५० श्राद्धे सम्भाव्यानि प्रायश्चित्तानि

श्राद्धभोक्तृणां परस्परस्पर्शे ॥ नारदीये -

श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत् ॥
भुञ्जानेषु तु विप्रेषु मिथस्संस्पर्शनं भवेत् ।
स्मृत्वाऽब्लिङ्गमनुं जप्त्वा गायत्रीं मनसा शुचिः ॥

हेमाद्री स्मृतिसङ्ग्रहे –

श्राद्धभुक्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
गायत्र्याष्टशतं जप्त्वा जलेन प्रोक्षयेदुभौ ॥
तदन्नं भोजयेद्विपः श्राद्धशेष समाचरेत् ॥

॥ यज्ञोपवीतनाशे ॥ वृद्धमनुः -

श्राद्धभोजनकाले तु विप्राणां कर्तुरेव वा ।
यज्ञोपवीतनाशश्चेद्गायत्र्याऽष्टशताहुतीः ॥
द्विजाङ्घ्रिक्षाळनादूर्ध्वं पितॄणामुद्वहादधः ।
उपवीतं यज्ञकर्तुच्छिद्यते यदि वाऽपरैः ॥
राजाऽग्निचोरभीतिस्स्यात् त्रिमासाऽन्ते विनिश्चयः ।
द्विजाज्ञया बहिर्गत्वा धृत्वा चाऽन्योपवीतकम् ॥
अन्तः प्रविश्य तत्राऽग्नौ प्रायश्चित्ताऽऽहुतीर्हुनेत् ।
पञ्चप्राणादिभिर्मन्त्रैश्चत्वारिंशत्सपञ्चकैः ॥
मिन्दात्रयञ्च हुत्वाऽथ श्राद्धशेषं समापयेत् ।
विप्रस्य श्राद्धभोक्तुश्चेदुपतिञ्च छिद्यते ।
न प्राश्नीयाद्विजः शेषमन्नं मद्यसमं स्थितम् ।
न श्राद्धशेषं कुर्वीत कृतं निष्फलमाप्नुयात् ॥
कर्तोपवासं कुर्वीत द्विजानाहूय पूर्ववत् ।
तद्दोषनाशनार्थाय दानं दत्वा द्विजाय च ॥
विप्रानुशासनाद्भक्त्या श्राद्धं कुर्यात् परेऽहनि ॥
पितृवाहनतः पश्चात्तत्पित्रुद्वासनात्पुरा ।
यज्ञसूत्रं प्रनष्टञ्चेत् तद्दिने चोपवासकम् ॥
पितुःश्राद्धञ्च सम्पूर्णं ततः कुर्यात्परेऽहनि

इति ॥ ॥ उच्छिष्टस्पर्शे –

उच्छिष्टोच्छिष्टसंस्पर्शे स्पृष्टपात्रं विसृज्य च ।
सर्वान्नं पूर्ववद्दत्वा भोजयेत्तु द्विजोत्तमान् ॥

सङ्ग्रहे -

श्राद्धेषूच्छिष्टमृष्टे यदि पितृपदके देववर्गेऽपि विप्रौ त्यक्त्वा द्वौ पात्रमन्नं हुतवहवदने वेदमात्राऽशनञ्च । प्रायश्चित्तं प्रकुर्याद्गुरुबुधवचनाद्यैः पुरोवच्च कृत्वाऽश्नीयादन्यन्नवान्नं हुतघृतसहितं श्राद्धशेषश्च कुर्यात्

इति ॥ ॥ अकृताऽग्नौकरणादौ –

प्रमादादकृतं चेत् स्यादग्नौकरणमेव च ।
अकृतं पिण्डदानञ्चेत् पुनः श्राद्धं समाचरेत् ॥
पितृपात्रं चलेत्स्थानात्पिता चेद्वमते यदि ।
स्पृशेत्पिण्डांश्च मार्जालः पिण्डो भिन्नः पुनर्यदि ।
अग्नौ कृतौ तु नाशोऽग्नेः श्राद्धमध्ये भवेद्यादि ।
उपोष्य तद्दिनं कर्ता पुनः श्राद्धं परेऽहनि

इति ॥ ॥ वमने कृते -

अकृते पिण्डदाने च पिता चेद्वमते यदि ।
कृत्वा पाकं पुनः कुर्याच्छ्राद्धं तत्र विधानतः ॥
मार्जारमूषकस्पर्शे पिण्डे भिन्ने पितुर्यदि ।
पुनः पिण्डाः प्रदातव्यास्तेन पाकेन तत्क्षणात् ॥
पितामहादिदेवानां ब्राह्मणो वमते यदि ।
सर्वमन्नं समादाय हुनेदग्नौ तु लौकिके ।
प्रणवेनाऽहुतिं चादावन्ने स्याद्भूर्भुवस्सुवः ॥
आहुतिं जुहुयात्त्रिंशन्मन्त्रैः प्राणादिपञ्चकैः ॥
द्वात्रिंशदाहुतीरेवं हुत्वा पिण्डान्प्रदापयेत् ।
मासिके च गयाश्राद्धे प्रत्यब्दे च महालये ॥
पिता चेद्वमनं कुर्यात्पुनः श्राद्धं समाचरेत् ।
सङ्क्रातिपक्षपातेषु युगमन्वष्टकासु च ।
पिता चेद्वमते दर्शे पुनः श्राद्धं न कारयेत्

इति ॥ धर्मसिन्ध्वनुसारेण दैविकविप्रवमने होम एव न पुनः श्राद्धम् । पिण्डदानात्प्राक् विप्रवान्तौ तद्दिने उपोष्य परेद्युः पुनः श्राद्धं कुर्यात् ॥ पिण्डदानोत्तरं वान्तौ पूर्वोक्त होम एव । न पुनः करणम् ॥ ॥ हविर्भाण्डादिभेदेषु ॥ कात्यायनः -

हविर्भाण्डेऽतिविच्छिन्ने श्राद्धकर्तुर्मृतिर्भवेत् ।
कृणुष्वपाजेति मन्त्रेण समिदाज्यचरून्हुनेत् ॥

अत्र गोदानमप्याह माण्डव्यः -

हविर्भाण्डविनाशेऽपि श्राद्धे गोदानमाचरेत् ।
अन्यथा तस्य दोषस्य हानिर्नास्त्येव निश्चयः

इति ॥ ॥ पिण्डभेदने ॥ जातुकर्णिः -

पिण्डस्य भेदने जाते विष्णोर्नुकमनुर्भवत् ।
प्रायश्चित्तविधानेऽस्मिन्नष्टोत्तरशताहुतीः

इति ॥ ॥ दीपनाशे -

यदि प्रदीपनाशस्स्याद्दैवे पित्र्ये च कर्मणि ।
तद्दशामनले क्षिप्त्वा उद्दीप्यस्वद्वयं1 हुनेत् ॥
उद्वयाद्यैस्त्रिभिर्मन्त्रैरुपतिष्ठेत भास्करम् ।
(‘उद्वयन्तमसस्परि॰, उदु त्यं॰, चित्रम्॰’ इति) जप्त्वाऽभिन्नो धर्म इति मन्त्रतश्चाऽग्निना रयिम् ॥
पुनः प्रज्वाल्य दीपन्तु न्यसेत्पूर्वशरावके ।
विप्रान्सम्पूज्य तद्वाक्याच्छिष्टं कर्म समाचरेत्

इति ॥

विण्मूत्रोत्सर्जनं कुर्याच्छ्राद्धमध्ये यदि द्विजः ।
कर्ता वाऽप्यथवा भोक्ता तयोर्मृत्युं विनिर्दिशेत् ॥
विण्मूत्रकं विसृज्याऽथ स्नात्वाऽग्नौ होममाचरेत् ।
पवमानानुवाकस्य मन्त्रैरष्टौ घृताहुतीः ॥
तच्छ्राद्धे विहिते तस्मिन्नुपवासं चरेदथ ।
परेद्युः पूर्ववच्छ्राद्धं कुर्याद्विप्रानुशासनात् ॥
मानस्तोकेन मन्त्रेण परेाद्युश्श्राद्धकर्मणि ।
शतमष्टोत्तरं हुत्वा गोदानन्तु समाचरेत् ॥

विण्मूत्रकर्तुर्विशेषविधिः ॥ वृद्धगार्ग्यः -

पुण्यक्षेत्रं समागत्य विण्मूत्रोत्सर्गकृन्नरः ।
हुनेत्तिलाऽयुतं सम्यङ्मृत्युर्येन प्रशाम्यति

माण्डव्यः -

अथवा त्रिंशत्साहस्रं गायत्रीजपतत्परः ।
मृत्युञ्जेष्यत्यसन्देहो विण्मूत्रोत्सर्गकन्नरः

इति ॥ ॥ गुदस्रावे भारद्वाजः -

भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवते गुदम् ।
पूर्वं कृत्वा तु शौचञ्च तत आपस्स्पृशेद्विजः ॥
ततः कृत्वोपवासञ्च पञ्चगव्येन शुध्यति ।
पादकृच्छ्रं ततः कृत्वा अन्यं विप्रं नियोजयेत्

इति ॥ ॥ अधोवायुनिनदने ॥ पैठीनसः -

मूर्धानमितिमन्त्रेण समिदाज्यचरून्हुनेत् ।
अष्टोत्तरशतं नूनमधोवायोर्निनादने ॥

वृद्धयाज्ञवल्क्यः -

अधोवायुप्रशान्त्यर्थं शान्तिहोमं तदाऽऽचरेत् ।
गोदानं तत्र कर्तव्यं कर्तुर्मृत्युविनश्यति

इति ॥ ॥ मार्जालाधन्तरागमने ॥ गौतमः -

मध्यमेषु च देवानां देवानां कर्तृमध्यमे ।
पित्रादित्रयमध्ये तु मध्ये श्राद्धकृदन्तरे ॥
गच्छन्ति यदि मार्जारा मण्डूकाऽखुनरादयः ।
चतुष्पादजलव्यालवृश्चिकाऽऽरण्यपक्षिणः ॥
वत्सरार्धादधः कर्तुमहारोगभयं भवेत् ।
ब्राह्मणाऽनुज्ञया चाऽग्नौ हुनेदाज्याहुतीः शतम् ॥
अष्टाक्षरेण मन्त्रेण गायत्र्याऽष्टशतं ततः ।
धेनुमेकां तिलान्वाऽपि कांस्यं वस्त्रमथाऽपि वा ।
द्विजेभ्यो दक्षिणान्दद्यात्तद्दोषस्य प्रशान्तये ।
द्विजाऽनुशासनाच्छ्राद्धशेषं कुर्यादतन्द्रितः ।

शातातपः -

मार्जारादिप्रवेशे तु समिदाज्यचरून्हुनेत् ।
शन्न इन्द्रेति मन्त्रेण कूष्माण्डं सतिलं दिशेत्

इति ॥ ॥ मार्जालादिना श्राद्धाऽन्नादिभक्षणे ॥ वृद्धवसिष्ठः -

श्राद्धपाकादिपिण्डांश्च प्राशयेद्यदि पक्षिणः ।
मार्जालवायसैर्वाऽपि भिद्यते भक्षितोऽपि वा ।
तद्दोषशमनार्थाय प्रायश्चितं समाचरेत् ।
प्राजापत्यं चरित्वाऽथ गायत्र्याष्टोत्तरं शतम् ॥
विष्णोरष्टाक्षरीं तत्र घृतेन जुहुयात्ततः ।
पिण्डान्कृत्वा पूर्ववत्तान्निक्षिपेत्तत्कुशोपरि

इति ॥ ॥ श्राद्धे भुञ्जाने मूर्च्छिते ॥ लौगाक्षिः -

त्रियम्बकेन मन्त्रेण मूर्च्छिते सति होमयेत् ।
कर्तुर्मृत्युर्विनश्येत नाऽत्र कार्या विचारणा

इति ॥ ॥ भुञ्जाने विप्रे मृते ॥ कात्यायनः -

श्राद्धे भोजनकृद्विप्रः कयाऽपि विधया मृतः ।
श्राद्धं सर्वं विलुप्तं स्यात्परेऽह्नि श्राद्धमाचरेत् ॥

शाट्यायनिः -

पञ्चगव्येन संशुद्धिः परेद्युः श्राद्धमाचरेत्

इति ॥ आशौचादौ हेमाद्रिः -

मासिके चाऽब्दिके त्वह्नि सम्प्राप्ते मृतसूतके ।
वदन्ति शुद्धौ तत्कार्यं दर्शे चाऽपि विपश्चिता

इति ॥ ॥ श्राद्धे दुष्टे -

द्रव्यपात्रादिदोषेण दुष्टं श्राद्धं यदा भवेत् ।
कर्ता तूपवसेत्तत्र कुर्याच्छ्राद्धं परेऽहनि ॥

॥ श्राद्धाऽतिक्रमणे -

प्रतिसांवत्सरं श्राद्धं प्रमादादकृतं भवेत् ।
कर्ता चोपवसेत्तत्र श्वः कुर्यात्पैतृकं यथा

इति ॥ ॥ मलकीटायुपहते —

संस्पृष्टञ्च मलेनाऽन्नं कीटाद्युपहतं तथा ।
तद्देशमन्नमुत्सृज्य प्रोक्ष्य भस्माऽवकीर्य च ॥
पुनश्च प्रोक्षितं वाऽपि प्रशस्तं भोज्यमेव च

इति ॥ ॥ बालमार्जालादिना दूषिते —

बालैर्नकुलमार्जारैरन्नमुच्छिष्टनं यदि ।
तिलदर्भोदकैः प्रोक्ष्य शुद्धं भवति तत्क्षणात्

इति ॥ ॥ श्राद्धं कर्तुं सर्वथाऽनुकूलाऽभावे –

श्राद्धेऽहनि च सम्प्राप्ते त्वभावे द्रव्यविप्रयोः ।
पिण्डमात्र प्रदानं स्याद्भवेन्निरशनोऽपि वा ॥
आमं तदा तु कौन्तेय दद्यादामचतुर्गुणम् ॥
उद्धृत्य घृतपक्वन्तु तिलमिदं समाहितः ॥
पिण्डदानं प्रकुर्वीत आमश्राद्धे कृते यदि ॥
एकस्मिन्ब्राह्मणे सर्वान्भोजयेच्छक्तितः पितॄन् ।
विप्राऽभावे धनाऽभावे पिण्डनिर्वापणं भवेत् ।
अन्नाभावे द्विजाभावे यद्येको ब्राह्मणो भवेत् ॥
सर्वान्पितृगणान्सम्यक्सहैवोद्दिश्य भोजयेत् ।
अनेकमातरोऽप्येकं ब्राह्मणं भोजयेदिति ॥
तच्छ्राद्धममृतं भूत्वा मातॄणामुपतिष्ठते

इति ॥ ॥ हविषि केशोपहते ॥ गोभिलः -

भोजने केशमायाति गायत्रीं मनसा स्मरन् ।
क्षीरे वा गोघृते वाऽपि शोधयेत् कुशभस्मना

इति ॥ ॥ अग्निनाशे -

अग्निनाशो यदा श्राद्धे ज्योतिर्यत्र विनश्यति ।
तद्दिने चोपवासं च पुनः श्राद्धं परेऽहनि ॥

पिण्डोपहतौ -

मार्जारमूषकस्पर्शे पिण्डे च विदळीकृते ।
पुनः पिण्डः प्रदातव्यस्तेन पाकेन तत्क्षणात् ॥


  1. “उदीप्यस्व॰, मा नो हि ँ सीत्॰” इति ॥ ↩︎