॥ तीर्थश्राद्धविधिः ॥
हारितः -
तीर्थद्रव्योपपत्तौ तु न कालमवधारयेत् ।
पात्रञ्च ब्राह्मणं प्राप्य सद्यः श्राद्धं विधीयते ॥
वृद्धवासिष्ठः -
गच्छन् देशान्तरं यद्धि श्राद्धं कुर्यात्तु सर्पिषा ।
तद्यात्रार्थमिति प्रोक्तं प्रवेशे च न संशयः ॥
मत्स्यपुराणे -
स्नात्वा नदीषु सर्वासु पितॄन्देवांश्च तर्पयेत् ।
तत्र तत्र यथावित्तं कुर्याच्छ्राद्धादिकं तथा ॥
अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ।
प्राप्तैरेव सदा कार्यं कर्तव्यं पितृतर्पणम् ॥
तीर्थे तु ब्राह्मणान्नैव परीक्षेत कथञ्चन ।
अन्नार्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥
सक्तुभिः पिण्डदानं स्यात्संयावैः पायसेन वा ।
कर्तव्यमृषिभिर्दृष्टं पिण्याकेनैङ्गुदेन वा ॥
पिण्याकेन तिलानां वा तत्र सद्भिर्नरैः सह ।
श्राद्धञ्च तत्र कर्तव्यमर्घ्यावाहनवर्जितम् ॥
श्वध्वाङ्क्षगृध्रकङ्काद्या घ्नन्ति दृष्टा न ते क्रियाः ।
अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेदनम् ।
तृप्तिप्रश्नञ्च विकिरं तीर्थे पञ्च विवर्जयेत् ॥
सपितुः पितृकृत्येषु ह्यधिकारो न विद्यते ।
न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतिः ॥
अस्यापवादः -
पित्र्येष्ट्यां पितृयज्ञे च वृद्धौ मातुर्मृतेऽहनि ।
विप्रसम्पदि तीर्थेषु सोऽपि श्राद्धं समाचरेत् ॥
पितुर्या देवताः प्रोक्तास्ता एवाऽत्र च देवताः ।
मृताहे मातरः शेषे सर्वा एव प्रकीर्तिताः ॥
उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ॥
महानदीषु सर्वासु तीर्थेषु च गयामृते ।
जीवत्पिताऽपि कुर्वीत श्राद्धं पर्वणि धर्मवित् ॥
अथ प्रयोगः ॥ पूर्वेद्युः सायं नित्यकर्मान्ते गङ्गा (अमुक) प्राप्तिनिमित्तं
श्वस्तीर्थश्राद्धं कर्तास्मि
इति सङ्कल्प्य
श्वः तीर्थश्राद्धं भविता तत्र भवद्भिर्विश्वेदेवार्थे प्रसादः करणीयः, श्वः तीर्थश्रा° भवद्भिः पित्राद्यर्थे प्रसा°, श्वः तीर्थ° भवद्भिः श्राद्धसंरक्षकविष्ण्वर्थे°
इति क्रमेण विश्वेदेव-पितृ-विष्ण्वर्थं विप्राणां निमन्त्रणम् ॥ अपरेद्युः प्रातर्नित्यकर्मान्ते विप्रानाहूय यथा सम्भवमभ्यर्च्य मध्याह्नसन्ध्योपासनान्ते स्नानादिचतुष्टयं विधाय शारीरसूक्तपठनादि द्विराचम्य प्राणानायम्य देशकालसङ्कीर्तनान्ते
धुरिलोचनसंज्ञकानां विश्वेषां देवानां तृप्त्यर्थं पितृपितामहप्रपितामहानां° रूपाणां प्रीत्यर्थम्
इत्यादि महालयोक्तक्रमेण सर्वान्कारुणिकपितॄनुच्चार्य तेषां अक्षय्यतृप्त्यर्थं, श्राद्धसंरक्षकमहाविष्णुप्रीत्यर्थञ्च गङ्गातीर्थयात्राङ्गभूतं तीर्थश्राद्धं सदैवं सपिण्डं ( साग्नौकरणं ) अन्नेन हविषाऽहमद्य करिष्ये, इति सङ्कल्पः । ततः क्षणादि दिग्बन्धनान्ते ( अग्निं प्रतिष्ठाप्यान्वाधाय प्रतिष्ठिताभिधारणान्तं कुर्यात् ) अत्रार्घ्यग्रहणाऽभावः। आवाहनार्घ्यवर्जं विश्वेदेवादिश्राद्धसंरक्षकविष्ण्वर्चनान्तं सर्वं कृत्वा ( ‘अग्नौ करिष्यामि’ इत्यादि वैश्वदेवहोमं ‘याः प्राचीः’ इत्यादि पञ्च स्रुवाहुतीश्च हुत्वा, पैतृकचरोरवदानधर्मेणावदाय ‘सोमाय पितृमते शुष्मिणे°’ इति त्रिभिर्हुत्वाऽपूपमष्टधा विच्छिद्य त्रीण्यवदानानि एतेनैव कल्पेन हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय ‘पितृभ्यः स्वधा नमः स्वाहा’ इत्यादि चतुर्विंशतिमन्त्रैर्होमं कुर्यात् । ततः स्विष्टकृद्धोमान्ते) भोजनपात्रकल्पनादि सर्वं महालयश्राद्धवत्कुर्यात् ॥ ॥ श्राद्धाङ्गतिलतर्पणं वर्जम् ॥ ॥