५३ दर्शश्राद्धविधिः

दर्शश्राद्धविधिः

मत्स्यपुराणे -

पितृयज्ञन्तु निर्वर्त्य तर्पणाख्यन्तु योऽग्निमान् ।
पिण्डान्वा पूर्वकं कुर्याच्छ्राद्धमिन्दुक्षये सति ॥

लोगाक्षिः -

श्राद्धं कुर्यादवश्यन्तु प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च ॥

स्मृत्यन्तरे -

प्रमीतपितृकः कुर्याद्दर्शाब्दिकमहालयान् ।
जनन्यामपि जीवन्त्यामेष धर्मः सनातनः ॥

व्याघ्रः -

न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चितीयतो नरः ॥

स्मृत्यन्तरे -

दर्शे तिलोदकं पूर्वं पश्चाद्दद्यान्महालये ।
प्रत्यब्दे तु कृते श्राद्धे परेऽहनि तिलोदकम् ॥

कात्यायनः -

दर्शे स्नात्वा पितृभ्यस्तु दद्यात्कृष्णतिलोदकम् ।
अन्नं च विधिवद्दद्यात्सन्ततिस्तेन वर्धते ॥
दर्शश्राद्धन्तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।
त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः ॥

हारीतः -

अपराह्णः पितॄणान्तु याऽपराह्णानुयायिनी ॥
सा ग्राह्या पितृकृत्ये तु न पूर्वाह्णाऽनुयायिनी ॥

नारदः -

अपराह्णद्वयव्यापिन्यमावास्या यदा भवेत् ।
क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये तथोत्तरा ॥

पितामहः -

अमाष्टकासु सङ्क्रांतौ पातादौ ग्रहणेषु च ।
स्नात्वा तिलोदकं दत्वा ततः श्राद्धं समाचरेत् ॥

आश्वलायनधर्मे -

दर्शे पार्वणकृद्विप्रो विधिना कर्मवांस्तु यः ।
षड्भिः पिण्डैः पितॄनर्चेद्द्विषड्भिर्वा त्रिभिश्च वा ॥

स्मृत्यन्तरे -

आब्दिकं प्रथमं कुर्यान्मासिकन्तु ततः परम् ।
दर्शश्राद्धं तृतीयं स्याच्चतुर्थश्च महालयः ॥
आमश्राद्धं गयाश्राद्धं श्राद्धञ्चापरपक्षकम् ।
न जीवपितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम् ।।

इति ।।

व्यतीपातलक्षणं माधवीये -

श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकैः ।
यद्यमा रविवारेण व्यतीपातस्स उच्यते ।।

इति ॥ नागदैवतं = आश्लेषानक्षत्रम् । मस्तकं = मृगशिरा ।

यद्यमावास्या श्रवणादीनामन्यतमेन नक्षत्रेण रविवारेण च युक्ता सः व्यतीपातः

इत्यर्थः ।।

अथ प्रयोगः ॥

पूर्वेद्युः सायमौपासनान्ते “श्वो दर्शश्राद्धं कर्ताऽस्मि” इति मनसा सङ्कल्प्य । ततः पुरूरवार्द्रवसंज्ञकविश्वेदेवार्थं पितृपितामहप्रपितामहार्थं मातृपितामहीप्रपितामह्यर्थं मातामहमातुःपितामहमातुःप्रपितामहार्थं मातामहीमातुःपितामहीमातुःप्रपितामह्यर्थं श्राद्धसंरक्षकमहाविष्ण्वर्थञ्च ब्राह्मणनिमन्त्रणम् ॥ परेद्युः प्रातनित्यकर्म कृत्वा मध्याह्नसन्ध्यानन्तरं स्नानादि चतुष्टयं शारीरसूक्तपठनं जलशुद्धिं ब्रह्मदण्डञ्च कृत्वा श्राद्धाङ्गतिलतर्पणं कुर्यात् ॥ ततो द्विराचम्य प्राणानायम्य देशकालो सङ्कीर्त्य,

पुरूरवार्दवसंज्ञकानां विश्वेषां देवानां तृप्त्यर्थं (प्राचीनावीती) अस्मत्पितृपितामहप्रपितामहानां॰ गोत्राणां॰ रूपाणां, मातृपितामहीप्रपितामहीनां॰ दानां॰ गोत्राणां॰ रूपाणां, मातामहमातुःपितामहमातुःप्रपितामहानां॰ गोत्राणां॰ रूपाणां, मातामहीमातुःपितामहीमातुःप्रपितामहीनां॰ दानां॰ गोत्राणां॰ रूपाणां, अक्षय्यतृप्त्यर्थं, (उपवीती) श्राद्धसंरक्षकमहाविष्णुप्रीत्यर्थं सदैवं सपिण्डं ( साग्नौकरणं ) दर्शश्राद्धं पार्वणविधानेनान्नेन हविषाऽहमद्य करिष्ये

इति सङ्कल्प्य क्षणादि दिग्बन्धनान्तं कृत्वा स्थण्डिलोल्लेखनादि प्रतिष्ठिताभिघारणान्तेऽर्घ्यग्रहणे-विश्वेदेवानन्तरं पितृवर्गार्थं मातृवर्गार्थं मातामहवर्गार्थं मातामहीवर्गार्थञ्च पृथक्पृथक्पात्रेष्वर्घ्यं गृहीत्वा, श्राद्धसंरक्षकविष्ण्वर्चनान्तं कुर्यात् ॥ ‘अग्नौ करिष्यामि’ इत्यादि विश्वेदेवहोमानन्तरं (प्राचीना बीती) ‘सोमाय पितृपीताय॰’ इत्याद्याज्यस्य तिस्त्र आहुतीर्तुत्वा तैरेव मन्त्रैरम्नाहुतीश्च जुहुयात् ॥ भोजनकल्पनादि ब्राह्मण भोजनान्ते विकिरं दत्वा, ‘स्वधोच्यताम्’ इत्यादि ताम्बूलदक्षिणाद्युपचारैरभ्यर्च्य ‘श्राद्धमक्षय्यमस्तु’ इति

वाचयित्वोद्वास्य प्रदक्षिणीकृत्य शेषमनुज्ञाप्य पश्चाद्धोमान्ते द्वादशपितॄनुद्दिश्य पिण्डदानं कुर्यात्

इति विशेषः । अन्यत्सर्वं सांवत्सरिकश्राद्धवत् ।। श्राद्धशेषं समाप्य वैश्वदेवं हुत्वा ब्रह्मयज्ञं नित्यतर्पणञ्च कुर्यात् ॥ ॥