६० नित्यश्राद्धविधिः

॥ नित्यश्राद्धविधिः ॥

पारस्करः -

अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् ।
वैश्वदेवविहीनन्तु ह्यशक्तावुदकेन तु ॥

अस्य पार्वणत्वेन प्राप्तं वैश्वदेवं निरस्यति वैश्वदेवविहीनमिति । अहन्यहनीत्येतदत्यन्तश्रद्धालुविषयं सुसमृद्धविषयं वा ॥
देवलः -

एतेन विधिना श्राद्धं कुर्यात्संवत्सरं सकृत् ।
त्रिश्चतुर्वा यथाश्रद्धं मासे मासे दिने दिने ॥

इति । एतेन विधिना, पार्वणविधिना प्रतिवत्सरमेकवारं विशिष्टेऽह्नि, प्रतिसंवत्सरं त्रिवारं वा चतुर्षु चतुर्षु मासेषु विशिष्टेऽह्नि, प्रतिसंवत्सरं चतुर्वारं वा त्रिषु त्रिषु मासेषु विशिष्टेऽह्नि, मासे मासे वा विशिष्टेऽह्नि, दिने दिने वा यथाश्रद्धं श्रद्धानुसारेण शक्त्यनुसारेण च नित्यश्राद्धं कुर्यादित्यर्थः ॥

अथ प्रयोगः ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, अस्मत्पितृपितामहप्रपितामहानां° रूपाणां, मातृपितामहीप्रपितामहीनां० रूपाणां, मातामहमातुःपितामहमातुःप्रपितामहानां° रूपाणां, मातामहीमातुःपितामहीमातुःप्रपितामहीनां° रूपाणामक्षय्यतृप्त्यर्थं नित्यश्राद्धं पार्वणविधानेनान्नेन हविषाहमद्य करिष्ये, इति सङ्कल्प्य । ब्राह्मणानाहूयासनेषूपवेश्य गन्धादिभिरभ्यर्च्य भोजनपात्रकल्पनादि ब्राह्मणान्सम्भोज्य तृप्तिप्रश्नान्ते यथासम्भवं दक्षिणादि दत्वा तान्प्रदक्षिणीकृत्य विसर्जयेत् । नात्र ब्रह्मचर्याऽपुनर्भोजननियमः । विश्वेदेवविप्राग्नौकरणपिण्डदानतर्पणादिवर्जं सर्वमन्यत्सांवत्सरिकश्राद्धवत् ॥ ॥ विप्राऽलाभे - किञ्चिदन्नमुद्धृत्य

पितृभ्यः स्वधा नमः

इति पित्रुद्देशेन गवे दद्यात्, अग्नौ वा क्षिपेत् ॥ ॥ दर्शश्राद्धनान्दीश्राद्धमहालयादिश्राद्धदिनेषु नित्यश्राद्धस्य लोप एव ॥