०४ श्राद्धप्रयोगः

बोधायनीयश्राद्धप्रयोगः

आचमनावसरः -
आदावन्ते च पाद्ये च आसने विकिरे तथा ।
पिण्डप्रदानकाले च षट्सु चाऽऽचमनक्रिया ॥

आपूर्वविधिः -
आपूर्वे परिधि ब्रह्म प्रणीयेध्मा विकल्पिताः ।
न त्वाघाराज्यभागौ च न जयादिमुखाहुतिः ।
उक्तं विना - सर्वं समानम् ।

आघारविधिः -

इध्मब्रह्मप्रणीतादि आधेन्वन्तं समाचरेत् ।

श्राद्धकारिकाः -
अनुज्ञाकल्पवरणं कल्पाग्निपरिदानकम् ।
अर्घ्यशुद्ध्यावहक्षालवरणार्घ्यप्रदानकम् ।
चन्दनस्वधये पाथं मुखपञ्चस्रुवाहुतिः ।
सोमेत्यन्नमपूपं च चतुर्विंशतिहोमकान् ॥
ब्राह्मणान् भोजयेत् पश्चात् विकिरं पिण्डवायसम् ।
पिण्डदानं ततः कृत्वा जयादि परिषेचनम् ॥

प्रयोगारम्भः

प्रयोगः

पवित्रपाणिः सन्, …. स्वामिनः ! …. स्वीकृत्य । (प्राचीनावीती) …. गोत्रस्य …. शर्मणः … मम पितुः अद्य प्रत्याब्दिकश्राद्धकर्म कर्तुं योग्यतासिद्धिमनुगृहाण । (योग्यतासिद्धिरस्त्विति)।

ओं समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

[[191]]

(उपवीती) ओम् ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥ (त्रिः) ॥

ब्राह्मणान् त्रिः प्रदक्षिणीकृत्य, अक्षतैः - ओम् अस्मिन् मम पितुः प्रत्याब्दिकश्राद्धे पुरूरवार्द्रवसंज्ञकेभ्यः विश्वेभ्यो देवेभ्यो नमः ।

(प्राचीनावीती) तिलैः - वसुरुद्रादित्यस्वरूपेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यो नमः । (उपवीती) अक्षतैः श्राद्धसंरक्षकश्रीमहाविष्णवे नमः । (प्राचीनावीती) अस्मिन् दिवसे …. गोत्रम् …. शर्माणं …. मम पितरमुद्दिश्य प्रत्याब्दिकश्राद्धं कर्तुमुद्युक्तोऽस्मि । तदर्थं मया सम्पादिताः पदार्थाः पक्वाः पच्यमानाः देशकालपात्रादयश्च श्राद्धार्हा भूयासुरिति भवन्तोऽनुगृह्णन्तु ॥

(श्राद्धार्हाः सन्त्विति प्रतिवचनं सर्वे)

(उपवीती उत्तराभिमुखो भूत्वा) श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
प्राचीनावीती - वस्वादींश्च पितॄन् ध्यात्वा ततः श्राद्धं प्रवर्तये ॥
(प्रवर्तय - इति प्रतिवचनम्)

दर्भेष्वासीनः दर्भान् धारयमाणः । प्राणायामत्रयं कृत्वा ॥ (प्राचीनावीती) श्रीमान् वेङ्कट …. पुण्यतिथौ …. गोत्रस्य …. शर्मणः मम पितुः प्रत्याब्दिकश्राद्धं सम्भवता नियमेन सम्भवता प्रकारेण सम्भवद्भिः उपचारैः सम्भवन्त्या शक्त्या सम्भवन्त्या दक्षिणया पार्वणविधानेन सदैवं करिष्ये ।

[[192]]

श्राद्धाङ्गपुण्याहवचनम्

प्रयोगमालायां श्राद्धाङ्गपुण्याहवचनम्

दर्भान् निरस्य (उपवीती) अप उपस्पृश्य पुनः दर्भान् धारयमाणः – अद्य पूर्वोक्त…. पुण्यतिथौ … गोत्रस्य …. शर्मणः पितुः प्रत्याब्दिकश्राद्धकर्माङ्गं गृह - भू – भाण्ड - कर्तृ - भोक्तृ - स्थल - आत्म - सर्वोप - करणशुद्ध्यर्थं शुद्ध्यर्थपुण्याहवाचनं करिष्ये ॥ दर्भान् निरस्य अप उपस्पृश्य अग्नेरुत्तरतः स्थण्डिलं कल्पयित्वा स्थण्डिलोपरि प्रस्थमितं तण्डुलं प्रक्षिप्य उल्लिख्य प्रागग्रान् दर्भान् संस्तीर्य तेषूपरि कुम्भं प्रतिष्ठाप्य कुम्भमलङ्कृत्य वरुणमावाह्य,

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय ।
त्वाम॑व॒स्युरा च॑के ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बोद्ध्युरु॑शँस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ [[TODO:परिष्कार्यम्??]]

अस्मिन् कुम्भे वरुणं ध्यायामि - वरुणम् आवाहयामि । वरुणाय नमः । आसनादिनिवेदनान्तं कृत्वा - सर्वोपचारान् समर्पयामि । पुण्याहवाचनजपकर्मणि सर्वेभ्यो ब्राह्मणेभ्यो नमः । ओं भवद्भिः अनुज्ञातः पुण्याहं वाचयिष्ये । ओं वाच्यताम् ॥ ओम् आपः - शिवापः सन्तु । ओं गन्धाः सुगन्धाः पान्तु ॥ ओं सुमनसः - सौमनस्यमस्तु ॥ ओम् अक्षतम् - अक्षतं चारिष्टं चास्तु ॥ ओम् अन्वाहार्यः स्वन्वाहार्योऽस्तु ॥ ओं दक्षिणाः - स्वस्ति दक्षिणाः सन्तु ॥ बहुदेयम् - अस्तु ॥ उदकुम्भं धारयन्

इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शँसिष॒द्विश्वे॑दे॒वाः सू॑क्त॒वाचः॒ पृथि॑वि मात॒र्मा मा॑ हिँसीर्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मु॒द्यासँ शुश्रूषेण्या॑ मनु॒ष्ये॑भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै पि॒तरोऽनु॑मदन्तु ॥ [[TODO:परिष्कार्यम्??]]

[[193]]

ओं मनः समाधीयताम् । समाहितमनसः स्मः ॥ प्रसीदन्तु भवन्तः - प्रसन्नाः स्मः ॥ शान्तिः - अस्तु ॥ पुष्टिः - अस्तु ॥ तुष्टिः अस्तु ॥ वृद्धिः अस्तु ॥ अविघ्नम् - अस्तु ॥ आयुष्यम् - अस्तु ॥ आरोग्यम् - अस्तु ॥ धनधान्यसमृद्धिः - अस्तु ॥ गोब्राह्मणेभ्यः शुभं - भवतु ॥ (ऐशान्यां बहिर्देशे) अरिष्टनिरसनम् - अस्तु ॥ (आग्नेय्यां) यत् पापं - तत् प्रतिहतमस्तु - अस्तु ॥ सर्वाः सम्पदः सन्तु ॥ पुण्याहकालः । पुण्याहं वाच्यताम् ॥

यत् पुण्यं॒ नक्ष॑त्रम् । तत् बट्कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒दे॒ति॑ । अथ॒ नक्ष॑त्र॒न्नैति॑ । याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् । यत्र॑ जघन्यं॑ पश्ये॑त् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ॥ [[TODO:परिष्कार्यम्??]]

ओं पुण्याहं भवन्तो ब्रुवन्तु । (ओं पुण्याहम्)

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । [[TODO:परिष्कार्यम्??]] ओं स्वस्ति भवन्तो ब्रुवन्तु । (ओं स्वस्ति ॥)

ऋध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नूरा॒धान् ह॒विषा॑ वर्धय॑न्तः । शतं जी॒वेम श॒रद॒स्सवी॑राः ॥ [[TODO:परिष्कार्यम्??]]

ओम् ऋद्धिं भवन्तो ब्रुवन्तु - (ओम् ऋध्यताम् ॥) ओम् ऋद्धिः - समृद्धिः । पुण्याहम् - समृद्धिः । शुभं कर्मास्तु । प्रजापतिः प्रीयताम् - (अस्तु प्रीयतां भगवान् प्रजापतिः ।) ओं शान्तिः शान्तिः शान्तिः ॥

[[194]]

पुण्याहवाचन-मन्त्राः

पुण्याहवाचनमन्त्राः

दधिक्राव्ण्णो …. च नः । हिरण्यवर्णाः - नि धत्त । पवमानः …. पुनातु । (पु. ४-६)

ओं भूर्भुव॒स्सुवः॑ ॥ तच्छं॒य्यो रावृ॑णीमहे । गा॒तुं य॒ज्ञा॑य । गा॒तुं य॒ज्ञप॑तये । दैवी॑ स्व॒स्तिर॑स्तु॒ नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वञ्जि॑गातु॒ भेष॒जम् । शन्नो॑ अस्तु॒ द्वि॒पदे॑ । शञ्चतु॑ष्पदे ॥ ओं शान्ति॒श्शान्ति॒शान्तिः॑ ॥ [[TODO:परिष्कार्यम्??]]

वरुणाय नमः । सर्वोपचारान् समर्पयामि । तत्त्वायामि …… प्रमोषीः । (पु. ४) अस्मात् कुम्भात् आवाहितं वरुणं यथास्थानं प्रतिष्ठापयामि । पुण्याहजलेन यजमानं भोक्तारं श्राद्धदेशं सर्वोपकरणानि च प्रोक्षेत् । देवस्य त्वा (पु. ६-७) इति मन्त्रेण,

द्र॒प॒दादि॒वेन्मु॑मु॒चा॒नः । स्वि॒न्नस्स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य॑म् । आप॑श्शुन्धन्तु॒ मैन॑सः । भूर्भुव॒स्सु॒वो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ ॥ इति मन्त्रेण च प्रोक्ष्य,

(वास्तो॑ष्पते॒ प्रति॑जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शन्न॑ ए॒धि द्वि॒पदे॒ शञ्चतु॑ष्पपदे ॥ वास्तो॑ष्पते श॒ग्मया॑ सँ॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गा॒तु॒मत्या॑ । आवः॒ क्षेम॑ उ॒त योगे॒ वर॑न्नो यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ शि॒वँ॒ शि॒वम् ॥ ) [[TODO:परिष्कार्यम्??]]

भूर्भुवः सुवः (त्रिः) - सर्वोपकरणानि प्रोक्ष्य, पवित्रं विस्रस्य - आचम्य ।

[[195]]

ब्राह्मणासनादि

बोधायनीयश्राद्धप्रयोगः ॥ ब्राह्मणानाम् आसनादि दद्यात् ॥

…. गोत्रस्य …. शर्मणः मम पितुः अद्य (….) अस्मिन् प्रत्याब्दिकश्राद्धे पुरूरवार्द्रसंज्ञकानां विश्वेषां देवानाम् इदमासनम् । (स्वासनम्) अपः प्रदाय - पुरूरार्द्रवसंज्ञकविश्वेदेवार्थे भवता क्षणः कर्तव्यः । प्राप्नोतु भवान् । (प्राप्नुवामि) सकलाराधनैः स्वर्चितम् ॥

(प्राचीनावीती) वसुरुद्रादित्यस्वरूपाणाम् अस्मत्पितृपितामहप्रपितामहानामिदमासनम् । (स्वासनम्) अपः प्रदाय …. गोत्रस्य …. शर्मणः …. मम (पितुः) अद्य अस्मिन् प्रत्याब्दिकश्राद्धं भविष्यति - तत्र वसुरुद्रादित्यस्वरूपेभ्यः अस्मत्पितामहप्रपितामहेभ्यो भवता क्षणः कर्तव्यः । प्राप्नोतु भवान् । (प्राप्नुवामि) । सकलाराधनैः स्वर्चितम् ॥

विश्वेदेवाः! अयं वः कृसरः, ताम्बूलम्, अभ्यञ्जनं, स्नानीयम् ।

प्राचीनावीती - वसुरुद्रादित्यस्वरूप अस्मत् पितृपितामहप्रपितामहाः ! अयं वः कृसरः, ताम्बूलम्, अभ्यञ्जनं, स्नानीयम् ।

शुचौ देशे प्रस्थचतुष्टयमिताभिः दर्भानादाय - सिकताभिः चतुरश्रं स्थण्डिलं - कल्पयित्वा, तन्मध्ये उल्लिख्य, दर्भानादाय

[[196]]

‘ब्रह्मजज्ञानमिति; / दक्षिणतः प्राचीनं नाके सुपर्णमिति; / उत्तरतः प्राचीनम् आप्यायस्व समेतु ते इति; / मध्यादुदीचीनम् - यो रुद्रो अग्नौ - इति/ अप उपस्पृश्य; पश्चादुदीचीनम् इदं विष्णुर्विचक्रमे इति; / पुरस्तादुदीचीनम् इन्द्रं विश्वा अवीवृधन् इति / अद्भिः अभ्युक्ष्य, शकलं निरस्य, स्थण्डिलस्य मध्ये प्रागग्रान् दर्भान् सँस्तीर्य - देवस्य त्वा - इति अग्निमानीय अग्निस्थापनदेशम्, अग्ने इदमासनं गन्धपुष्पाक्षतैः सकलाराधनैः सकलाराधनैः[[??]] स्वर्चितमिति कृत्वा ‘भूर्भुवस्सुवरोम्’ इत्यग्निं प्रतिष्ठाप्य अग्निमुपसमाधाय - त्रीणि काष्ठानि स्वाहाति[[हे??]] निधाय (अग्नय इदं न मम) त्रिः । दक्षिणान् अधरान् उत्तरान् उत्तरान् [[??]] । पात्रोत्तरासनम् । प्रणीतोत्तरासनं ब्रह्मदक्षिणासनम् । एकैकशः पात्रसादनम्, आज्यस्थालीं स्रुवं जुहूं प्रणीतां चरुस्थालीं प्रोक्षणीम् इध्मा बर्हिः इध्मप्रवृश्चनानि मेक्षणञ्च सादयित्वा । पवित्रीकरणम् । प्रोक्षणीसँस्कारः । प्रोक्षणीपात्रमादाय । तिरःपवित्रम् अन्तर्धाय अक्षतैः सह अपः अवसिच्य, त्रिरुत्पूय, पात्राण्युत्तानानि कृत्वा, त्रिः प्रोक्ष्य, प्रोक्षणीशेषं दक्षिणतो निधाय, प्रणीतापात्रमादाय -

अथ ब्रह्मवरणम् । दर्भेषु दक्षिणतः ब्रह्माणमुपवेशयति । तं गन्धादिभिरभ्यर्च्य । तमुपतिष्ठते । भूर्भुवः सुवरोम् ।

ब्रह्मन्! ब्रह्मासि । नमस्ते ब्रह्मन्! ब्रह्मणे उपरि - ओम् - अस्मिन् मम पितुः प्रत्याब्दिक-श्राद्धीयपार्वणहोमकर्मणि ब्रह्माणं त्वां वृणीमहे । (‘वृतोऽस्मि - करिष्यामि’ इति ब्राह्मणोक्तिः ।) ब्रह्मणे नमः - सकलाराधनैः स्वर्चितम् । ततः प्रणीताप्रणयनम् । अक्षतैः सह । अप आसिच्य त्रिरुत्पूय - हस्ताभ्यां समं प्राणैर्हत्वा पुरतो निधाय

[[197]]

‘वरु॑णोऽसि । धृ॒तव्र॑तो वारु॒णम॑सि’ । [[TODO:परिष्कार्यम्??]] इति उत्पूय । उत्तरेणाग्निं दर्भेषु सादयित्वा - दर्भैः प्रच्छाद्य - वरुणाय नमः - सकलाराधनैः स्वर्चितम् ॥

चरुनिर्वापणम्

अथ चरुनिर्वापणम् ॥

पि॒तृभ्यो॑ वो॒ जुष्टं॒ निर्व॑पामि। (त्रिः) । पि॒तृभ्यो॑ वो॒ जुष्ट॑मधि॑श्रयामि । (त्रिः) पि॒तृभ्यो॑ वो॒ जुष्टं प्रोक्ष्या॑मि ॥ [[TODO:परिष्कार्यम्??]]

स्रुवेण प्रणीताजलम् एकदेशमानीय चरुपात्रे चरोर्निनयति । अग्नावधिश्रित्य - पवित्रम् आज्यपात्रे निधाय - अथ आज्यं निर्वपति - आज्यस्थाल्याम् आज्यं निरुप्य उदीचोऽङ्गारान् निरूह्य तेष्वधिश्रित्य - अभिद्योतनेनाभिद्योत्य - द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य, प्रत्यस्य, पुनरभिद्योत्य - त्रिरुभयं पर्यग्निकृत्वा - वर्त्म कुर्वन् उदगुद्वास्य, प्रत्यूह्य अङ्गारान्, बर्हिरास्तीर्य बर्हिष्याज्यं निधाय - उदगग्राभ्यां पुनराहारम् आज्यं त्रिरुत्पूय - विस्रस्य पवित्रे अद्भिः संस्पृश्य अग्नावनुप्रहरति ॥ स्रुवं जुहूं मेक्षणं च निष्टप्य दर्भैः संमृज्य - पुनर्निष्टप्य प्रोक्ष्य निधाय - दर्भान् अद्भिः संस्पृश्याग्नौ प्रहरति ॥

(प्राचीनावीती) चरुमभिघार्य - उदञ्चमुद्वास्य - अभिघार्य किञ्चिदुत्तरतः उद्वास्य - प्रतिष्ठितमभिघार्य - दर्भेष्वासने चरुं निधाय - परिधिपरिधानं कृत्वा (स्थविष्ठो मध्यमः - पुरतः, अणीयान् द्राघीयान् दक्षिणार्ध्यः - अणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः उपवीती द्वे आघारसमिधौ मध्यमं परिधिमुपस्पृश्य दक्षिणमुत्तरमादधाति ॥)

[[198]]

अथार्घ्यग्रहणम् ॥ अग्नेर्दक्षिणतः अर्घ्यग्रहणार्थं पात्रमेकं निधाय, (प्राचीनावीती) देवानामनुज्ञया पित्रॄणामर्चनं करिष्ये ॥ (कुरुष्व ॥ ) तिलान् विकीर्य अर्घ्यपवित्रं पात्रे निधाय - अन्यस्मिन् पात्रे गन्धोदकमादाय - अर्घ्यमात्रं स्पृष्ट्वा ।

पत्नी स्वयं वा आनयन्नाह -

‘आम आगच्छन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णान् अस्मिन् यज्ञे सर्वकामान् लभन्ते अक्षय्यमाणम् उपदुह्यन्ताम् ॥

पितृपितामहप्रपितामहेभ्योऽपोवोऽर्घ्यं गृह्णामि ।

तिलोसि सोमदेवत्यः । गोसवो देवनिर्मितः । प्रत्नवद्भिः प्रत्नवद्भिः प्रत्तस्वध एहि इमान्लोकान् प्रीणयाहि नः स्वधा नमः ॥ तिलं दत्त्वा

मधु॒ वाता॑ ऋ॒ताय॒ते मधु॑ क्षर॑न्ति॒ सिन्ध॑वः । माद्ध्वी॑र्नस्स॒न्त्वोष॑धीः ॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माद्ध्वीर्गावो॑ भवन्तु नः ॥ [[TODO:परिष्कार्यम्??]]

सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयाद॒मृत॑मसि मृ॒त्योर्मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवे॑ष्टा दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥ [[TODO:परिष्कार्यम्??]]

इति नैरुऋत्यां दिशि निरस्यति । पुनरेवाभिमृशति ।

[[199]]

‘शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥” [[TODO:परिष्कार्यम्??]]

गन्धादिभिरभ्यर्च्य । पुष्पैरवकीर्य । औदुम्बरपर्णेन पिधाय । दर्भेषु सादयित्वा । दर्भैः प्रच्चाद्य ॥

भोजनस्थाने स्थलशुद्धिः -

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्रस्थपु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दं य॒मोऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो लो॒कम॑स्मै ॥ [[TODO:परिष्कार्यम्??]]

तीर्थमुद्धृत्य, अवोक्ष्य,

अप॑हता॒ असु॑रा॒ ...{Loading}...

अप॑हता॒ असु॑रा॒ रक्षाँ॑सि
पिशा॒चा ये क्षय॑न्ति पृथि॒वीम् अनु॑ ।
अ॒न्यत्रेतो॑ गच्छन्तु॒ यत्रैषां॑ गतं॒ मनः॑ ॥

इति सिकतान् (अक्षतान्?) विकीर्य ।

०१ उदीरतामवर उत्परास ...{Loading}...

उ᳓द् ईरताम् अ᳓वर उ᳓त् प᳓रास
उ᳓न् मध्यमाः᳓ पित᳓रः सोमिया᳓सः
अ᳓सुं य᳓ ईयु᳓र् अवृका᳓ ऋतज्ञा᳓स्
ते᳓ नो अवन्तु पित᳓रो ह᳓वेषु

इति तिलान् विकीर्य

(उपविती)

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ । (त्रिः)

[[200]]

आवाहनम्

॥ अथ आवाहनम् ॥

पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान् भवत्सु आवाहयिष्ये। (आवाहय)

विश्व॑दे॒वाश्शृणु॒तेमँ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा यज॑त्रा आ॒सद्या॒स्मिन्बर्हिर्षि॑ मादयध्वम् ॥ [[TODO:परिष्कार्यम्??]]

(आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये अत्र विहिताश्श्राद्धे सावधाना भवन्तु ते ॥)

… गोत्रस्य ……….शर्मणः पितृभूतस्य मम पितुः अद्यास्मिन् प्रत्याब्दिकश्राद्धे पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान् भवत्सु आवाहयामि

(आवाहितोऽस्मि)

“विश्वेषां देवानां सयवम् इदमासनम्”

हस्ते अपः प्रदाय, …. गोत्रस्य ….शर्मणः पितृभूतस्य मम पितुः अद्यास्मिन् प्रत्याब्दिकश्राद्धे पुरूरवार्द्रवसंज्ञकविश्वदेवार्थे भवता क्षणः कर्तव्यः । प्राप्नोतु भवान् । (प्राप्नुवामि) ॥

प्राचीनावीती - वसुरुद्राऽऽदित्यस्वरूपान् अस्मत्पितृपितामहप्रपितामहान् भवत्सु आवाहयिष्ये । (आवाहय) ।

१२ उशन्तस्त्वा नि ...{Loading}...

उश᳓न्तस् त्वा नि᳓ धीमहि
उश᳓न्तः स᳓म् इधीमहि
उश᳓न्न् उशत᳓ आ᳓ वह
पितॄ᳓न् हवि᳓षे अ᳓त्तवे

[[201]]

आया॑त पितरस्सो॒म्या ग॑म्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम॒स्मभ्यं॑ ददतो र॒यिञ्च॑ दीर्घायु॒त्वं च॑ श॒तशा॑र॒दं च ॥

… गोत्रस्य …. शर्मणः पितृभूतस्य मम पितुः अद्य अस्मिन् पार्वणविधानेन प्रत्याब्दिकश्राद्धे वसुरुद्रादित्यस्वरूपान् अस्मत्पितृपितामहप्रपितामहान् भवत्सु आवाहयामि ।

वसुरुद्रादित्यस्वरूपाणाम् अस्मत्पितृपितामहप्रपितामहानां इदमासनम् ।

हस्ते अपः प्रदाय । वसुरुद्रादित्यस्वरूपाणाम् अस्मत्पितृपितामहप्रपितामहानां स्थाने आहवनीयार्थे भवता क्षणः कर्तव्यः । प्राप्नोतु भवान् । (प्राप्नुवामि) ॥

उपवीती - श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णुं भवत्सु आवाहयामि । (आवाहय)

स॒हस्र॑शीर्षा॒ पुरु॑षः । सह॒स्रा॒क्षस्स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥

‘अस्मिन् मम पितुः प्रत्याब्दिकश्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णुं भवत्सु आवाहयामि’ (आवाहितोऽस्मि) महाविष्णोरिदमासनम् । हस्ते अपः प्रदाय श्राद्धे श्राद्धसंरक्षकश्रीमहाविष्ण्वर्थे भवता क्षणः कर्तव्यः । प्राप्नोतु भवान् । (प्राप्नुवामि) ॥

क्षालनस्थलं गत्वा - पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां पाद्यस्थाने इदमासनम् । पाद्यस्थाने अयं कूर्चः । गन्धाक्षतपुष्पधूपदीपैः सकलासरधनैः स्वर्चितम् ।

[[202]]

(प्राचीनावीती) वसुरुद्रादित्यस्वरूप-अस्मत्पितृपितामह-प्रपितामहानां पाद्यस्थाने इदमासनम्; पाद्यस्थाने अयं कूर्चः । तिलगन्धपुष्णधूपदीपैः सकलाराधनैः स्वर्चितम् । (उपवीती) विष्णोः पाद्यस्थाने इदमासनम् । अयं कूर्चः । प्रत्याब्दिकश्राद्धे पुरूरवाद्रवसंज्ञकाः विश्वेदेवाः ! स्वागतम् (सुस्वागतम्) पवित्रं कर्णे निधाय । इदं वः पाद्यम् ॥ (सुपाद्यम्) ।

पवित्रं कर्णे निधाय, शुक्र॑मसि॒ ज्योति॑रसि॒ तेजो॑सि
इति पादद्वयम् अधस्तात् आज्येन उपलिप्य

गन्ध॑द्वरां दु॑राध॒र्षां॑ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

पादद्वयं गोमयेन उपलिप्य

क्षालनमन्त्रः

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥ [[TODO:परिष्कार्यम्??]]

ओं समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

आधिव्याधिहरं नॄणां मृत्युदारिद्र्यनाशनम् ।
श्रीपुष्टिकीर्तिदं वन्दे विप्रश्रीपादपङ्कजम् ॥

विप्रौघदर्शनात् सद्यः क्षीयन्ते पापराशयः ।
वन्दनान्मङ्गलावाप्तिः अर्चनादच्युतं पदम् ॥

हस्तौ प्रक्षाल्य, पवित्रं धृत्वा (प्राचीनावीती) ‘… गोत्रस्य …. शर्मणः पितृभूतस्य मम पितुः अद्य अस्मिन् प्रत्याब्दिकश्राद्धे वसुरुद्रादित्यस्वरूप अस्मत्पितृपितामहप्रपितामहाः! स्वागतम् (सुस्वागतम्) । अपठितः इदं वः पाद्यम् । सुपाद्यम् ।

[[203]]

पवित्रं कर्णे निधाय, शुक्र॑मसि॒ ज्योति॑रसि॒ तेजो॑सि [[TODO:परिष्कार्यम्??]]

इति पादद्वयम् अधस्तात् आज्येन उपलिप्य

गन्ध॑द्वा॒रां दु॑राध॒र्षां॑ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूतानां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ [[TODO:परिष्कार्यम्??]]

पादद्वयं गोमयेन उपलिप्य

क्षालनमन्त्रः

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पीतये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥ [[TODO:परिष्कार्यम्??]]

आपद्घ्नध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थाम्बुपवित्रमूर्तयः पुनन्तु मां ब्राह्मणपादपांसवः ॥

आधिव्याधिहरं नॄणां मृत्युदारिद्र्यनाशनम् ।
श्रीपुष्टिकीर्तिदं वन्दे विप्रश्रीपादपङ्कजम् ॥

विप्रौघदर्शनात् सद्यः क्षीयन्ते पापराशयः ।
वन्दनान्मङ्गलावाप्तिः अर्चनादच्युतं पदम् ॥

हस्तौ प्रक्षाल्य, पवित्रं धृत्वा

भोक्ता - मयि महो, मयि भगो, मयि भर्गो, मयि यशः ।

(उपवीती) कर्ता - अस्मिन् मम पितुः प्रत्याब्दिकश्राद्धे श्राद्धसंरक्षकश्रीमहाविष्णो! स्वागतम् । अपवित्रः इदं ते पाद्यं

पवित्रं कर्णे निधाय, शुक्र॑मसि॒ ज्योति॑रसि॒ तेजो॑सि

इति पादद्वयम् अधस्तात् आज्येन उपलिप्य

गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भू॒ता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ [[TODO:परिष्कार्यम्??]]

पादद्वयं गोमयेन उपलिप्य

[[204]]

क्षालन मन्त्रः

‘शं नो॑ देवीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥’ [[TODO:परिष्कार्यम्??]]

ओं समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

आधिव्याधिहरं नॄणां मृत्युदारिद्र्यनाशनम् ।
श्रीपुष्टिकीर्तिदं वन्दे विप्रश्रीपादपङ्कजम् ॥

विप्रौघदर्शनात् सद्यः क्षीयन्ते पापराशयः ।
वन्दनान्मङ्गलावाप्तिः अर्चनादच्युतं पदम् ॥

हस्तौ प्रक्षाल्य, पवित्रं धृत्वा । तद्विष्णोः॑ पर॒मं प॒दँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाँ स॒स्समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ॥ [[TODO:परिष्कार्यम्??]]

द्विराचामेत् । आचमनं कारयेत् ।
(मण्डलात् पुरतो देवाः पितृदेवास्तदुत्तरे ।
कर्ता चेशानतः कुर्यात् एतेष्वाचमने विधिः ॥)

वरणम् ॥ विश्वेषां देवानाम् इदमासनम् । प्राप्नोतु भवान् ।

(प्राचीनावीती) पितृपितामहप्रपितामहानामिदमासनम् । प्राप्नोतु भवान् ॥

(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णोः इदमासनम् ॥ प्राप्नोतु भवान् ।

[[205]]

अर्घ्यदानम्

॥ अथ अर्घ्यदानम् ॥

विश्वेदेवाः! इदं वो अर्घ्यम् । ततः शुद्धोदकम् ।

(प्राचीनावीती) ब्राह्मणस्य हस्ते शुद्धोदकं दत्वा - पवित्रं हस्ते निधाय अर्घ्यजलमादाय’

. …. गोत्रस्य… शर्मणः पितृभूतस्य मम पितुः अद्य अस्मिन् प्रत्याब्दिकश्राद्धे …. गोत्रेभ्यः …. शर्मभ्यः वसुरुद्रादित्यस्वरूपेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यः इदं वो अर्घ्यं स्वधा नमः

इति दत्त्वा, (अस्तु स्वधा) पुनः शुद्धोदकं प्रदाय ।

(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णो इदं ते अर्घ्यम् ।

उपचारादि

उपचारादि-अलङ्काराः

ततः शुद्धोदकं प्रदाय । पुरूरवार्द्रसंज्ञकाः विश्वेदेवाः!

युवा॑ सु॒वासाः॒ परी॑वीत॒ आगा॑त् । स उ॒ श्रेया॑न्भवति जाय॑मानः ।
तं धीरा॑सः क॒वय॒ उन्न॑यन्ति । स्व॒धियो॒ मन॑सा देव॒यन्तः॑ ॥ [[TODO:परिष्कार्यम्??]]

आच्छादनार्थम् इदं वस्त्रम्, उत्तरीयम् । धारणार्थम् इदं यज्ञोपवीतं,

गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूतानां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ [[TODO:परिष्कार्यम्??]]

अलङ्करणार्थे अमी वो गन्धाः

[[206]]

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।
अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥ [[TODO:परिष्कार्यम्??]]

इमे अक्षताः ।

आय॑ने ते परा॒य॑णे दूर्वा॑ रोहन्तु पुष्पिणीः॑ ।
हृ॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥ [[TODO:परिष्कार्यम्??]]

इमानि पुष्पाणि, तुलसीदलानि च ।

धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॑ऽस्मान्धूर्व॑ति॒ तं
धू॑र्व॒ यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि ॥ [[TODO:परिष्कार्यम्??]]

आघ्राणार्थम् अयं वो धूपः

उदी॑प्यस्व जातवेदोप॒घ्नन् निर्ऋतिं॒ मम॑ ।
प॒शूँश्च॒ मह्य॒माव॑ह॒ जीव॑नञ्च॒ दिशो॑ दश ॥ [[TODO:परिष्कार्यम्??]]

‘अवलोकनार्थम् अयं वो दीपः’

नीराजनम्

सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑न॒म्पुन॑स्सु॒वन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ॥ [[TODO:परिष्कार्यम्??]]

[[207]]

(पाठान्तरम् - गन्धद्वारां…. श्रियम् । विश्वे देवाः अलङ्करणार्थे भागशः अमी वो गन्धाः । आय॑ने ते प॒रा॒य॑णे दूर्वां॑ रोहन्तु पुष्पिणीः॑ । हृ॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑गृ॒हा इ॒मे ॥ तुलसीदलानि च । धूरसि … असि । उदकेनैव सङ्कल्पितो वो धूपः । उद्दीप्यस्व …. परिपातय । ज्वालाभेदेन सूर्यस्थितमिदं वो ज्योतिः । युवा … यन्तः । आच्छादनार्थम् इदं वस्त्रयुग्मम् । पवित्रार्थम् इमौ दर्भौ । शेषोपचारार्थे इमे अक्षताः । सकलाराधनैः स्वर्चितम् । )

(प्राचीनावीती) पितृपितामहप्रपितामहाः ! वस्त्रयज्ञोपवीत-उत्तरीयाभरणार्थम् इमे तिलाः । अलङ्कारणार्थे भागशः अमी वो गन्धाः तुलसीदलानि च । पुष्पधूपदीपैः सकलाराधनैः स्वर्चितम् ॥

(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णोरण्ये[[??]]वमेव वस्त्राद्युपचारान् कुर्यात् ॥ नीराजनं - सोमो वा एतस्य …. भवति ।)

(प्राचीनावीती) पितृवरणब्राह्मणस्य हस्ते शुद्धोदकं दत्वा - अर्घ्यपात्रस्थितं पवित्रं ब्राह्मणस्य हस्ते निधाय - अर्घ्यजलं किञ्चिदादाय,

अस्मिन् मम पितुः प्रत्याब्दिकश्राद्धे … गोत्रेभ्यः …. शर्मभ्यः पितृपितामहप्रपितामहेभ्यः इयं वः स्वधा

इत्युक्त्वा, पुनः शुद्धोदकं प्रदाय, पवित्रं पात्रे निधाय पितृपितामहप्रपितामहाः! शेषोपचारार्थे इमे तिलाः । सकलाराधनैः स्वर्चितम् ॥

पितृपितामहप्रपितामहाः! अन्नमग्नौ करिष्यामि । उद्ध्रियताम् अग्नौ च क्रियताम् (काममुद्ध्रियतां काममग्नौ च क्रियताम् इति प्रतिवचनम्)

ये पार्थि॑वासः पि॒तरो॒ ये अ॒न्तरि॑क्षे ये दि॒व ये वा मृता॑ ब॒भूवुः । ते अ॒स्मिन् य॒ज्ञे सम॑वयन्ताम् ॥ [[TODO:परिष्कार्यम्??]]

[[208]]

(उपवीती) इन्द्राय नमः, यमाय नमः, वरुणाय नमः, सोमाय नमः, अग्नये नमः, निर्ऋत्यै नमः, वायवे नमः, ईशानाय नमः । अग्नये नमः आत्मने नमः सर्वेभ्यः श्रीवैष्णवेभ्यो नमः । अग्निं समन्तम् अप्रदक्षिणं परिषिच्य, इध्ममाधाय, इध्मसन्नहनशुल्बमनूयाजसमिधञ्च वरुणपात्रे निधाय, अथ इध्मम् अभ्यज्य, अस्मिन् मम पितुः प्रत्याब्दिकश्राद्धीयपार्वणहोमकर्मणि ब्रह्मन् इध्माधास्ये । (आधत्स्व इति ब्रह्मणो वचनम् ।) स्वाहा । प्रजापतिं मनसा ध्यायन् आघारावाघारयति-वायव्यादाग्नेयान्तं जुहोति । प्रजापतये स्वाहा इति । (प्रजापतय इदं न मम ।) निर्ऋत्या ईशानान्तम् - इन्द्राय स्वाहा - इति उपांशु; (इन्द्रायेदं न मम ।) अग्नये स्वाहा । (अग्नय इदं न मम) । सोमाय स्वाहा । (सोमायेदं न मम) ॥

अग्निमुखम्

अग्निमुखम्

युक्तो वह जातवेदः पुरस्तादने विद्धि कर्म क्रियमाणम् ।
यथेदन्त्वं भिषक् भेषजस्याधिकर्ता त्वयागा अश्वान् पुरुषान्त्सनेमि स्वाहा ॥

अग्नये जातवेदस..

चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नय॑ इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन् ।
घृ॒तं पिन्व॑न्न॒जरँ सु॒वीरं॒ ब्रह्म॑ स॒मिद्भि॑व॒त्याहु॑तीनाँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]

घृतं पिन्वने ब्रह्मण इदं न मम ।

आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा सद॒मिद्वृ॒धे अस॒न्न प्रा॑युवो रक्षि॒ता॑रो दि॒वेदि॑वे॒ स्वाहा ॥ [[TODO:परिष्कार्यम्??]]

(अप्रायुभ्यो रक्षितृभ्यो देवेभ्य इदं न मम ।)

[[209]]

विरूपाक्ष मा विबाधिष्ठा मा विबाध विबाधिताः । निर्ऋत्यै त्वा पुत्रमाहुस्स नः कर्माणि साधय स्वाहा । निरृतिपुत्राय विरूपाक्षायेदं न मम ।

विरूपाक्षमहं यजे निजंघँ शबलोदरम् ।
यो मायुं परिबाधते श्रियै पुष्ट्यै च नित्यदा तस्मै स्वाहा ॥

निजङ्घाय शबलोदरायेदं न मम (मायुं परिबाधमानायेदं न मम ।)

या ति॒रश्ची॑ नि॒पद्य॑से॒ऽहं विधर॑णी॒ इति॑ ।
तान्त्वा॑ घृ॒तस्य॒ धार॑या॒ग्नौ सँराध॑नीं य॒जे स्वाहा ॥ [[TODO:परिष्कार्यम्??]]

(धार॑या यजे॑ सँराध॑नीम॒हम् ।) [[TODO:परिष्कार्यम्??]]

तिर्यङ्निपद्यमानायै विधरण्यै सँराधन्या इदम् । (अग्नये सँराधन्या इदं न मम ।)

सँ॒राध॑न्यै दे॒व्यै स्वाहा॑ ॥ सँराधन्यै देव्या इदं न मम । [[TODO:परिष्कार्यम्??]]

प्रसाध॑न्यै दे॒व्यै स्वाहा॑ ॥ प्रसाधन्यै देव्या इदं न मम । [[TODO:परिष्कार्यम्??]]

ओं भूस्स्वाहा॑ । (अग्नय इदं न मम) ।
ओं भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम) ।
ओँ सुव॒स्स्वाहा॑ । (सूर्याय इदं न मम) ।
ओं भूर्भुव॒स्सु॒व॒स्स्वाहा॑ । (प्रजापतय इदं न मम) ।

चरुस्कन्नप्रायश्चित्तं करिष्ये ॥ अग्नये स्वाहा ॥ (अग्नय इदं न मम) । यमाय स्वाहा ॥ (यमायेदं न मम) । वरुणाय स्वाहा । (वरुणायेदं न मम) । सोमाय स्वाहा ॥ (सोमायेदं न मम) ।

[[210]]

नियमलोमप्रायश्चित्तार्थम् अव्रत्य प्रायश्चित्तहोमं करिष्ये । चतुर्गृहीतेन आज्येन त्वम॑ग्ने॒ व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॒स्स्वाहा॑ ॥ (अग्नये व्रतपतय)

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा॑न्देवा॒ अवि॑दु॒ष्टरासः ।
अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्देवाँ ऋतुभिः॑ कल्पया॑ति॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये व्रतपतय इदं न मम)

आप्या॑यस्व॒ समे॑तु॒ ते वि॒श्वत॑स्सोम॒ वृण्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥ [[TODO:परिष्कार्यम्??]]

चरुमभिघार्य

सन्ते॒ पयाँ॑सि॒ समु॑यन्तु॒ वाजा॒स्सं॑वृष्णि॑यान्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवँ॑स्यु॒त्त॒मानि॑ धिष्व ॥ [[TODO:परिष्कार्यम्??]]
इति द्वाभ्यां चरुमभिघार्य,

अथ (प्राचीनावीती)

मेक्षणेन चरुमालोड्य, (मुष्टिं) पूर्वार्धादवदाय परार्धादवद्यति; प्रत्यनक्ति; दक्षिणे अन्तःपरिधि सादयित्वा -

अथ (पञ्चस्रुवाहुतीर्जुहोति)

१. याः प्राचीः संभवन्त्याप उत्तरतश्च याः ।
अद्भिर्विश्वस्य भुवनस्य भर्तृभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा ॥[[TODO:परिष्कार्यम्??]]
(पित्र इदं न मम ॥)

२. अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या ।
आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं॑ पि॑ताम॒हाद्द॑दे ॥ [[TODO:परिष्कार्यम्??]]
(पितामहाय इदं न मम)

[[211]]

३. अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रैश्च॑ स॒न्धिभिः॑ । अ॒र्ध॒मा॒सैश्च॒ मासै॑श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे ॥ [[TODO:परिष्कार्यम्??]]
(प्रपितामहाय इदं न मम)

४. यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता ।
तन्मे॒ रेतः॑ पि॒ता वृ॑ह्णत्ताम्, आ॒भुर॒न्योव॑पद्यताँ स्व॒धा नमः॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (पित्र इदं न मम )

५. यद्वः क्रव्यादंगमदहल्लोकाननयन् प्रणयन् जातवेदाः ।
तद्वो अहं पुनरावेशयाम्परिष्टाः सवरङ्गैः सम्भवतः पितृभ्यः स्वधा नमः स्वाहा ॥
(ज्ञाताज्ञातपितृभ्य इदं न मम) - अप उपस्पृश्य - वपास्थाने अन्नमुद्धृत्य मुष्टिमात्रं चरुमादाय - अन्यस्मिन् पात्रे पत्रे वा निधाय - दर्भेण वा तूष्णीं त्रेधा विभज्य - औदुम्बरदर्व्यामुपस्तीर्य हिरण्यशकलस्थाने आज्यं निक्षिप्य - सकृदवदाय - पूर्वभागादारभ्य जुहुयात् ॥ द्विरभिघार्य स्रुवेणाऽऽज्यमादाय - जुहोति । पुरस्तात् स्रुवाहुतिं हुत्वा ।

१.

सोमाय पितृमते शुष्मिणे जुहुमो हविः ।
वाजं निदं जुषस्व नः स्वधा हव्यं देवेभ्यः ।
पितृभ्यः स्वधा नमः स्वाहा ॥

सोमाय पितृमत इदं न मम ।
चरुहोमः मेक्षणेन सह । उपरिष्टात् स्रुवाहुतिं हुत्वा - देवेभ्यः स्वाहा ॥ देवेभ्य इदं न मम । पूर्ववदुपस्तीर्य - पूर्ववदवदाय - अभिघार्य पुरस्तात् स्रुवाहुतिं हुत्वा ।

द्वितीयभागम्

२. अङ्गिरस्वन्तमूर्तये यमं पितृमन्तमाहुवे ।
वैवस्वतेदमद्धिनः स्वधा कव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥
यमाय मर्ता अङ्गिरस्वते पितृभ्य इदं न मम उपरिष्टात् स्रुवाहुतिं हुत्वा । पूर्ववदुपस्तीर्य - पूर्ववदवदाय पूर्ववदभिघार्य । पुरस्तात् स्रुवाहुतिं हुत्वा ।

[[212]]

तृतीयभागम्
३. यदग्ने कव्यवाहन पितॄन् यक्ष्यृतावृधः ।
प्रदेवेभ्यो वह हव्यं पितृभ्यश्च स्वधा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा ॥
अग्नये कव्यवाहनाय इदं न मम

उपरिष्टात् स्रुवाहुतिं हुत्वा,
अपूपम् अष्टधा विच्छिद्य, अवदानहोमम् - (१. सोमाय …. २. अङ्गिरस्वन्तं … ३. यदग्ने मन्त्रैर्हुत्वा ) खण्डपञ्चकं पित्रर्थे ब्राह्मणाय प्रयच्छति । स्विष्टकृदर्थम् ओदनं बर्हिषि सादयित्वा,

अथ शेषमन्नं यवागूतिलमिश्रमन्नम् अपूवान् आज्यमिश्रीकृत्य चतुर्विंशतिमाहुतीर्जुहुयात् । मेक्षणेन सह पवित्राङ्गुलिमूलभागे उदुम्बरीं धारयित्वा - सूकरीमुद्रया हस्तेन जुहोति । पितृभ्यः स्वाधा नमः स्वाहा । पितृभ्य इदं न मम ॥ पितामहेभ्यः स्वधा नमः स्वाहा । पितामहेभ्य इदं न मम ॥ प्रपितामहेभ्यः स्वाधा नमः स्वाहा । प्रपितामहेभ्य इदं न मम ॥ मातृभ्य स्वधा नमः स्वाहा । मातृभ्य इदं न मम ॥ पितामहीभ्य स्वधा नमः स्वाहा । पिताभहीभ्य इदं न मम ॥ प्रपितामहीभ्यः स्वधा नमः स्वाहा । प्रपितामहीभ्य इदं न मम ॥ मातामहेभ्यः स्वधा नमः स्वाहा ॥ मातामहेभ्य इदं न मम । मातुः पितामहेभ्यः स्वधा नमः स्वाहा ॥ मातुः पितामहेभ्य इदं न मम । मातुः प्रपितामहेभ्यः स्वधा नमः स्वाहा ॥ मातुः प्रपितामहेभ्य इदं न मम । मातामहीभ्यः स्वधा नमः स्वाहा ॥ मातामहीभ्य इदं न मम । मातुः पितामहीभ्यः स्वधा नमः स्वाहा ॥ मातुः पितामहीभ्य इदं न मम । मातुः प्रपितामहीभ्यः स्वधा नमः स्वाहा ॥ मातुः प्रपितामहीभ्य इदं न मम । आचार्येभ्यः स्वधा नमः स्वाहा ॥ आचार्येभ्य इदं न मम । आचार्यपत्नीभ्यः स्वधा नमः स्वाहा ॥ आचार्यपत्नीभ्य इदं न मम । गुरुभ्यः स्वधा नमः स्वाहा ॥ गुरुभ्य इदं न मम ।

[[213]]

गुरुपत्नीभ्यः स्वधा नमः स्वाहा ॥ गुरुपत्नीभ्य इदं न मम । सखिभ्यः स्वधा नमः स्वाहा ॥ सखिभ्य इदं न मम । सखिपत्नीभ्यः स्वधा नमः स्वाहा ॥ सखिपत्नीभ्य इदं न मम । ज्ञातिभ्यः स्वधा नमः स्वाहा ॥ ज्ञातिभ्य इदं न मम । ज्ञातिपत्नीभ्यः स्वधा नमः स्वाहा ॥ अमात्येभ्यः स्वधा नमः स्वाहा ॥ अमात्येभ्य इदं न मम । अमात्यपत्नीभ्यः स्वधा नमः स्वाहा ॥ अमात्यपत्नीभ्य इदं न मम । सर्वेभ्यः स्वधा नमः स्वाहा ॥ सर्वेभ्य इदं न मम । सर्वाभ्यः स्वधा नमः स्वाहा ॥ सर्वाभ्य इदं न मम । स्रुचमादाय – उपस्तीर्य चरुं – सकृदवदाय - द्विरभिघार्य ‘‘अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा ॥ (अग्नये स्विष्टकृत इदम्)" (इति दक्षिणार्धपूर्ववार्धे[[??]])। सँस्रावहोमं - मेक्षणम् अग्नौ प्रहरति । अप उपस्पृश्य – स्रुवमादाय अद्भिः पूरयित्वा -

वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सँ शतधारमेतम् ।
सनः पितरं पितामहं प्रपितामहं स्वर्गे लोके गच्छतु पित्वमानँ स्वधा नमः ।

अन्तः परिधि निनयति ।
पुनः स्रुवं निष्टप्य अद्भिः पूरयित्वा
पूर्ववत् अद्भिः परिधिं निनयति ॥

भोजनपात्रशुद्धिः

भोजनपात्रशुद्धिः

(उपवीती) पात्राभिघरणम् - विश्वे देवाः ! भोजनपात्रं यथासौकर्यं जुषध्वम्, (प्राचीनावीती) पितृपितामहप्रपितामहाः! भोजनपात्रं यथासौकर्यं जुषध्वम् । (उपवीती) प्रत्यक्षमहाविष्णो! भोजनपात्रं यथासौकर्यं जुषस्व । पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानां भोजनस्थाने इदमासनम् । भोजनस्थाने क्षणः कर्तव्यः । प्राप्नोतु भवान् । इदं पात्रासनम् ।

[[214]]

(प्राचीनावीती) वसुरुद्रादित्यस्वरूप-अस्मत्पितृपितामहप्रपितामहानां भोजनस्थाने इदमासनम् । भोजनस्थाने क्षणः कर्तव्यः । प्राप्नोतु भवान् । इदं पात्रासनम् ।
(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णोः भोजनस्थाने इदमासनम् । भोजनस्थाने क्षणः कर्तव्यः । प्राप्नोतु भवान् । इदं पात्रासनम् ।
(प्राचीनावीती) होमशेषमन्नं किञ्चित् पितृपात्रे निधाय
(उपवीती) कर्ता - राक्षोघ्नमन्त्रं जपेत् ॥

ओं । सह॒ वै दे॒वानां॒ चासु॑राणां च य॒ज्ञौ प्रत॑तावास्तां वयँस्व॒र्गं लो॒कमे॑ष्यामो व॒यमे॑ष्याम॒ इति॒ तेऽसु॑रास्स॒न्नह्य॒ सह॑सै॒वाच॑रन्ब्रह्म॒चर्ये॑ण॒ तप॑सै॒व दे॒वास्तेऽसु॑रा अमुह्यँ॒स्तेन प्राजा॑नँ॒स्ते परा॑भव॒न्ते न स्व॒र्गं लो॒कमा॑य॒न्प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वाः स्व॒र्गं लो॒कमा॑य॒न्नप्रसृ॑ते॒नासु॑रा॒न्परा॑भावय॒न्प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञोऽप्र॑सृतोऽनु॑पवी॒तिनो॒ यत्किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व तत्तस्मा॑द्यज्ञोपवी॒त्ये॑वाधी॑यीत या॒जये॒द्यजे॑त वा य॒ज्ञस्य॒ प्रसृ॑त्या॒ अजि॑नं॒ वासो॑ वा दक्षिण॒त उ॑प॒वीय॒ दक्षि॑णं बाहुमुद्धर॒तेऽव॑धत्ते स॒व्यमिति॑ यज्ञोपवी॒तमे॒तदे॒व विप॑रीतं प्राचीनावी॒तँ सं॒वीतं॑ मानु॒षम् ॥ [[TODO:परिष्कार्यम्??]]

रक्षाँ॑सि॒ ह वा॑ पुरोऽनुवा॒के तपोग्र॑मतिष्ठन्त॒ तान्प्र॒जाप॑तिर्व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒ इति॒ तान्प्र॒जाप॑तिरब्रवी॒द्योध॑य॒द्ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्तँ॒ ह वा॒ तानि॒ रक्षाँ॑स्यादि॒त्यं योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्तानि॑ ह॒ वा ए॒तानि॒ रक्षाँ॑सि गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्यायां॑ गायत्रि॒याऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति॒ [[TODO:परिष्कार्यम्??]]

[[215]]

ता ए॒ता आपो॑ व॒ज्री भू॒त्वा तानि॒ रक्षाँसि म॒न्देहारु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ यत्प्र॑दक्षि॒णं प्रक॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑धून्वन्त्युद्यन्त॑मस्तं॒ यन्त॑मादि॒त्यम॑भिध्या॒यन्कुर्वन्ब्रा॑ह्म॒णो वि॒द्वान्त्स॒कलं॑ भ॒द्रम॑श्नुतेऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व सन्ब्रह्मा॒प्येति॒ य ए॒वं वेद॑ ॥ [[TODO:परिष्कार्यम्??]]

भोक्तारः – आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन्रा॒ष्ट्रेरा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यतां॒ दोग्घ्री॑ धे॒नु॒र्वोढाऽन॒ड्वाना॒शुस्सप्तिः॒ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठास्स॒भेयो॒ यु॒वाऽस्य यज॑मानस्य वी॒रो जा॑यतां निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ॥ [[TODO:परिष्कार्यम्??]]

आ॒ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह । ब्रा॑ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सन्द॑धाति । तस्मा॑त्पु॒रा ब्रा॑ह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत । आऽस्मि॑न्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्यम्म॑हि॒मान॑न्दधाति । तस्मा॑त्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒र्थो॑ऽजायत । दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मा॑त्पु॒रा दोग्ध्री॑ धे॒नु॒र॑जायत । वोढा॑ऽन॒ड्वानित्या॑ह । () अ॒न॒डुह्ये॒व वी॒र्य॑न्दधाति । तस्मा॑त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत । आ॒शुस्सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वन्द॑धाति । तस्मा॑त्पु॒राऽऽशुर॒श्वो॒ऽजायत । पुर॑न्धि॒र्यो॑षेत्या॑ह । यो॒षित्ये॒व रू॒पन्द॑धाति । तस्मा॒थ्त्री यु॑व॒तिः प्रि॒या भावु॑का । जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थो॒ष्ठा जा॑य॒ते । ( ) यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । स॒भेयो॒ यु॒वेत्या॑ह॒ । यो वै पू॑र्ववय॒सी । स स॒भेयो॒ यु॒वा॑ । तस्मा॒द्युवा॒ पुमा॑न्प्रि॒यो भावु॑कः । आऽस्य यज॑मानस्य वीरो जा॑य॒तामित्या॑ह॒ । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । नि॒का॒मेनि॑कामे नः [[TODO:परिष्कार्यम्??]]

[[216]]

प॒र्जन्यो॑ वर्ष॒त्वित्या॑ह। नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्षति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । फलिन्यो॑ न॒ ओषधयः पच्यन्ता॒मित्या॑ह । फलिन्यो॑ ह॒ वै तत्रौष॑धयः पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । योगक्षे॒[[??]]मो नः॑ कल्पता॒मित्या॑ह । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ [[TODO:परिष्कार्यम्??]]

नम॒स्सह॑मानाय निव्याधिन॑ आव्या॒धिनी॑नां पत॑ये॒ नमो॒ नमः॑ ककुभाय॑ निष॒ङ्गिणे॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नम॑स्सृका॒विभ्यो॒ जिघाँ॑सद्भ्यो मु॒ष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च॒ वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृजद्भ्य॑श्च वो॒ नमो॒ नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्य॒श्शया॑नेभ्यश्च वो॒ नमो॒ नम॑स्स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नम॑स्स॒भा॒भ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ [[TODO:परिष्कार्यम्??]]

नमो॑ दु॒न्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृष्यवे॑ च प्रमृशाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑स्स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒स्स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नम॒स्सू॒र्या॑य च स॒र॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒ नमः॑ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य॒ च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य॒ च॒ रेष्मि॑याय॒ च॒ नमो॑ वास्त॒व्या॑य॒ च वास्तु॒पाय॑ च ॥ [[TODO:परिष्कार्यम्??]]

[[217]]

किँस्वि॑दासीत्पूर्वचि॑त्तिः॒ कि ँस्वि॑दासीद्बृ॒हद्वयः॑ । किँस्वि॑दासी त्पिशङ्गि॒ला किँस्वि॑दासीत्पिलिप्पि॒ला । द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद्बृह॒द्वयः॑ । रात्रि॑रासीत्पिशङ्गि॒लाऽवि॑रासीत्पिलिप्पि॒ला । कस्वि॑देका॒की च॑रति॒ क उ॑स्विज्जायते॒ पुनः॑ । किँस्वि॑द्धिम॒स्य॑ भेष॒जं किँस्वि॑दा॒वप॑नं महत् । सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं॒ म॒हत् । पृच्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॑म् । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म । वेदि॑माहुः॒ पर॒मन्तं॑ पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभि॑म् ॥ सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ॥ [[TODO:परिष्कार्यम्??]]

तेज॑सा॒ वा ए॒ष ब्र॑ह्म॒वर्च॒सेन॒ व्यृ॑द्ध्यते । यो॑ऽश्वमे॒धेन॒ यज॑ते । होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यं॑ वदतः । तेज॑सा चै॒वैन॑म्ब्रह्मवर्च॒सेन॑ च॒ सम॑र्द्धयतः । द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒क्षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्ह॒स्प॒त्यो वै ब्र॒ह्मा । ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षि॑ण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्द्धा॑ ब्रह्मवर्च॒सित॑रः । उत्त॒र॒तो॒ होता॑ भवति । () उ॒त्त॒र॒त आ॑यत॒नो॒ वै होता॑ । आ॒ग्ने॒यो वै होता॑ । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्यो॑त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्द्ध॑स्तेज॒स्वित॑रः । यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्द्धयतः । किँस्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह । द्यौर्वै वृ॒ष्टिः॑ पू॒र्वचि॑त्तिः । दिव॑मे॒व वृ॒ष्टि॒मव॑रुन्धे । किँस्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे । किँस्वि॑दासीत्पिशङ्गि॒लेत्या॑ह । रात्रि॒र्वै पि॑शङ्गि॒ला । रात्रि॑मे॒वाव॑रुन्धे । किँस्वि॑दासीत्पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे । () कस्स्वि॑देका॒की च॑र॒तीत्या॑ह । [[TODO:परिष्कार्यम्??]]

[[218]]

अ॒सौ वा आ॒दि॒त्य ए॒का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे । क उ॑ स्विज्जायते॒ पुन॒रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्दे । किँस्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह। अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे । किँस्वि॑दा॒वप॑नम्म॒हदित्या॑ह।() अ॒यं वै लो॒क आ॒वप॑नम्म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्या इत्या॑ह । वेदि॒र्वै परोऽन्तः॑ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह॒ । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह॒ । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे । पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑मे॒त्या॑ह । ब्रह्म॒ वै वा॒चः प॑र॒मं व्यो॑म । ब्र॒ह्म॒व॒र्चसमे॒वाव॑रुन्धे ॥ [[TODO:परिष्कार्यम्??]]

दत्तम्

दत्तम्

विश्वेदेवपात्रमन्वारभ्य अभिधार्य -

ओं भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे॑ण्यं भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ इति प्रोक्ष्य प्रदक्षिणतया परिषिच्य देव॑ सवितः॒ प्र सु॑व हस्ते शुद्धोदकं दत्वा

पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां॑ त्वा प्राणापा॒नयो॑र्जुहो॒म्यक्षि॑तमसि॒ मैषां॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् लो॒के ॥ [[TODO:परिष्कार्यम्??]]

सर्वमन्नमभिमृश्य

इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाँसुरे । विष्णो! हव्यँ रक्षस्व [[TODO:परिष्कार्यम्??]]

…. गोत्रस्य …. शर्मणः पितृभूतस्य मम पितुः अद्यास्मिन् प्रत्याब्दिकश्राद्धे पुरूरवार्द्रवसंज्ञकाः ! विश्वे देवा देवताः! उपतिष्ठन्तु । एतद्वो हव्यं सव्यञ्जनं सपरिकरञ्च ब्राह्मणस्तु आहवनीयार्थे तत्सर्वं गयेयं भूमिः; गदाधरो भोक्ता; अन्नं च ब्रह्म - अहं च ब्रह्म - भोक्ता च ब्रह्म । भोक्ता गदाधरः - स्वर्णमयं पात्रम् अक्षय्यवटच्छायेयम् ।

[[219]]

गयायां विश्वेभ्यो देवेभ्योः[[भ्यः??]] इदमिदमिदं हव्यम् अमृतस्वरूपं यत्किञ्चिद्दक्षिणासहितम् आतृप्तेः दत्तं दास्यमानं च स्वाहा - हव्यं नमः न मम । गयायाम् अक्षयवटच्छायायां श्रीविष्णुपादादिसमस्तपादेषु दत्तम् । येषामुद्दिष्टं तेषामक्षय्यमस्तु । गदाधरः प्रीयताम् । विश्वे देवाः ! सत्यं त्वर्तेन परिषिञ्चामि यथासौकर्यं परिषेचनम् ॥

(प्राचीनावीती) पितृपात्रम् अन्वारभ्य अभिघार्य,

ओं भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ देव॑ सवितः॒ प्र सु॑व ॥ [[TODO:परिष्कार्यम्??]]

आहुतिशेषमन्नं भोजनपात्रे निधाय अप [[पः??]] प्रोक्ष्य दर्भान् आदान् अन्नमभिमृश्य - पृथिवी समन्तस्यते । अग्निरुपद्रष्टा - ऋचस्ते महिमा । दत्तस्याग्रमादाय । अन्तरिक्षं समन्तस्यते । वायुरुपश्रोता - यजूँषि ते महिमा । दत्तस्याप्रमादाय । द्यौः समन्तस्यते । आदित्योऽनुख्याता - सामानि ते महिमा । दत्तस्याप्रमादाय ।

पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑ण॒स्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां॑ त्वा प्राणापा॒नयो॑र्जुहो॒म्यक्षि॑तमसि॒ मा प्रपितामहानां क्षेष्ठाः अ॒मुत्रा॒मुष्मि॑न् लो॒के ॥ [[TODO:परिष्कार्यम्??]]

सर्वमन्नम् अभिमृश्य -

इ॒दं विष्णुर्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाँसु॒रे । स्वधा विष्णो! कव्यँ रक्षस्व [[TODO:परिष्कार्यम्??]]

…. गोत्रस्य …. शर्मणः पितृभूतस्य मम पितुः अद्यास्मिन् प्रत्याब्दिकश्राद्धे वसुरुद्रादित्यस्वरूप अस्मत्पितृपितामहप्रपितामहाः देवता उपतिष्ठन्तु ।

[[220]]

एतद्वो कव्यं सव्यञ्जनं सपरिकरञ्च ब्राह्मणस्तु आहवनीयार्थे तत्सर्वं गयेयं भूमिः; गदाधरो भोक्ता; अन्नं च ब्रह्म - अहं च ब्रह्म भोक्ता च ब्रह्म । भोक्ता गदाधरः - रजतमयं पात्रम् अक्षय्यवटच्छायेयम् ।

…. गोत्रेभ्यः …. शर्मभ्य …. वसुरुद्रादित्यस्वरूपेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यः (तृप्त्यर्थम्) इदमिदमिदं कव्यम् अमृतस्वरूपं सम्भवद्दक्षिणासहितम् आतृप्तेः दत्तं दास्यमानं च स्वाधा - कव्यं नमः न मम । गयायाम् अक्षयवटच्छायायां श्रीविष्णुपादादिसमस्तपादेषु दत्तम् । येषामुद्दिष्टं तेषामक्षय्यमस्तु । गदाधरः प्रीयताम् । पितृपितामहप्रपितामहाः - सत्यं त्वर्तेन परिषिञ्चामि यथासौकर्यं परिषेचनम् ॥

(उपवीती) विष्णुवरणपात्रमभिमृश्य अभिघार्य

ओं भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ देव॑ सवितः॒ प्र सु॑व ॥ [[TODO:परिष्कार्यम्??]]

इति प्रोक्ष्य प्रदक्षिणतया परिषिच्य देव॑ सवितः॒ प्र सु॑व [[TODO:परिष्कार्यम्??]] हस्ते शुद्धोदकं दत्वा

पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑ण॒स्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां॑ त्वा प्राणापा॒नयो॑र्जुहो॒म्यक्षि॑तमसि॒ मैषां॑ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् लो॒के ॥ [[TODO:परिष्कार्यम्??]]

सर्वमन्नमभिमृश्य

इ॒दं विष्णुर्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाँसु॒रे । स्वाहा विष्णो! हव्यँ रक्षस्व [[TODO:परिष्कार्यम्??]]

इदमिदमिदं हव्यम् (अन्नम्) अमृतस्वरूपम् आतृप्तेः दत्तं दास्यमानम् अन्नं च ब्रह्म - अहं च ब्रह्म - भोक्ता च ब्रह्म । भोक्ता गदाधरः स्वर्णमयं पात्रम् अक्षयवटच्छायेयं गयायां श्रीविष्णुपादादिसमस्तपादेषु दत्तम् ।

[[221]]

श्राद्धसंरक्षकरश्रीमहाविष्णवे (तृप्त्यर्थं) सव्यञ्जनमिदमोदनं सपरिकरं सम्भवदक्षिणासहितं यावद्भोजनपर्याप्तं तावत्तुभ्यमहं सम्प्रददे नम न [[??]] मम । यस्य उद्दिष्टं तस्य अक्ष्य्यमस्तु । गदाधरः प्रीयताम् ॥ श्राद्धसंरक्षकश्रीमहाविष्णो! सत्यं त्वर्तेन परिषिञ्चामि - यथासौकर्यं परिषेचनम् ।

(तिलाक्षतान् तुलसीं च आदाय -

एको विष्णुर्महद्भूतं पृथक् भूतान्यनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥

अनेन मम पितरमुद्दिश्य पार्वणविधानेन प्रत्याब्दिकश्राद्धेन भगवान् मम पितुः प्रत्याब्दिकश्राद्धे पुरूरवार्द्रसंज्ञकविश्वदेवस्वरूपी ।

(प्राचीनावीती) वसुरुद्रादित्यस्वरूप - अस्मत्पितृपितामहप्रपितामहस्वरूपी ।
(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णुस्वरूपी
(प्राचीनावीती) सर्वाकारो भगवान् श्रीहरिः जनार्दनः प्रीयताम् ।
(उपवीती) - नमो देवेभ्यः (प्राचीनावीती) स्वधा पितृभ्यः
(उपवीती) - नमो विष्णवे ॥ गयाश्राद्धं गयाश्राद्धं गयाश्राद्धम् - अक्षयवटः अक्षयवटः अक्षयवटः ॥
गयायां धर्मपृष्ठेषु सदसि ब्रह्मणस्पतेः ।
गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् ॥
गय गय गय - नमस्कारः ।

विश्वे देवाः ! अमृतं भवतु – अमृतोपस्तरणमसि ।
(प्राचीनावीती) पितृपितामहप्रपितामहाः - अमृतं भवतु - अमृतोपस्तरणमसि ।
(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णो अमृतं भवतु - अमृतोपस्तरणमसि ।
(प्राचीनावीती) समकाले सर्वत्र अमृतं भवतु - अमृतोपस्तरणमसि स्वाहा हरिः ।

[[222]]

१. प्राणे निवि॑ष्टोऽमृतं जुहोमि । शिवो मा॑ऽऽविशाऽप्र॑दाहाय । प्राणाय स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (प्राणाय इदं न मम )

२. अ॒पा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ऽऽवि॒शाऽप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा॑ । [[TODO:परिष्कार्यम्??]] (अपानाय इदं न मम )

३. व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ऽऽवि॒शाऽप्र॑दाहाय । व्या॒नाय स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (व्यानाय इदं न मम)

४. उ॒दा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ऽऽवि॒शाऽप्र॑दाहाय । उ॒दा॒नाय॒ स्वाहा॑ । [[TODO:परिष्कार्यम्??]] (उदानाय इदं न मम)

५. स॒मा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ऽऽवि॒शाऽऽप्रदाहाय । स॒मा॒नाय॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (समानाय इदं न मम)

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥

(उपवीती) ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥

विप्राणां हस्तोदक [[कं??]]प्रदाय - स्वामिनः यानि कानि च राक्षोघ्नान् वैष्णवान् अन्याँश्च पितृसूक्तादीन् धर्म-इतिहासपुराणानि (नामत्र्यञ्च) भवतो भुञ्जानान् यावच्छक्यम् अभिश्रावयिष्ये । (अभिश्रावय) स्वामिनः! देशकालातिक्रमो जातः । मया सम्पादितेषु पदार्थेषु इष्टपदार्थे अङ्गुल्या निर्दिश्य - रात्रौ यथा क्षुन्न भवति तथा आतृप्तेः यदभिलषितं तृत्पृष्ट्वा [[तत्पृष्ट्वा??]] तथा मौनेन भोक्तव्यम् । श्राद्धं रक्षध्वं । यथासुखं जुषध्वम् । यदपेक्षितं, ग्राह्यम् । यदनपेक्षितं, त्याज्यम् - यथासौकर्यम् ॥ अभिश्रवणजपार्थम् - ऋत्विजं त्वां वृणे इति रीत्या ब्राह्मणान् वृत्वा अभिश्रवणजपं कुरुध्वम् ॥ (अग्निमीले …. ऋचां प्राचीम् अनुवाकपर्यन्तम्)

[[223]]

भोजनान्ते - कर्ता ‘अहमस्मि…. तपन्ति । (पु. १३१) स्वामिनः! सर्वेषाम् अन्नं पानीयम् । (सर्वे सम्पूर्णमिति प्रतिवचनम्)

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माद्ध्वी॑र्नस्स॒न्त्वोष॑धीः ॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माद्ध्वी॒र्गावो॑ भवन्तु नः ॥ [[TODO:परिष्कार्यम्??]]

पुरु[[रू??]]रवार्द्रवसंज्ञकविश्वेदेवाः! मधु मधु सम्पन्नं (सुसम्पन्नम्)
पुरु[[रू??]]रवार्द्रवसंज्ञकविश्वेदेवाः! तृप्तास्स्थ (तृप्तास्स्मः)

(प्राचीनावीती)

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती । योजान्वि॑द्र[[??]] ते हरी॑ ॥ [[TODO:परिष्कार्यम्??]]

वसुरुद्रादित्यस्वरूपपितृपितामहाः! मधु मधु सम्पन्नं (सुसम्पन्नम्) वसुरुद्रादित्यस्वरूपपितृपितामहाः! तृप्तास्स्थ (तृप्तास्स्मः)

उपवीती - श्राद्धसंरक्षकश्रीमहाविष्णो! तृप्तोऽसि । (‘तृप्तोऽस्मि’ इति प्रतिवचनम् )

आसीनः विकिरम् - देवस्य पुरस्तादुदगपवर्गं जलं निनीय अन्नं गृहीत्वा -

असोमपाश्च ये देवा यज्ञभागविवर्जिताः ।
तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम् ॥

पुनः शुद्धोदकम् । पितृस्थाने आसीनः । (प्राचीनावीती) पितुः पुरस्तात् प्रत्यपवर्गं पितृतीर्थेन जलं निनीय । अन्नं गृहीत्वा,

[[224]]

असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः ।
दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् ॥

उपरिष्टात् तिलोदकम् ।

(उपवीती) विष्णुस्थाने विकिरम् ।

असंशयो भवेद्विष्णुः मोक्षसाधनमव्ययम् ।
पितॄणाञ्च वरं श्रेष्ठं विकिरान्नञ्च वैष्णवम् ॥ (पुनः शुद्धोदकम्) ।

विकिरान्ते द्विराचम्य

पुरूरवार्द्रवसंज्ञकाः विश्वेदेवाः! अ॒मृ॒ता॒पि॒धा॒न॑मसि । [[TODO:परिष्कार्यम्??]]

(प्राचीनावीती) पितृपितामहप्रपितामहाः! अ॒मृ॒ता॒पि॒धा॒न॑मसि । [[TODO:परिष्कार्यम्??]]
(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णो! अ॒मृतपि॒धा॒न॑मसि ॥ [[TODO:परिष्कार्यम्??]]
(प्राचीनावीती) देवपितृमध्ये भूमिं प्रोक्ष्य - तिलदर्भान् निक्षिप्य - दक्षिणाग्रान् दर्भान् सँस्तीर्य दक्षिणाभिमुख आसीनः दक्षिणं जान्वाच्य - तूष्णीं तिलोदकमुत्सिच्य, पिण्डं गृहीत्वा,

ये अग्निदग्धा येऽनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥

इति पिण्डं दर्भानुपरि निक्षिप्य पिण्डमभिमृश्य । ‘अग्निदग्धेभ्यः अनग्निदग्धेभ्यः अस्मत्कुलप्रसूतमृतेभ्यः अयं पिण्डः स्वधा नमः ।’ पिण्डोपरि तिलोदकमुत्सिच्य ‘अग्निदग्धा अनग्निदग्धाश्च मार्जयन्ताम्;’ एतद्वस्तिलोदकम् । पिण्डं वायसेभ्यः प्रक्षिप्य ।

[[225]]

(उपवीती) पादौ प्रक्षाल्य आचम्य - भोक्तृषु हस्तमुखपादशोधनादि यथावद् विधाय समागतेषु - पुरूरवार्द्रसंज्ञकाः विश्वेदेवाः ! इयं वस्तृप्तिः । (अस्तु तृप्तिः) विश्वेदेवाः! रोचत इति ब्रूत । (अस्तु रोचते) विश्वेदेवाः प्रीयन्ताम् ।

(प्राचीनावीती) अर्घ्यपात्रस्थपवित्रं पितृवरणं ब्राह्मणस्य हस्ते निधाय - अर्घ्यजलं किञ्चिदवदाय, वसुरुद्रादित्यस्वरूप अस्मत्पितृपितामहप्रपितामहाः! इयं वस्तृप्तिः स्वधा (अस्तु तृप्तिः) पितृपितामहप्रपितामहाः! स्वदितमिति ब्रूत । (अस्तु स्वदितम्) पितृपितामह-प्रपितामहाः प्रीयन्ताम् । (प्रीयन्तां यजमानस्य प्रपितामहपितामहपितरः इति प्रतिवचनम्) पवित्रं गृहीत्वा पात्रे निधाय,

(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णो ! इयं ते तृप्तिः । महाविष्णो! रोचत इति ब्रूहि । महाविष्णुः प्रीयताम् ॥

विश्वेदेवाः! भोजनान्ते यत्किञ्चित् इयं वो दक्षिणा, (सुदक्षिणा); इदं वस्ताम्बूलम् (सुताम्बूलम्)

(प्राचीनावीती) वसुरुद्रादित्यस्वरूप - अस्मत्पितृपितामहप्रपितामहाः ! भोजनान्ते यत्किञ्चित् इयं वो दक्षिणा - इदं वस्ताम्बूलम्

(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णो! इयं ते दक्षिणा - इदं ते ताम्बूलम् ॥

[[226]]

प्रदक्षिणम्

प्रयोगमालायां प्रदक्षिणम्

आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी विश्वशम्भू ।
आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चाऽऽ मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥ [[TODO:परिष्कार्यम्??]]

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥

ब्राह्मणान् प्रदक्षिणीकृत्य - अक्षतान् गृहीत्वा - विश्वेभ्यो देवेभ्यो नमः

(प्राचीनावीती) पितृपितामहप्रपितामहेभ्यो नमः
(उपवीती) श्राद्धसंरक्षकश्रीमहाविष्णवे नमः । नमस्कारः ।

स्वामिनः! …. गोत्रं … शर्माणं पितरमुद्दिश्य मया कृतमिदं श्राद्धं, यथोक्तं, यथाशास्त्रानुष्ठितं, गयाश्राद्धफलदम्, अक्षय्यतृप्तिकरं, भगवत्प्रीणनं च भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु

इति प्रार्थ्य,

यथोक्तमस्तु, यथाशास्त्रानुष्ठितं गयाश्राद्धफलदम्, अक्षय्यतृप्तिकरं, भगवत्प्रीणनमस्तु

इति प्रत्युक्ते,

पिण्डार्थं, प्राशनार्थं च उद्धृत्य, ‘अन्नशेषः किं क्रियताम् ?’ इति प्रश्नः । ‘इष्टैः सह भुज्यताम्’ इति प्रत्युक्तिः ।

[[227]]

दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव नः ।
श्रद्धा च नो मा व्यपगात् बहु देयञ्च नोऽस्तु ॥
अन्नञ्च नो बहु भवेदतिथीँश्च लभेमहि ।
याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन ॥

इति उपवीती प्रार्थ्य [[??]]

भोक्तारः -

दातारो वोऽभिवर्धन्तां वेदाः सन्ततिरेव वः ।
श्रद्धा च वो मा व्यपगात् बहु देयञ्च वोऽस्तु ॥
अन्नञ्च वो बहु भवेदतिथीँश्च लभध्वम् ।
याचितारश्च वस्सन्तु मा च याचध्वं कञ्चन ॥

इति प्रत्युक्ते -
(प्राचीनावीती) ओं स्वधा (अस्तु स्वधा) इति तिलोदकमुत्सिच्य -

स्वा॒दुषँ॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रेश्रितः॒ शक्ती॑वन्तो गभी॒राः ।
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्रास्स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घश्यँ॑स ईशत ।
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नरः॒ सञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यँसन् । [[TODO:परिष्कार्यम्??]]

(उपवीती) अ॒ष्टाव॑ष्टाव॒न्येषु धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑रुन्धे॒ षण्मा॑र्जा॑लीये॒ षड्वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान् पि॒तॄन् प्री॑णाति ॥ [[TODO:परिष्कार्यम्??]] नमस्कारः

[[228]]

भोक्तारः -

अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्म॒णैरायु॑ष्म॒त् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि
दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृतेनायु॑ष्मन्त॒स्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि
पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयाऽऽयु॑ष्मन्त॒स्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि । [[TODO:परिष्कार्यम्??]]

आशीर्वादः

आशीर्वादः

ओं महद्भ्यो नमः । स्वस्ति मन्त्रार्थाः सत्याः सहफलाः सन्त्विति भवन्तो महान्तोऽनुगृह्णन्तु ॥ (तथास्तु - प्रतिवचनम्)

अस्य यजमानस्य सहकुटुम्बस्य वेदोक्तं दीर्घमायुष्यं भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु ॥ अस्य यजमानस्य पितुः प्रत्याब्दिकश्राद्धकर्मणि मन्त्रलोपे तन्त्रलोपे क्रियालोपे श्रद्धालोपे नियमलोपे सर्वं यथाशास्त्रानुष्ठितं भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु ॥ अस्य यजमानस्य गृहे वसतां द्विपदां चतुष्पदां च नीरोगशतायुष्यं भूयादिति ॥ अस्य यजमानस्य विद्यमानैश्वर्यद्वारा इतोप्यधिकैश्वर्यावाप्तिः - आचन्द्रार्कं वंशाभिवृद्धिः - उत्तरोत्तराभिवृद्धिश्च भूयासुरिति… ॥ अस्य यजमानस्य ब्रह्मप्रज्ञा श्रद्धा - मेधा - विद्या - यशो - वर्चः - आयुष्यं बलमिन्द्रियं तेजोऽन्नाद्यं धनं धान्यं पशुः स्थैर्यं सिद्धिर्लक्ष्मीः सत्यं तपो धर्मः क्षमा- विनयः - प्रतिष्ठा - शान्तिः शोभनं सद्गुण आनन्दः नित्योत्सवो नित्यश्रीः नित्यमङ्गलं सर्वं वर्धमानं भूयादिति भव.. ॥

[[229]]

सर्वे जनाः सुखिनो भवन्तु । समस्तसन्मङ्गलानि सन्तु । उत्तरोत्तरोऽभिवृद्धिरस्तु । सकलकल्याणसमृद्धिरस्तु ॥ इह ब्राह्मणानां गन्धपुष्पादिकं देयम् ।

सर्व॒स्याप्त्यै सर्वस्य॒ जित्यै॒ सर्व॑मे॒व तेना॑प्नोति॒ स॑र्वं जयति । ‘ऋध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नूरा॒धा॒न् ह॒विषा॑ व॒र्धय॑न्तः । श॒तञ्जी॑वेम श॒रदः॒ सवी॑राः ॥ [[TODO:परिष्कार्यम्??]]

स्वामिनः ! अस्मिन् दिवसे मन्त्रलोप-द्रव्यलोप-क्रियालोप-न्यूनातिरिक्ते सत्यपि यथाशास्त्रमस्त्विति भवन्तो महान्तोऽनुगृह्णन्तु ॥ (तथास्तु)

ब्राह्मण उद्वासनम् । दर्भं दत्वा

प्राचीनावीती –

उत्तिष्ठत पितरः प्रेतशूराः यमस्य पन्थामनवेता पुराणं धत्तादस्मासु द्रविणं यच्च भद्रं प्रणो ब्रूताद्भागधां देवतासु ॥

उत्तिष्ठत वसुरुद्रादित्यस्वरूपपितृपितामहप्रपितामहाः!

उपवीती - उत्तिष्ठत विश्वेदेवाः! उत्तिष्ठत श्रीविष्णो! ॥

ब्राह्मणाः पितृपूर्वं गच्छेयुः

वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वन्तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥ [[TODO:परिष्कार्यम्??]]

[[230]]

अक्षतारोपणं - प्रदक्षिणं, नमस्कार

पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः ।
तत्क्लेशजातं चित्तेषु विस्मृत्य क्षन्तुमर्हथ ॥
(प्रति - विस्मृत्य क्षन्तुमर्हास्स्मः)

इति ब्राह्मणान् सोपचारं विसृजति ।

(प्रार्थना) -

अद्य मे सफलं जन्म भवत्पादा॑ब्जवन्दनात् ।
अद्य मे वंशजाः सर्वे याता वोऽनुग्रहात् दिवम् ॥ [[TODO:परिष्कार्यम्??]]

इति ब्राह्मणान् प्रदक्षिणनमस्कारान् कृत्वा आसीमान्तम् अनुव्रजेत् । आग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयासँ सुप्र॒जसो॒मया॑ यूयं भू॑यास्त ॥ [[TODO:परिष्कार्यम्??]] इति प्रार्थ्य ॥

पिण्डप्रदानम्

अथ पिण्डप्रदानम् ।

सङ्कल्प्य - दर्भेष्वासीनः दर्भान् धारयमाणः शुक्लां … शान्तये । ….प्रीत्यर्थम् - अद्य पूर्वोक्त - एवंगुणविशेषणविशिष्टायाम् अस्यां पुण्यतिथौ …. गोत्रस्य शर्मणः पितृभूतस्य मम पितुः अद्य अस्मिन् प्रत्याब्दिकश्राद्धे पितॄणाम् अक्षय्यतृप्त्यर्थं पिण्डप्रदानं करिष्ये । दक्षिणाभिमुखो भूत्वा । दक्षिणाग्रान् दर्भान् संस्तीर्य सव्यं जान्वाच्य – तिलोदकमुत्सिच्य चतुर्विधं स्थानं मार्जयन्तां पित्रादयः परिकल्प्य । मार्जयन्तां मातामहादयः । मार्जयन्ताम् आचार्यादयः । मार्जयन्तां ज्ञात्यादयः ।

[[231]]

उपरि चतुर्विंशतिं पिण्डान् चतसृषु पङ्क्तिषु षट् सङ्ख्यया क्रमशः निक्षिप्य -

पितृभ्यः स्वाधा[[स्व??]] नमः । पितामहेभ्यः स्वाधा नमः । प्रपितामहेभ्यः स्वाधा नमः । मातृभ्यः स्वाधा नमः । पितामहीभ्यः स्वाधा नमः । प्रपितामहीभ्यः स्वाधा नमः । मातामहेभ्यः स्वाधा नमः । मातुः पितामहेभ्यः स्वाधा नमः । मातुः प्रपितामहेभ्यः स्वाधा नमः । मातामहीभ्यः स्वाधा नमः । मातुः पितामहीभ्यः स्वाधा नमः । मातुः प्रपितामहीभ्यः स्वाधा नमः । आचार्येभ्यः स्वाधा नमः । आचार्यपत्नीभ्यः स्वाधा नमः । गुरुभ्यः स्वाधा नमः । गुरुपत्नीभ्यः स्वाधा नमः । सखिभ्यः स्वाधा नमः । सखिपत्नीभ्यः स्वाधा नमः । ज्ञातिभ्यः स्वाधा नमः । ज्ञातिपत्नीभ्यः स्वाधा नमः । अमात्येभ्यः स्वाधा नमः । अमात्यपत्नीभ्यः स्वाधा नमः । सर्वेभ्यः स्वाधा नमः । सर्वाभ्यः स्वाधा नमः ॥

पिण्डोपरि तिलोदकं निनीय मार्जयन्तां पित्रादयः । मार्जयन्तां मातामहादयः । मार्जयन्ताम् आचार्यादयः । मार्जयन्तां ज्ञात्यादयः । पिण्डपितृदेवताभ्यो नमः । अञ्जनम्, अभ्यञ्जनं, वासश्च गन्धं च ददाति । पिण्डपितृदेवताभ्यो नमः ॥

ये स॑मा॒नास्सम॑नसः । पि॒तरो॑ यम॒राज्ये॑ । तेषां॑ लो॒कस्स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥ ये स॑जा॒तास्सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषाँ॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिंलो॒के श॒तँ समाः॑ ॥ (‘ये समाना’ इति मन्त्रानन्तरं निवेदनम्) [[TODO:परिष्कार्यम्??]]

[[232]]

निवेदनम्

प्रयोगमालायां निवेदनम्

ओं भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् । [[TODO:परिष्कार्यम्??]]

पिण्डपितृदेवताभ्यो नमः । माषापूर्णं गुडापूपं निवेदयामि । अमृतापिधानमसि । निवेदनान्तरम् आचमनीयं समर्पयामि ।

ओं भूर्भुव॒स्सु॒वः॑ । पिण्डपितृदेवताभ्यो नमः । कर्पूरताम्बूलं सर्मपयामि । मन्त्रपुष्यं स्वर्णपुष्पं समर्पयामि । स्वधापात्रशेषभूता अपः पिण्डपात्रे विसृज्य ॥

ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥ [[TODO:परिष्कार्यम्??]]

इति पिण्डान् अप्रदक्षिणं त्रिः परिषिच्य हुतशेषान् प्राश्नीयात् । प्राणे निविष्टो …. अमृतत्वाय इति - प्राश्य (आघ्राय) आचम्य ॥

पिण्डपितृदेवताभ्यो नमः, यथास्थानं प्रतिष्ठापयामि । अनूयाय समिधम् अग्नौ प्रहरति । इध्मसन्नहनान् अन्यद्भिः सँस्पृश्य अग्नावनुप्रहरति । (रुद्राय इदम्)

मध्यपिण्डं पत्न्यै प्रदाय प्राशयेत् ।
मन्त्रः - आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो सत् । इति तं पत्नीं प्राशयति ॥

अ॒पाञ्चौष॑धीनाँ॒ रसं॒ प्राश॑यामि । भूतकृ॑तं॒ गर्भं धत्स्व ॥ [[TODO:परिष्कार्यम्??]]

इति मध्यपिण्डं प्राश्नाति ॥ आचम्य ॥

[[233]]

होमान्तः

जयादिहोमः

जयादिहोमः

पवित्रं धृत्वा – एतत्कर्मसमृद्ध्यर्थं जयादिहोमं करिष्ये । अनूयाजसमिधमादाय अग्नौ निदधाति । अथ जयान् जुहोति ॥

ओं चि॒त्तं च॒ स्वाहा॑ - (चित्तायेदं न मम ) ॥ १ ॥
चित्ति॑श्च॒ स्वाहा॑ - (चित्त्या इदं न मम) ॥ २ ॥
आकू॑तं च॒ स्वाहा॑ - (आकूतायेदं न मम) ॥ ३ ॥
आकू॑तिश्च॒ स्वाहा॑ - (आकूत्या इदं न मम) ॥ ४ ॥
विज्ञा॑तं च॒ स्वाहा॑ - (विज्ञातायेदं न मम) ॥ ५ ॥ वि॒ज्ञानं॑ च॒ स्वाहा॑ - (विज्ञानायेदं न मम ) ॥ ६ ॥
मन॑श्च॒ स्वाहा॑ - (मनस इदं न मम ) ॥ ७ ॥
शक्व॑रीश्च॒ स्वाहा॑ - (शक्वरीभ्य इदं न मम) ॥ ८ ॥
दर्श॑श्च॒ स्वाहा॑ । - (दर्शायेदं न मम ) ॥ ९ ॥
पू॒र्णमा॑सश्च॒ स्वाहा॑ - (पूर्णमासायेदं न मम) ॥ १० ॥
बृ॒हच्च॒ स्वाहा॑ - (बृहत इदं न मम) ॥ ११ ॥
र॒थ॒न्त॒रं च॒ स्वाहा॑ - (रथन्तरायेदं न मम) ॥ १२ ॥ [[TODO:परिष्कार्यम्??]]

प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदुग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्रस्स हि ह॒व्यो॑ ब॒भू॒व॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (प्रजापतय इदं न मम) ॥ १३ ॥

[[234]]

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे॑ऽस्गा[[??]]मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कमि॑न्न॒स्यां दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (भू॒तानम् [[नाम्??]] अधिपतये अग्नय इदम्)

इन्द्रो॑ ज्ये॒ष्ठाना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन् ….दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (ज्येष्ठानाम् अधिपतये इन्द्राय इदं न मम)

य॒मः पृ॑थि॒व्या अधि॑पति॒स्स मा॑वत्व॒स्मिन् ….दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (पृथि॒व्या अधिपतये यमाय इदं न मम)

वा॒यु॒र॒न्तरि॑क्ष॒स्याधि॑पति॒स्स मा॑वत्व॒स्मिन्… दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अन्तरिक्षस्य अधिपतये वायव इदं न मम)

सूर्यो॑ दि॒वोऽधि॑पति॒स्स मा॑वत्व॒स्मिन्… दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (दिवोऽधिपतये सूर्याय)

च॒न्द्रमा॒ नक्ष॑त्राणा॒माधि॑पति॒स्स मा॑वत्व॒स्मिन् ….दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (नक्षत्राणामधिपतये चन्द्रमस इदं न मम )

बृह॒स्पति॒र्ब्रह्म॒णोऽधि॑पति॒स्स मा॑वत्व॒स्मिन् …. दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (ब्रह्मणोऽधिपतये बृहस्पतय इदं न मम )

मि॒त्रस्स॒त्यानामधि॑पतिस्स मा॑वत्व॒स्मिन् …. दे॒वहू॑त्याँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (सन्या[[??]]नामधिपतये मित्राय इदं न मम)

वरु॑णो॒ऽपामधि॑पति॒स्स मा॑वत्व॒स्मिन् …. दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (अपामधिपतये वरुणायेदम्)

स॒मु॒द्रस्स्रो॒त्याना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन् दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (स्रोत्यानामधिपतये समुद्रायेदं इदं न मम)

[[235]]

अन्नँ॒ साम्रा॑ज्याना॒मधि॑पति॒ तन्मा॑वत्वस्मिन्….. दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (साम्राज्यानामधिपतये अन्नायेदं न मम)

सोम॒ आष॑धीना॒मधि॑पतिस्स मा॑वत्वस्मिन् …. दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (ओषधीनामधिपतये सोमाय इदं न मम)

स॒वि॒ता प्र॑स॒वाना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्… दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (प्रसवानामधिपतये सवित्र इदं न मम)

रु॒द्रः प॑शू॒नामधि॑पति॒स्स मा॑वत्व॒स्मिन् …. दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (पशूनामधिपतये रुदायेदम्)

(अप उपश्पृश्य)

त्वष्टा॑ रू॒पाणा॒मधि॑पति॒स्स मा॑वत्व॒स्मिन् …. दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (रूपाणामधिपतये त्वष्ट्र इदं न मम)

विष्णुः पर्व॑ताना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन् दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (पर्वतानामधिपतये विष्णव इदं न मम )

म॒रुतो॑ गणानामर्धपतयस्ते मा॑वन्त्वस्मिन्… दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (गणानामधिपतये मरुद्भ्य इदं न मम )

पित॑रः पितामहाः परेवरे॒ तता॑स्ततामहा इ॒हमा॑वऽत । अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्षत्रे॑ऽस्-पामा॒शिष्य॒स्यां [[??]] पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू॑त्याँ॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (पित्रादिभ्य इदं न मम)

(अप उपश्पृश्य)

[[236]]

ऋ॒ता॒षाडृतधा॑मा॒ग्निर्गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॑ (ऋतासाहे ऋतधाम्ने अग्नये गन्धर्वायेदं न मम) । तस्यौष॑धषोऽप्स॒रस॒ ऊर्जो॒ नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पान्तु॒ ताभ्यः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (ओषधीभ्योऽप्सरोभ्य ऊर्ज इदं न मम ) ॥ १-२ ॥

सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्या॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (सँहिताय विश्वसाम्ने सूर्याय गन्धर्वायेदं) तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒यु॒वो॒ नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा॑न्तु॒ ताभ्यः॒ स्वाहा॑ - (मरीचिभ्योऽप्सरोभ्य आयुभ्य इदम्) ॥३-४॥

सु॒ष॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ - [[TODO:परिष्कार्यम्??]] (सुषुम्नाय सूर्यरश्मि[[श्म??]]ये चन्द्रमसे गन्धर्वायेदं न मम)। तस्य नक्ष॑त्राण्यप्स॒रसो॑ वे॒कुर॑यो॒ नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा॑न्तु॒ ताभ्यः॒ स्वाहा॑ - [[TODO:परिष्कार्यम्??]] (नक्षत्रेभ्योऽप्सरोभ्य बेकुरिभ्य [[??]] इदम्) ॥ ५-६ ॥

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ - (भुज्यवे॑ सु॒पर्णाय यज्ञाय गन्धर्वायदं) । तस्य॒ दक्षि॑णा अप्स॒रस॑स्स्त॒वा नाम॒ ता इ॒दं ब्रह्म॑ अ॒त्रं पा॑न्तु॒ ताभ्यः स्वाहा॑ - [[TODO:परिष्कार्यम्??]] (दक्षिणाभ्योऽप्सरोभ्य स्तवाभ्य इदं न मम) ॥७ - ८॥

प्र॒जाप॑तिर्विश्वक॑र्मा मनो॑ ग॑न्धर्वस्स इदं ब्रह्म॑ क्ष॒त्रं पा॑तु तस्मै स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (प्रजापतये विश्वकर्मणे मनसे गन्धर्वायेदम्) । तस्य॑र्क्सामान्य॑प्स॒रसो॒ वह्न॑यो॒ नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पान्तु॒ ताभ्यः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (ऋक्सामेभ्योऽप्सरोभ्य वह्निभ्य इदं न मम) ॥९ - १०॥

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (ईषिराय विश्वव्यचे वाताय गन्धर्वायदं न मम) । तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा॑न्तु॒ ताभ्यः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (अद्भ्योऽप्सरोभ्य मुदाभ्य इदं न मम) ॥११-१२॥

[[237]]

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निँ रा॒यस्पोषँ॑ सु॒वीर्यँ॑ संवत्स॒री॑णाँ॑ स्व॒स्तिँ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (भुवनस्य पत्य इदं न मम) ॥ १३ ॥

पर॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युग॑न्ध॒र्वस्तस्य॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (परमेष्ठिने अधिपतये मृत्यवे गन्धर्वायेदं न मम) विश्व॑मप्स॒रसो॒ भुवो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु॒ ताभ्यः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (विश्वस्मा अप्सरोभ्यो भूभ्य इदं न मम) ॥ १४-१५ ॥

सु॒क्षि॒तिस्सु॒भू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (सुक्षितिये सुभूतये भद्रकृते सुवर्वर्णे[[??]] पर्जन्याय गन्धर्वायेदं न मम) । तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा॑न्तु ताभ्य॒स्स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (विद्युद्भ्योऽप्सरोभ्यो रुग्भ्य इदं न मम) ॥ ॥ १६-१७ ॥

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑ - (दूरेहेतये अमृडयाय मृत्यवे गन्धर्वायदं न मम) । तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुवो॒ नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा॑न्तु ताभ्यः॒ स्वाहा॑ - [[TODO:परिष्कार्यम्??]] (प्रजाभ्योऽप्सरोभ्यो भीरुभ्य इदं न मम) ॥ १८-१९ ॥

चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (चारवे कृपणकाशिने कामाय गन्धर्वायेदं न मम) तस्या॒धयो॑ऽप्स॒रस॑श्शो॒शो॒चय॑न्ती॒र्नाम॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा॑न्तु॒ ताभ्य॒स्स्वाहा॑ [[TODO:परिष्कार्यम्??]]- (आधिभ्योऽप्सरोभ्यश्शोचयन्तीभ्य इदम्) ॥ २०-२१ ॥

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (भुवनस्य॒ पत्ये (ब्रह्मणे?) इदं न मम)

[[238]]

अमात्यहोमः

अथ अमात्यहोमञ् जुहोति

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहुमस्तन्नो॑ अस्तु॒ वयँस्या॑म॒ पत॑यो रयीणाँ स्वाहा॑ । [[TODO:परिष्कार्यम्??]] (प्रजापतय इदं न मम) ॥

ओं भूः स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (अग्नय इदं न मम) ॥ ओं भुवः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (वायव इदं न मम) ॥ ओं सु॒वः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] - (सूर्याय इदं न मम) ॥

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् । अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान् सर्वँ॒स्वि॑ष्टँ॒ सुहु॑तं करोतु॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (अग्नये स्विष्टकृत इदं न मम) ॥

सर्वप्रायश्चित्ताहुतीः

सर्वप्रायश्चित्ताहुतीः

ओं भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥

(प्रजापतय इदं न मम )

विश्वास-प्रस्तुतिः ...{Loading}...

अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥

[[239]]

ओं त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नीवरुणाभ्यां इदं न मम)

ओं सत्वन्नो॑ अ॒ग्नेऽव॒मो भ॑वोती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्वनो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डीकँसु॒हवो॑ न एधि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नीवरुणाभ्यां इदं न मम )

ओं भूस्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम)
ओं भुव॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (वायव इदं न मम)
ओं सु॒व॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (सूर्याय इदं न मम)
ओं भूर्भुव॒स्सु॒व॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (प्रजापतय इदं न मम) ओं विष्ण॑वे॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (विष्णव इदं न मम)

१. यद्दे॑वा देव॒हेळ॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त स्वाहा॑ । [[TODO:परिष्कार्यम्??]] (देवेभ्य आदित्येभ्य इदं न मम) ।

२. देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदिम । तस्मा॑न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑सः॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] ॥ (विश्वेभ्यो देवेभ्य इदं न मम) ॥

३. ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वँ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किञ्चानृ॑तमूदि॒म स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (द्यावापृथिवीभ्यां सरस्वत्या इदं न मम) ॥

[[240]]

४. स॒जा॒तशँ॒सादु॒त जा॑मिशँ॒साज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः । अना॑धृष्टं दे॒वकृ॑तं॒ यदे॑न॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नेय जातवेदस इदम्) ॥

५. यद्वा॒चा यन्मन॑सा । बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒व॒द्भ्या॑म् । शि॒श्ञैर्यदनृ॑तञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । [[TODO:परिष्कार्यम्??]] (अग्नये गार्हपत्याय इदं न मम) ॥

६. यद्धस्ता॑भ्यां च॒कर॒ किल्बि॑षाण्य॒क्षाणां॑ व॒ग्नुमु॑प॒जिघ्न॑मानः [[घ्र??]] । उ॒ग्र॒म्पश्या च॑ राष्ट्र॒भृच्च॒ तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (उग्रम्पश्या राष्ट्रभृद्भ्याम् अप्सरोभ्य इदम्)

७. यददी॑व्यन्नृ॒णम॒हं ब॒भूवादि॑त्सन्वा सञ्ज॒गर॒ जने॑भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च संविदा॒नौ प्रमु॑ञ्चताँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नीन्द्राभ्यामिदं न मम)

८. यन्मयि॑ मा॒ता गर्भे स॒ति एन॑श्च॒कार॒ यत्पिता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये गार्हपत्याय)

९. यदा॑ऽऽपि॒षेष॑ मा॒तरं॑ पि॒तर॑म् । पु॒त्रः प्रमु॑दितो॒ धय॑न् । अहिँसितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम) ।

१०. यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याम् । यन्मा॒तरं॑ पि॒तरं॑ वा जिहिँसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दुरि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये गार्हपत्याय इदं न मम) ॥

[[241]]

११. यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा॑ । यदेन॑श्चकृ॒मा नूत॑नं॒ यत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दुरि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये गार्हपत्याय इदं न मम) ॥

१२. अति॑क्रामामि दुरि॒तं यदेनः॑ । जहा॑मि रि॒प्रं प॑र॒मे स॒धस्थे॑ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृतां॒ नु लो॒कँ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम)।

१३. त्रि॒ते दे॒वा अ॑मृ॒जतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मा मृ॒जे । ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दुरि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये गार्हपत्याय इदं न मम) ॥

१४. दि॒वि जा॒ता अ॒प्सु[[??]] जाताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑श्शुन्धन्तु॒ शुन्ध॑नी॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अद्भ्यः शुन्धनीभ्य इदं न मम) ।

१५. यदापो॒ नक्त॑ दुरि॒तं चरा॑म । यद्वा॒ दिवा॒ नूत॑नं॒ यत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत न॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अद्भ्यः हिरण्यवर्णाभ्याम् इदं न मम) ।

१६. इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (वरुणाय इदं न मम) ॥

१७. तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विभिः॑ । अह॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयुः॒ प्रमो॑षी॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (वरुणाय इदं न मम) ।

[[242]]

१८. त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्रमु॑मु॒ग्ध्य॒स्मत् स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्रीवरुणाभ्याम् इदं न मम) ।

१९. सत्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्वनो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नीवरुणाभ्याम् इदम्)

२०. त्वम॑ग्ने॒ अ॒याऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जँ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये अयस इदं न मम) ।

२१. प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु॒ व॒यँस्या॑म॒ पत॑यो रयी॒णाँ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (प्रजापतय इदं न मम)

इध्मप्रवश्चनानि अग्नौ प्रहरति ।
अथानाम्नातप्रायश्चित्ताहुतीर्जुहाति [[हो??]] ।

ओं मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञँसमि॒मं द॑धातु ।
या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ तास्सन्द॑धामि ह॒विषा॑ घृ॒तेन॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (मनसे ज्योतिषे इदं न मम)

ओम् अ॒यश्चा॒ग्नेऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमि॑त्वम॒या अ॑सि ।
अय॑सा॒ मन॑सा धृतो॑ऽयसा॑ ह॒व्यमू॑हिषे॒ऽयानो॑ धेहि भेष॒जँस्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]](अग्नये अयस इदं न मम)

[[243]]

यदस्मिन् कर्मण्यन्तरगाममन्त्रतः कर्मतो वा । अनयाऽऽहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा ॥ (देवेभ्य इदं न मम)

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्ताक्षर्यो [[र्क्ष्यो??]] अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑ द॑धातु॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (इन्द्राय वृद्धश्रवस इदं न मम)

ओं यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवेदा॒ विच॑र्षणि॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये जातवेदसे विचर्षण इदं न मम)

ओं पुन॑र॒ग्निश्चक्षु॑रदा॒त् पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ ।
पुन॑र्मे अश्विनायु॒वं चक्षु॒राध॑त्तम॒क्ष्योस्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नीन्द्राबृहस्पत्यश्विभ्य इदं न मम)

ओं भूस्स्वाहा॑ ॥ (अग्नय इदं न मम ) ।
ओं भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)
ओं सुव॒स्स्वाहा॑ ॥ (सूर्याय इदम्) ।
ओं भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥ (प्रजापतय इदम्) [[TODO:परिष्कार्यम्??]]

इ॒ष्टेभ्यः॒ स्वाहा॑ ॥ (इष्टेभ्य इदम्) । वष॒डनि॑ष्टेभ्यः॒ स्वाहा॑ ॥ (वषडनिष्टेभ्य इदम्) । भेष॒जं दुरि॑ष्ट्यै॒ स्वाहा॑ ॥ (दुरिष्ट्या इदम्) । निष्कृ॑त्यै॒ स्वाहा॑ ॥ (निष्कृत्या इदम्) । दौरा॑र्ध्यै स्वाहा॑ ॥ (दौरार्ध्या इदम्) । दैवी॑भ्यस्त॒नूभ्यः॒ स्वाहा॑ ॥ (दैवीभ्यस्तनूभ्य इदं न मम) ऋद्ध्यै॒ स्वाहा॑ ॥ (ऋद्ध्या इदम्) समृ॑द्ध्यै॒ स्वाहा॑ ॥ (समृद्ध्या इदम्) । (स॒र्व॒समृ॑द्ध्यै॒ स्वाहा॑ ॥ (सर्वसमृद्ध्या इदं न मम) ॥ [[TODO:परिष्कार्यम्??]]

[[244]]

यत॑ इन्द्र॒ भया॑महे । ततो॑ नो॒ अभ॑यङ्कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॑ । वि द्विषो॒ वि मृधो॑ जहि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (इन्द्राय मघवत इदं न मम) ॥

स्व॒स्ति॒दा वि॒शस्पतिः॑ । वृ॒त्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नः । स्व॒स्ति॒दा अ॑भयङ्करस्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (इन्द्राय अभयङ्कराय इदं न मम) ॥

आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् । आप्या॑यय हरिवो॒ वर्द्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (इन्द्राय हरिवत वर्धमानाय)

ओम् अना॑ज्ञातं॒ यदाज्ञा॑तम् । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने तद॑स्य कल्पय । त्वँ हि वेत्थ॑ यथात॒थँ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम)

ओं पुरु॑षसम्मितो य॒ज्ञः । य॒ज्ञः पुरु॑षसम्मितः । अग्ने॒ तद॑स्य कल्पय । त्वँ हि वेत्थ॑ यथात॒थँ स्वाहा॑ । [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम)

ओं यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न । य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् । यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम)

ओं भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑ ॥ (अग्नये पृथिव्यै महत इदं न मम)
ओं भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑ ॥ (वायवे अन्तरिक्षाय महत इदम्)
ओं सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑ ॥ (आदित्याय दिवे महत इदम्)
ओं भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महत इदं न मम)

[[245]]

पाहि नो अग्न एन॑से स्वा॒हा, (अग्नय इदम्) ॥ पाहि नो विश्ववेद॑से॒ स्वाहा॒ (विश्ववेदस इदम्) ॥ यज्ञं पाहि विभाव॑सो स्वा॒हा (विभावसव इदम्) ॥ सर्वं पाहि शतक्र॑तो स्वा॒हा (शतक्रतव इदम्) ॥ पा॒हि नो॑ अग्न एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒हि गी॒र्भिः ति॒सृभि॑रू॒र्जां प॑ते पा॒हि चत॒सृभि॑र्वसो॒ स्वाहा॑ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम) ॥

स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वास्स॒प्तर्षय॑स्स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्रा॑स्सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्वाघृ॒तेन॒ स्वाहा॑ । [[TODO:परिष्कार्यम्??]] (अग्नये सप्तवत इदं न मम) ॥

ओं पुन॑स्त्वाऽऽदि॒त्या रु॒द्रा वस॑व॒स्समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसु॒नीथ य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामा॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये वसु॒नीथायेदम्)

जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ । स न॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धु॑न्दुरि॒ताऽत्य॒ग्निस्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये जातवेदस इदं न मम)

त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्द्धनम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒त्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (त्र्यम्बकायेदं न मम)

(ग॒णाना॑न्त्वा ग॒णप॑तिँ हवामहे क॒विङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑श्शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नँ॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (गणपतये इदं न मम)

ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञानाँ॑ ह॒विषा॒माज्य॑स्य । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति॒ क॒ल्पय॑न् । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (ब्रह्मण इदं न मम)

[[246]]

आश्रा॑वितम॒त्याश्रा॑वितम् । वष॑ट्कृतम॒त्यनू॑क्तञ्च य॒ज्ञे । अति॑रिक्त॒ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पय॑न् । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् स्वाहा॑ [[TODO:परिष्कार्यम्??]] (यज्ञायेदं न मम)

इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाँसु॒रे स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (विष्णव इदं न मम) ॥

ओं विष्णो॒र्नु कं॑ वी॒र्याणि॒ प्र वो॑चं यः पार्थिवानि विम॒मे रजाँसि॒ यो अस्क॑भाय॒दुत्त॑रँ स॒धस्थं॑ विच॒क्रमा॒णस्त्रे॒धोरु॑गा॒यस्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (विष्णव इदं न मम) [‘विष्णव इदं न मम’ इति त्यागं प्रतिहोमं कुर्यात्]

विष्णो॑ र॒राट॑मसि॒ स्वाहा॑ ॥ (विष्णव इदं न मम) विष्णोः॑ पृ॒ष्ठम॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम ) । विष्णो॒श्श्ञप्त्रे॑ स्थ॒स्स्वाहा॑ ॥ (विष्णव इदं न मम) विष्णो॒स्स्यूर॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम) विष्णो॑र्ध्रुवम॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम) वै॒ष्ण॒वम॑सि॒ स्वाहा॑ ॥ (विष्णव इदं न मम ) विष्ण॑वे॒ त्वा॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (विष्णव इदं न मम) ॥

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् । अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान् सर्वँ॒स्वि॑ष्टँ॒ सुहु॑तं करोतु॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये स्विष्टकृत इदं न मम) ।

अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहु॒त आहु॑तीनां॒ कामा॑नाँ समर्द्धयि॒त्रे स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये स्विष्टकृत इदं न मम) ।

[[247]]

परिधीननक्ति [[??]] - अग्रं - मध्यं - मूलम् । वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्सँस्रावभागेभ्यस्स्वाहा (वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्सँस्रावभागेभ्य इदं न मम) ॥

प्राणानायम्य, प्राचीनावीती

जु॒षस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒म्रमृ॒ण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒स्तू॒पैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]

परिसमूह्य, समन्तम् अप्रदक्षिणं परिषिश्य, वरुणाय नमः, प्रणीता मोक्षणं - प्रोक्षणं ब्रह्मन्! वरं ते ददामि । ब्रह्मणे नमः सकलाराधनैः स्वतम् । अग्नि-उपस्थानं करिष्ये ।

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासम् ।
यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑र्च॒स्वी भू॑यासम् ।
यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [[TODO:परिष्कार्यम्??]]

नमस्कृत्य पवित्रं विसृज्य आचामेत् । सात्वत्यागं [[सात्त्विक??]] कुर्यात् ।

इत्येवं सर्वं यथावत् कृत्वा श्राद्धसमाप्तौ आचम्य, सात्त्विकत्यागं कुर्यात् ॥

॥ इति बोधायनीय श्राद्धप्रयोगः ॥
॥ शुभमस्तु ॥

[[248]]

श्राद्धाङ्ग-तिलतर्पण-विधिः

प्रयोगमालायां श्राद्धाङ्गतिलतर्पणविधिः

स्वधा नमस्तर्पयामि परेऽहनि उदयात्पूर्वं स्नात्वा आर्द्रवस्त्रः पवित्रपाणिः प्राणानायम्य पुण्यतिथौ ….

(प्राचीनावीती) …. गोत्रस्य …. शर्मणः मम पितुः पूर्वेद्युः कृतप्रत्याब्दिकश्राद्धाङ्गतिलतर्पणं करिष्ये । सव्यञ्जान्वाच्य दक्षिणाग्रं (कूर्चं) दर्भान् निधाय - तिलैः आवाहनम् ।

आया॑त पितरस्सो॒म्या ग॑भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम॒स्मभ्यं॑ ददतो र॒यिञ्च॑ दीर्घायु॒त्वं च॑ श॒तशा॑र॒दं च ॥

पित्रादीनावाहयामि ।

स॒कृ॒दा॒च्छिन्नं॑ ब॒र्हिरूर्णा॑मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम् ।
अ॒स्मिन्त्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः । पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैस्स॒ह ॥ [[TODO:परिष्कार्यम्??]]

पित्रादीनाम् इदमासनम् । सकलाराधनैः स्वर्चितम् ।

पितॄन् स्वधा नमस्तर्पयामि (सर्वं त्रिः) पितामहान् स्वधा नमस्तर्पयामि
प्रपितामहान् स्वधा नमस्तर्पयामि
मातॄः स्वधा नमस्तर्पयामि
पितामहीः स्वधा नमस्तर्पयामि
प्रपितामहीः स्वधा नमस्तर्पयामि

[[249]]

मातामहान् स्वधा नमस्तर्पयामि
मातुः पितामहान् स्वधा नमस्तर्पयामि
मातुः प्रपितामहान् स्वधा नमस्तर्पयामि
मातामहीः स्वधा नमस्तर्पयामि
मातुः पितामहीः स्वधा नमस्तर्पयामि
मातुः प्रपितामहीः स्वधा नमस्तर्पयामि
आचार्यान् स्वधा नमस्तर्पयामि
आचार्यपत्नीः स्वधा नमस्तर्पयामि
गुरून् स्वधा नमस्तर्पयामि
गुरुपत्नीः स्वधा नमस्तर्पयामि
सखीन् स्वधा नमस्तर्पयामि
सखिपत्नीः स्वधा नमस्तर्पयामि
ज्ञातीन् स्वधा नमस्तर्पयामि
ज्ञातिपत्नीः स्वधा नमस्तर्पयामि
अमात्यान् स्वधा नमस्तर्पयामि
अमात्याः स्वधा नमस्तर्पयामि
सर्वान् स्वधा नमस्तर्पयामि
सर्वाः स्वधा नमस्तर्पयामि

[[250]]

ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालँ परि॒स्रुत॑म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥

तृप्यत तृप्यत तृप्यत इति दशवारम् -

(उपवीती) प्रदक्षिणम्

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥

प्राचीनावीती - तिलानादाय

उत्तिष्ठत पितरः प्रेतशूराः यमस्य पन्थामनवेता पुराणं धत्तादस्मासु द्रविणं यच्च भद्रं प्रणो ब्रूताद्भागधां देवतासु ॥

अस्मात् कूर्चात् पित्रादीन् यथास्थानं प्रतिष्ठायामि ।

येषां न माता न पिता न बन्धुः नान्यगोत्रिणः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशोदेकेः ॥

इति कूर्चं विसृज्य,

(उपवीती) पवित्रं विसृज्य, आचम्य, अनन्तरं दन्तधावनप्रातस्स्नानादि कुर्यात् ।

[[251]]