०१ समिद्-आधानम्

विधिः १

बोधायनीयसमिदाधानम्

आचम्य, प्राणानायम्य, पवित्रं धृत्वा, “शुक्लाम्बर.. समिदाधानं करिष्ये ।’’ तूष्णीम् उल्लिख्य अग्निं प्रतिष्ठाप्य,

जु॒षस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धूम्रमृण्वन् । उप॑ स्पृश दि॒व्यं सानु॒स्तूपैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥

इत्युक्त्वा ततनः

१. ‘ओम् अदि॒तेऽनु॑म॒न्यस्व’
२. ‘ओम् अनु॑म॒तेऽनु॑म॒न्यस्व’
३. ‘ओं सर॑स्व॒तेऽनु॑म॒न्यस्व’
४. ‘ओं देव॑ सवितः॒ प्र सु॑व’ [[TODO:परिष्कार्यम्??]]

इति परिषिच्य, ‘अग्नौ तूष्णीं समिध आधास्ये’ इति स्मृत्वा चतस्रः पालाशसमिधः आधाय,

१. ओं भूस्स्वाहा॑’। (अग्नय॒ इदम्)
२. ओं भुव॒स्स्वाहा॑ ॥ (वायव इदम्)
३.ओँ सु॒व॒स्स्वाहा॑ । (सूर्याय इदम्)
४. ओं भूर्भुव॒स्सुव॒स्स्वाहा॑ । (प्र॒जापतय इदम्) [[TODO:परिष्कार्यम्??]]

जु॒षस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धूम्रमृ॒ण्वन् ।
उप॑ स्पृश दि॒व्यं सानुस्तूपैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]

इत्युक्त्वा,

१. ओम् अदि॒तेऽन्व॑मँस्थाः ।
२. ओम् अनु॑म॒तेन्व॑मँस्थाः ।
३. ओं सर॑स्वतेन्व॑मँस्थाः ।
४. ओं देव॑ सवितः॒ प्रासा॑वीः ॥ [[TODO:परिष्कार्यम्??]]
इति परिषिच्य,

[[180]]

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासम् ।
यत्ते॑ अग्ने वर्चस्तेना॒हं व॑र्च॒स्वी भू॑यासम् ।
यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [[TODO:परिष्कार्यम्??]]

मयि॑ मेधां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो भ्राजो॑ दधातु ॥ [[TODO:परिष्कार्यम्??]]

इति ।

(मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान् मा नो॑ रुद्र भामि॒तो व॑धीर्हविष्मन्तो॒ नम॑सा विधेम ते ॥ [[TODO:परिष्कार्यम्??]]

मेधावी भूयासम् । तेजस्वी भूयासम् । वर्चस्वी भूयासम् । ब्रह्मवर्चसी भूयासम् । आयुष्मान् भूयासम् । अन्नादो भूयासम् ॥)

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मा॒न् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥ [[TODO:परिष्कार्यम्??]] - इत्युपस्थाय,

स्वस्ति श्रद्धां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥

इति पवित्रं विस्रस्य - आचामेत्

॥ बोधायनीयसमिदाधानम् समाप्तम् ॥

[[181]]

विधिः २

प्रयोगमालायां बोधायनसमिदाधानविधिः

आचम्य, प्राणानायम्य…. प्रीत्यर्थं (प्रातः / सायं) समिदाधानं करिष्ये । अग्निं प्रतिष्ठाप्य -

जुषस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒द्य॑ज॒तं धूम्रमृ॒ण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒स्तू॒पैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]

प्रदक्षिणमग्निं परिसमूह्य, परिषिश्य, १. ‘ओम् अदि॒तेऽनु॑मन्यस्व’,
२. ‘ओम् अनु॑म॒तेऽनु॑म॒न्यस्व’,
३. ‘ओं सर॑स्व॒तेऽनु॑म॒न्यस्व’,
४. ओं देव॑ सवितः॒ प्र सु॑व’ इति । [[TODO:परिष्कार्यम्??]]

अथ चतस्रः समित् आहुतीः

१. ओं भूस्स्वाहा॑ ॥ (अग्नय इदं)
२. ओं भुव॒स्स्वाहा॑ ॥ (वायव इदं)
३. ओँ सु॒व॒स्स्वाहा॑ । (सूर्याय इदं)
४. ओं भूर्भुव॒स्सुव॒स्स्वाहा॑ । (प्रजापतय) [[TODO:परिष्कार्यम्??]]

पूर्ववत् परिसमूह्य,

जुषस्व॑नस्स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धूम्रमृ॒ण्वन् ।
उप॑ स्पृश दि॒व्यं सानु॒स्तूपैः सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ [[TODO:परिष्कार्यम्??]]

उपस्थानं करिष्ये

यत्ते॑ अग्ने तेजस्तेना॒हं ते॑जस्वी र्भूयासम् ।
यते॑ अग्ने वर्चस्तेना॒हं व॑र्चस्वी भू॑यासम् ।
यते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [[TODO:परिष्कार्यम्??]]

[[273]]

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रयं द॑धातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो भ्राजो॑ दधातु ॥ इति । [[TODO:परिष्कार्यम्??]]

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुराणमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ [[TODO:परिष्कार्यम्??]]

इत्युपस्थाय,

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा, प्रणम्य, अभिवाद्य, आचामेत् ।