६२ प्रकारान्तरेण पञ्चमीश्राद्धविधिः

॥ पुत्रकामस्य प्रकारान्तरेण पञ्चमीश्राद्धविधिः ॥

(बो. गृ. शे. सू ५. ६) अथातः पञ्चमीश्राद्धं व्याख्यास्यामः - मार्गशीर्ष्यां माघ्यां प्रोष्ठपद्यां वोपरिष्टात्पञ्चम्यामारभ्य संवत्सरं वा कुर्यात् ॥ पूर्वदिने व्रती भूयात्

इदं करिष्याम्येवं करिष्यामि

इति ॥ ब्राह्मणान्निमन्त्रयते योनिगोत्रश्रुतवृत्तसम्पन्नान् ॥ असम्बन्धानपि श्रुतवृत्तसम्पन्नान्निमन्त्रयते ॥ तस्य मासिश्राद्ध उक्त एतावदेव नाना ॥ पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति –

आयुष्टे, आयुर्दा अग्ने, जातो यदग्ने, अन्नपतेऽन्नस्य नो देहि

इति चतस्रः ॥ विष्णुसूक्तेन चान्नस्य जुहोति ॥ अथ लाजैर्जुहोति -

पुरुष-सूक्तेन प्रत्यृचम् ॥

अथ तिलैर्जुहोति -

शन्नो देवीः, प्रजापते, इमं यम प्रस्तरम्

व्याहृतीभिश्च ॥ अथाज्यस्य जुहोति –

अग्न आयूंषि पवसे, अग्ने पवस्व, यस्त्वा हृदा कीरिणा, यस्मै त्वम्

इति चतस्रः

धाता ददातु नो रयिमीशानः

इत्यान्तादनुवाकस्य प्रत्यृचं

अव ते हेडः, उदुत्तमम्, इमं मे वरुण, तत्त्वा यामि, त्वन्नो अग्ने, सत्वन्नो अग्ने, त्वमग्ने अयाऽसि, उद्वयं तमसस्परि, उदु त्यं, चित्रं, वैश्वानरो न ऊत्या, पृष्टो दिवि, सोमो धेनु

इति । दशहोत्राद्यैष्षड्भिः

ब्राह्मण एकहोता

इति दशभिः । स्विष्टकृत्प्रभृति सिद्धमापिण्डदानात् ॥ दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेष्वन्नशेषैस्त्रीन्पिण्डान्ददाति ॥ दशमेऽहनि वैवाहिकश्राद्धवद्भूमौ लेपमन्त्रत्रयान्तं कृत्वाऽथैनान्त्संक्षाळनेन त्रिरपसलैः परिषिञ्चति -

ऊर्जं वहन्तीः

इति ॥ अथ मध्यमपिण्डं पत्न्यै प्रयच्छति -

वीरम्मे दत्त पितरः

इति ॥ तं पत्नी प्राश्नाति -

आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् ।
यथेह पुरुषो हसत्

इति

पुमांस एव मे पुत्रा जायेरन्

इति ब्राह्मणम् ॥ जयप्रभृति सिद्धमाधेनुवरप्रदानात् ॥ यदि जीवपिता पिण्डं न दद्यात्

पितृभ्यस्स्वधा

इति मन्त्रान्सन्नमय्य प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य चतुष्पथे दर्भस्तम्बेषु बलिमुपहरति -

नमस्स्त्रियै नमः पुंसे नमस्सवयसे नमः ।
शुक्लाय कृष्णदन्ताय पापिनां पतये नमः ॥
ये मे प्रजामुपलोपयन्ति ग्रामे वसन्त उत वाऽरण्ये ।
तेभ्यो नमो अस्तु बलिमेतेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे दधे

इति ॥

पञ्चम्यां श्राद्धेन बह्वपत्यो भवति । न चानपत्यः प्रमीयते । श्राद्धेन वार्षयो दिवमागच्छन्

इति ॥ विज्ञायते च -

प्रजामनु प्रजायसे । तदुते मर्त्यामृतम्

इति ॥ तस्मिन्प्रजापतौ यत्नः कार्यः।
अत्रोदाहरन्ति -

परानपहरेद्यस्तु बालवृक्षाञ्छिनत्ति यः ।
भक्षयन्नण्डशिशुकान्गुरून्वा सर्वदा द्विषन् ॥
परपुत्रांश्च यो द्वेष्टि क्रीडन्बद्धमृगादिभिः ।
निर्दयः सर्वभूतेषु पितृपूजां विलोपयन् ॥
स वन्ध्यो मृतपुत्रो वा भवेत्तेषान्तु निष्कृतिः ।
मौनी वृत्ती हविष्याशी हूयते नियतेन्द्रियः ॥
जुह्वा घृतेन कूष्माण्डैर्गणानष्टौ घृतोदनैः ।
जपन्वा पौरुषं सूक्तं हेमगोभूतिलान्ददत् ॥
कृच्छ्रातिकृच्छ्रैर्जपकृन्मुच्यते सोंऽहसः क्षणात् ॥

इत्याह भगवान्बोधायनः ॥

सुमन्तुः -

न जीवत्पितृकः कुर्यात्श्राद्धमग्निमृते द्विज ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः ॥
पितामहेऽप्येवमेव कुर्याज्जीवति साग्निकः।
साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे ॥

भविष्यपुराणे

जीवमाने न देयं स्याद्यस्माद्भरतसत्तम ।
तस्माज्जीवपिता कुर्याद्वाभ्यामेव न संशयः ॥

मनुः -

ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
विप्रवद्भावितं श्राद्धे स्वकं पितरमाशयेत् ॥
पिता यस्य तु वृत्तस्स्याज्जीवेद्वाऽपि पितामहः ।
पितुस्तु नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ॥

याज्ञवल्क्यः -

होमतः पितृयज्ञस्य जीवेत्पितरि जीवतः ।
पितरं भोजयित्वा वा पिण्डौ निर्वृणुयात्पिता ॥
उभौ यस्य व्यतीतौ तु जीवेच्चेत्प्रपितामहः ।
पिण्डौ निर्वृणुयात्पूर्वौ भोजयेत्प्रपितामहम् ॥

यमः -

पित्र्यं जीवपितुर्नोक्तमग्नौ होमोऽपि पाक्षिकः ।
येभ्यो वापि पिता तेभ्यो दद्याद्वैतानकर्मणि ॥
दद्यात्तेभ्यः परेभ्यस्तु जीवेच्चेत् त्रितयं यदि ॥

आपस्तम्बः -

यदि जीवति पिता न दद्यात् ।
आहोमात् त्यक्त्वा विरमेत् । अत्र यथा स्वशाखं व्यवस्था ॥

पञ्चमीश्राद्धात्पूर्वं कस्मिञ्चिच्छुभदिने स्नानादि नित्यकर्म कृत्वा देशकालौ सङ्कीर्त्य

मम बालताडन-तर्जन-हनन-पितृमातृगुरुद्वेष-परहिंसा-परद्वेषण-परहृत्क्लेशकरण-परदारहरण-विप्रवृत्ति-रत्ननिक्षेपाऽपहरणाऽन्यपुत्रविद्वेषण-मृगशावहनन-प्राण्यण्डभक्षण-मातृवत्सवियोजन-गुर्वधिक्षेप-बालवृक्षच्छेदन- सुहृद्वधाऽष्टकापर्वसङ्क्रान्त्यादिषु विहितनित्यनैमित्तिकादिकर्मराहित्येत्यादिना जनित-अपुत्रत्व-मृतपुत्रत्वादिसमस्तदोषनिवृत्तिद्वारा शरीरशुध्यर्थं करिष्यमाणपञ्चमीश्राद्धाऽधिकारार्थं परिषदुपदिष्टं प्राजापत्यादिकृच्छ्रं कूष्माण्डहवनं गणहोमञ्च कृत्वा…

तदुक्तफलावाप्त्यर्थं - गो-भू-तिल-हिरण्यानि ब्राह्मणेभ्यो दत्वा कर्म समाप्योक्तकाले सुपुत्रावाप्त्यर्थं पञ्चमीश्राद्धं कुर्यात् ॥ बह्वपत्यो भवति। नचाऽनपत्यः प्रमीयते ॥

अथ प्रयोगः ॥ पुत्रकामो मार्गशीर्षस्य माघस्य भाद्रपदस्य वाऽपरपक्षस्य पञ्चमीमारभ्य यावत्संवत्सरमपरपक्षपञ्चम्यां पञ्चमीश्राद्धं कुर्यात् ॥ पूर्वेद्युर्व्रती भूत्वा सायमौपासनाऽन्ते, आचम्य प्राणानायम्य ( प्राचीनावीती )

पुत्रकामः संवत्सरं पञ्चमीश्राद्धं कर्तास्मि

इति मनसा सङ्कल्प्य

पुत्रानिच्छे, श्वः पञ्चमीश्राद्धं भविता

इत्यादिभिः पूर्वोक्तपञ्चमीश्राद्धवद्ब्राह्मणनिमन्त्र णम् ॥ परेद्युः प्रातर्नित्यकर्मान्ते -

पुत्रानिच्छे, अद्य पञ्चमीश्राद्धं भवति

इत्यादि पुनर्निमन्त्रणम् ॥ मध्याह्ने आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

पितृपितामहप्रपितामहानां° रूपाणामक्षय्यतृप्त्यर्थं सदैवं साग्नौकरणं सपिण्डं पञ्चमीश्राद्धं पार्वणविधानेनान्नेन हविषाऽहमद्य करिष्ये

इति सङ्कल्पः ॥ अग्नौकरणे विश्वेदेवहोमानन्तरं

याः प्राचीः

इत्यादि पञ्च स्रुवाहुतीर्हुत्वा

सोमाय पितृमते शुष्मिणे जुहोमि हविः°

इत्यादिभिस्त्रिभिः पैतृकचरुहोमान्तेऽपूपमष्टधा विभज्य तैरेव मन्त्रैर्हुनेत् ॥ ततः

पितृभ्यः स्वधा नमः स्वाहा

इत्यादि चतुर्विंशत्यन्नाहुतीर्हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायाऽवशिष्टचरुं मेक्षणेनोपहत्य जुहोति -

आयुष्टे° सुवामिते स्वाहा ( आयुर्देऽग्नय इदं° ) आयुर्दा अग्ने° (आयुर्देऽग्नय इदं° ) जातो यदग्ने° (अग्नये वैश्वानरायेदं°) अन्नपतेऽन्नस्य नो देहानमीवस्य शुष्मिणः । प्रप्रदातारं तारिष उर्जन्नो धेहि द्विपदे चतुष्पदे स्वाहा (अग्नयेऽन्नपतय इद°) विष्णोर्नुकं°, तदस्य प्रियं°, प्र तद्विष्णुः°, परो मात्रया°, विचक्रमे°, त्रिर्देवः°, इति षड्भिः (सर्वत्र, विष्णव इदं° ) ॥

अथ लाजैर्जुहोति -

पुरुषसूक्तमन्त्रैः प्रत्यृचं (सर्वत्र, पुरुषाय नारायणायेदं° ) ॥

अथ तिलैर्जुहोति -

शन्नो देवीः° (अद्भ्य इदं° ) प्रजापते न त्वत्° ( प्रजापतय इदं° ) इमं यम प्रस्तरं° ( यमायेदं° ) भूः° ( अग्नय इदं° ) भुवः° (वायव इदं° ) सुवः° ( सूर्यायेदं° ) भूर्भुवस्सुवः° (प्रजापतय इदं° ) ॥

अथाज्याहुतीरुपजुहोति -

अग्न आयूँषि पवसे°, अग्ने पवस्व°, (द्वयोः - अग्नय इदं° ) यस्त्वा हृदा°, यस्मै त्वं° (द्वयोः - अग्नये पुत्रवत इदं°) धाता ददातु नो रयिं°, धाता प्रजाया°, धाता ददातु नो रयिं प्राचीं°, धाता ददातु दाशुषे°, ( इति चतसृणां - धात्र इदं° ) अनु नोऽद्यानुमतिः°, अन्विदनुमते त्वं°, अनु मन्यतामनु मन्यमाना°, यस्यामिद°, (इति चतसृणां - अनुमत्या इदं°) राकामहं°, यास्ते राके°, ( इति द्वयोः - राकाया इदं° ) सिनीवालि°, या सुपाणिः° (द्वयोः सिनीवाल्या इदं° ) कुहूमहं°, कुहूर्देवानां°, (द्वयोः - कुह्वा इदं° ) अव ते हेडः°, उदुत्तमं°, इमम्मे वरुण°, तत्वा यामि°, ( इति चतसृणां - वरुणायेदं° ) त्वन्नो अग्ने°, स त्वन्नो अग्ने° (इति द्वयोः - अग्नीवरुणाभ्यामिदं° ) त्वमग्ने अयासि° (अग्नयेऽयस इदं° ) उद्वयं तमसस्परि°, उदु त्यं°, चित्रं° (इति तिसृणां - सूर्यायेदं° ) वैश्वानरो न ऊत्या°, पृष्टो दिवि°, (इति द्वयोः - अग्नये वैश्वानरायेदं°) सोमो धेनुं° (सोमायेदं°) चित्तिः सुक्° नृम्णं धात्स्वाहा ॥ पृथिवी होता°, अग्नि र्होता°, सूर्यन्ते चक्षुः°, महाहविर्होता°, वाग्घोता° (एतेषां - वाचस्पतये ब्रह्मण इदं° ) ब्राह्मण एकहोता° भूयात्स्वाहा, (ब्रह्मण इदं° ) अग्निर्द्विहोता° (अग्नय इदं° ) पृथिवी त्रिहोता° (पृथिव्या इदं° ) अन्तरिक्षं चतुर्होता° (अन्तरिक्षायेदं° ) वायुः पञ्चहोता° ( वायव इदं° ) चन्द्रमाष्षड्ढोता° (चन्द्रमस इदं°) अन्नँ सप्तहोता° ( अन्नायेदं° ) द्यौरष्टहोता° (दिव इदं°) आदित्यो नवहोता° (आदित्यायेदं°) प्रजापतिर्दशहोता° (प्रजापतय इदं°)

इति ॥ ततः स्विष्टकृद्धोमान्ते - मण्डलकरणादि ब्राह्मणान्सम्भोज्य ताम्बूलदक्षिणादि यथाविभवं दत्वा अक्षय्यं वाचयित्वा शेषमनुज्ञाप्याऽनुव्रज्य पश्चाद्धोमान्ते

एतत्ते ततासौ ये ते मातामहाः ये ते आचार्याः

इत्यादिभिस्त्रीन्पिण्डान्दद्यात् ॥

ये नः पतिता

इत्याद्युत्तरलेपनिमार्जनादि पिण्डोद्वासनान्ते,

वीरम्मे दत्त पितरः

इति मध्यमपिण्डं पत्न्यै प्रयच्छति ।

आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
यथेह पुरुषो हसत्

इति तं पत्नी प्राश्नाति ॥ ॥ जीवत्पितृकस्तु अग्नौकरणहोमान्तं कृत्वा पिण्डप्रदानस्थाने वक्ष्यमाणप्रकारेण बलिमुपहरेत् -प्राचीमुदीचीं वा दिशं गत्वा चतुष्पथे गोमयेनोपलिप्य दक्षिणाग्रेषु दर्भेषु श्राद्धशेषेण

पितृभ्यः स्वधा, पितामहेभ्यः स्वधा, प्रपितामहेभ्यः स्वधा । नमस्त्रियै नमः पुंसे नमस्सवयसे नमः । शुक्लाय कृष्णदन्ताय पापिनां पतये नमः ॥ ये मे प्रजामुपलोपयन्ति ग्रामे वसन्त उत वाऽरण्ये । तेभ्यो नमो अस्तु बलिमेतेभ्यो हरामि स्वस्ति मेऽस्तु प्रजाम्मे दधे

इति । अन्यत्सर्वं सांवत्सरिकश्राद्धवत् ॥