॥ बोधायनीय उपाकर्म ॥
समिदाधानम्, कामोऽकार्षीदिति जपः महासङ्कल्पः (प्रीत्यर्थम् अध्यायोपकर्मतर्पणं करिष्ये) यज्ञोपवीतधारणं, ब्रह्मचारिणः मेखला[[??]], अजिन[[??]], दण्ड[[??]], धारणानि क्रमशः धारयेयुः । [*] उपवीती भूत्वा -
[*]:
देवत्वात्
१. याज्ञिकीर्देवतास्तर्पयामि
२. सांहितीर्देवतास्तर्पयामि
३. वारुणीर्देवतास्तर्पयामि
४. सर्वा देवतास्तर्पयामि
निवीती - ५. प्रजापतिं काण्डर्षिं तर्पयामि
६. सोमं काण्डर्षिं तर्पयामि
७. अग्निं काण्डर्षिं तर्पयामि
८. विश्वान् देवान् काण्डर्षीँस्तर्पयामि
९. स्वयम्भुवं काण्डर्षिं तर्पयामि
[[274]]
(उपवीती) सावित्रीं तर्पयामि । सदसस्पतिं तर्पयामि । सवितारं तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्वणवेदं तर्पयामि । अथर्वाङ्गिरसः तर्पयामि । इतिहासपुराणानि तर्पयामि । सर्वदेवजनाः तर्पयामि । सर्वभूतानि तर्पयामि । साध्याः तर्पयामि । ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । परमेष्ठिनं तर्पयामि । हिरण्यगर्भं तर्पयामि । चतुर्मखं तर्पयामि । स्वयम्भुवं तर्पयामि । अग्निं तर्पयामि । वायुं तर्पयामि । ब्रह्मपार्षदान् तर्पयामि । ब्रह्मपार्षदीन् तर्पयामि । वरुणं तर्पयामि । सोमं तर्पयामि । सूर्यं तर्पयामि । चन्द्रं तर्पयामि । नक्षत्राणि तर्पयामि । सद्योजातं तर्पयामि । ओं भूः पुरुषं तर्पयामि । ॐ भुवः पुरुषं तर्पयामि । ओं सुवः पुरुषं तर्पयामि । ओं भूर्भुवः सुवः पुरुषं तर्पयामि । ओं भूः तर्पयामि । ओं भुवः तर्पयामि । ओं सुवः तर्पयामि । ओं महः तर्पयामि । ओं जनः तर्पयामि । ओं तपः तर्पयामि । ओं तपः तर्पयामि । ओं सत्यं तर्पयामि । भवं देवं तर्पयामि । शर्वं देवं तर्पयामि । ईशानं देवं तर्पयामि । पशुपतिं देवं तर्पयामि । रुद्रं देवं तर्पयामि । उग्रं देवं तर्पयामि । भीमं देवं तर्पयामि । महान्तं देवं तर्पयामि ।
भवस्य देवस्य पत्नीः तर्पयामि । शर्वस्य देवस्य पत्नीः तर्पयामि । ईशानस्य देवस्य पत्नीः तर्पयामि । पशुपते देवस्य पत्नी ः तर्पयामि । रुद्रस्य देवस्य पत्नीः तर्पयामि । उग्रस्य देवस्य पत्नीः तर्पयामि । भीमस्य देवस्य पत्नीः तर्पयामि । महतो देवस्य पत्नीः तर्पयामि ।
भवस्य देवस्य सुतं तर्पयामि । शर्वस्य देवस्य सुतं तर्पयामि । ईशानस्य देवस्य सुतं तर्पयामि । पशुपतेः देवस्य सुतं तर्पयामि । रुद्रस्य देवस्य सुतं तर्पयामि । उग्रस्य देवस्य सुतं तर्पयामि । भीमस्य देवस्य सुतं तर्पयामि । महतो देवस्य सुतं तर्पयामि ।
[[275]]
रुद्रान् तर्पयामि । रुद्रपार्षदान् तर्पयामि । सनकं तर्पयामि । सनातनं तर्पयामि । सनत्कुमारं तर्पयामि । सनत्सुजातं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । जयन्तं तर्पयामि । षष्ठिं तर्पयामि । षण्मुखं तर्पयामि । विशाखं तर्पयामि । सुब्रह्मण्यं तर्पयामि । महासेनं तर्पयामि । स्कन्दपार्षदान् तर्पयामि । विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । लम्बोदरं तर्पयामि । एकदन्तं तर्पयामि । शूर्पकर्णं तर्पयामि । इभवक्त्रं तर्पयामि । विघ्नपार्षदाः तर्पयामि । विघ्नपार्षदीन् तर्पयामि । आदित्यं तर्पयामि । सोमं तर्पयामि । अङ्गारकं तर्पयामि । बुधं तर्पयामि । बृहस्पतिं तर्पयामि । शुक्रं तर्पयामि । शनैश्चरं तर्पयामि । राहुं तर्पयामि । केतुं तर्पयामि । यमं तर्पयामि । यमराजं तर्पयामि । धर्मं तर्पयामि । धर्मराजं तर्पयामि । मृत्युं तर्पयामि । अन्तकं तर्पयामि । वैवस्वतं तर्पयामि । कालं तर्पयामि । सर्वभूतक्षयं तर्पयामि । औदुम्बरं तर्पयामि । दध्नं तर्पयामि । नीलं तर्पयामि । परमेष्ठिनं तर्पयामि । वृकोदरं तर्पयामि । चित्रं तर्पयामि । चित्रगुप्तं तर्पयामि । वैवस्वतपार्षदान् तर्पयामि । वैवस्वतपार्षदीन् तर्पयामि । भरद्वाजं तर्पयामि । गौतमं तर्पयामि । आङ्गीरसं तर्पयामि । बार्हस्पत्यं तर्पयामि । विश्वामित्रं तर्पयामि । जमदग्निं तर्पयामि । विद्यां तर्पयामि । अत्रिं तर्पयामि । धन्वन्तरिं तर्पयामि । धन्वन्तरपार्षदान् तर्पयामि । धन्वन्तरपार्षदीन् तर्पयामि । केशवं तर्पयामि । नारायणं तर्पयामि । माधवं तर्पयामि । गोविन्दं तर्पयामि । विष्णुं तर्पयामि । मधूसूदनं तर्पयामि । त्रिविक्रमं तर्पयामि । वामनं तर्पयामि । श्रीधरं तर्पयामि । हृषीकेशं तर्पयामि । पद्मनाभं तर्पयामि । दामोदरं तर्पयामि । सङ्कर्षणं तर्पयामि । वासुदेवं तर्पयामि । प्रद्युम्नं तर्पयामि । अनिरुद्धं तर्पयामि । पुरुषोत्तमं तर्पयामि । नारसिंहं तर्पयामि । अधोक्षजं तर्पयामि ।
[[276]]
अच्युतं तर्पयामि । जनार्दनं तर्पयामि । उपेन्द्रं तर्पयामि । हरिं तर्पयामि । श्रीकृष्णं तर्पयामि । श्रीं देवीं तर्पयामि । ह्रीं देवीं तर्पयामि । बुद्धिं देवीं तर्पयामि । पुष्टिं देवीं तर्पयामि । तुष्टिं देवीं तर्पयामि । ज्येष्ठां देवीं तर्पयामि । महालक्ष्मीं देवीं तर्पयामि । विष्णुपार्षदान् देवीं तर्पयामि । विष्णुपार्षदीन् देवीं तर्पयामि ॥
(निवीती) ऋषीन् तर्पयामि । महर्षीन् तर्पयामि । परमर्षीन् तर्पयामि । ब्रह्मर्षीन् तर्पयामि । देवर्षीन् तर्पयामि । राजर्षीन् तर्पयामि । वैश्यर्षीन् तर्पयामि । सुतर्षीन् तर्पयामि । सूतर्षीन् तर्पयामि । श्रुतर्षीन् तर्पयामि । जनर्षीन् तर्पयामि । तपर्षीन् तर्पयामि । सत्यर्षीन् तर्पयामि । काण्डर्षीन् तर्पयामि । ऋषिगणान् तर्पयामि । ऋषिपत्नीः तर्पयामि । ऋषिपुत्रान् तर्पयामि । ऋषिपौत्रान् तर्पयामि । कण्वबोधायनं तर्पयामि । आपस्तम्बसूत्रकारं तर्पयामि । सत्याषाढं तर्पयामि । हिरण्यकेशिं तर्पयामि । वाजसनेयं तर्पयामि । याज्ञवल्क्यं तर्पयामि । शौनकं तर्पयामि । आश्वलायनं तर्पयामि । द्राह्यायणं तर्पयामि । कात्यायनं तर्पयामि । व्यासं तर्पयामि । वसिष्ठं तर्पयामि । प्रणवं तर्पयामि । व्याहतीन् तर्पयामि । प्रजापतिं काण्डर्षिं तर्पयामि । सोमं काण्डर्षिं तर्पयामि । अग्निं काण्डर्षिं तर्पयामि । विश्वान् देवान् काण्डर्षीँस्तर्पयामि । स्वयम्भुवं काण्डर्षिं तर्पयामि । सदसस्पतिं तर्पयामि । सावित्रीं तर्पयामि । गायत्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । युजर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्वाङ्गिरसं तर्पयामि । इतिहासपुराणं तर्पयामि । सर्वदेवजनान् तर्पयामि । सर्वभूतानि तर्पयामि । साँहितीर्देवताभ्यः उपनिषदः तर्पयामि । याज्ञिकीर्देवताभ्यः उपनिषदः तर्पयामि । वारुणीर्देवताभ्यः उपनिषदः तर्पयामि । सर्वाभ्यो र्देवताभ्यः तर्पयामि ।
[[277]]
बोधायनीय उपाकर्म
(प्राचीनावीती)
पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि ॥
मातॄः स्वधा नमस्तर्पयामि । पितामहीः स्वधा नमस्तर्पयामि । प्रपितामहीः स्वधा नमस्तर्पयामि ॥
मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुः प्रपितामहान् स्वधा नमस्तर्पयामि ॥
मातामहीः स्वधा नमस्तर्पयामि । मातुः पितामहीः स्वधा नमस्तर्पयामि । मातुः प्रपितामहीः स्वधा नमस्तर्पयामि ॥
ऊर्जं॑ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रुत॑म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥
(उपवीती) नान्दी, पुण्याहं कृत्वा,
आचम्य, होमं सङ्कल्प्य, होमशेषं कृत्वा, वेदारम्भं कुर्यात् । आशीर्वादः सम्भावना ॥
॥ बोधायनीयउपाकर्म समाप्तम् ॥
[[278]]
शुद्ध पत्रिका
पुटं 13 56 133 150 पनिः शुद्धं 11 13 6 (अग्नये जातवेदस इदं न मम) कृष्णानुस्मरणं परम् । इत्यनन्तरं ‘उदुत्यं’… इति सूर्याय प्रदर्श्य, भगवते निवेद्य, आचम्य, प्राणानायम्य, संकल्प्य - इति पूरयेत् ॥ पितृपितामहप्रपितामहाः ! शीर्षकं १३. एकविंशतिरात्रः