॥ मासिश्राद्धविधिः ॥
( बो. गृ. सू. २. ११. ६८, ६९) मासिश्राद्धमपरपक्षस्यान्यतमेऽहनि क्रियेत ॥ एतावदेव नाना नात्राष्टकाहोमो भवति ॥ ( बो. गृ. सू. ३. १२. १ ) अष्टकानुकृतिर्मासिकम् । तत्पुरस्ताद्व्याख्यातम् ॥ ॥
मार्कण्डेयपुराणे -
प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
परार्थिनां तृतीया तु चतुर्थी शत्रुनाशिनी ॥
पञ्चम्यां श्रियमाप्नोति षष्ठ्यां पूज्यो भवेन्नरः ।
गणाधिपत्यं सप्तम्यामष्टम्यामृद्धिमुत्तमाम् ॥
श्रियो नवम्यामाप्नोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाऽऽप्नुयात्सर्वानेकादश्यां क्रियापरः ॥
द्वादश्यां जयलाभञ्च प्राप्नोति पितृपूजकः ।
प्रजामिष्टां पशून्मध्यान्स्वातन्त्र्यं बुद्धिमुत्तमाम् ॥
दीर्घमायुस्तथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न सन्देहः श्राद्धं श्राद्धपरो नरः ॥
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ।
तेन कार्यं चतुर्दश्यान्तेषां सिद्धिमभीप्सता ॥
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषश्शुचिः ।
सर्वान्कामानवाप्नोति स्वर्गञ्चाऽनन्तमश्नुते ॥
मासिश्राद्धस्याऽन्वारम्भो विवाहचतुर्थीहोमान्तेऽपरपक्षे शिष्टाचारात् बोधायनवचनाच्च ॥ तदानीमनारम्भे उक्तकाले यदा कदा वाऽऽरभ्यमाणे तस्य नित्यत्वादुद्वाहप्रभृतिविच्छिन्नकालानुगुणं प्रायश्चित्तकृच् छ्रादीन्याचरित्वाऽऽरम्भः ॥ विवाहानन्तरं प्रतिमासमपरपक्षे आत्मानुकूलानुसारेण यस्यां कस्याञ्चित्तिथौ प्रारभ्य यावज्जीवं मासिश्राद्धं कुर्यात् । तस्य नित्यत्वात् । तस्य तिथिभेदेन फलभेदो मार्कण्डेयेनोक्तः ॥
अथ प्रयोगः ॥ कर्ता पू्र्वेद्युः सायं होमान्ते ( प्राचीनावीती )
श्वः मासिश्राद्धं कर्ताऽस्मि
इति मनसा सङ्कल्प्य
श्वः मासिकश्राद्धं भविता तत्र भवद्भिः प्रसादः करणीयः
इति विश्वेदेवार्थं द्वौ विप्रौ पित्रर्थं त्रीन्विप्रांश्च निमन्त्र्याऽपरेद्युः प्रातर्नित्यकर्मनिवर्तनान्ते
अद्य श्राद्धं भवति
इति पुनर्निमन्त्र्य श्राद्धकाले पुनः स्नात्वा ।
मम समस्तपितॄणामक्षय्यतृप्त्यर्थं सदैवं साग्नौकरणं सपिण्डं मासिश्राद्धमन्नेन हविषा पार्वणविधानेनाऽहमद्य करिष्ये
इति सङ्कल्पः । अग्नौकरणे - विश्वेदेवहोमानन्तरं
याः प्राचीः
इत्यादि पञ्च स्रुवाहुत्यन्ते
सोमाय पितृमते शुष्मिणे जुहुमो हविः
इत्यादि त्रिभिर्मन्त्रैः पैतृकं चरुं हुत्वा, अपूपमष्टधा विभज्य त्रीण्यवदानानि तैरेव मन्त्रैर्हुनेत् ॥ ततः
पितृभ्यः स्वधा नमः
इत्यादि चतुर्विंशत्यन्नाहुतीर्हुत्वा स्विष्टकृद्धोमान्ते, भोजनपात्रकल्पनादि ब्राह्मणान्सम्भोज्य ताम्बूलदक्षिणादि दत्वा
श्राद्धमक्षय्यमस्तु
इति वाचयित्वा शेषमनुज्ञाप्य पश्चाद्धोमान्ते
पितृभ्यः स्वधा नमः
इत्यादि चतुर्विंशति पिण्डान्दद्यात् ॥ अनुक्तमन्यत्सर्वं सांवत्सरिकश्राद्धवत् ॥