ सोदचनम्मार्जालीय एकँसोदचनम्
मूलम्
यथासम्प्रैषं ते कुर्वन्त्यथैतानम्भृणानायातयत्युत्तरस्य हविर्धानस्य नीड आधवनीयम्प्रौगे पूतभृतं तयोः समान उदचन आग्नीध्र एकँ सोदचनम्मार्जालीय एकँसोदचनम्
English
They act as per instructions. He causes the pitchers to be brought in-the Ādhavanīya pitcher on the seat of the northern Havirdhāna cart, the Pūtabhr̥t pitcher on the poles for the yoke, a common scooping spoon for them, one pitcher together with the scooping spoon in the Āgnīdhra-chamber. One pitcher together with the scooping spoon on the Mārjālīya mound.
विश्वास-प्रस्तुतिः
आग्नीध्र एताँरात्रिं यजमानः संविशति
मूलम्
आग्नीध्र एताँरात्रिं यजमानः संविशति
English
The sacrificer lies down in the Āgnīdhra chamber during this night.
विश्वास-प्रस्तुतिः
हविर्धाने राजानं गोपायन्ति ३४
मूलम्
हविर्धाने राजानं गोपायन्ति ३४
English
King Soma is guarded in the Havirdhāna shed.
-
Sacred fire, water and sun, that is to say, from where one can gaze at the sacred fire, water and the rising sun. (cf. TS VI.2.6). ↩︎
-
cf. TS VI.1.1.3 ↩︎
-
cf. TS III 5.6.1 ↩︎
-
cf. TS I.1.10.1 ↩︎
-
cf. TS I.2.2.1 ↩︎
-
cf. TS I.1.10.1 ↩︎
-
cf. TS III.5.6.1 ↩︎
-
cf. Bhavasvāmin’s bhāṣya: lāṅgalapāśavad baddhā ↩︎
-
cf. TS VI.1.4.3 ↩︎
-
cf. TS III.1.1.2 ↩︎
-
TS VI 1.4.9 ↩︎
-
TS I 2.3.4 ↩︎
-
TS III.5.5.3 ↩︎
-
TĀ III.4 ↩︎
-
cf TS VI. 1.5.3 ↩︎
-
TS I.5.11.4 ↩︎
-
TS I.2.4.2 ↩︎
-
TS VI.1.10.4 ↩︎
-
TS I.2.7.2 ↩︎
-
TS VI.2.1.1 ↩︎
-
TS II 1.11.6 ↩︎
-
First Praśna of the Prājāpatyakāṇḍa according to the Kāṇḍānukrama of TS II.6.4; BaudhŚS 1.11. ↩︎
-
TS I.1.11.2 ↩︎
-
TĀ III.8 ↩︎
-
cf. BaudhŚS IV.5 ↩︎
-
cf. BaudhŚS I.15 ↩︎
-
TS .2.10.2 ↩︎
-
TS III.1.2.2 ↩︎
-
cf. BaudhŚS VI.18 ↩︎
-
TS I.1.11.2 in a modified form ↩︎
-
TĀ III.9 ↩︎
-
cf. BaudhŚS 1.19 ↩︎
-
TS 1.2.11.2 ↩︎
-
The Upasad-offering with the formula, yā te agne rajāśayā….TS 1.2.11.2. ↩︎
-
The Āhavanīya fire in the Prāgvaṁśa shed takes the name Śālāmukhīya after that Āhavanīya fire is carried forth on the Uttaravedi in the Mahāvedi. ↩︎
-
Yūpavaṭīya pin denotes the spot where a hole is dug out for erecting the sacrificial post. ↩︎
-
cf. Footnote to BaudhŚS VI.18 ↩︎
-
cf. TBr. III.7.7.13 ↩︎
-
The Upasad-offering with the formula, yā te agne harāśayā…….. TS 1.2.11.2. ↩︎
-
cf. BaudhŚS IX. 13 ff ↩︎
-
cf. BaudhŚS IV.3 ↩︎
-
TS I.2.13.1 ↩︎
-
TS I.2.13.5 ↩︎
-
TS I.2.13.2 ↩︎
-
See supra ↩︎
-
TS I.2.13.1 ↩︎
-
Respectively of the two carts ↩︎
-
The text has loke nyasya. The word loke needs to be emended as lokam. Bhavasvāmin explains loṣṭam pātayitvā. ↩︎
-
TS I.3.9.2 ↩︎
-
cf. TS. VI.2,10,7 ↩︎
-
TS. I.3.1.2 ↩︎
-
TS. I.3.1.1 ↩︎
-
TBr. II.5.8.12 ↩︎
-
TS. I.3.2.2 ↩︎
-
The place to the north of the Havirdhana shed where the Saman-chanters sit while chanting the Bahiṣpavamāna stotra. ↩︎
-
After the prayer to the Brahmasadana, the Bhār ŚS XII.15.8 adds a prayer to the Sadas with a formula (purīṣyo’si viśvavyacāḥ) borrowed from MS 1.2.12 cf MānŚS II 2.4.8 Āp SS XI.15.1, also prescribes a prayer to the Sadas for which it employs a different formula purīṣyo’si viśvabharāḥ (borrowed from LaṭŚS according to W. Caland, Śrautasūtra des Āpastamba II. p.223). ↩︎
-
The old Gārhapatya fire which will be known as Prājahita. ↩︎
-
TS. I.1.11.1 ↩︎
-
This verse has not been traced so far in Vedic texts. ↩︎
-
cf. TS. VI.3.2.3 ↩︎
-
TS. I.4.43.2 ↩︎
-
TS. I.1.11.2 ↩︎
-
TS. I.3.4.1 ↩︎
-
TS. I.3.4.3 ↩︎