॥ हिरण्यश्राद्धम् ॥
व्यासः -
द्रव्याऽभावे द्विजाऽभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला
॥ आचम्य प्राणानायम्य देशकालकीर्तनादि कृत्वा
अमुकश्राद्धं हिरण्येन करिष्ये
इति विशेषः । आमस्थानेऽष्टगुणं चतुर्गुणं द्विगुणं समं वा हिरण्यं गायत्र्या प्रोक्ष्य, सदक्षिणं हिरण्यं दद्यात् । अत्र पिण्डदानं वैकल्पिकमिति केचित् । तृप्तिप्रश्नवर्जनादि शेषं सर्वमामश्राद्धवत् ॥ ॥