५८ अनुपनीत-स्त्रीकर्तृकश्राद्धविधिः

॥ अनुपनीत-स्त्रीकर्तृकश्राद्धविधिः ॥

सुमन्तुः -

श्राद्धं कुर्यादवश्यन्तु प्रमीतपितृको हि सः ।
व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदि ॥

वृद्धमनुः -

कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः ।
पितृयज्ञाहुतिं पाणौ जुहुयाद्ब्राह्मणस्य सः ॥

व्याघ्रः -

कृतचौलस्तु कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥

स्मृत्यन्तरे -

कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत् स्वधाकारं न तु वेदाक्षराण्यसौ ॥
न ह्यस्मिन्युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ।
नाऽभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥

अथ प्रयोगः ॥ पूर्वेद्युः सायं°

श्वः प्रतिसांवत्सरिकश्राद्धं कर्तास्मि

इति मनसा सङ्कल्प्य ब्राह्मणान्निमन्त्र्य, परेद्युः प्रातः पुनर्निमन्त्र्य, ब्राह्मणानाहूय मध्याह्ने स्नात्वा

पुरूरवरार्द्रवसंज्ञकानां विश्वेषां देवानाम् अस्मात्पितृ° महानां° गोत्राणां रूपाणामक्षय्यतृप्त्यर्थं श्राद्धसंरक्षकमहाविष्णुप्रीत्यर्थञ्च सदैवं सपिण्डं सांवत्सरिकश्राद्धं पार्वणविधानेनानेन द्रव्येणाहमद्य करिष्ये

इति सङ्कल्प्य । श्राद्धं कर्तुं कञ्चिद्ब्राह्मणमृत्विक्त्वेन वृणुयात् । ब्राह्मणः

इत्यङ्गीकृत्य । अनुपनीतस्य यजमानस्यानुज्ञया

तत्पितृपितामहप्रपितामहानामक्षय्यतृप्त्यर्थं प्रतिसांवत्सरिकश्राद्धं करिष्ये

इति सङ्कल्प्य सर्वमविकृतं कुर्यात् । सर्वत्र-पितृपदात्पूर्वं

अनुपनीतस्य यजमानस्य

इति पदद्वयं योज्यम् । श्राद्धकर्तृनियमास्तु - ऋत्विग्यजमानयोरपि समानाः । उत्तरीयवस्त्रेण प्राचीनावीतादि ऋत्विजो यजमानस्य च ॥ ऋत्विगलाभे सर्वान्वेदमन्त्रान् वर्जयित्वा केवलं

स्वाहा, स्वधा

शब्दमात्रमुच्चार्य तूष्णीं सर्वं कुर्यात् ॥ ॥ स्त्रीकर्तृकश्राद्धे - भर्तृतत्पितृपितामहानां, महालये तीर्थश्राद्धे च - अस्मद्भर्तृतत्पितृपितामहानां, भर्तुर्मातृपितामहीप्रपितामहीनां, (स्वस्य) पितृपितामहप्रपितामहानां, मातृपितामहीप्रपितामहीनां, मातामहमातुःपितामहमातुःप्रपितामहानां, मातामहीमातुःपितामहीमातुःप्रपितामहीनाञ्च (शक्तौ-स्वपितृव्यादीनां) सङ्कीर्तनपूर्वकम् अधिकारानुसारं ब्राह्मणद्वारा स्वयं वा कुर्यात् ॥ ॥