अग्निसन्धानम् ( बोधायनीयम्)
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)
नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै
विश्वास-प्रस्तुतिः
नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चक्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥
मूलम्
नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै
भट्टभास्कर-टीका
‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥
267 सप्रथ सभाम् ...{Loading}...
सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या॑स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।
सर्वेभ्यः…. नमः ।
अशेषे …. स्वीकृत्य अनया मम धर्मपत्न्या सह औपासनाग्नेः द्वादशाहाद्यतिक्रमणप्रायश्चित्तविधिना विच्छिन्न - औपासनाग्निसन्धानम् औपासनञ्च कर्तुं योग्यतासिद्धिम् अनुगृहाण ।
( प्रतिवचनं - योग्यतासिद्धिरस्तु)
प्राणायामः । विष्वक्सेनाराधनम् ।
हरिरों तत्… प्रीत्यर्थम् अनया मम धर्मपत्न्या सह द्वादशाहाद्यतिक्रमणप्रायश्चित्तविधिना औपासनाग्निमाधास्ये; औपासनाग्निमाधास्ये विच्छिन्नसन्धानार्थम्
इति सङ्कल्प्य उत्तरतो दर्भान् निरस्य अप उपस्पृश्य, विष्वक्सेनमुद्वास्य, अक्षतान् शिरसि धारयेत् - एकविंशत्या दर्भपुञ्जीलैः त्रेधा विभक्तैः सप्तभिः सप्तभिः मुखनाभिगुल्फेषु त्रिस्तूष्णीं पावयित्वा आचम्य, पञ्चप्रस्थमिताभिः सिकताभिः अनार्द्राभिः अनुपहताभिः अरत्निमात्रं समचतुश्रं स्थण्डिलं कृत्वा, तस्य मध्ये प्राचीनं सन्ततमृजु उल्लिखेत् ।
ब्रह्मजज्ञानमिति; / दक्षिणतः प्राचीनं नाके सुपर्णमिति; / उत्तरतः प्राचीनम् आप्यायस्व समेतु ते इति; / मध्यादुदीचीनम् - यो रुद्रो अग्नौ - इति / अप उपस्पृश्य; पश्चादुदीचीनम् इदं विष्णुर्विचक्रमे इति; / पुरस्तादुदीचीनम् इन्द्रं विश्वा अवीवृधन् इति / अद्भिः अभ्युक्ष्य, शकलं निरस्य, स्थण्डिलस्य मध्ये प्रागग्रान् दर्भान् सँस्तीर्य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्याम् । [[TODO:परिष्कार्यम्??]]
इति अग्निमानीय अग्निस्थापनदेशम्, अग्ने इदमासनं गन्धपुष्पाक्षतैः सकलाराधनैः सकलाराधनैः[[??]] स्वर्चितमिति कृत्वा ‘भूर्भुवस्सुवरोम्’ इत्यग्निं प्र -तिष्ठाप्य अग्निमुपसमाधाय - त्रीणि काष्ठानि स्वाहाति निधाय (अग्नय इदं न मम) त्रिः ।
[[182]]
जुष्टो॒ दम॑ना॒ अति॑थिर्दु॑रो॒णे । इ॒मन्नो॑ य॒ज्ञमुप॑याहि वि॒द्वान् ।
विश्वा॑ अग्नेऽभि॒युजो॑ वि॒ह॒त्य॑ । श॒त्रूय॒ता माभ॑रा॒ भोज॑नानि ॥ [[TODO:परिष्कार्यम्??]]
इत्युपतिष्ठते । दर्भासनम् । (एकदर्भनिरसनम्) अप उपस्पृश्य । पर्युक्ष्य परिस्तरणम् – दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्याम्। पूर्वे परिस्तृणामि । ‘भूर्भुवः सुवः’ इति दक्षिणे परिस्तृणामि । उद्वयं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्यमग॑न्म॒ ज्योति॑रुत्त॒मम् । इति पश्चिमे परिस्तृणामि, “अग्न आया॑हि॒ वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि॒होता॑ स॒त्स ब॒र्हिषि॑ ॥” [[TODO:परिष्कार्यम्??]] इति उत्तरे परिस्तृणामि ॥ दक्षिणान् उत्तरान्, उत्तरान् अधरान् कुर्यात् । पात्रोतरासनं पात्रसादनम् - आज्यस्थालीं जुहू प्रोक्षणीं सुवं सादयित्वा आयामपवित्रतः परिमाणं प्रोक्षणीसँस्कारः । प्रोक्षणीपात्रमादाय अक्षतैः सह - अप आसिच्य - त्रिरुत्पूय - पात्राणि उत्तानानि कृत्वा, त्रिः प्रोक्ष्य - प्रोक्षणीशेषं दक्षिणतो निधाय - आज्यपात्रमादाय, अपरेणाग्निं पवित्रान्तर्हितायाम् आज्यस्थाल्याम् आज्यं निरुप्य - उदीचोऽङ्गारान् निरूह्य - तेष्वधिश्रित्य, अभिद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य, पुनरभिद्योत्य - त्रिः पर्यग्निकृत्वा, उदगुद्वास्य, अङ्गारान् अग्नौ प्रत्यूह्य - बर्हिरास्तीर्य - बर्हिष्याज्यं निधाय - उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय - विस्रस्य पवित्रम् - अद्भिः संस्पृश्य अग्नौ प्रहरति । अत्र जुहूं स्रुवञ्च निष्टप्य दर्भैः संमृज्य पुनर्निष्टप्य - प्रोक्ष्य - निधाय दर्भान् अद्भिः सँस्पर्श्य अग्नौ प्रहरति । अग्निं परिषिञ्चति ।
१. ‘ओम् अदि॒तेऽनु॑मन्यस्व’
२. ‘ओम् अनु॑म॒तेऽनु॑म॒न्यस्व’
३. ‘ओं सर॑स्व॒तेऽनु॑म॒न्यस्व’
४. ‘ओं देव॑ सवितः प्र सु॑व’ [[TODO:परिष्कार्यम्??]]
[[183]]
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मा॒न् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हु॒रा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ [[TODO:परिष्कार्यम्??]]
इत्युपस्थाय, यज्ञपुरुषाय नमः इत्यलङ्करोति । चतुर्गृहीतम् आज्यं गृहीत्वा
स॒प्त ते॑ अग्ने समिध॑स्स॒प्त जिह्वास्स॒प्तर्षय॑स्स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्रा॑स्स॒प्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्वाघृ॒तेन॒ स्वाहा॑ ॥
इति पूर्णाहुतिं जुहुयात् । (अग्नये सप्तवत इदं न मम) ॥
आहुतीनां सर्वत्र चतुर्गृहीतम् । (चतुर्गृहीताज्ये किञ्चित् त्रिरावृत्या जुहुयात्)
तन्तु॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृतान् ।
अ॒नुल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं जनँ॒स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये तन्तुमत इदं न मम )
उर्बुध्यस्वाऽग्ने॒ प्रति॑ जागृहोनमिष्टापू॒र्ते सँसृ॑जेथाम॒यञ्च॑ ।
पुनः॑ कृ॒ण्वँस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑मे॒तँस्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (किञ्चित् हुत्वा । (अग्नये तन्तुमत इदं न मम) ॥
त्रय॑स्त्रिँशत्तन्त॑वो ये वि॑तत्नि॒रे य इमं य॒ज्ञँस्व॒धया॒ दद॑न्ते तेषां॑ छिन्नं प्रत्येतद्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाँ अप्ये॑तु॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (जुहूस्थमाज्यं सर्वं जुहुयात् । अग्नये तन्तुमत इदं न मम)
[[184]]
पुनः चतुर्गृहीतं गृहीत्वा चतुरावृत्त्या जुहुयात् -
अग्ने॑ऽभ्यावर्तन्न॒भि न॒ आ व॑र्त॒स्वाऽऽयु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॑ धने॑न॒ स्वाहा॑ । [[TODO:परिष्कार्यम्??]]
(अग्नये अभ्यावर्तिन इदं न मम ) ।
अग्ने॑ अङ्गिर॒श्श॒तन्ते॑ स॒न्त्वा॒वृत॑स्स॒हस्र॑न्त उपवृतः॑ । तासां पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो॑ र॒यिमा कृ॑धि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये अभ्यावर्तिन इदं न मम)
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑र॒ग्न इ॒षाऽऽयु॑षा ।
पुन॑र्नः पाहि॑ वि॒श्वत॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अभ्यावर्तिन इदं न मम) ।
सह रय्या नि व॑र्तस्वाऽग्ने॒ पिन्व॑स्व धार॑या ।
वि॒श्वप्स्न॑या॒ वि॒श्वत॒स्परि॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अभ्यावर्तिन इदं न मम) ॥
पुनः चतुर्गृहीतं गृहीत्वा,
ओं मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञँसमि॒मं द॑धातु ।
या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ तास्सन्द॑धामि ह॒विषा॑ घृ॒तेन॒ स्वाहा॑ । [[TODO:परिष्कार्यम्??]]
(मनसे ज्योतिष इदं न मम)
पुनः चतुर्गृहीतं गृहीत्वा,
प्र॒जा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अ॒स्तु॒ व॒यँ स्या॑म॒ पत॑यो रयी॒णाँ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(प्रजापतय इदं न मम)
[[185]]
पुनः चतुर्गृहीतं गृहीत्वा,
अन्व॒ग्निरु॒षसामग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आत॑तान॒ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अनुख्यात्र इदम्) ।
पुनः चतुर्गृहीतं गृहीत्वा,
ओम् अ॒याश्चाग्नेऽस्य॑न॒भिशस्तीश्च॑ स॒त्यमि॑त्वम॒या अ॑सि ।
अय॑सा॒ मन॑सा घृ॒तो॑ऽयसा॑ ह॒व्यमू॑हिषे॒ऽयानो॑ धेहि भेष॒जँस्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अयस इदं न मम) ।
पुनः चतुर्गृहीतं गृहीत्वा,
उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वं दे॑व॒त्रा सू॒र्यमग॑न्म॒ ज्योति॑रुत्त॒मँ स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(सूर्याय ज्योतिष इदं न मम)
आ॒यु॒र्दा अ॑ग्रे ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि रक्ष॑तादि॒मँ स्वाहा॑ ॥
(आयुर्दे अग्नय इदं न मम)। [[TODO:परिष्कार्यम्??]]
पुनः चतुर्गृहीतेन द्विरावृत्त्या जुहुयात् ।
ओं यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा॒ विच॑र्षण॒स्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये जातवेदसे विचर्षण इदं न मम)
ओं पुन॑र॒ग्निश्चक्षु॑रदा॒त् पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ ।
पुन॑र्मे अश्विनायु॒वं च॒क्षुराध॑त्तम॒क्ष्योस्स्वाहा॑ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नीन्द्राबृहस्पत्यश्विभ्य इदं न मम)
[[186]]
पुनः चतुर्गृहीतेन - चतुरावृत्त्या जुहुयात् ॥
ओं भूस्स्वाहा॑ । (अग्नय इदं न मम)
ओं भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)
ओँ सु॒व॒स्स्वाहा॑ । (सूर्याय इदं न मम)
ओं भूर्भुव॒स्सु॒व॒स्स्वाहा॑ । (प्रजापतय इदं न मम)
ओम् अस्मिन् विच्छिन्न - औपासनाग्निसन्धानहोमकर्मणि मध्ये सम्भावितसमस्तदोषप्रायश्चित्तार्थं प्रायश्चित्तहोमं होष्यामि ।
ओं भूस्स्वाहा॑ । (अग्नय इदं न मम)
ओं भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)
ओँ सु॒व॒स्स्वाहा॑ । (सूर्याय इदं न मम)
ओं भूर्भुव॒स्सु॒व॒स्स्वाहा॑ । (प्रजापतय इदं न मम )
श्रीविष्ण॑वे॒ स्वाहा॑ । (विष्णवे परमात्मन इदं न मम) । आज्यपात्रमुत्तरतो निधाय - प्रायश्चित्तप्राणायामः
जुषस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृहद्य॑ज॒तं धूम्रमृण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒स्तू॒पैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]
परिषेचनम् -
१. ओम् अदितेऽन्व॑मँस्थाः ।
२. ओम् अनु॑म॒तेन्व॑मँस्थाः ।
३. ओं सर॑स्व॒तेन्व॑मँस्थाः ।
४. ओं देव॑ सवि॒तः प्रासा॑वीः ॥ [[TODO:परिष्कार्यम्??]]
[[187]]
अद्य पूर्वोक्त…. शुभतिथौ अनेकसायंप्रातराहुतिद्रव्य - अनेकदर्शपूर्णमासस्थालीपाकद्रव्यदानम् आज्यद्रव्यदानं हिरण्यदानं च करिष्ये ।
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदं अदश्शान्तिं प्रयच्छ मे ॥
अनेककालदर्शपूर्णमासस्थालीपाकद्रव्यम् आज्यद्रव्यं यत्किञ्चित् हिरण्यं च श्रीवैष्णवाय तुभ्यमहं सम्प्रददे, न मम ॥
श्रीभगवदाज्ञया…. प्रीत्यर्थं पूवेद्युः सायमौपासनहोमम् अद्य प्रातरौपासनं च तण्डुलै(यवै)र्वा होष्यामि । परिसमूहनं पर्युक्षणं -
जुषस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृहद्य॑ज॒तं धूम्रमृण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒स्तू॒पैः सं र॒श्मिभि॑स्ततनः सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]
१. ‘ओम् अदि॒तेऽनु॑म॒न्यस्व’
२. ‘ओम् अनु॑मतेऽनु॑म॒न्यस्व’
३. ‘ओं सर॑स्वतेऽनु॑म॒न्यस्व’
४. ‘ओं देव॑ सवितः॒ प्र सु॑व [[TODO:परिष्कार्यम्??]]
च॒त्वारि॒ शृङ्गा॑ त्रयो॑ अस्य॒ पादा॒ द्वे शी॑र्षे स॒प्त हस्ता॑सो अ॒स्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ आवि॑वेश ॥
ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानस्स जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा॑स्तिष्ठति वि॒श्वतो॑मु॒खः ॥ [[TODO:परिष्कार्यम्??]]
प्राङ्मुखो देव! अग्ने! अभिमुखो भव!
[[188]]
अग्निमलङ्कृत्य -
ओम् अग्नये नमः, ओं जातवेदसे नमः, ओं सहोजसे नमः, ओम् अजिराप्रभवे नमः, ओं वैश्वानराय नमः, ओं नर्यापसे नमः, ओं पङ्क्तिराधसे नमः, ओं विसर्पिणे नमः
इति प्रागादि अष्टसु दिक्षु अक्षतैस्सम्पूज्य, ‘ओं यज्ञपुरुषाय नमः’
होष्यामि (जुहुधि)
१. अग्नये स्वाहा (अग्नय इदम्) ।
२. प्रजापतये स्वाहा (प्रजापतय इदम्)
३. सूर्याय स्वाहा - (सूर्याय इदम्) ।
४. प्रजापतये स्वाहा - (प्रजापतय इदम्)
पुनः प्राणानायम्य
श्रीभगवदाज्ञया …. प्रीत्यर्थम् अनेककालसायंप्रातराहुतीनाम् अकरणप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रप्रतिनिधि यत्किञ्चिद्धिरण्यदानं करिष्ये
इति सङ्कल्प्य,
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम् अदश्शान्तिं प्रयच्छ मे ॥
इदम् अनेककालसायंप्रातराहुतीनाम् अकरणप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रप्रतिनिधियत्किञ्चिद्धिरण्यं नानागोत्रेभ्यः श्रीवैष्णवेभ्यः सम्प्रददे (नमः) न मम
इति दत्वा,
पुनः प्राणानायम्य
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थम् आज्यसहितहोमद्रव्यतण्डुलदानं करिष्ये
(इति सङ्कल्प्य,)
तण्डुला वैश्वदेवत्याः पाकेनान्नं पचन्ति ये ।
तस्मात् तण्डुलदानेन अदशशान्तिं प्रयच्छ मे ॥
इदम् आज्यसहितहोमद्रव्यं तण्डुलं यस्मै कस्मैचित् श्रोत्रियाय श्रीवैष्णवाय सम्प्रददे (नमः) न मम
इति दद्यात् ॥
[[189]]
जुषस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृहद्य॑ज॒तं धूम्रमृण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒स्तू॒पैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]
१. ओम् अदितेऽन्व॑मँस्थाः ।
२. ओम् अनु॑मतेन्व॑मँस्थाः ।
३. ओं सर॑स्वतेन्व॑मँस्थाः ।
४. ओं देव॑ सवि॒तः प्रासा॑वीः ॥
इति परिषिच्य,
तूणीं समिधमादधाति । उपस्थानं करिष्ये ॥
यत्ते॑ अग्ने॒ तेजस्तेना॒हं ते॑ज॒स्वी भूयासम् ।
यत्ते॑ अग्ने॒ वर्चस्तेना॒हं व॑र्च॒स्वी भूयासम् ।
यत्ते॑ अग्ने हरस्तेना॒हँ ह॑रस्वी र्भूयासम् ॥ [[TODO:परिष्कार्यम्??]]
मयि॑ मे॒धां मयि॑ प्र॒जां मय्यग्निस्तेजो॑ दधातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रियं द॑धातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो भ्राजो॑ दधातु ॥ [[TODO:परिष्कार्यम्??]]
इति ।
मन्त्रहीनं - हुताशन ...{Loading}...
(अग्नये नमः)
विश्वास-प्रस्तुतिः
मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥
मूलम्
मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥
प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः
प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥
मूलम्
प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥
(कृष्ण कृष्ण कृष्ण॥)
प्रणम्य, अभिवाद्य, पवित्रं, विस्रस्य आचामेत् ॥
॥ इति बोधायनीय-अग्निसन्धानं समाप्तम् ॥
[[190]]