५२ पिण्डपितृयज्ञविधिः

पिण्डपितृयज्ञविधिः॥ (बो.गृ.प.सू.१.१६.१२-१३) अथामावास्यायां प्रसिद्धः पिण्डपितृयज्ञः॥ नात्र गार्हपत्यशब्दो विद्यते॥

(बौधायनश्रौ॰ ३.१०-११,२०.२१;२४,३२) पिण्डपितृयज्ञं करिष्यन्नुपकल्पयते 1
सकृदाच्छिन्नं बहिर्दर्भागँश्च परिस्तरणीयान् व्रीहीँश्च शूर्पं च प्रक्षालिते चोलूखलमुसले स्थालीँ सस्रुवाँ समेक्षणामेरकोपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भं यज्ञायुधानीति।

अथाऽन्वाहार्यपचनं परिस्तृणाति। तमुत्तरेणैकैकँ सँसादयति एरकोपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भं यज्ञायुधानीति। अथ प्राचीनावीतं कृत्वा जघनेनाऽन्वाहार्यपचनमुपविश्य पवित्रवत्याँ स्थाल्यां व्रीहीन्निर्वपति।

पितृभ्यो वो जुष्टं निर्वपामि

इति वा तूष्णीं वा। [‘पिण्डपितृयज्ञस्य करण’ इति॥

सह स्माऽऽह बौधायन आदित एव प्राचीनावीतं कुर्वीत ।
स प्राचीनावीत्येव स्याद् आहुतीनाँहोमात् ।
आहुतीर्होष्यन् यज्ञोपवीतं कुर्वीत ।
स यज्ञोपवीत्येव स्याद् आ सकृदाच्छिन्नस्य स्तरणात् ।
सकृदाच्छिन्नँ स्तरिष्यन् प्राचीनावीतं कुर्वीत ।
स प्राचीनावीत्येव स्याद् आप्राजापत्यायै ।
यज्ञोपवीत्येव प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठेतेति ।

अत्रो ह स्माऽऽह शालीकिरादित एव प्राचीनावीतं कुर्वीत ।
स प्राचीनावीत्येव स्याद् आ प्राजापत्यायै ।
यज्ञोपवीत्येव प्राजापत्ययर्चोदङ्ङेयादिति ।]

उपर्यर्धाँ स्थालीं कृत्वैतस्मिन्नेव चर्मण्युलूखलमुसले निधायाऽवहन्ति सकृदेव दाक्षिणामुखः। अथैनानविविच्य । अथैतस्यामेव स्थाल्यां तिर:पवित्रमप आनीयाऽधिश्रित्य तिरःपवित्रं तण्डुलानावपति।

[तूष्णीँ सकृदुत्पूय सकृत्प्रोक्ष्यसकृद्धविष्कृद्रूप्ं कुर्यादिति

बौधायनः॥

सकृदेवैनान् सुफलीकृतान् कृत्वा पवित्रवत्याँ स्थाल्यामोप्य स्थालीपाकँ श्रपयित्वाऽभिघार्योदञ्चमुद्वासयेदिति शालीकिः॥]

अथाऽऽज्यं निर्वपति । अथाऽऽज्यमधिश्रयति । उभयं पर्यग्निकृत्वा मेक्षणँ स्रुवं च संमार्ष्टि। अथैतं चरुँ श्रपयित्वाऽभिघार्योदञ्चमुद्वासयति । अथ यज्ञोपवीतं कृत्वाऽन्वाहार्यपचनमुपसमाधाय मेक्षणेनोपघातं तिस्र आहुतीर्जुहोति-

सोमाय पितृपीताय स्वधा नमः स्वाहा, यमायाऽङ्गिरस्वते पितृमते स्वधा नमः स्वाहा, अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा

इति दक्षिणार्धपूर्वार्धे । तूष्णीं मेक्षणमभ्याधाय । [“आहुतीनाँ होम” इति सूत्रं बौधायनस्य॥

नाऽत्र मध्यमामाहुतिं जुहुयात् । मेक्षणमेव तृतीयँ स्यादिति

शालीकिः॥]

प्राचीनावीतं कृत्वा दक्षिणेनाऽन्वाहार्य पचनँ स्फ्येनोद्धत्यात्याऽवोक्ष्य दक्षिणाग्रं बर्हिः स्तीर्त्वा । [“सकृदाच्छिन्नस्य स्तरण” इति ॥

उपनिष्क्रम्याऽग्न्यागाराद्दक्षिणे पूर्वेऽवान्तरदेशे सकृदाच्छिन्नँ स्तृणीयाद्दक्षिणतश्चोल्मुकमुपनिदध्यादिति

बौधायनः। “अन्तरेवैतां दिशम्” इति “शालीकिर्न चाऽत्रोल्मुकमुपनिध्यात्” इति]

अद्भिर्मार्जयति-

मार्जयन्तां पितरः, मार्जयन्तां पितामहाः, मार्जयन्तां प्रपितामहाः

इति । अथ स्रुवेणोपस्तीर्णाभिघारिताँ स्त्रीन् पिण्डान् ददाति-

एतत्ते तताऽसौ ये च त्वामनु, एतत्ते पितामहाऽ सौ ये च त्वामनु, एतत्ते प्रपितामहाऽसौ ये च त्वामनु

इति । [“पिण्डानां दान” इति ॥ सूत्रँ शालीकेः ॥ अत्रो ह स्माऽऽह बौधायनः

परस्तादेवाऽमुतोऽर्वाचोऽपसलैः पिण्डान् दद्यादिति ॥]

[कथमु खलु जीवपितुः पिण्डदानं भवतीति ।

येभ्य एव पिता ददाति तेभ्यः पुत्रो ददाति । द्वाभ्यां जीवपिता ददाति । एकस्मै जीवपितामहो ददाति। न जीवन्तमतिदद्यादित्येके।

पितृव्यस्य चेत्सगोत्रस्य दायमुपयच्छेत कथं तत्र पिण्डदानं भवतीति ।

यस्मिन् काले पित्रे पिण्डं ददाति तस्मिन् कालेऽस्य पिण्डं निपृणुयात् । अथ चेदसगोत्रस्य दायमुपयच्छेत कथं तत्र पिण्डदानं भवतीति ।

स्वेभ्यो दत्वा प्रतिवेशं बर्हिः स्तीर्त्वा बर्हिःप्रभृति पिण्डंदद्यात् । अपि वाऽगार एव स्थालीपाकँ श्रपयित्वा बर्हिःप्रभृत्येव पिण्डं दद्यात्। कथमु खलु पुत्रिकापुत्रस्य पिण्डदानं भवतीति ।

एतत्तेऽमुष्यै तत मम पितामह ये च त्वामनु, एतत्तेऽमुष्यै पितामह मम प्रपितामह ये च त्वामनु, एतत्तेऽमुष्यै प्रपितामह मम प्रपितामह ये च त्वामनु

इति । प्रविदानकल्पेन वा दद्यात् -

स्वधा पितृभ्यः पृथिवीषद्भ्यः, स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः, स्वधा पितृभ्यो दिविषद्भ्यः

इति ।

पितुश्चेत्पितामहस्येति नामानि न जानीयात् कथं तत्र पिण्डदानं भवतीति ।

प्रविदानकल्पेन वा दद्यात् । अपि वा

एतत्ते तत ये च त्वामनु, एतत्ते पितामह ये च त्वामनु, एतत्ते प्रपितामह ये च त्वामनु

इति ]

अत्र पितरो यथाभागं मन्दध्वम्

इत्युक्त्वा उदङ् पर्यावृत्य आ ऊष्मणो व्यावृत उपास्ते । “व्यावृत्त ऊष्मा" इति प्राहुः । अथाऽभिपर्यावृत्यैतं चरुमवजिघ्रति-

ये समानाः समनसः पितरो है यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
ये सजाताः समनसो जीवा जीवेषु मामकाः ।
तेषाँ श्रीर्मयि कल्पतामस्मिन् लोके शतँ समाः

इति । अथ तथैवाऽद्भिर्मार्जयति-

मार्जयन्तां पितरः, मार्जयन्तां पितामहाः, मार्जयन्तां प्रपिता महाः

इति । अथाऽऽञ्जनं ददाति-

आञ्जतां पितरः, आञ्जतां पितामहाः, आञ्जतां प्रपितामहाः

इति । अथाऽभ्यञ्जनं ददाति-

अभ्यञ्जतां पितरः, अभ्यञ्जतां पितामहाः, अभ्यञ्जतां प्रपितामहाः

इति। अथ वासाँसि ददाति-

एतानि वः पितरो वासाँसि, एतानि वः पितामहा वासाँसि, एतानि वः प्रपितामहा वासाँसि

इति।

उत्तर आयुषि लोम छिन्दीत

इति ब्राह्मणम् ।

[उत्तर आयुषि लोम छिन्दीतेति ।
कस्मिन्नु खल्वेतत्काले छत्तव्यं भवतीति ।
ऊर्ध्वँ षट्षष्टिभ्यश्च वर्षेभ्योऽष्टाभ्यश्च मासेभ्य
इत्येतस्मिन्नेवैतत् काले छेत्तव्यं भवतीति ।]

अथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठते-

नमो वः पितरो रसाय, नमो वः पितरः शुष्माय, नमो वः पितरो जीवाय, नमो वः पितरः स्वधायै, नमो वः पितरो मन्यवे, नमो वः पितरो घोराय, पितरो नमो वो य एतस्मिन् लोके स्थ युष्माँ स्तेऽनु येऽस्मिन् लोके मां तेऽनु य एतस्मिन् लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिन् लोकेऽहं तेषां वसिष्ठो भूयासम्

इति । अथ वीरं याचते-

वीरं मे पितरो दत्त, वीरं मे पितामहा दत्त, वीरं मे प्रपितामहा दत्त, पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्त

इति । अथैनानुत्थापयति-

‌ उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु दविणं यच्च भद्रं प्र णो बूताद्भागधां देवतासु

इति । अथैनान् सर साधयति-

यन्तु पितरो यथा लोकं मनसा जवेन, परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त्सुविदत्राँ अपीत यमेन ये सधमादं मदन्ति

इति । अथ तिसृभिर्मन आह्वयते-

मनो न्वा हुवामहे, आ न एतु मनः पुनः, पुनर्नः पितरो मनः

इति ।

[आन नाभ्यञ्जने मनसो निह्वव

इति ॥ पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥ ] अत्रैतान् पिण्डान् सह बर्हिषाऽग्नावनुप्रहरति।। [“पिण्डानामनुप्रहरण” इति ॥ सूत्रँ शालीकः ॥

अत्रो ह स्माऽऽह बौधायनोऽत्रैवैते पिण्डाः परिशयीरन् । उच्छिष्टा ह्यते भवन्ति पितृभिर्भक्षकृता

इति ॥] अथैतेषाँ शस्त्राणां द्वे द्वे उदाहरन्ति ॥ अथ यज्ञोपवीतं कृत्वा प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठते

“प्रजापते न त्वदेतान्यन्यः" इति । अत्रैतां द्वितीयां जपति – “यदन्तरिक्षं पृथिवीमुतद्यां” इति । [“अतिशिष्टस्य प्राशन” इति ॥ “स्वयं यजमानः प्राश्नीयादिति” बौधायनः ॥

पुत्राय वाऽन्तेवासिने वा दद्यादिति

शालीकिः ॥ पत्नीं प्राशयेत् । प्रजाऽस्यैषा भवतीत्यौपमन्यवः ॥

अगुल्या यावन्मात्रमवघ्रायाऽथेतरदग्नावनु प्रहरोदित्यौपमन्यवीपुत्रः ॥

भस्मोत्कर उदास्य संप्रच्छादयेदित्याञ्जीगविः॥ “अपोऽभ्यवहरेदिति” मौदगल्यः ॥]

[कथमु खल्वनाहिताग्नेः पिण्डपितृयज्ञो भवतीति ।

अनिरुप्तँ स्थालीपाकँ श्रपयित्वाऽग्निमुपसमाधाय संपरिस्तीर्याऽऽहुतीर्तुत्वा दक्षिणेनाऽग्निं दक्षिणाग्रं बर्हिः स्तीर्त्वा बर्हिःप्रभृति पिण्डं दद्यात् । अपि वाऽगार एव स्थालीपाकँ श्रपयित्वा बार्हःप्रभृत्येव पिण्डं दद्यात् । यज्ञोपवीत्येव प्राजापत्ययर्चैतमग्निमुपतिष्ठतेति ।]

संतिष्ठते पिण्डपितृयज्ञः॥ ॥ पिण्डपितृयज्ञप्रायश्चित्तम् ॥ (बौ. श्रौ. २९.१२) “पितृयज्ञलोपे सप्तहोतारमिति” जुहुयात् ॥

अथ प्रयोग ः॥

कर्ता अमावास्यायामपराह्ण आचभ्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पिण्डपितृयज्ञं करिष्ये,

इति संकल्प्य । गृह्याग्निमुखसमाधाय, परिसमूह्य, पर्युक्ष्य, परिस्तीर्य, पात्रासादनकाले-उत्तरेणाग्निं- आज्यस्थाली स्रुवं प्रोक्षणीं चरुस्थालीं मेक्षणमिध्माबर्हिः सकृदाच्छिन्नं बर्हिश्चासाद्य, एरकोपबर्हणे आञ्जनाभ्यनने दशां स्फ्यमुदकुंभं चाऽऽसादयति । प्रोक्षणीः संस्कृत्य, पात्राणि प्रोक्ष्य, चरुस्थाल्यां तिरःपवित्रमप आनीय, अधिश्रित्य तिरःपवित्रं तण्डुलानावपति ।। (प्राचीनावीती) पवित्रवत्यां स्थाल्यां

देवस्य त्वा॰ पितृभ्यो जुष्टं निर्वपामि

इति सकृत्तण्डुलान् निर्वपति ।

देवस्य त्वा॰ पितृभ्यो वो जुष्टं प्रोक्षामि

इति सकृत्प्रोक्ष्य, चरुस्थाल्यां तिरःपवित्रमप आनीय, अधिश्रित्य, तिरःपवित्रं तण्डुलानावपति । अथाज्यं निरुप्य, अधिश्रित्य, उभयं पर्यग्निकृत्वा, स्रुवं मेक्षणं च संमृज्य, चरुं श्रपयित्वाऽभिधार्य उदंचमुद्वास्य, दक्षिणतो बर्हिष्यासाद्य, प्रतिष्ठितमभिधारयति । यज्ञोपवीती, “जुषस्व न” इत्याद्यग्निं परिषिच्य, अलंकृत्य, व्याहृतीर्हुत्वा मेक्षणेनोपघातं अन्नस्य तिस्र आहुतीर्जुहोति-

सोमाय पितृपीताय स्वधा नमः स्वाहा

सोमाय पितृपीतायेदं॰ ।

यमायांऽगिरस्वते पितृमते स्वधा नमः स्वाहा ।

यमायांऽगिरस्वते पितृमत इदं॰ । दक्षिणार्धपूर्वार्धे

अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा

अग्नये कव्यवाहनाय स्विष्टकृत इदं॰ । तूष्णीं मेक्षणमग्नौ प्रहृत्य, व्याहृतीर्तुत्वा, प्राचीनावीती दक्षिणेनाग्निं स्फ्येनोद्धत्याऽवोक्ष्य दक्षिणाग्रं सकृदाच्छिन्नं1 बर्हिः स्तीर्त्वा, अद्भिर्मार्जयति –

मार्जयन्तां पितरः, मार्जयन्तां पितामहाः, मार्जयन्तां प्रपितामहाः

इति । होमावशिष्टचरुणा त्रीन् पिण्डान् कृत्वा, सुवेणोपस्तीर्याऽभिघार्य, सव्यं जान्वाच्य सकृदाच्छिन्ने बर्हिषि ददाति-

एतत्ते तत अमुकशर्मन्॰ गोत्र वसुरूप ये च त्वामनु

इति पित्रे प्रथमम् ।

एतत्ते पितामह अमुकशर्मन्॰ गोत्र रुद्ररूप ये च त्वामनु

इति पितामहाय द्वितीयम् ।

एतत्ते प्रपितामह अमुकशर्मन्॰ गोत्र आदित्यरूप ये च त्वामनु

इति प्रपितामहाय तृतीयम् ।

अत्र पितरो यथाभागं मन्दध्वं

इत्युक्त्वा उदङ् पर्यावृत्य ओष्मणो व्यावृत उपास्ते । व्यावृत्त उष्माणि अभिपर्यावृत्य,

ये समानाः समनसः॰, ये सजाताः समनसः॰

इति द्वाभ्यां चरुशेषमवघ्रेण भक्षयेत् ।।

मार्जयन्तां पितरः, मार्जयन्तां पितामहाः, मार्जयन्तां प्रपितामहाः

इति पिण्डानामुपरि तथैवाद्भिर्मार्जयित्वा,

आञ्जतां पितरः, आञ्जतां पितामहाः, आञ्जतां प्रपितामहाः

इति कज्जलम् ,

अभ्यञ्जतां पितरः, अभ्यञ्जतां पितामहाः, अभ्यञ्जतां प्रपितामहाः

इत्यभ्यञ्जनं च दत्वा,

एतानि वः पितरो वासाँसि, एतानि वः पितामहा वासाँसि, एतानि वः प्रपितामहा वासाँसि

इति वासाँसि च दद्यात् । षट्षष्टिवर्षेभ्यः अष्टाभ्यश्च मासेभ्य ऊर्ध्वं लोम च्छित्वा पिण्डेषु दद्यात् । ततः “नमो वः पितरो रसाय॰” इत्यादि षड्भिर्नमस्कारैर्विपर्यासमुपस्थाय, “वीरं मे पितरो दत्त॰” इति त्रिभिः वीरं याचित्वा, “उत्तिष्ठत पितरः॰" इत्यथैनान् उत्थाप्य, “यन्तु पितरो॰ परेत पितरः" इति संसाध्य,

मनो न्वाहुवामहे॰, आ न एतु मनः पुनः॰, पुनर्नः पितरो मनः॰

इति त्रिभिः मन आहूय पात्राणि द्वे द्वे उदास्य, यज्ञोपवीती-

प्रजापते न त्वत्॰, यदन्तरिक्षं॰ तस्मादेनसः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेसम्

इति द्वाभ्यामाग्निमुपतिष्ठते । उत्तरपरिषेकादि होमशेषं समाप्य, हविःशेषं यजमानः प्राश्नीयात् । अपि वा पुत्रायान्तेवासिने वा दद्यात् । अप्सु वा प्रक्षिपेत् । प्रजाकामः पत्नी प्राशयेत् । पिण्डानप्सु प्रक्षिपेत् । यस्य स्मृत्येति कर्मसमर्पणं, अनाज्ञातादिमंत्रत्रयजपं, विष्णुस्मरणं च कुर्यात् ॥ ॥


  1. यजमानः ↩︎ ↩︎