प्रायश्चित्तम्
सर्वत्रोपाँशुप्रभृति वाचस्थानानाँ स्वराक्षरपर्भिदवृत्तभ्रेषेष्व् “आभिर्गीर्भिर्यदतो न ऊनमि"त्येतया स्रुवाहुतिं जुहुयात्।
सर्वत्रानाज्ञातप्रायश्चित्तेष्व् “अनाज्ञातम्पुरुषसंमित इत्येता"भ्याँ स्रुवाहुती जुहुयात्।
सर्वत्रेध्माबर्हिषः प्रयाजानूयाजानां पाकत्राकर्मसु “यत्पाकत्रा मनसे"त्येतया स्रुवाहुतिं जुहुयात्।
सर्वत्र स्कन्ने भिन्ने छिन्ने भग्ने नष्टे क्षामे विपर्यास उद्दाह ऊनातिरिक्ते वा “यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदाद्” इत्येताभ्याँ स्रुवाहुती जुहुयात्सर्वेष्वग्न्युपघातेषु पुनस्त्वादित्या रुद्रा वसवः समिन्धतामित्येतया समिधमादध्यादेतयैव स्रुवाहुतिं जुहुयात्।