॥ पुत्रकामस्य पञ्चमीश्राद्धविधिः ॥
(बो. गृ. शे. सू. २.१) अथातः पञ्चमीश्राद्धं व्याख्यास्यामः - शैशिरे मास्यारभ्य शुक्लपक्षस्य पञ्चम्यां कृष्णपक्षस्य सप्तम्याञ्च पुत्रकामी संवत्सरं दीक्षां कृत्वा तस्मात्पूर्वेद्युस्सायमौपासनहोमे हुते प्राचीनावीती सङ्कल्पयेत्
प्रथमसंवत्सरं कर्ताऽस्मि
इति मनसा सङ्कल्पे कृते सायमनशनः त्र्यवरान्ब्राह्मणानिमन्त्रयते ॥ पादप्रक्षाळनं कृत्वा गन्धादिभिरलङ्कृत्य
पुत्रानिच्छे श्वः पञ्चमीश्राद्धं भविता तत्र भवद्भिः प्रसादः करणीयः
इति ॥ अपरेद्युरामन्त्र्य पादप्रक्षाळनं कृत्वा
अद्य श्राद्धं भवति
इति ॥ मध्याह्ने तृतीयमामन्त्रणम् ॥ अवटखननादि मासिश्राद्धवत् ॥ पितॄणां श्राद्धं मातामहानाञ्च श्राद्धं कुर्यादिति ॥ अथाऽग्निमुखात्कृत्वा मासिश्राद्धवद्धोमं कृत्वा पृथक्पृथग्घोमं पिण्डञ्च कुर्यात् ॥ वस्त्राभरणकुण्डलाद्यैरलङ्कृत्य
सिद्धं भवतु
इति वाचयित्वा तान्भोजयेत् ॥ भोजनवेळायां दिवाकीर्त्यपठनं पुण्यकथनं स्मृतिपठनञ्च ॥ स्वाचान्तान्प्रणम्य भुक्तदक्षिणां यथाशक्ति दत्वा पुनस्सिद्धं वाचयित्वा तान्विसृज्य द्वारान्तमनुव्रज्य पिण्डदानानि मासिश्राद्धवत्कृत्वा ततश्शेषं दम्पती प्राश्नीयाताम् ॥ मध्यमपिण्डं पत्नीं प्राशयति ॥ पूर्वेद्यू रात्रावपरेद्यू रात्रौ च भोजनं मैथुनादि न कुर्याद्ये श्राद्धभोजिनश्च ॥ एवङ्कुर्वन्पुत्रस्सगणोपेतो भवति पुत्रो न शीर्यते तस्मात्पञ्चमीश्राद्धं कुर्यात् ॥ पुत्र इति निर्वचनम् - पुदिति नरकस्तस्मात् त्रायते इति पुत्रोऽपुत्रस्य गतिर्नास्तीत्याह भगवान्बोधायनः ॥
वायुपुराणे -
पत्न्यै प्रजार्थं दद्यात्तु मध्यमं मन्त्रपूर्वकम् । आधत्त पितरो गर्भमत्र सन्तानवर्धनम् ॥
मनुः -
पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमन्तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी ॥
आयुष्मन्तं सुतं विन्देद्यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तन्धार्मिकं सात्त्विकं तथा ॥
यमः -
यत्तथा मध्यमं पिण्डं पत्नी प्राश्नाति वाग्यता ।
पुत्रकामा सपुत्रान्तां कुर्वन्ति प्रपितामहाः ॥
शङ्खलिखितौ -
पत्नी मध्यमं पिण्डमश्नीयादार्तवस्नाता ॥
आर्तवस्नाता = अगृहीतगर्भेत्युच्यते । ततश्च गृहीतगर्भा पत्नी नाश्नीयात् ॥ पत्न्यै द्वितीयपिण्डदानम् । पत्नीबहुत्वे विभज्य सर्वाभ्यः प्रयच्छति, दानमन्त्रश्चावर्तते । पुमांसं ह जानुका भवतीति विज्ञायते ॥ जानुका = जननशीला इत्यर्थः ॥ न तं भ्रातृपत्न्यादिभ्यो दद्यान्निषेधात् । मध्यमपिण्डं पत्न्यै प्रयच्छेदिति वचनं सर्वश्राद्धसमानमिति भावः ॥
प्रदद्यान्मध्यमं पिण्डं पत्न्यै भर्त्रा विशेषतः ।
न दद्याद्भ्रातृपत्नीनामेष धर्मः सनातनः ॥
पुत्रे जाते तु षण्मासे नार्यां वाथ ऋतुत्रये ।
न देयं रजसः पूर्वं तद्देयं रजसः परम् ॥
अक्षता गर्भिणी वन्ध्या गतरक्ता रजस्वला।
नाश्नीयान्मध्यमं पिण्डं स्वैरिणी च विशेषतः
इति ॥ पत्नीबहुत्वे सति पिण्डमेकं विभज्य दद्यात्प्रजननार्थमिष्टम् । मन्त्रस्य चाऽवृत्तिरिह प्रसिद्धा तथैव योक्त्रं बहुपत्निकस्य ॥
अथ प्रयोगः ॥ पुत्रकामः माघमासप्रभृत्याऽऽसंवत्सरं प्रतिमासि शुक्लपक्षस्य पञ्चम्यां कृष्णपक्षस्य सप्तम्याञ्च श्राद्धं कुर्यात् ॥ पूर्वेद्युः सायमौपासनं हुत्वाऽऽचम्य प्राणानायम्य पुत्रकामः
प्रथमसंवत्सरं पञ्चमीश्राद्धं कर्ताऽस्मि
इति मनसा सङ्कल्प्य
पुत्रानिच्छे, श्वः पञ्चमीश्राद्धं भविता, तत्र भवद्भिः प्रसादः करणीयः
इति धुरिलोचनविश्वेदेवार्थं द्वौ विप्रौ पित्रर्थं त्रीन्विप्रांश्च निमन्त्र्य । परेद्युः प्रातर्नित्यकर्मनिर्वर्तनान्ते,
अद्य श्राद्धं भवति
इति पुनर्निमन्त्र्य श्राद्धकाले स्नात्वा,
पितृपितामहप्रपितामहानां° रूपाणां, मातृपितामहीप्रपितामहीनां° दानां° रूपाणां, मातामहमातुःपितामहमातुःप्रपितामहानां° रूपाणां, मातामहीमातुःपितामहीमातुःप्रपितामहीनां° दानां° रूपाणामक्षय्यतृप्त्यर्थं पुत्रकामः सदैवं साग्नौकरणं सपिण्डं पञ्चमीश्राद्धं पार्वणविधानेनाsन्नेन हविषाऽहमद्य करिष्ये
इति सङ्कल्पः । अग्नौकरणे पञ्च स्रुवाहुत्यन्ते
सोमाय पितृमते शुष्मिणे जुहुमो हविः°
इत्यादि त्रिभिर्मन्त्रैः पैतृकं चरुं हुत्वा तैरेव मन्त्रैरपूपस्य त्रीण्यवदानानि च हुनेत् । ततः
पितृभ्यः स्वधा नमः स्वाहा
इत्यादि चतुर्विंशत्यन्नाहुतीः स्विष्टकृतञ्च हुत्वा, ब्राह्मणान्वस्त्राभरणकुण्डलाद्यैरभ्यर्च्य
सिद्धं भवतु
इति वाचयित्वा तान्भोजयेत् । भोजनकाले - दिवाकीर्त्यपठनं पुण्यकथनं स्मृतिपठनञ्च कुर्यात् ॥ भोजनान्ते तान्प्रणम्य यथाशक्ति दक्षिणां दत्वा
सिद्धं भवतु
इति वाचयित्वा तान्विसृज्य प्रदक्षिणीकृत्य द्वारान्तमनुव्रज्य शेषमनुज्ञाप्य
पितृभ्यः स्वधा नमः
इत्यादिभिः चतुर्विंशतिपिण्डान्दद्यात् । पिण्डोद्वासनान्ते
वीरम्मे दत्त पितरः
इति मध्यमपिण्डं पत्न्यै प्रयच्छति ।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
यथेह पुरुषो हसत्
इति पत्नी वाग्यता प्राश्नाति ॥ ततः श्राद्धशेषं दम्पती अश्नीयाताम् ॥ अन्यत्सर्वं सांवत्सरिकश्राद्धवत् ॥