५४ महालयश्राद्धविधिः

॥ महालयश्राद्धविधिः ॥ बृहस्पतिः-

नभस्यस्यापरः पक्षो यत्र कन्यां व्रजेद्रविः ।
स महालयसंज्ञः स्याद्गजच्छायाह्वयस्तथा ।।

शाट्यायनः -

पुण्यः कन्यागतः सूर्यः पुण्यः पक्षश्च पञ्चमः ।
कन्यास्थाऽर्कान्वितः पक्षः सोऽत्यन्तं पुण्य उच्यते ॥

कार्णाजनिः-

कन्यागते सवितरि पितरो यान्ति वै सुतम् ।
तावत्तिष्ठन्ति कव्याशा यावद्वृश्चिकदर्शनम् ॥

हेमाद्रिः -

आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे ॥
तस्य संवत्सरं यावत्सन्तृप्ताः पितरो ध्रुवम् ॥

नागरखण्डे -

आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
मृतेऽहनि पितुर्यो वै श्राद्धं दास्यति मानवः ॥
तस्य संवत्सरं यावत्सन्तृप्ताः पितरो धुवम् ।
या तिथिर्यस्य मासस्य मृताऽहे तु प्रवर्तते ।
सा तिथिः पितृपक्षे तु पूजनीया प्रयत्नतः ॥
तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया ।
पिण्डं श्राद्धञ्च कर्तव्यं विच्छित्तिं नैव कारयेत् ॥

गार्ग्यः -

नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत पुत्रमित्रधनक्षयात् ।।

वृद्धगार्ग्यः -

प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा ।
महालयं न कुर्वीत श्रेष्ठपुत्रो विनश्यति ॥

मरीचिः -

समत्वमागतस्याऽपि पितुः शस्त्रहतस्य तु ।
एकोद्दिष्टं सुतः कुर्याच्चतुर्दश्यां महालये ॥

स्मृतिसङ्ग्रहे -

शस्त्रेण निधनं याता ये च विद्युज्जलादिभिः ।
तेषामपि चतुर्दश्यामेकोद्दिष्टं महालयम् ॥

वाराहे -

संन्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि ।
महालये तु तच्छ्राद्धं द्वादश्यां पार्वणेन तु ॥

एकस्मिन्दिनेऽनेकश्राद्धसम्पाते स्मृत्यन्तरे-

आब्दिकं प्रथमं कुर्यान्मासिकन्तु ततः परम् ।
दर्शश्राद्धं तृतीयं स्याच्चतुर्थस्तु महालयः॥

॥ पितृक्रमः ॥ सङ्गृहे - ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सस्त्री स्त्री तनयादितातजननी स्वभ्रातरः सस्त्रियः । ताताम्बाऽऽत्मभगिन्यपत्यधवयुग्जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥

स्मृत्यन्तरे -

दैवः पिता ततो माता सपत्नीजननी तथा ।
मातामहः सपत्नीकः पितृव्या भ्रातरः सुताः ॥
पितृष्वसा मातुलाश्च तद्भगिन्यश्च जामयः ।
भगिनी दुहिता भार्या श्वशुरो भावुकः स्नुषा ॥
श्यालको गुरुराचार्यः स्वामी सख्यादयः क्रमात् ।
भोज्या महालये श्राद्धे पते कारुणिकाह्वयाः ॥

नागरखण्डे -

नभो वाऽथ नभस्यो वा मलमासो यदा भवेत् ।
सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥
आषाढीमवधिं कृत्वा यः पक्षः पञ्चमो भवेत् ।
महालयः स विज्ञेयः कन्यास्थोऽर्को न वा भवेत् ॥ ॥
पुत्रानायुस्तथा रोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांस्तथा परान् ॥

इति जाबालिस्मरणेन काम्यत्वाऽवगमात्, नित्यस्य तु सकृत्करणेनैव चरितार्थत्वात्, तावता प्रत्यवायनिवृत्तेश्च कस्मिंश्चिद्दिने महालयश्राद्धं कार्यमित्यर्थः । तथा कात्यायनः -

अपरपक्षे श्राद्धं कुर्वीत, ऊर्ध्वं चतुर्थ्या यदहः सम्पद्यते ऋते चतुर्दशीमेकेनाऽप्यपरपक्षं नाऽतिक्रामोदिति एकेन दिनेनाऽपि श्राद्धं नातिकामेत् । चतुर्थ्यां ऊर्ध्वमेकस्मिन्नपि दिने नित्यमहालयश्राद्धं कुर्यादित्यर्थः॥

अथ प्रयोगः ।। पूर्वेद्युः सायं नित्यकर्म कृत्वा ‘श्वः सकृन्महालयश्राद्धं कर्तास्मि’ इति मनसा सङ्कल्प्य

श्वः सकृन्महालयश्राद्धं भविता, तत्र भवद्भिर्विश्वेदेवार्थे प्रसादः करणीयः

इति द्वौ एकं वा विप्रं निमन्त्र्य

श्वः सकृ॰ तत्र भवद्भिः सपत्नीकपितृपितामहप्रपितामहार्थे प्रसादः करणीयः

इत्येकं,

सपत्नीकमातामहमातुःपितामहमातुःप्रपितामहार्थे॰

एकं, ‘आत्मभार्याद्यर्थे’ एकं, ‘श्राद्धरक्षकविष्ण्वर्थे॰’ एकञ्च विप्रं निमन्त्रयेत् । परेद्युर्निर्मान्त्रितविप्रानाहूयक्षौराभ्यञ्जनादिभिर्यथोपपादमभ्यर्च्य मध्याह्नसन्ध्योपासनान्ते स्नानादि चतुष्टयं विधाय शारीरसूक्तं पठित्वा जलशुद्धिं ब्रह्मदण्डञ्च कृत्वा, द्विराचम्य प्राणानायम्य देशकालसङ्कीर्तनान्ते

अस्मत्पित्रादिसमस्तपितॄणामक्षय्यतृप्त्यर्थं आषाढ्यादिपञ्चमेऽपरपक्षे कन्यागते सवितरि धुरिलोचनसंज्ञकानां विश्वेषां देवानां प्रीत्यर्थं (प्राचीनावीती ) पितृपितामहप्रपितामहानां॰ रूपाणां, मातृपितामहीप्रपितामहीनां॰ दानां॰ रूपाणां, सापत्नमातुः रूपायाः॰, मातामहमातुःपितामहमातुःप्रपितामहानां॰ रूपाणां॰, मातामहीमातुःपितामहीमातुःप्रपितामहीनां॰, पितृव्यस्य॰, तत्पत्न्याः॰, तत्पुत्रस्य॰, भ्रातुः॰, तत्पत्न्याः॰, तत्पुत्रस्य॰, पुत्रस्य॰, तत्पत्न्याः॰, तत्पुत्रस्य॰, पितृभगिन्या॰, तद्भर्तुः॰, तत्पुत्रस्य॰, मातुलस्य॰, तत्पत्न्याः॰, मातृभगिन्याः॰, तद्भर्तुः॰, आत्मभगिन्याः॰, तद्भर्तुः॰, दुहितुः॰, आत्मभार्यायाः॰, श्वशुरस्य॰, तत्पत्न्याः॰, भावुकस्य॰, स्नुषायाः॰, श्यालकस्य॰, आचार्यादि द्वादश पितॄणामक्षय्यतृप्त्यर्थं श्राद्धसंरक्षकविष्णुप्रीत्यर्थं सदैवं साग्नौकरणं सपिण्डं सकृन्महालयश्राद्धमन्नेन हविषाऽहमद्य करिष्ये

इति सङ्कल्पः ॥ ततः क्षणादि दिग्बन्धनान्तेऽग्निं प्रतिष्ठाप्य प्रतिष्ठिताभिघारणान्तं सर्वं कुर्यात् ॥ अर्घ्यग्रहणे-विश्वेदेवार्घ्यग्रहणान्ते, पितृवर्गार्थं मातृवर्गार्थं मातामहवर्गार्थं मातामहीवर्गार्थं अवशिष्टपितॄणामर्थञ्च पृथक्पृथक् पात्रेष्वर्घ्यग्रहणम् । ततो विश्वेदेवादि श्राद्धसंरक्षकविष्ण्वर्चनान्तं कुर्यात् ॥ ‘अग्नौ करिष्यामि’ इत्यादि वैश्वदेवहोमान्ते, (प्राचीनावीती) ‘याः प्राचीः’ इत्यादि पञ्च स्रुवाहुतीर्तुत्वा, पैतृकं चरुमवदानधर्मेणावदाय ‘सोमाय पितृमते॰’ इत्यादि त्रिभिर्तुत्वाऽपूपस्य त्रीण्यवदानानि एवमेव मन्त्रत्रयेण हुत्वा स्विष्टकृतमवदायान्तःपरिध सादयित्वा

‌ पितृभ्यः स्वधा नमः स्वाहा

इत्यादि चतुर्विंशतिमन्त्रैर्होमः । स्विष्टकृद्धोमश्च ॥ ततो भोजनपात्रकल्पनादि ब्राह्मणभोजनान्ते, विकिरदानं विप्रेभ्यस्ताम्बूलदक्षिणादिदानं च कृत्वा, “श्राद्धमक्षय्यमस्त्विति” वाचयित्वा शेषमनुज्ञाप्य पश्चाद्धोमं पिण्डदानञ्च कुर्यात् ॥

धर्मपिण्डदानम्

पिण्डदाने -

पितृभ्यः॰ पितामहेभ्यः॰ प्रपितामहेभ्यः॰ मातृभ्यः पितामहीभ्यः॰ प्रपितामहीभ्यः॰ सापत्नमातृभ्यः॰

इत्यादि सङ्कल्पोक्तक्रमेण पिण्डदानान्ते धर्मपिण्डान्दद्यात् -

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥१॥

अस्मत्कुले मृतायाश्च गतिर्यासां न विद्यते ।
तासामुद्धरणार्थाय॰ ॥२॥

मातामहकुले ये च गतिर्येषां॰ तेषामु॰ ॥३॥

मातामहकुले याश्च॰ यासां॰ । तासामु॰ ॥४॥

बन्धुवर्गकुले ये च॰ येषां तेषामु॰ ॥५॥

बन्धुव॰ याश्च॰ यासां॰ । तासामु॰ ॥६॥

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ।
तेषा० ॥७॥

अजातदन्ता याः काश्चिद्याश्च गर्भे॰ ।
तासामु॰ ॥८॥

अग्निदग्धाश्च ये केचिन्नाऽग्निदग्धास्तथापरे ।
विद्युच्चोरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥९॥

अग्निदग्धाश्च याः काश्चिन्नाऽग्निदग्धास्तथा परसः ।
विद्यु॰ हता याश्च ताभ्यः पि॰ ॥ १०॥

दावदाहे मृता ये च सिंहव्याघ्रहताश्च ये ।
दंष्ट्रिभिः शृङ्गिभिर्वाऽपि तेभ्यः पिण्डं॰ ॥११॥

दावदाहे मृता याश्च सिंह॰ याः ।
दष्ट्रिभिः॰ ताभ्यः॰ ॥१२॥

उद्बन्धनान्मृता ये च विषशस्त्रहताश्च ये ।
आत्मनो घातिनो ये च तेभ्यः पि॰ ॥१३॥

उद्बन्ध॰ ता याश्च विष॰ श्च याः ।
आत्मनो॰ याश्च ताभ्यः पि॰ ॥१४॥

अरण्ये वर्त्मनि वने क्षुधया तृषया हताः ।
भूतप्रेतपिशाचेभ्यस्तेभ्यः पि॰ ॥१५॥

अरण्ये॰ पिशाचाभ्यस्ताभ्यः पि॰ ॥१६॥

रौरवे चाऽन्धतामिस्रे कालसूत्रे च ये गताः ।
तेषामुद्धरणार्याय इमं पि॰ ॥१७॥

रौरवे॰ या गताः । तासामु॰ ॥ १८॥

असिपत्रवने घोरे कुम्भीपाके च ये गताः ।
तेषामु॰ ॥१९॥

असिपत्र॰ या गताः । तासामु॰ ॥२०॥

पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।
अथवा वृक्षयोनिस्थास्तेभ्यः पि॰ ॥ २१ ॥

पशुयोनि॰ याश्च पक्षि॰ वृक्षयोनिस्थास्ताभ्यः॰ ॥२२॥

अनेकयातनासंस्थाः प्रेतलोकञ्च ये गताः ।
तेषामुद्धर॰ ॥२३॥

अनेक॰ या गताः । तासामु॰ ॥२४॥

असङ्ख्ययातनासंस्था ये नीता यमशासनैः ।
तेषामुद्ध॰ ॥२५।।

असङ्ख्य॰ या नीता॰ तासामु॰ ॥ २६॥

नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामुद्ध॰ ॥२७॥

नरकेषु॰ या स्थिताः । तासामु॰ ॥२८॥

जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्मणा ।
मानुषं दुर्लभं येषां तेभ्यः पि॰ ॥२९॥

जात्यन्तर॰ भ्रमन्त्यः स्वेन॰ यासां ताभ्यः॰ ॥३०॥

दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः ।
मृता असंस्कृता ये च तेभ्यः पि॰ ॥३१॥

दिव्यन्त॰ असंस्कृता याश्च ताभ्यः पिण्डं॰ ॥३२॥

ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डेनानेन शाश्वतीम् ।।३३।।

याः काश्चित्प्रेत॰ । ताः सर्वास्तृप्ति॰ ॥३४॥

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतु ॥३५॥

याऽबान्धवा बान्धवा वा याऽन्य जन्मनि बान्धवाः ।
तासां पिण्डो॰ ॥३६॥

पितृवंशसमुत्पन्ना मातृवंश्यास्तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये मानवा द्विजाः ॥३७॥

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
विरूपा आमगर्भाश्च ज्ञाताऽज्ञातास्तथैव च ॥३८॥

क्रियालोपगता ये च ये चान्ये गर्भसंस्थिताः ।
तेभ्यो दत्तो मया पिण्डो ह्यक्षय्यमुपतिष्ठताम् ॥३९॥

आब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः ।
वंशद्वये ये मम दासभूता भृत्यास्तथैवाऽऽश्रितसेवकाश्च ॥४०॥

आब्रह्मणो याः पितृ॰ ।
वंशद्वये या मम दासिभूता॰ काश्च ॥४१॥

मित्राणि सख्युः पशवश्च वृक्षा दृष्टाश्च स्पृष्टाश्च कृतोपकाराः ।
जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ॥४२॥

मित्राणि॰ ।
जन्मान्तरे या मम॰ ताभ्यः स्वधा॰ ॥४३॥

इति, त्रिचत्वारिंशन्मन्त्रैः ॥ उत्तरतो लेपनिमार्जनादि सर्वं सांवत्सरिकश्राद्धवत् ॥ सर्वत्र – सांवत्सरिकपदस्थाने ‘सकृन्महालय’ पदं योज्यम् ॥ ॥परेहन्युदयात्पूर्वं स्नात्वा महालयश्राद्धोक्तक्रमेण श्राद्धाङ्गतिलतर्पणं कुर्यात् ॥