५९ साङ्कल्पिकश्राद्धम्

॥ साङ्कल्पिकश्राद्धम् ॥

( बो. गृ. प. सू. १. ९. १-११ ) अपि वा सङ्कल्पेन ब्राह्मणान्भोजयेत् -

सङ्कल्पसिद्धिरस्तु

इति वाचयित्वा ॥
एवमापत्सु कुर्वीत न च नित्यन्तु कारयेत् ।
ये नित्या उपासते श्राद्धानि च हवीँषि च ॥

अथ प्रयोगः ॥ कर्ता पूर्वेद्युः सद्यो वा ब्राह्मणान्निमन्त्र्य श्राद्धदिने कृतनित्यक्रियो मध्याह्ने पूर्वमेव तिलतर्पणं विधाय देशकालकीर्तनान्ते पितृपितामहप्रपितामहानां° रूपाणां ( श्राद्धविहितसमस्तपितॄणां नामगोत्राद्युच्चार्य ) अक्षय्यतृप्त्यर्थम् अमुकश्राद्धं साङ्कल्पिकविधिनाऽहमद्य करिष्ये, इति सङ्कल्प्य विप्रानाहूय, आवाहनार्घ्यवर्जं (तूष्णीं वाऽवाहनं) आसनगन्धाच्छादनाद्युपचारैः पूजयेत् । अग्नौकरणवर्जं ब्राह्मणान्भोजयित्वा, तृप्तिप्रश्नान्तेऽक्षय्यं वाचयित्वा, शेषमनुज्ञाप्य

सङ्कल्पसिद्धिरस्तु

इति विप्रान् प्रार्थयेत् ।

अस्तु सङ्कल्पसिद्धिः

इति प्रतिवचनम् । अन्यत्सर्वं समानम् । ततो बन्धुभिः सह श्राद्धशेषं भुञ्जीत ॥ ॥ अत्यन्ताशक्तः - आचम्य प्राणानायम्य पूर्ववत्सङ्कल्प्य, देवपितृविप्रान्यथोपपादमभ्यर्च्य भोजयित्वा, उत्तरापोशनान्ते भुक्तवद्भ्यस्ताम्बूलदक्षिणादि दत्वा,

सङ्कल्प्य सिद्धिरस्तु

इति वाचयित्वा (‘अस्तु सङ्कल्पसिद्धिः’ इति प्र°) कर्म समर्प्य श्राद्धशेषं भुञ्जीत ॥