५६ आमश्राद्धविधिः

॥ आमश्राद्धविधिः ॥

सुमन्तुः -

पाकाभावेऽधिकारः स्याद्विप्रादीनां नराधिप ।
अपत्नीनां महाबाहो विदेशगमनादिभिः ॥
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ।
आत्मनो देशकालाभ्यां विप्लवे समुपागते ।
आपद्यनग्नौ तीर्थे च प्रवासे पुत्रजन्मनि ॥
चन्द्रसूर्यग्रहे चैव दद्यादामं विशेषतः ॥

उशनाः -

अपत्नीकः प्रवासी च यस्य भार्या रजस्वला ।
सिद्धान्नेन न कुर्वीत ह्यामं तस्य विधीयते ॥

जमदग्निः -

न भवेद्यस्य सामग्री दारा वा गृहमेव च ।
आमश्राद्धं प्रकुर्वीत वृद्धो बालश्च यो भवेत् ॥
आमं ददतु कौन्तेय दद्यादन्नाच्चतुर्गुणम् ।
सिद्धान्ने तु विधिर्यः स्यादामश्राद्धेऽप्यसौ विधिः ॥
आवाहनादि सर्वं स्यात्पिण्डदानञ्च भारत ।
दद्याद्यच्च द्विजातिभ्यः शृतं वाऽशृतमेव वा ॥
तेनाग्नौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ।
आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदः सदा ॥
हस्तेऽग्नौकरणं कुर्याद्ब्राह्मणस्य विधानतः ॥

षट्त्रिंशन्मते -

आमश्राद्धं यदा कुर्यात्पिण्डदानं कथं भवेत् ।
गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा ॥

धर्मप्रदीपे -

आमं चतुर्गुणं दद्यादथवा द्विगुणं तथा ।
आवाहनाग्नौकरणं विकिरं पात्रपूरणम् ।
तृप्तिप्रश्नं न कुर्वीत आमे हैमे कदाचन ॥

अथ प्रयोगः ॥ पूर्वाह्ने स्नात्वाऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, अमुकसंज्ञकविश्वेषां देवानां ( प्राचीनावीती ) मम पितृपितामहप्रपितामहानां° गोत्राणां° रूपाणां ( पित्रादितत्तच्छ्राद्धोक्तपितॄणां नामगोत्राद्युच्चार्य ) अमुकश्राद्धं सदैवं ( साग्नौकरणं ) सपिण्डमामेन हविषाऽहमद्य करिष्ये, इति सङ्कल्प्य, विश्वेदेवार्थं पित्राद्यर्थञ्च ब्राह्मणान्निमन्त्र्य स्वागतमुक्त्वा विश्वेदेवविप्रान्पाद्याचमनासनावाहनक्षणवस्त्रगन्धाक्षतादिभिरभ्यर्च्य ( प्राचीनावीती ) एवमेव पितृविप्रानप्यभ्यर्च्य ( यज्ञोपवीती ) पात्रद्वये श्राद्धचतुर्गुणं द्विगुणं वा आमं सदक्षिणं निधाय गायत्र्या प्रोक्ष्य

इदमामं सहिरण्यममुकसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो दत्तं न मम

इति विश्वेदेवविप्रेभ्यो दत्वा ( प्राचीनावीती ) एवमेव चतुर्गुणमामं सदक्षिणं पितृविप्रेभ्यो दद्यात् ॥ ( तण्डुलाद्यामद्रव्येणाऽग्नौकरणं ) गृहसिद्धान्नसक्तुपायसानामन्यतमेन पिण्डदानम् ॥ अत्राऽऽपोशन-प्राणाहुति-तृप्तिप्रश्न-अन्नशेषप्रश्नानां लोपः । अन्यत्सर्वं समानम् ॥ ॥