६३ मन्वादिश्राद्धानि

॥ मन्वादिश्राद्धानि ॥

अमामनुयुगक्रान्तधृतिपातमहालयाः ।
अन्वष्टक्यश्च तिथयः षण्णवत्यः प्रकीर्तिताः ॥

स्मृत्यन्तरे –

अमापातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च ॥
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः ॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च ।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः ॥
अमाऽष्टकाव्यतीपातमन्वादिषु युगादिषु ।
विद्वाञ्च्छ्राद्धमकुर्वाणः प्रायश्चित्तीयते द्विजः ॥

गालवः -

तिथ्यादिषु च यच्छ्राद्धं मन्वादिषु युगादिषु ।
अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम्

इति ॥ गालववचनन्तु न नित्यत्वाऽपाकर णार्थम् । वचनद्वयेनाऽग्निहोत्रादिवन्नित्यत्वकाम्यत्वयोरविरोधादित्याहुः ॥ ॥ युगादयः ॥

विष्णुपुराणे -

वैशाखमासस्य च या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥

॥ मन्वादयः ॥

मत्स्यपुराणे -

आश्वयुक्शुक्लनवमी कार्तिकीद्वादशी सिता ।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ॥
फाल्गुनस्याऽप्यमावास्या पुष्यस्यैकादशी सिता ।
आषाढस्याऽपि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याऽष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥
मन्वन्तरादयश्चैते दत्तस्याक्षयकारकाः ।
कृतं श्राद्धविधानेन मन्वादिषु युगादिषु ॥
हायनानि द्विसाहस्रं पितॄणां तृप्तिदं भवेत् ॥

पुलस्त्यः -

अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वपणादृते ॥

उक्तदिने प्रातर्नित्यकर्म कृत्वा मध्याह्नसन्ध्योपासनान्ते स्नात्वा वैश्वदेवं तिलतर्पणञ्च कृत्वा देशकालौ सङ्कीर्त्य, पिण्डाऽग्नौकरणवर्ज्यनम् अयनद्वय-विषुवद्वय-युगादिश्राद्धानि कुर्यात् ॥ इतराणि पिण्डदानादिपूर्वकं मुख्यकल्पेन ॥ अशक्तौ - अनुकल्पेन वा कुर्यात् ॥ ॥ अन्ये श्राद्धानुकल्पाः ॥

हेमाऽभावे स्मृत्यन्तरे -

तृणानि वा गवे दद्यात्पिण्डान्वाऽथाऽपि निर्वपेत् ।
तिलोदकैः पितॄन्वाऽपि तर्पयेत्स्नानपूर्वकम् ॥
अग्निना वा दहेत्कक्षं श्राद्धकाले समागते ।
तस्मिंश्चोपवसेदह्नि जपेद्वा श्राद्धसंहिताम् ॥
अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचद्विप्रान्सकला सिद्धिरस्विति ॥
श्राद्धानुकल्पं यः कुर्याज्जात्यवस्थाद्यपेक्षया ।
श्राद्धाङ्गांंशेऽप्यवाप्नोति मुख्यश्राद्धफलं नरः ॥

इति ॥

॥ इति पितृमेधकाण्डं समाप्तम् ॥

॥ इति बोधायनीयब्रह्मकर्मसमुचयः ।।