(बो. पि. शे. सू. ३)
वर्षेवर्षे मृततिथौ श्राद्धं कुर्यात् । विभक्तस्तु पृथक् कुर्यात् प्रतिसांवत्सरादिकम्
इति ॥ (बो. ध. सू. २. १४ )
पित्र्यमायुष्यं स्वर्ग्यं प्रशस्य पुष्टिकर्म च ॥ त्रिमधुस्त्रिणाचिकेतस्त्रिसुपर्णः पञ्चाग्निषडङ्गविच्छीर्षको ज्येष्ठ सामिकस्स्नातक
इति पङ्क्तिपावनाः ॥ तदभावे रहस्यवित् ॥ ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्मादेवंविदं सपिण्डमप्याशयेत् ॥ राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च । मध्वृचोऽथ पवित्राणि श्रावयेदाशयञ्छनैः ॥ चरणवतोऽनूचानान्योनिगोत्रमन्त्रासम्बन्धाञ्छुचीन्मन्त्रवतस्त्र्यवरानयुजः पूर्वेद्युः प्रातरेव वा निमन्त्र्य सदर्भोपक्लृप्तेष्वासनेषु प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा ॥
अथैनांस्तिलमिश्रा आपः प्रतिग्राह्य गन्धैर्माल्यैश्चाऽलङ्कृत्याग्नौ करिष्यामीत्यनुज्ञातोऽग्निमुपसमाधाय
सम्परिस्तीर्याऽऽग्निमुखात् कृत्वाऽज्यस्यैव तिस्र आहुतीर्जुहोति -
सोमाय पितृपीताय स्वधा नमस्स्वाहा । यमायाऽङ्गिरस्वते पितृमते स्वधा नमस्स्वाहा ॥ अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा
इति ॥ तच्छेषेणाऽन्नमभिघार्याऽन्नस्यैता एव तिस्र आहुतीर्जुहुयात् ॥ वयसां पिण्डं दद्यात् ॥
वयसां हि पितरः प्रतिमया चरन्ति
इति विज्ञायते ॥ अथेतरत्साङ्गुष्ठेन पाणिनाऽभिमृशति ॥ ‘पृथिवीसमं॰ अमुष्मिन्लोक’ इति । ‘अन्तरिक्षसमं॰ लोक’ इति ॥ ‘द्यौःसमं॰ लोक’ इति ॥ ॥( बो. ध. सू. २. १५) अथ वै भवति ॥
अग्नौ करणशेषेण तदन्नमभिघारयेत् ।
निरङ्गुष्ठन्तु यद्दत्तं न तत्प्रीणाति वै पितॄन् ॥
उभयोश्शाखयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् ।
तन्तरमुपासन्तेऽसुरा वै दुष्टचेतसः ॥
यातुधानाः पिशाचाश्च प्रतिलुम्पन्ति तद्धविः ।
तिलदाने ह्यदायादास्तथा क्रोधवशेऽसुराः ॥
काषायवासा यान्कुरुते जपहोमप्रतिग्रहान् ।
न तद्देवगमं भवति हव्यकव्येषु यद्धविः ।
यच्च दत्तमनङ्गुष्ठं यच्चैव प्रतिगृह्यते ।
आचामति च यस्तिष्ठन् न स तेन समृध्यत
इति ॥ आद्यन्तयोरपां प्रदानं सर्वत्र ॥ जयप्रभृति यथाविधानम् ॥ शेषमुक्तमष्टकाहोमे ॥
द्वौ देवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चै तान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥
उरस्तः पितरस्तस्य वामतश्च पितामहाः ।
दक्षिणतः प्रपितामहाः पृष्ठतः पिण्डतर्कका
इति ॥ (बो. . प. सू. २. ६. ७-८) सर्वत्र दैवेषु पुरस्तादुदग्वोपक्रमोऽपवर्गः प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रैर्दर्भैरग्नीनां परिस्तरणं प्रागुदगग्रैर्वा पवित्राभ्यामुत्पवनम् ॥ एवमेव विपरीतोपक्रमोपवर्गः पित्र्येषु दक्षिणाग्रैर्दर्भैरग्नीनां सम्परिस्तरणं दक्षिणाप्रतीच्यग्रैर्वा पवित्रेणोत्पवनम् ॥ ॥ ( बो. पृ. शे. सू. ५. ६. १९)
सह देवमनुष्या अस्मिंल्लोके पुरा बभूवुरथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्यास्तेषां ये तथा कर्माण्यारभन्ते सह देवैर्ब्रह्मणा चामुष्मिन् लोके भवन्त्यथैतन्मनुश्श्राद्धशब्दं कर्म प्रोवाच प्रजानिश्रेयसाय
इति ॥ ॥ (बो. पि. सू. १.२१.१८ ) संवत्सरेसंवत्सर एतस्मिन्नहनि दद्यात् ॥
श्राद्धशब्दार्थः ॥ बृहस्पतिः-
संस्कृतं व्यञ्चनाद्यञ्च पयोमधुघृतान्वितम् ।
श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते ॥
मरीचिः-
प्रेतं पितॄंश्च निर्दिश्य भोज्यं यत्प्रियमात्मनः ।
श्रद्धया दीयते यत्र तच्छ्राद्धं परिकीर्तितम् ॥
ब्रह्माण्डेऽपि-
देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदीरितम् ।।
वसिष्ठः-
पिता पितामहश्चैव तथैव प्रपितामहः ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥
ब्रह्मपुराणे-
पृथिवी पितृभिर्दुग्धा पात्रे रौप्यमये पुरा ।
स्वधामन्त्रञ्च तत्तस्मात्तेभ्यः मियतरं सदा ॥
रौप्यपात्रेण पाद्यादीन्तस्मात् सूक्ष्मेऽपि कारयेत् ॥
देवलः-
यत्र तु क्रियते कर्म पैतृके ब्राह्मणान्प्रति ।
तत्सर्वं तत्र कर्तव्यं वैश्वदेवत्वपूर्वकम् ॥
यमः-
प्रतिपाद्य पितॄणान्तु न दद्याद्वैश्वदेविके ॥
बृहस्पतिः–
नैमित्तिके कामकालौ काम्ये च धुरिलोचनौ ।
पुरूरवश्चार्द्रवश्च पार्वणे समुदाहृतौ ॥
श्राद्धकालः ॥ गौतमः-
आरभ्य कुतुपे श्राद्धं कुर्यादा रौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत् ॥
ऊर्ध्वं मुहूर्तात्कुतुपाद्यन्मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्येतत्स्वधाभवनमिष्यते ॥
अह्नो मुहूर्तो विख्याता दश पञ्च च सर्वदा ।
तत्राऽष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतः ॥
मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ।
तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥
वृद्धगौतमः -
अपराह्नव्यापिनी या पार्वणे सा तिथिर्भवेत् ॥
माधवीये-
सायन्तन्यपरत्र चेन्मृततिथिः सैवाब्दिके मासिके ग्राह्या सा व्यपराह्नयोर्यदि तदा यत्राधिका सा मता ।
तुल्या चेदुभयाऽपराह्नसमये पूर्वा न चेत्तु द्वये पूर्वैव त्रिमुहूर्तमाऽस्तसमये नोचेत्परैवोचिता ॥
श्राद्धकर्तारः ॥
राजकार्ये नियुक्तस्य बन्धनिग्रहवर्तिनः ।
व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत् ॥
हेमाद्रिः — श्राद्धं शिष्येण पुत्रेण तदन्येनापि कारयेत् ॥
श्राद्धपूर्वदिनकृत्यम् ॥
वस्त्रशौचादि कर्तव्यं श्वः कर्ताऽस्मीति जानता ।
स्थानोपलेपनं कृत्वा भूमि विभान्निमन्त्रयेत् ॥
दन्तकाष्ठश्च विसृजेद्ब्रह्मचारी शुचिर्भवेत् ॥
श्वः कर्तास्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् ।
निरामिषं सकृद्भुक्त्वा सर्व भुक्तजनेगृहे ॥
माधवीये -
पूर्वरात्रौ तु विप्राग्र्यान्कृतसायन्तनाशनान् ।
गत्वा निमन्त्रयेद्देवपित्रुद्देशसमन्वितः ॥
मनुः-
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि सम्प्राप्ते परीक्षेत प्रयत्नतः ॥
यमः-
पितृपुत्रौ भ्रातरौ द्वौ निरग्निं गुर्विणीपतिम् ।
सगोत्रप्रवरश्चैव श्राद्धेषु परिवर्जयेत् ॥
कर्मदीपिकायाम् -
श्राद्धे निमन्त्रयेद्विद्वान्पितॄणां न सगोत्रिणः ।
कर्तुस्तु गोत्रिणश्चैव विशेषेण विवर्जयेत् ॥
सहोदराणां पुत्राणां पितुरेकदिने तथा ।
श्राद्धे निमन्त्रणं वर्ज्यं क्षुरकर्म तथैव च ॥
कारिकारत्ने -
अनग्निं गर्भिणीनाथं पितरं पुत्रमेव च ।
श्राद्धे निमन्त्रयेन्नैकोभ्रातृनपि च सोदरान् ॥
याज्ञवल्क्यः –
अग्न्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदान्तविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥
कर्मनिष्ठास्तपोनिष्ठाः पश्चाग्निब्रह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणः श्राद्धसम्पदः ॥
आपस्तम्बः-
तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन्
( तुल्यगुणेषु वयोवृद्धो दरिद्रः श्रेयान्)
कूर्मे-
असमानप्रवरको हसगोत्रस्तथैव च ।
असम्बन्धी च विज्ञेयो ब्राह्मणः श्राद्धसिद्धये ॥
यमः-
अपत्नीकश्च वर्ज्यः स्यात्सपत्नीको ह्यनग्निकः ।
न मित्रं भोजयेच्छ्राद्धे धनैः कार्योऽस्य सङ्ग्रहः ॥
नाऽरिं न मित्रं यं विद्यात्तन्तु श्राद्धे निमन्त्रयेत् ॥
स्मृत्यन्तरे
नैकगोत्रे हविर्दद्याद्यथा कन्या तथा हविः ।
अभावेऽप्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत् ॥
षड्भ्यस्तु परतो भोज्या श्राद्धे स्युर्गोत्रजा अपि ॥
द्वौ देवौ पितृकृत्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्येत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।
पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥
वसिष्ठः -
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥
देवताऽऽयतने कृत्वा तत्र श्राद्धं प्रकल्पयेत् ॥
प्रास्येदग्नौ तदन्नन्तु दद्याद्वा ब्रह्मचारिणे ॥
विप्राभावे सर्वज्ञवसिष्ठः-
निधाय दर्भकबटूनासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं विधानं परिकल्पयेत् ॥
आदित्यपुराणे -
आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन ।
देवतानां पितॄणाञ्च दातुरन्यस्य चैव हि ॥
चिरकारी भवेद्रोगी पच्यते नरकाऽग्निषु ॥
निमन्त्रणकमः॥ स्मृत्यन्तरे-
पितृकार्येषु सर्वेषु पूर्वेद्युस्स्यान्निमन्त्रणम् ।
प्रेतकार्येषु सर्वेषु सद्य एव निमन्त्रणम् ॥
माधवीये -
पूर्वरात्रौ तु विप्राग्न्यान्कृतसायन्तनाऽशनान् ।
गत्वा निमन्त्रयेद्देवपित्रुद्देशसमन्वितः ॥
उपवीती ततो भूत्वा देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुतः ॥
निरङ्गुष्ठं गृहीत्वा तु विश्वान्देवान्समाह्वयेत् ॥
मत्स्यः-
एवं निमत्र्य नियमाच्छ्रावयेत्पैतृकान्बुधः ।
अक्रोधनैः शौचपरैस्सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥
अत्रिः-
प्रथमेऽह्नि निवासस्थाञ्छ्रोत्रियादीन्निमन्त्रयेत् ।
कथयेत्तु तदैवैषां नियमं पितृदैविकम् ॥
सर्वायासविनिर्मुक्तैः कामक्रोधववर्जितैः ।
भवितव्यं भवद्भिर्नः श्वो भूते श्राद्धकर्माण
इति ॥ निमन्त्रितब्राह्मणपरित्यागे नारायणः -
आमन्त्रितं द्विजं श्राद्धे यः कर्ता त्यजति क्वचित् ॥
ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते ॥
केतनं कारयित्वा तु निवारयति दुर्मतिः ।
ब्रह्महत्यामवानोति शूद्रयोनौ च जायते ॥
निवार्यामन्त्रितं कर्ता ब्राह्मणं नियतं शुचिम् ।
यतिचान्द्रायणं कृत्वा तस्मात्पापात्प्रमुच्यते ॥
आमन्त्रित नियमः-
आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति । नरकाणां शतं गत्वा चण्डालेष्वभिजायते ॥
यमः -
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।
सन्ध्या प्रतिग्रहो होमः श्राद्धभोक्ताष्ट वर्जयेत् ॥
बृहस्पतिः-
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।
श्राद्धकृच्छ्राद्धभोक्ता वा सर्वमेतद्विवर्जयेत् ॥
देवलः–
आमश्राद्धं गृहीत्वा तु योऽन्यश्राद्धेऽतिमोहितः ।
पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥
पूर्वं निमन्त्रितोऽन्येन कुर्यादन्यप्रतिग्रहम् ।
भुक्ताहारोऽथवा भुङ्क्ते सुकृतं तस्य नश्यति ॥
स्मृत्यन्तरे -
श्राद्धे निमन्त्रितो यस्तु यदि कुर्यात्प्रतिग्रहम् ।
भक्षयेत्किञ्चिदप्यन्यत्सुकृतं तस्य नश्यति ॥
कर्तृनियमः ॥ वसिष्ठः-
दन्तधावनताम्बूलं क्षौराभ्यङ्गञ्च भोजनम् ।
रत्यौषधिपरान्नानि श्राद्धकर्ताऽष्ट वर्जयेत् ॥
यस्मिन्मासि मृताहस्स्यात्तन्मासं पक्षमेव वा ।
क्षुरकर्म न कुर्वीत परान्नञ्च रतिं त्यजेत् ॥
बृहस्पतिः-
स्वाध्यायं कलहश्चैव दिवास्वापञ्च वर्जयेत् ।
श्राद्धकर्ता च भोक्ता च पुनर्भुक्तिं विवर्जयेत् ॥
यमः-
तस्मान्नियम्य वाचञ्च क्रोधञ्च श्राद्धमाचरेत् ।
न क्रोधं कस्यचित्कुर्यात्कस्मिंश्चिदपि कारयेत् ॥
स्मृत्यन्तरे-
घण्टानादञ्च लोहञ्च विभूतिञ्च विशेषकम् ।
रुद्राक्षमालामुद्राञ्च निराशाः पितरो गताः ॥
कर्ता भोक्ता च सर्वत्र नैकवस्त्रो द्विजो भवेत् ।
तस्माद्वस्त्रादिना श्राद्धे सोत्तरीयस्सदा भवेत् ॥
पितृशेषाशनात्पूर्वं श्राद्धकर्तुश्च कर्तृता ॥
व्यासः-
तथैव यन्त्रितो दाता प्रातस्स्नात्वा नवाम्बरः ।
आरभेत नवैः पात्रैरनारम्भञ्च बान्धवैः ।
समानप्रवरैर्मित्रैः सपिण्डैश्च गुणान्वितैः ।
कृतोपकारिभिश्चैव पाककार्यं प्रशस्यते ॥
निष्पन्नेषु च पाकेषु पुनस्स्नानं समाचरेत् ॥
पराशरः -
गृह्याग्निशिशुदेवानां ब्रह्मचारितपस्विनाम् ।
तावन्न दीयते किञ्चिद्यावत्पिण्डान्न निर्वपेत् ॥
आश्वलायनः -
दानाध्ययनदेवार्चाव्रतहोमजपादिकान् ।
न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात् ॥
घण्टानिनादो हयसन्निधानं जम्बूकशङ्खौ कदलीदलञ्च ।
उन्मत्तजात्यर्कहयारिजानि श्राद्धस्य वैगुण्यकराण्यमूनि ॥
गोमयेनोपलेपञ्च सर्वश्राद्धे प्रकीर्तितम् ।
गृहालङ्करणं नास्ति इति शातातपोऽब्रवीत् ॥
श्राद्धदेशः ॥
शुचिदेशं विविक्तन्तु गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणञ्चैव प्रयत्नेनोपलेपयेत् ॥
वायुपुराणे -
नाप्रोक्षितं स्पृशेत्किञ्चिच्छ्राद्धे दैवे तथा पुनः ।
उत्तरेण हरेद्वेद्या दक्षिणेन विसर्जयेत्
इति ॥ ॥श्राद्धार्हपदार्थाः ॥ व्यासः-
श्वेतनिष्पायपनसाः कदल्यामलकाः स्मृताः ।
उर्वारुर्बृहतीकन्दः कारवल्यथ तिन्त्रिणी ॥
पिण्डीतकञ्च नारङ्गमेलापालेवतं मधु ।
खर्जूरचव्यं मरिचं दाडिमेक्षू च नागरम् ॥
गुडमारण्यकं शाकं शर्करा जीरकाः शुभाः ।
सैन्धवञ्चैव कर्पूरं शस्तानि श्राद्धकर्मणि ॥
नारिकेलं रामठञ्च कपित्थं मध्यमं स्मृतम् ॥
मार्कण्डेयपुराणे -
यवव्रीहिसगोधूमतिलमुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावा श्चातिशोभनाः ॥
मनुः -
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
अक्षारलवणञ्चैव प्रकृत्या हविरुच्यते ॥
वायुपुराणे -
सक्तून्लाजान्तथाऽपूपान्कुल्माषान्व्यञ्जनैः सह ।
सर्पिःसिद्धानि सर्वाणि दध्ना संस्कृत्य भोजयेत् ॥
श्राद्धे तु तानि यो दद्यापितरः प्रीणयन्ति तम् ॥
मत्स्यपुराणे -
यत्किञ्चिन्मधुना मिश्रं गोक्षीरघृतपायसैः ।
दत्तमक्षय्यमित्याहुः पितरः पूर्वदेवताः ॥
व्यासः –
अगोधूमञ्च यच्छ्राद्धं माषमुद्गविवर्जितम् ।
तैलपक्वेन रहितं कृतमप्यकृतं भवेत् ॥
कार्णाजनिः -
यदिष्टं जीवतो ह्यासीत् तद्दद्यात्तस्य यत्नतः ।
स तृप्तो दुस्तरं मार्गं ततो याति परां गतिम् ॥
॥ श्राद्धे ब्राह्मणभोजनावश्यकता ॥ यमः-
ब्राह्मणं तु मुखं कृत्वा देवताः पितृभिः सह ।
तदन्नं समुपाश्रन्ति तस्मात्तं न व्यतिक्रमेत् ॥
मनुः -
निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् ।
वायुभूतास्तु गच्छन्ति तथाऽऽसीनानुपासते ॥
गोत्राऽपरिज्ञाने पारस्करः -
गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमिष्यते ।
नामानि चेन्न जानीयाद्यज्ञेत्यादि वदेत्क्रमात् ॥
॥ दर्भसङ्ख्या ॥ धर्मप्रवृत्तौ -
चतुर्भिः पौष्टिके चैव चतुर्भिर्यज्ञकर्मणि ।
पितृयज्ञे त्रिभिर्दर्भैर्द्वौ दर्भौ नित्यकर्मणि ॥
गोभिलः -
स्तरणासनपिण्डेषु षट्कुशान्परिवर्जयेत् ।
मासिके सप्त दर्भं स्यादब्दश्राद्धे चतुर्दश ॥
महालयैकविंशत्या द्वात्रिंशत्प्रेतकर्मणि ।
नित्यश्राद्धे त्रिदर्भाश्च मासि षोडश एव च ।
संवत्सरे चतुःषष्टिः काम्यके शतकं स्मृतम् ॥
द्वे द्वे शलाके देवानां पातो कृत्वा जलं क्षिपेत् ।
तिस्रस्तिस्त्रः शलाकास्तु पितृपात्रेषु पार्वणे ॥
॥ पादप्रक्षालनक्रमः ॥ स्मृत्यन्तरे -
सम्मार्जितोपलिमेषु द्वारि कुर्वीत मण्डलम् ।
प्राङ्गणे मण्डले कुर्याद्दैवे पित्र्ये च कर्मणि ॥
अन्तरेण प्रकर्तव्यं तयोर्मध्ये पडङ्गुलम् ।
पादोदकस्य संयोगात् पितृघाती प्रजायते ॥
मत्स्यः -
गृहद्वारसमीपे तु भवनस्याग्रतो भुवि ।
गोमयेनोपलितायां गोमूत्रेण तु मण्डले ॥
स्मृत्यर्थसारे -
प्रादेशमात्रं देवानां मण्डलं चतुरश्रकम् ।
वितस्तिमात्रं पित्रर्थं मण्डलं वर्तुलं स्मृतम् ॥
देवानामुत्तरे कार्यं पित्रर्थं दक्षिणे तथा ।
अन्तराळं तु कर्तव्यं तयोर्मध्ये षडङ्गुलम् ॥
शम्भुः -
उत्तरेऽक्षतसंयुक्तान्पूर्वाग्रान्विन्यसेत्कुशान् ।
दक्षिणे दक्षिणाग्रांस्तु सतिलान्विन्यसेद्बुधः ॥
स्वागते स्वस्तिवचने दक्षिणायां प्रदक्षिणे ।
गोत्रवादनमग्नौ च षडेतानुपवीतिना ॥
मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागते कृते ।
तत्रैव विसृजेत्पाद्यं क्षाळयेन्मण्डलोपरि ॥
अक्षताभिः सपुष्पाभिस्तदभ्यर्च्यापसव्यवत् ।
विप्राणां क्षालयेत्पादानभिवन्द्य पुनः पुनः ॥
तिलैर्दभैस्तथा पुष्पैरद्भिर्गन्धादिमिश्रितैः ।
पितॄणां क्षालयेत्पादान्सदा प्रत्यङ्मुखः शुचिः ॥
तिष्ठन्न क्षालयेत्पादौ क्षाळयेत्तु तथा यदि ।
नरश्चण्डालयोनिः स्याद्यदि गङ्गां न पश्यति
इति मत्स्यपुराणे ॥ ब्रह्मनिरुक्ते -
पाद्यं चैव तथा चार्घ्यं दैवमादौ प्रयोजयेत् ।
शन्नो देवीति मन्त्रेण पाद्यञ्चैव प्रदापयेत् ॥
पारिजाते -
सर्वदा दर्भपाणिः स्याद्दैवे पित्र्ये च कर्मणि ।
पादशौचं गन्धलेपं न कुर्याद्दर्भपाणिना ॥
सपवित्रेण हस्तेन विप्रपादावनेजनात् ।
यथा वज्रहतो वृत्रस्तथैव पितृदेवताः ॥
पादप्रक्षालनं श्राद्धे परं गुल्फद्वयाद्यदि ।
कुर्वीत रोमसंस्पर्शात्तत्तोयं रुधिरं भवेत्
इति ॥ ॥ पादप्रक्षाळनान्तरमाचमनम् ॥ हेमाद्रौ -
कर्तुराचमनं पूर्वं मण्डलस्योत्तरे भवेत् ।
अपि वैशानदिग्भागे कार्यमाचमनं तदा ॥
अमृतं स्याद्धि तत्तोयमन्यत्र रुधिरं भवेत् ।
कर्तुराचमनात्पूर्वं भोक्तुराचमनं यदि ।
शुनो मूत्रसमं तोयमित्येवं मनुरब्रवीत् ॥
मण्डलात्पूर्वतो देवाः पितृविप्रस्तु दक्षिणे ।
कर्ता चैशानभागे तु श्राद्धेष्वाचमनं क्रमात् ॥
गोभिलः -
श्राद्धारम्भेऽवसाने च पादशौचार्चनान्तयोः ।
विकिरे पिण्डदानेषु षट्स्वाचमनमिष्यते ॥
॥ उपविष्टब्राह्मणनियमाः॥ स्मृत्यन्तरे -
पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयन्तः परस्परम् ॥
ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम् ॥
उपचारक्रमः ॥ चन्द्रिकायाम् -
आसनेष्वासनं दद्यान्न तु हस्ते कदाचन ।
ददाति यदि मूढात्मा निराशाः पितरो गताः ॥
गोभिलः -
आपूर्विको विधिस्त्वत्र पात्राण्युक्तानि सादयेत् ।
गन्धद्वारेति वै गन्धमायनेतेति पुष्पकम् ॥
धूरसीत्यमुना धूपमुद्दीप्यस्वेति दीपकम् ।
युवं वस्त्राणि मन्त्रेण वस्त्रं दद्यात्प्रयत्नतः ॥
यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता ॥
वायुपुराणे –
तथार्घ्यपिण्डभोज्यादौ पितॄणां रजतं वरम्इ
इति ॥
“निमन्त्रितो जपेद्धोग्ध्रीं नियुक्तस्तु निषङ्गिणे ।
विसृष्टो वामदेवाय श्राद्ध भुग्दोषवर्जितः ॥
दशकृत्वः पिबेदापः सावित्र्या श्राद्धभुग्विजः ।
ततः सन्ध्यामुपासीत होमञ्चाऽपि यथाविधि ॥
श्राद्धे निमन्त्रितो विप्रो मन्त्रमुच्चरते यदि ।
त्रयस्ते नरकं यान्ति दाता भोक्ता तथा पिता ॥
निमन्त्रितो यदा विप्रो नियतात्मा भवेत्तदा ।
न च छन्दांस्यधीयीत यस्य श्राद्धश्च तद्भवेत् ॥
ब्रह्माण्डे -
श्राद्धभूमौ गयां ध्यात्वा धात्वा देवं जनार्दनम् ।
वस्वादींश्च पितृन्ध्यात्वा ततः श्राद्धं भवत्विति ॥
आदिमध्यावसानेषु त्रिरावृत्तिं जपेद्बुधः ।
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव भवन्त्विति ।
आदौ मध्ये तथा चान्ते त्रिरावृत्तं भवेत्सदा ॥
आवाहनेऽर्घ्यसङ्कल्पे पिण्डदानान्नदानयोः ।
पिण्डाऽभ्यञ्जनकालेषु तथैवाऽञ्जनकर्मणि ॥
अक्षय्यासनयोः पाद्ये गोत्रं नाम प्रकाशयेत् ।
क्षणे गन्धे तथा धूपे दीपदाने च कीर्तयेत् ॥
आदौ ब्रूयात्स्वपित्रादीन्नामगोत्रमतः परम् ।
रूपान्तानथ वस्वादीनेवं संयोजनं क्रमात् ॥
अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा ।
अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः ॥
बृहन्नारदीये-
दक्षिणं पातयेज्जानु पितॄन् I परिचरन्सदा ।
प्रदक्षिणन्तु देवानां पितॄणामप्रदक्षिणम् ॥
॥ आवाहनक्रमः ॥ याज्ञवल्क्यः -
यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति ।
आवाहयेत्यनुज्ञातो विश्वेदेवास इत्यृचा ॥
विश्वेदेवाः शृणुतेति मन्त्रं जप्त्वा ततोऽक्षतान् ॥
हेमाद्रौ -
देवार्चा दक्षिणादिस्स्यात्पादजान्वंसमूर्धसु ।
शिरोंसजानुपादेषु वामाङ्गादिषु पैतृके ॥
दिग्बन्धनम् -
तिलानवकिरेत्तत्र सर्वतो बन्धयेच्च तान् ।
असुरोपहतं सर्वं तिलैः शुध्येज्जलेन च ॥
दत्वा हस्ते पवित्रंतु हस्तेष्वर्घ्यं विनिक्षिपेत् ।
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ॥
शङ्खः -
यथा विभवसारेण वस्त्रं दद्यात्तु पैतृके ।
उत्तरीयमभावे तु शोभनं दर्भनिर्मितम् ॥
यज्ञोपवीतं दातव्यं वस्त्राऽभावे विजानता ।
पितॄणां वस्त्रदानस्य फलं तेनाश्नुतेऽखिलम् ॥
॥ प्रतिवचनक्रमः ॥ सङ्ग्रहे -
आसने स्वासनं ब्रूयादर्घ्ये स्वर्घ्यं द्विजो वदेत् ।
सुगन्धश्च सुपुष्पाणि सुमाल्यानि सुधूपकः ॥
सुज्योतिश्च सुदीपश्च स्वाच्छादनमिति क्रमात् ॥
इति ॥ शातातपः -
उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ।
प्रदद्यात्पार्वणे सर्वं दैवपूर्व विधानतः
इति ॥
अन्ये विषयाः ॥ प्रचेताः –
अङ्गुष्ठमात्रो भगवान्विष्णुः पर्यटते महीम् ।
राक्षसानां वधार्थाय कोपवान्प्रहरिष्यति ॥
तस्माच्छ्राद्धेषु सर्वेषु ह्यङ्गुष्ठग्रहणं स्मृतम् ।
विष्णो हव्यञ्च कव्यञ्च ब्रूयाद्रक्षति वै क्रमात् ।
विष्णुः -
अदत्तमन्नं विप्रस्तु पाणिना स्पृशते यदि ।
त्रयस्ते नरकं यान्ति दाता भोक्ता तथा पिता ॥
अत्रिः -
दैवाद्यन्तं भवेच्छ्राद्धं पित्राद्यन्तं न तद्भवेत् ॥
यल्लाजीये -
सुवासिन्यां मृतायान्तु ब्राह्मणैस्सह भोजने ।
सुवासिनीं ततः पश्चादमन्त्रकमथार्चयेत् ॥
माता मङ्गलसूत्रेण मृता यदि च तद्दिने ।
उद्दिश्य द्विजपङ्कतौ तां भोजयेत्सधवां स्त्रियम् ।
प्राचेताः -
आपोशनं प्रदायाथ सावित्रीं त्रिर्जपेदथ ।
मधुवाता इति तृचं मध्वित्येतत् त्रिकं तथा ॥
ब्रह्मपुराणे –
मण्डलानि च कार्याणि नीवारैश्चूर्णकैः शुभैः ।
गौरमृत्तिकया वाऽपि प्रणीतेनाऽथ भस्मना ।
पाषाणचूर्णसङ्कीर्णमाहतं परिवर्जयेत् ॥
भरद्वाजः –
पितॄणामन्नमादाय बलिं यस्तु प्रयच्छति ।
स्तेयेन ब्राह्मणस्तेन स सर्वस्तेयकृद्भवेत् ॥
नारायणीये -
श्राद्धभोजनकाले तु कर्ता भ्राता सुतोऽपि वा ।
दौहित्रो वाऽथ पौत्रो वा सपिण्डो वा विचक्षणः ॥
यत्राभिश्रावयेद्भोक्तॄन् तच्छ्राद्धं पावनं भवेत् ।
अन्यं वाऽऽहूय तं वृत्वा श्रावयेत्तं निरीक्षयेत् ॥
श्राद्धक्रिया समाप्तौ तु प्रदद्याज्जपदक्षिणाम् ।
अत्युच्चैरतिशीघ्रञ्च हित्वेव श्रावयेद्बुधः ॥
रक्षोघ्नं पैतृकञ्चैव दिवाकीर्त्ययुतं तथा ।
वैष्णवं त्रिसुपर्णञ्च नाचिकेतं तथा पठेत् ।
राक्षोघ्नादि जपेऽशक्तो जपेत्पुरुषसूक्तकम् ॥
तत्राप्यशक्तो गायत्रीमातृप्तेरसकृज्जपेत् ॥
उशनाः -
भोजनं तु न निश्शेषं कुर्यात्प्राज्ञः कथञ्चन ।
अन्यत्र दध्नः क्षीराद्वा क्षौद्रात्सक्तुभ्य एव च ॥
मनुः –
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरेच्च यत् ॥
मनुः –
उच्छेषणं भूमिगतमजिह्मस्याऽशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥
आश्वलायनः –
शेषयेद्भाजने भुक्त्वा सर्वान्किञ्चित्ततस्ततः ।
यत्तु शिष्टं भाजनेषु तदश्नन्त्यतिहर्षिताः ॥
॥ विकिरदानम् ॥ याज्ञवल्क्यः –
अन्नमादाय तृप्ताः स्थ शेषञ्चैवानुमान्य च ।
तदन्नं विकिरेद्भूमौ दद्याच्चापस्सकृत्सकृत् ॥
पाद्मे –
अनन्तरं सुतृप्तेषु तेषु विप्रेषु भक्तितः ।
अन्नशेषं प्रविकिरेद्दर्भेषु विधिवन्नृप ॥
असोमपेति मन्त्रेण विकिरं वैश्वदेविकम् ।
असंस्कृतेति मन्त्रेण पैतृकं विकिरं क्षिपेत् ॥
असंशयो भवेद्विष्णुममुना वैष्णवं क्षिपेत् ॥
स्मृत्यन्तरे -
असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः ।
दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् ॥
एतेन विकिरेत्पित्र्ये मुख्यब्राह्मणसन्निधौ ॥
॥ उच्छिष्टपिण्डदानम् ॥ स्मृत्यन्तरे -
पितृदेवतयोर्मध्ये भुवं प्रोक्ष्य तिलान् क्षिपेत् ।
ततो दर्भान्समास्तीर्य तूष्णीं दत्वा तिलोदकम् ॥
उच्छिष्टं तिलमिश्रेण पिण्डं दद्यात्समाहितः ।
ये अग्निदग्धा येऽनेति दद्यादुच्छिष्टसन्निधौ ॥
मरीचिः -
श्राद्धेषु विकिरं दत्वा योऽनाचामेन्मतिभ्रमात् ।
पितरस्तस्य षण्मासं भवन्त्युच्छिष्टभोजिनः ॥
श्राद्धकारिकायाम् –
यजमानस्य दासादीनुद्दिश्य द्विजसत्तमाः ।
तस्मादन्नं त्यजेद्भूमौ वामभागेषु पैतृके
इति ॥ ॥ उत्तरापोशनप्रकारः ॥ आश्वलायनः -
अर्धं पिबति गण्डूषमर्धं त्यजति भूतले ।
प्रीणन्ति पितरः सर्वे ये चान्ये भूमिदेवताः
इति ॥ ॥ हस्तप्रक्षालने विशेषः ॥ शातातपः –
विश्वेदेवनिविष्टानां चरमं हस्तधावनम् ।
विसर्जनं च निर्दिष्टं तेषु रक्षा यतस्थिता ।
दैवपूर्वं तु यो दद्याद्धस्तप्रक्षाळनोदकम् ।
निराशाः पितरोयान्ति देवरक्षा विवर्जिताः ॥
॥ पात्रचालनम् ॥ जातुकर्णिः -
पात्राणि चालयेच्छ्राद्धे स्वयं शिष्योऽथवा सुतः ।
न स्त्रीभिर्न च बालेन नासजात्या कथञ्चन ॥
अगस्त्यः -
अथाऽचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् ।
मार्कण्डेयः -
पितॄणां नामगोत्रेण जलं देयमनन्तरम् ।
ब्राह्मणानां द्विजैर्वाच्यमिदमक्षय्यमस्त्विति ॥
अक्षतांश्च तथा दत्वा गोत्रशेषञ्च कारयेत् ॥
॥ पिण्डानां परिमाणम् ॥
कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः ।
कुक्कुटाण्डप्रमाणान् वाऽऽमलकैर्बदरैः समान् ॥
एकोद्दिष्टे सपिण्डे च कपित्थन्तु विधीयते ।
नाळिकेरप्रमाणन्तु प्रत्यब्दे मासिके तथा ।
तीर्थे दर्शे च सम्प्राप्ते कुक्कुटाण्डप्रमाणकम् ॥
महालये गयाश्राद्धे कुयादामलकोपमम् ॥
याज्ञवल्क्यः –
गन्धपुष्पाणि धूपञ्च दीपञ्चैव निवेदयेत् ।
यत्किञ्चित्पच्यते गेहे भक्ष्यं भोज्यमगर्हितम् ॥
अनिवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन ॥
नारदीये -
तुलसीगन्धमात्रेण पितरस्तुष्टिमाप्नुयुः ।
प्रयान्ति गरुडारूढास्तत्पदं चक्रपाणिनः ॥
तुलसीं श्राद्धकाले तु दत्वा शिरसि धारिते ।
दाता भोक्ता पिता तस्य विष्णुलोके महीयते ॥
पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः ॥
प्रणीताः पितरस्तेन यावच्चन्द्रार्कमेदिनी ॥
गृह्यसङ्ग्रहे -
संयोज्य पितृतीर्थानि निषण्णः पिण्डमग्रतः ।
ऋचेत्वेत्यादिमन्त्रान्ते तिष्ठन् सिञ्चेत् त्रिशः स्वधा ॥
देवलः –
ततः सर्वाशनं पात्रे गृहीत्वा विविधं बुधः ।
तेषामुच्छेषणस्थाने विकिरं भुवि विक्षिपेत् ॥
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ॥
विष्णुधर्मोत्तरे -
तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्यादिक्सा प्रकीर्तिता ॥
आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्यं शूद्रः कुर्यात्सदैव हि ॥
मातापित्रोर्मृतदिने सङ्कल्पं कुरुते तु यः ।
सन्ततेस्तु विनाशः स्यात्सम्पदामपि सङ्क्षयः ॥
॥ स्त्रीकर्तृकश्राद्धे ॥ स्मृत्यन्तरे -
स्वभर्तृप्रभृतित्रिभ्यः स्वपित्रादिभ्य एव च ।
विधवा कारयेच्छ्राद्धं नित्यं नैमित्तिकं तथा ॥
॥ वैश्वदेवकालः ॥
श्राद्धोह्नि श्राद्धशेषेण वैश्वदेवं समाचरेत् ॥
वृद्धावादौ क्षये चान्ते दर्श मध्ये महालये ॥
एकोद्दिष्टे निवृत्ते तु वैश्वदेवो विधीयते॥
॥ नित्यनैमित्तिककाम्यलक्षणम् ॥
कालनिर्णये नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् ।
इत्युक्तोऽतिक्रमे दोषः श्रुतेरत्यागचोदनात् ॥
फलाऽश्रुतेर्विप्सया च तन्नित्यमिति कीर्तितम् ॥
मृताहेऽहरहर्दर्श श्राद्धं यच्च महालये ।
तन्नित्यमुदितं सद्भिर्नित्यवत्तद्विधानतः ॥
प्रेतश्राद्धं सपिण्डत्वं सङ्क्रान्तिग्रहणेषु च ।
संवत्सरोदकुम्भञ्च वृद्धिश्राद्धं निमित्ततः ॥
तिथ्यादिषु च यच्छ्राद्धं मन्वादिषु युगादिषु ।
अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम् ॥
॥ श्राद्धाद्गतर्पणम् ॥ मरीचिः -
उपरागे पितृश्राद्धे तीर्थेऽमायाञ्च सङ्क्रमे ।
निषिद्धेऽपि हि सर्वत्र साक्षतैस्तर्पयेत्तिलैः ॥
चन्द्रिकायाम् -
सव्यं जानु ततोऽन्वाच्य पाणिभ्यां दक्षिणामुखः ।
तल्लिङ्गैस्तर्पयेन्मन्त्रैः सर्वान्पितृगणा स्तथा ॥
योगयाज्ञवल्क्यः -
गोत्रनामस्वधाकारैस्तर्पयेदनुपूर्वशः ॥
गर्गः -
यस्तर्पयति तान्विप्रः श्राद्धं कृत्वाऽपरेऽहनि ।
पितरस्तेन तृप्यन्ति न चेत्कुप्यन्ति वै भृशम् ॥
प्रत्यब्दाङ्गं तिलं दद्यान्निषिद्धेपि परेऽहनि ।
वर्गकस्थवचो येषामन्येषां तु विवर्जयेत् ॥
अमाष्टकासु सक्रान्तौ पातादौ ग्रहणेषु च ।
स्नात्वा तिलोदकं दत्वा ततः श्राद्धं समाचरेत् ॥
दर्शे तिलोदकं पूर्वं पश्चाद्दद्यान्महालये ।
प्रत्यब्दं तु कृते श्राद्धे परेऽहनि तिलोदकम् ॥
पक्षे महालयश्राद्धे तर्पणन्तु दिने दिने ।
सकृन्महालयश्राद्धे तर्पणन्तु परेऽहनि ॥
सद्यस्तिलोदकं दद्यात्पक्षश्राद्धे पृथक्पृथक् ।
सकृन्महालये दद्यादपरेऽह्नि तिलोदकम् ॥
ज्येष्ठभ्रातृपितृव्याणां सपत्नीमातुरेव च ॥
सद्यस्तिलोदकं दद्यादन्येषान्तु परेऽहनि ॥
नैव श्राद्धदिने कुर्यात्तिलैस्तु पितृतर्पणम् ।
श्राद्धं कृत्वा परेह्न्येव तर्पणन्तु तिलैस्सह ॥
कालात्पूर्वं कृतं कर्म कालं प्राप्य पुनः क्रिया ॥
सपिण्डीकरणे चैव मासिके चानुमासिके ।
प्रत्यब्दात्प्रथमं चैव न कुर्यात्तिलतर्पणम् ॥
एकोद्दिष्टेषु सर्वेषु सपिण्डीकरणे तथा ।
मासिकेष्वाब्दिके चैव न कुर्यात्तिलतर्पणम् ॥
तीर्थश्राद्धे गयाश्राद्धे प्रेतश्राद्धेऽनुमासिके ।
सपिण्डीकरणे चैव न कुर्यात्तिलतर्पणम् ॥
वृद्धिश्राद्धे सपिण्ड्याञ्च मासिके चाऽनुमासिके ।
आब्दिके प्रथमे चैव न कुर्यात्तिलतर्पणम् ॥
वसित्वा वसनं शुष्कं स्थल आस्तीर्णबर्हिषि ।
विधिज्ञस्तर्पणं कुर्यात्सर्वान्पितृगणांस्तथा ॥
दर्शे तिलोदकं दद्याच्छुष्कवासा जलाद्बहिः ।
तर्पयेदाद्रवासाश्चेत् त्रिरात्रमशुचिर्भवेत् ॥
॥ श्राद्धप्रशंसा ॥ मत्स्यः -
नामगोत्रं पितॄणान्तु प्रापकं हव्यकव्ययोः ।
नाममन्त्रास्तथाऽऽदेशा भवान्तरगतानपि ॥
प्राणिनः प्रीणयन्त्येते तदाकारत्वमागतान् ।
देवो यदि पिता जातः शुभकर्मानुयोगतः ।
तस्यान्नममृतं भूत्वा दैवत्वेऽप्युपगच्छति ।
दैवत्वे भोग्यरूपेण पशुत्वे तु तृणं भवेत् ॥
श्राद्धान्नं वायुरूपेण नागत्वेऽप्युपतिष्ठति ।
पानं भवति यक्षत्वे गृध्रत्वे च तथाऽऽमिषम् ॥
दनुजत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ।
मानुषत्वेऽन्नपानादि नानाभोगकरं तथा ॥
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता ।
दानशक्तिः सविभवा रूपमारोग्यमेव च ॥
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः ॥
यमः –
ये यजन्ति पितॄन्देवान्ब्राह्मणान्सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥
दत्वाऽनेन विधानेन लभते चतुरो वरान् ।
धनमन्नं सुतानायुर्ददते पितरो भुवि ॥
आयुर्धनं यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् ।
पशून्सुखञ्च धान्यञ्च प्राप्नुयात्पितृपूजनात् ॥
देवलः -
अरोगः प्रकृतः स्वस्थश्चिरायुः पुत्रपौत्रवान् ।
अर्थवानर्थभोगी च श्राद्धकामो भवेदिह ॥
परतां परमां तुष्टिं लोकांश्च विपुलान्शुभान् ।
श्राद्धकृत्समवाप्नोति यशश्च विपुलं नरः ॥
॥ बृहस्पतिः -
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव नः ।
श्रद्धा च नो मा व्यगमद्बहुदेयञ्च नोऽस्तु ॥
विप्रान्प्रदक्षिणीकृत्य विप्राणां प्रार्थयेद्वरान् ॥
॥ श्राद्धाऽकरणे दोषः ॥ यमः -
न तत्र वीरा जायन्ते नाऽरोगा न शतायुषः ।
न च श्रेयोऽधिगच्छन्ति यत्र श्राद्धं विवर्जितम् ॥
आदित्यपुराणे -
न सन्ति पितरश्चेति कृत्वा मनास यो नरः ।
श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते ॥
प्रतिसांवत्सरिकश्राद्धविधिः
प्रतिसांवत्सरिकश्राद्धप्रयोगः ॥ पूर्वेद्युः श्राद्धदेशपरिकल्पनैककालभोजनवस्त्रक्षालनादिसर्वं नियममनुष्ठाय सायमौपासनं हुत्वा कृतप्राणायामः प्राचीनावीती ‘श्वः प्रतिसांवत्सरिकश्राद्धं कर्तास्मि’ इति मनसा सङ्कल्प्य, कृतसायमाशान्योनिगोत्रश्रुतशीलवृत्तसम्पन्नानसम्बन्धानलाभे सम्बन्धान्वा तद्गृहं गत्वा यज्ञोपवीती द्वौ विप्रो एकं वाऽभिवाद्य
श्वः प्रतिसांवत्सरिकश्राद्धं भविता, तत्र भवद्भिर्विश्वेदेवार्थे प्रसादः करणीयः
इति विप्रस्य निरङ्गुष्ठं दक्षिणहस्तं गृहीत्वा प्रार्थयेत् ॥ ततोऽभिवाद्य प्राचीनावीती
श्वः प्रतिसांवत्सरिकश्राद्धं भविता, तत्र भवद्भिः पितृपितामहप्रपितामहार्थे प्रसादः करणीयः
इति पूर्ववद्धस्तं गृहीत्वा त्रीन् विप्रानेकं वा प्रार्थयेत् ॥ उपवीती-विष्ण्वर्थे एकं ब्राह्मणमभिवाद्य
श्वः प्रतिसांवत्सरिकश्राद्धं भविता, तत्र भवद्भिः श्राद्धसंरक्षकमहाविष्ण्वर्थे प्रसादः करणीयः
इति हस्तं गृहीत्वा प्रार्थयेत् । ‘करिष्यामः’ इति प्रतिवचनम् ॥ ॥ अथ श्राद्धदिने स्नानादिनित्यकर्म कृत्वा प्रातर्होमान्ते तान्विप्रान्गृहमानीयोदकं दत्वाऽऽसनेषूपवेश्य ततो द्वितीयमामन्त्रणम् ।
अद्य श्राद्धं भविष्यति, तत्र भवद्भिः प्रसादः करणीयः
इति विशेषः । ततः श्मश्रुकर्माऽभ्यञ्जनस्नानैस्तान्यथोपपादं सम्पूजयेत् ॥ ॥ अथ पञ्चदशधा विभक्तस्याऽह्नोऽष्टमे भागे नद्यादौ स्नात्वा मध्याह्नसन्ध्यानन्तरमाचम्य प्राणानायम्य सुमुखश्चेत्यादिदेशकालो सङ्कीर्त्य
मम पितुः (मातुः) प्रतिसांवत्सरिकश्राद्धांगत्वेन शरीरशुध्यर्थं स्नानपवनमन्त्राचमनमन्त्रप्रोक्षणशारीरसूक्तपठनानि करिष्ये
इति सङ्कल्प्य स्नानादिचतुष्टयं विधाय–
शारीरषट्कस्याऽऽत्मा ऋषिः । प्रकृतिपुरुषं छन्दः । महाविष्णुर्देवता । अन्तर्बहिः शरीरशुध्यर्थे जपे विनियोगः ॥
शारीरमन्तःकरणोपघातं पापं विभुर्वाचिकमप्यशेषम् ।
शमं नयत्वद्य ममाऽस्तु शर्म पापादनन्ताद्धृदि सन्निविष्टात् ॥
अन्तशुद्धिं बहिश्शुद्धिं शुद्धो धर्ममयोऽच्युतः ।
स करोत्वमलं शुद्धं यतः शुद्धो भवाम्यहम् ॥
बाह्योपघाताननघो बौद्धांश्च भगवानजः ।
शमन्नयत्वनन्तात्मा विष्णुश्चेतसि संस्थितः ॥
शारीरं मे हृषीकेश पुण्डरीकाक्षमानसम् ।
पापं प्रशमयाऽद्य त्वं वाक्कृतं मम माधव ॥
यद्यप्युपहतः पापैर्यदि वाऽत्यन्तदुष्कृतैः ।
तथाऽपि विष्णुस्मरणाद्विपाप्मा शुचिरस्म्यहम् ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः
इति ।
शुची वो हव्या मरुतः शुचीनाम् । शुचिँ हिनोम्यध्वरँ शुचिभ्यः ॥ ऋतेन सत्यमृतसाप आयन् । शुचिजन्मानः शुचयः पावकाः [[TODO: परिष्कार्यम्]]
सर्वाणि स्थलानि शुचीनि भवन्तु ,
इत्यनेन श्राद्धभूमिं सम्प्रोक्ष्य
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचि कविः । शुची रोचत आहुतः ॥ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतीँ ष्यर्चयः [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां विग्रहस्ते जलं दत्वा
सर्वे विप्राः शुचयो भवन्तु
इति प्रार्थयेत् ॥ ‘ततो जलशुद्धिं करिष्ये’ इति सङ्कल्प्य,
शुद्धपुण्यजलपूरितं ताम्रं राजतमिति
कलशद्वयमासाद्य
आपो हि ष्ठा॰ चनः, इमम्मे गङ्गे॰ सुषोमया , गङ्गे च॰ कुरु
इत्यभिमन्त्र्य गन्धपुष्पाक्षतान्निक्षिप्य ‘ब्रह्म जज्ञानं॰’ इति चतुर्दशदर्भमयं कूर्चं ‘हिरण्यगर्भः समवर्तताग्रे॰’ इति हिरण्यं च तयोः प्रत्येकं विन्यस्य, ताम्रकलशे -
यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम्
इति यवान्, राजतकलशे–प्राचीनावीती
तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रत्नवद्भिः प्रत्नः स्वधयेहि पितॄनिमाल्ँ लोकान्प्रीणयाहि नः स्वधा नमः
इति तिलांश्च निक्षिप्य सर्वत्र देवार्चने ताम्रकलशोदकं पित्रर्चने राजतकलशोदकञ्चोपयुञ्ज्यात् ॥ केचित्त्वेकस्मिन्नेव पात्रे यवोदकं तिलोदकञ्चोपकल्पयन्ति ॥ ‘अधिकारसिध्यर्थं ब्रह्मदण्डं करिष्ये’, इति सङ्कल्प्य ब्रह्मदण्डार्थं कुशतिलहिरण्यान्युदपात्रञ्च गृहीत्वा कनिष्ठपूर्वं ब्राह्मणान् त्रिः प्रदक्षिणीकुर्यात् ॥
समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥
आपद्धनध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः
इति । प्राचीनावीती - ब्रह्मदण्डं विप्रसमीपे निधाय, उपवीती –
अधिकारसम्पदस्त्विति भवन्तो ब्रुवन्तु,
इति प्रार्थयेत् ॥ (अधिकारसम्पदस्तु इति प्र॰)। प्राचीनावीती -
कालोऽयं मुख्यः कालोऽस्त्विति भवन्तो ब्रुवन्तु,
(कालोऽयं मुख्यः कालोऽस्तु इति प्र॰) ॥ उपवीती - ‘नमो देवेभ्यः’ इति विश्वभ्यो देवेभ्यः, प्राचीनावीती - ‘स्वधा पितृभ्यः’ इति पितृभ्यश्च नमस्कुर्यात् ॥ उपवीती-
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥
श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् ।
वस्वादींश्च पितृन्ध्यात्वा ततः श्राद्धं प्रवर्तये
इति प्रार्थ्य (‘प्रवर्तय’ इति प्र॰)॥ ॥ द्विराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम पितुः ( मातुः ) प्रतिसांवत्सरिकश्राद्धे विश्वेषां देवानां तृप्त्यर्थं (प्राचीनावीती) पितृपितामहप्रपितामहानां अमुकशर्मणां अमुकगोत्राणां वसुरुद्रादित्यरूपाणामक्षय्यतृप्त्यर्थं (उपवीती) श्राद्धसंरक्षकमहाविष्णुप्रीत्यर्थं च देशकालाद्यनुसारतः सदैवं प्रतिसां॰ श्राद्धं (अग्नौकरणपक्षे - साग्नौकरणं) सपिण्डं पार्वणविधानेनाऽनेन हविषा करिष्ये (कुरुष्व इति प्र॰)॥ उपवीती- ‘तदङ्गक्षणादि करिष्ये’ इति सङ्कल्प्य (कुरुष्व इति प्र॰) ॥
कटिं बध्वा सङ्कल्पसिद्धिरस्त्विति भवन्तो ब्रुवन्तु, अस्तु सङ्कल्पसिद्धिः
इति प्र॰ ॥
विश्वेदेवहस्तेऽपो दत्वा पितुः प्रति॰ श्राद्ध पुरू॰ देवानां स्थाने भवद्भिः क्षणः क्रियताम्
इति दर्भद्वयं दत्वा यवैरभ्यर्च्य,
सङ्कल्पसिद्धिरस्त्विति भवन्तो ब्रुवन्तु
इति पितृहस्तेऽपो दत्वा प्राचीनावीती -
पितुः प्रति॰ श्राद्धे पितृ॰ रूपाणां स्थाने भवद्भिः क्षणः क्रियताम्
इति द्विगुणदर्भान्दत्वा तिलैरभ्यर्चयेत् (ॐ तथा इति प्र॰)॥ ‘प्राप्नोतु भवान्’ इति कर्ता (प्राप्नवानि इति प्र॰) ॥
पूर्ववत्सङ्कल्पसिद्धिरस्त्विति भवन्तो ब्रुवन्तु
इति
श्राद्धसंरक्षकमहाविष्ण्वर्थं विप्रहस्तेऽपो दत्वा श्राद्धसंरक्षकमहाविष्ण्वर्थे भवद्भिः क्षणः क्रियताम्
इति विश्वेदेववत्क्षणं दद्यात् ॥ ‘देवानां स्वागतम्’ इत्युक्त्वा प्राचीनावीती -‘पितृणाञ्च स्वागतम्’ इति वदेत् (सुस्वागतम् इति प्र॰)। उपवीती-
अक्रोधनैः शौचपरैस्सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकर्मणि
इति प्रार्थयेत् ॥
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाऽस्मिन्नाष्ट्रे राजन्य इषव्यः शूरो महारथो जायतां दोग्ध्री धेनुर्वोढाऽनड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् [[TODO: परिष्कार्यम्]]
इति विप्रा जपेयुः ॥
अथ पाद्यार्थं देवानामुत्तरतश्चतुरश्रं प्रादेशमात्रं तद्दक्षिणतः षडङ्गुलं विहाय पितॄणां वर्तुळं वितस्तिमात्रमित्यवटद्वयं खात्वा,
चतुरश्रे -
विश्वेदेवाः पाद्यस्थानं कल्पयामि
इति
पाद्यस्थानं प्रकल्प्य पाद्यस्थाने इमे दर्भाः
इति प्रागग्रान्दर्भानास्तीर्य दर्भाणामुपरि यवोदकं विसृज्य गन्धादिभिरभ्यर्च्य, प्राचीनावीती - वृत्तमण्डले पित्रर्थं पूर्ववत्पाद्यस्थानं प्रकल्प्य दक्षिणाग्रान्द्विगुणदर्भानास्तीर्य तिलोदकं दत्वा गन्धादिभिरभ्यर्च्य, उपवीती -
पाद्यस्थाने गन्धादिसकलाराधनैः स्वर्चितम्,
इत्युक्त्वा
पुरूरवा॰ देवेभ्यः स्वाहा नमः स्वागतम्
(सुस्वागतम् इति प्र॰) इति देववित्रं मण्डलस्य पश्चात्प्राङ्मुखमुपवेभ्य स्वयं तत्पुरस्तात्प्रत्यङ्मुख उपविश्य चतुरश्रे तत्पादौ सङ्गृह्याऽभिवाद्य दर्भद्वयगन्धपुष्पयवसहितं जलमादाय
शन्नो देवी॰ स्रवन्तु नः ॥ चरणं पवित्रं विततं पुराणम् । येन पूतस्तरति दुष्कृतानि ॥ तेन पवित्रेण शुद्धेन पूताः । अति पाप्मानमरातिं तरेम ॥ लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमान महस्वत् ॥ अमृतस्य धारा बहुधा दोहमानम् । चरणन्नो लोके सुधितां दधातु। [[TODO: परिष्कार्यम्]]
पृथिव्यां यानि तीर्थानि यानि तीर्थानि सागरे ।
तानि सर्वाणि तीर्थानि पदे विप्रस्य दक्षिणे
पुरू॰ देवेभ्यः स्वाहा नमः इदं वः पाद्यम्
(सुपाद्यम् इति प्र॰) इति पाद्यं दत्वा पवित्रं विना शुद्धोदकेन गुल्फादधः प्रक्षालयेत् ॥ ततः
मयि महो मयि भगो मयि भर्गो मयि यशः [[TODO: परिष्कार्यम्]]
इति देवविप्रः कर्तुः पाणी सम्मृशति ।
मयीन्द्रियं वीर्यम् [[TODO: परिष्कार्यम्]]
इत्युरः प्रत्यात्मानं प्रत्यभिमृशति ॥ एवमेव प्राचीनावीती -
दर्भत्रयगन्धपुष्पतिलयुक्तं जलमादाय दक्षिणे वृत्ताकारमण्डले पितृ॰ रूपेभ्यः स्वधा नमः स्वागतम्
(सुस्वागतम् इति प्र॰)। इति पितृविप्रपादौ सद्ङ्गृय तिलोदकं दत्वा शुद्धोदकेन प्रक्षाळयेत्। उपवीती-देवमण्डले ‘इदं विष्णुः॰ पाँसुरे’ इति पूर्ववत् विश्वेदेववत् विष्णोः पादप्रक्षाळनम् ॥ यवोदकेन - ‘भूस्तर्पयामि, भुवस्त॰’ इति तर्पयित्वा प्राचीनावीती तिलोदकेन ‘भूर्भुवस्सुवस्त॰’ इति तर्पयेत् । उपवीती-बहिर्गत्वा स्वयं हस्तपादौ प्रक्षाल्य पवित्रं विसृज्य मण्डलस्येशानभागे उपविश्य पुनः पवित्रं धृत्वाऽऽचम्य विप्रांश्चाचमय्य (मण्डलात्पुरतो देवाः मण्डलाद्दक्षिणतः पितृविप्रः) तैः सहाऽन्तः प्रविश्य
सालिग्रामे श्रीमहाविष्णुपूजां करिष्ये
इति सङ्कल्प्यासनाद्युपचारैः पूजयेत् ॥ विश्वेदेवविप्रौ प्राङ्मुखौ पितृविप्रानुदङ्मुखान्सर्वान् प्रामुखान् (दक्षिणापवर्गान्) उदमुखान् (प्रागपवर्गान्) वा श्राद्धसंरक्षकविष्णुं यथावकाशं प्राङ्मुखमुङ्मुखं वा सदर्भोपक्लृप्तेष्वासनेषूपवेश्य विप्रहस्तेऽपो दत्त्वा ‘पुरू॰ देवानामिदमासनम्’ इति दर्भद्वयसहितान्यवाक्षतान्पीठोपरि दक्षिणार्धे निधाय ॥ प्राचीनावीती- ‘पितृ॰ रूपाणामिदमासनम्’ इति द्विगुणदर्भतिलाक्षतान्पीठोपरि उत्तरार्धे निदध्यात् ॥ उपवीती - देव विप्रवद्विष्णोरासनं कल्पयेत् ॥ स्वासनम् इति प्र॰ ॥ विप्रहस्ते जलं दद्यात् ॥ ‘प्राच्यादिदिग्बन्धनं करिष्ये’ इति सङ्कल्प्य
अग्निष्वात्ताश्च पितरः प्राची रक्षन्तु मे दिशम् ।
तथा बर्हिषदो याम्यां दिशं रक्षन्तु मे सदा ॥
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ।
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ॥
असुरा यातुधानाश्च पिशाचा यज्ञदूषकाः ।
ते सर्वेऽप्यपगच्छन्तु मया बद्धकुशैस्तिलैः
इति सर्वत्र सकुशतिलान्विकिरेत् ॥
अथोपवीती -
स्थण्डिलोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य पितुः प्रतिसां॰ श्राद्धे अग्नौकरणहोमं करिष्ये, प्रतिसांवत्सरिक श्राद्धीयाग्नौकरणहोमः कर्म, अग्नीषोमावाज्यभागौ, हव्यवाहनो नामाऽग्निः, पुरू॰ देवा देवता, चरुर्हविः, प्राचीनावीती - कव्यवाहनो नामाऽग्निः, पितृपितामहप्रपितामहा देवताः, चर्वाज्ये हविषी (चर्वपूपाज्यानि वा हवींषि ), उपवीती-अग्निः कव्यवाहनः स्विष्टकृत्,
इत्यादि सङ्कल्प्यान्वाधाय दक्षिणायप्रागग्रैर्दर्भैः परिस्तीर्य पात्रासादने–
आज्यस्थालीं, त्रुवं, औदुम्बरीं दर्वीं, प्रोक्षणीं, चरुस्थाल्यौ, मेक्षणे, यवागूपात्रं, अपूपपात्रमिति विशेषः ।
अग्नेर्दाक्षिणतश्चतुरश्रमण्डले प्रागग्रेषु दर्भेषु यवोदकपात्रं वृत्तमण्डले दक्षिणाग्रेषु दर्भेषु स्वधापात्रं (अर्ध्यार्थं देवे-द्वे प्रागपवर्गं, पित्र्ये-त्रीणि दक्षिणापवर्गं, उभयत्रैकैकं वा), कशिपूपबर्हणे, अञ्जनाभ्यञ्जने, दशासूत्रं, सकृदाच्छिन्नं बर्हिर्मुष्टिमित्यैकैकशः
सादायित्वा पवित्रकरणादिप्रोक्षणीः संस्कृत्योत्तरतः सादितानि पात्राणि त्रिः प्रोक्ष्य दक्षिणतः सादितानि सकृत्प्रोक्ष्य चरुनिर्वापे –
देवस्य त्वा॰ पुरू॰ देवेभ्यो जुष्टं निर्वपामि
इति त्रिर्यजुषां तूष्णीं चतुर्थं निरुप्य, प्राचीनावीती-
देवस्य त्वा॰ पितृभ्यो जुष्टं निर्वपामि
इति पात्रान्तरे चरूं यवागूं (अपूपं) च सकृन्निरुप्य, यज्ञोपवीती-प्रोक्ष्य आज्यनिर्वापादि प्रतिष्ठिताभिधारणान्तं कुर्यात् ॥ अथार्घ्यार्थं दक्षिणतः सादितं यवोदकपात्रद्वयमेकं वोत्तानं कृत्वा तूष्णीं संस्कृताभिरद्भिः प्रोक्ष्य प्रागग्रे पवित्रे निधाय ‘
शन्नो देवी॰ पुरू॰ देवेभ्यो गृह्णामि
इत्यप आनीय, अपोद्धृत्य पवित्रं ‘यवोसि॰’ इति यवानावपति । तिरःपवित्रं ‘शुक्रमसि॰’ इत्याज्यं, ‘हिरण्यगर्भः॰’ इति हिरण्यं, ‘गन्धद्वारां॰’ इति गन्धं, ‘काण्डात्काण्डात॰’ इति दूर्वाश्च निक्षिप्य प्रागग्रैर्दर्भैः प्रतिच्छाद्य ‘अर्घ्ये कृतमाराधनं शास्त्रीयमस्तु’ इति प्रार्थ्य ‘अर्घ्यपात्रं सम्पन्नम्’ (‘अर्घ्यपात्रे सम्पन्ने’ इति यथायथं वदेत्) ‘सुसम्पन्नम्’, (सुसम्पन्ने) इति प्र॰॥ अथ स्वधापात्रत्रयमेकं वोत्तानं कृत्वा पूर्ववत्प्रोक्ष्य, प्राचीनावीती - दर्भत्रयकृतं पवित्रं दक्षिणायं पात्रत्रये पृथक्पृथनिधायाऽप आनयति -
आम आगच्छन्तु पितृ॰ प्रपितामहा देवयानान् समुद्रान्सलिलान्सवर्णान् । अस्मिन्यज्ञे सर्वकामान्लभन्तेऽक्षीयमाणमुपदुह्यन्तामिमाः पितृ॰ महेभ्यो वो गृह्णामि
इति ॥ पात्रत्रय पक्षे –
पितृभ्यो वो गृह्णामि, पितामहेभ्यो वो गृह्णामि, प्रपितामहेभ्यो॰
इति पृथक्पृथङ्मन्त्रेण गृह्णीयात् ॥ अपोद्धृत्य पवित्रं, ‘तिलोऽसि॰ स्वधा नमः’ इति तिलानावपति । ‘मधुवाता॰ भवन्तु नः’ इति तिरःपवित्रं मध्वानीय
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमासि मृत्योर्मा पाहि दिद्योन्मा पाहि [[TODO: परिष्कार्यम्]]
इति सर्वाभिरङ्गुलिभिः समुदायुत्याऽभिमृशति । तस्मिन्यत्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन महानाम्न्या चोपसङ्गृह्य नैर्ऋत्यां दिशि निरस्यति –
अवेष्टा दन्दशूका निरस्तं नमुचेः शिरः [[TODO: परिष्कार्यम्]]
इति । अप उपस्पृश्य पुनरेवाभिमृशति– ‘शन्नो देवी॰ स्रवन्तु नः’ इति । ‘हिरण्यगर्भः॰’ इति हिरण्यप्रक्षेपणादि दक्षिणाग्रैर्दर्भैः प्रच्छादनान्तं देवपात्रवत् कुर्यात् । यज्ञोपवीती-
शास्त्रीयमस्त्विति वाचयित्वा अर्घ्यपात्राणि सम्पन्नानि, अर्घ्यपात्रं सम्पन्नं
इति वा वदेत् (सुसम्पन्नानि इति प्र॰)। अथ प्राचीनावीती भोजनस्थानेष्वासनेषु च ससिकततिलान्विकिरति –
अपहता असुरा रक्षाँ सि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः
इति (यत्रासां गतं मनः, इति स्त्रीणाम्) ।
निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा ये । ये राक्षसा भूतपिशाचगुह्यका हता मया यातुधानाञ्च सर्वे
इति भूतादीन्युत्सार्य अद्भिरवेक्षति –
उदीतामवर उत्परास उन्मध्यमाः पितरस्सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु
इति ॥ (उदीरता मवरा उत्परा उन्मध्यमा मातरस्सोम्याः। असुं य ईयुरवृका ऋतज्ञास्ता नोऽवन्तु मातरो हवेषु’ इति स्त्रीणाम्) उपवीती-गायत्र्या पाकादीन्प्रोक्ष्य
पाकादीनां पवित्रताऽस्त्विति भवन्तो ब्रुवन्तु
इत्युक्त्वा ‘पाकादीनां पवित्रताऽस्तु’ इति प्र॰ ॥
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं॰ श्राद्धं प्रवर्तये
इति विज्ञाप्य ‘प्रवर्तय’ इत्यनुज्ञां गृह्णीयात् ॥ आवाहनाद्युपचारेषु सर्वत्र पुरस्तादुपरिष्टाच्च विप्रहस्तेऽपो दद्यात् । देवार्चने (दक्षिणतः) उत्तराभिमुखो दक्षिणं जानु निपात्य वाममुद्धृत्योपविशेत् । पित्रर्चने (पुरतः) दक्षिणाभिमुखो वामजानु निपात्य दक्षिणमुद्धृत्योपविशेत् ॥ ‘पुरू॰ देवानावाहयिष्ये’ इत्युक्त्वा ‘आवाहय’ इति प्र॰ । विप्रहस्तेऽपो दत्वा
आगच्छन्तु महाभागा विश्वेदेवा वरप्रदाः ।
ये ह्यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥
विश्वे देवास आर्गत शृणुताम इमँ हवम् । एवं बर्हिर्निषीदत ॥ विश्वेदेवाः शृणुतेमँ हवम्मे ये अन्तरिक्षे य उप द्यविष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्याऽस्मिन्बर्हिषि मादयध्वम् ॥ पुरू॰ देवानावाहयामि [[TODO: परिष्कार्यम्]]
इति दक्षिणपादादिशिरोऽन्तं यवाक्षतैरावाह्य निरङ्गुष्ठं हस्तं गृहीत्वा
पुरू॰ देवाः, पितुः प्रतिसा॰ श्राद्धे ॐ क्षणः क्रियताम्
इति क्षणं ग्राहयति ‘ॐ तथा’ इति प्र॰ । विश्वेदेवहस्ते उदगग्रं पवित्रं निधायोद्धरण्याऽर्घ्यजलमादाय
या दिव्या आपः पयसा सम्बभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । यामिषाढा अनु यन्ति कामम् । ता न आपः शँस्योना भवन्तु ॥ पुरूर॰ देवेभ्यः स्वाहा नमः इदं वो अर्घ्यम् [[TODO: परिष्कार्यम्]]
इत्यर्घ्यं द्विर्दत्वा ‘अस्त्वर्घ्यम्’ इति प्र॰ ।
ये देवा दिविभागा येऽन्तरिक्षभागा ये पृथिविभागाः । त इमं यज्ञमवन्तु त इदं क्षेत्रमाविशन्तु त इदं क्षेत्रमनुविविशन्तु ॥ पुरू॰ देवेभ्यः स्वाहा नमः इदमर्चनम् [[TODO: परिष्कार्यम्]]
इति दक्षिणपादजान्वंसशिरः पूजयेत् ‘अस्त्वर्चनम्’ इति प्र॰ ।
युवा सुवासाः॰ देवयन्तः ।। पुरू॰ देवेभ्यः स्वाहा नमः आच्छादनार्थे इदं वो वस्त्रम्
‘अस्त्वाच्छादनम्’ इति प्र॰ ।
यज्ञोपवीतं० तेजः ॥ पुरू॰ देवेभ्यः स्वाहा नमः धारणार्थमुपवीतम्
‘सूपवीतम्’ इति प्र॰ ॥
हिरण्यगर्भस्सम॰ विधेम ॥ पुरू॰ देवेभ्यः स्वाहा नमः सर्वालङ्करणार्थे इदं वो हिरण्यम्
‘सुहिरण्यम्’ इति प्र॰ ।
गन्धद्वारा॰ स्वाहा नमः अलङ्करणार्थे इमे वो गन्धाः
‘सुगन्धाः’ इति प्र॰ ।
अर्चत प्रार्चत॰ । पुरू॰ देवेभ्यः स्वाहा नमः इमे वो यवाक्षताः
‘सन्तु यवाक्षताः’ इति प्र॰ ।
आयने ते॰ ॥ पुरू॰ देवेभ्यः स्वाहा नमः इमानि वो दूर्वाङकुरकुशतुलसीश्वेतपत्रपुष्पाणि माल्यानि
‘सुपुष्पाणि’ इति प्र॰ ।
धूरसि॰ धूर्वामः ॥ पुरू॰ देवेभ्यः स्वाहा नमः अयं वो धूपः
‘सुधूपः इति प्र॰ ।
उद्दीप्यस्व॰ दिशः ॥ पुरू॰ स्वाहा नमः अयं वो दीपः
‘सुदीपः’ इति प्र॰ । ‘या दिव्याः’ इति पूर्ववत्पुनरर्घ्यं दद्यात् ॥
आधिव्याधिहरं नॄणां दुःखदारिद्र्यनाशनम् ।
श्रीःपुष्टिकीर्तिदं वन्दे विप्रश्रीपादपङ्कजम् ॥
विप्रौघदर्शनात्सद्यः क्षीयन्ते पापराशयः ।
वन्दनान्मङ्गलावाप्तिरर्चनादच्युतं पदम्
इति पादे गन्धपुष्पाक्षतैरभ्यर्च्य गन्धपुष्पाक्षतजलकुशाग्रयवसर्षपदूर्वा गृहीत्वा ‘इदं वोऽष्टार्घ्यम्’ इत्यर्घ्यं दद्यात् । ‘अस्त्वष्टार्घ्यम्’ इति प्र॰ ।
विश्वेदेवाः आसनाद्यर्घ्यान्तं मया कृतमाराधनं शास्त्रीयमस्त्विति भवन्तो बुवन्तु
‘शास्त्रीयमस्तु’ इति प्र॰॥
‘अथ पितृ॰ महानामर्चनं करिष्ये’ इति सङ्कल्प्य ‘कुरुष्व’ इति प्र॰ । प्राचीनावीती- वामाङ्गुष्ठोपकानष्ठिकाभ्यां भुवं स्पृष्ट्वा जपति -
“ये पार्थिवासः पितरो येऽन्तरिक्ष ये दिवि ये वाऽमृता बभूवुस्तेऽस्मिन्यज्ञे समवयन्ताम्
इति ।
पितुः प्रति॰ श्राद्धे । पितृ॰ महानावाहयिष्ये
इत्युक्त्वा ‘आवाहय’ इति प्र॰ ।
आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिञ्च दीर्घायुत्वञ्च शतशारदश्च ॥ उदीराणा इह सन्तु नः सोम्याः पितरः पितामहाः प्रपितामहाश्चानुगैस्सह । असुङ्गमाः सत्ययुजो वृकास आनोहवं पितरोऽद्यागमन्तु ॥ एह गच्छन्तु पितरो हविषे अत्तवे । अस्मिन्यज्ञे बर्हिष्यानिषद्य । मा वीरः प्र मायुनक ॥ पितृ॰ रूपानावाहयामि
इति शिरःप्रभृति वामपादान्तं तिलैरावाह्य, निरङ्कुष्ठं हस्तं गृहीत्वा
पितृ॰ रूपाः प्रतिसां॰ श्राद्धे ॐ क्षणः क्रियताम्
इति क्षणं ग्राहयेत् ‘ॐ तथा’ इति प्र॰ । कर्ता ‘प्राप्नोतु भवान्’ इति ‘प्राप्नवानि’ इति प्र॰ । विप्रहस्ते दक्षिणाग्रं पवित्रं निधाय
या दिव्याः स्योना भवन्तु ॥ पितृ॰ रूपेभ्यः स्वधा नमः इदं वो अर्घ्यम्
‘अस्त्वर्घ्यम् ’ इति प्र॰ ।
उशन्तस्त्वा हवामह उशन्तः समिधीमहि । उशन्नुशत आवह पितॄन्हविषे अत्तवे” [[TODO: परिष्कार्यम्म]]
इति वामभागे शिरोंऽसजानुपादेषु तिलैरर्चनम् । आच्छादनादि पुनरर्घ्यान्तमेवमेव दद्यात् ॥ पुष्पादिदाने इमानि वो दूर्चाङ्कुरभृङ्गराजकुशतुलसीश्वेतपत्रपुष्पाणि । उपवीतेन पादपूजनम्। प्राचीनावीती - उशीरचन्दनतिलदूर्वाकुशतुलसीभृङ्गराजजलसहितमष्टार्घ्यं दद्यात् ॥ उपबीती–
श्राद्धसंरक्षकमहाविष्णोरर्चनं करिष्ये,
इति सङ्कल्प्य ‘इदं विष्णुः॰ सुरे’ इति यवाक्षतैरावाह्य विश्वेदेववत्क्षणं ग्राहयित्वाऽर्चयेत् ॥ ततो विप्रा नमः ‘सहमानायेत्येतमनुवाकं’ पठेयुः ॥
‘अथाऽग्नौ करिष्यामि’, इत्युक्त्वा (‘कुरुष्व’ इति प्र॰)। अग्नेः पश्चादुपविश्य ‘जुषस्व नः’ इत्यादि चरूत्सेकप्रायश्चित्तान्ते उभयं चरुमाप्याय्य वैश्वदेवं चरुं मेक्षणेनोपहत्य ‘पुरू॰ देवेभ्यः स्वाहा’ इति द्विर्हुनेत्, (विश्वेभ्यो देवेभ्य इदं॰) ॥ प्राचीनावीती - आज्यस्य तिस्त्र आहुतीर्जुहोति - सोमाय पितृपीताय स्वधा नमः स्वाहा, यमायाऽङ्गिरस्वते पितृमते स्वधा नमः स्वाहा, अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा (यथालिङ्गं त्यागः) ततः पैतृकं चरुमभिधार्य औदुम्बर्यां दर्व्यां द्विरुपस्तीर्य सकृदवदाय द्विरभिघार्य प्रत्यज्य पुरस्तात्स्रुवाहुतिं हुत्वा जुहोति -‘सोमाय पितृपीतायः॰’ इत्यादि ‘त्रिभिर्मन्त्रैः’ इत्येकः पक्षः ॥ अपि वा वैश्वदेवहोमान्ते प्राचीनावीती -
याः प्राचीः सम्भवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः स्वाहा, पित्र इदं॰ । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः स्वाहा, पितामहायेदं॰ । अन्तर्दध ऋतुभिः सर्वैरहोरात्रैः ससन्धिकैः । अर्धमासैश्च मासैश्चाऽन्तरन्यं प्रपितामहाद्दधे स्वधा नमः स्वाहा, प्रपितामहायेदं॰ । यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्कक्तां मा भूरन्योऽवपद्यताँ स्वधा नमः, पित्र इदं॰ । यद्वः कव्यादङ्गमदहल्लौकानयन्त्रणयञ्जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः सम्भवत पितरः स्वधा॰
पितृभ्य इदं॰ ॥ अथ पैतृकं चरुं पूर्ववदवदानधर्मेणावदाय जुहोति -
सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजिन्निदं जुषस्व नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा नमः स्वाहा, सोमाय पितृमत इदं॰ । अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नः स्वजा हव्यं देवेभ्यः पितृभ्यः स्वधा॰, यमायाऽङ्गिरस्वते पितृमत इदं॰ । यदग्ने कव्यवाहन पितॄन्यक्ष्यृतावृधः । प्र देवेभ्यो वह हव्यं पितृभ्यश्च स्वजा कव्यं देवेभ्यः पितृभ्यः॰
अग्नये कव्यवाहनाय स्विष्टकृत इद॰ ॥
अथाऽपूपमष्टधा विच्छिद्य त्रीण्यवदानानि एवमेव मन्त्रत्रयेण हुत्वा स्विष्टकृदर्थमुभयतः सकृत्सकृच्चरुमवदाय द्विरभिघार्य बर्हिषि सादयित्वा चरोरेकवेशमुद्धृत्य पात्रान्तरे निधाय शेषमोदनं यवागू तिलाज्येन समुदायुत्य औदुम्बर्या दर्व्योपघातं (अवदान धर्मेणावदाय) दक्षिणार्धे जुहोति -
पितृभ्यः स्वधा नमः स्वाहा । पितामहेभ्यःस्वधा नमः स्वाहा । प्रपितामहभ्यः स्वधा नमः स्वाहा । मातृभ्यः॰ नमः स्वाहा । पितामहीभ्यः॰ । प्रपितामहीभ्यः॰ । मातामहेभ्यः॰ । मातुःपितामहेभ्यः॰ । मातुःप्रपितामहेभ्यः॰ । मातामहीभ्यः॰ । मातुःपितामहीभ्यः॰ । मातुःप्रपितामहीभ्यः॰ । आचार्येभ्यः॰ । आचार्यपत्नीभ्यः॰ । गुरुभ्यः॰ । गुरुपत्नीभ्यः॰ । सखिभ्यः॰ । सखिपत्नीभ्यः॰ । ज्ञातिभ्यः॰ । ज्ञातिपत्नीभ्यः॰ । अमात्येभ्यः॰ । अमात्यपत्नीभ्यः॰ । सर्वेभ्यः॰ । सर्वाभ्यः॰ ।
(यथालिङ्गं त्यागः) इति चतुर्विंशतिनाममन्त्रैर्हुत्वा
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा
इति दक्षिणार्धपूर्वार्धे स्विष्टकृतं हुत्वा (यथालिङ्गं त्यागः) उपवीती - मेक्षणमग्नौ प्रहृत्य सँस्राव हुत्वा अन्तःपरिधि बहिःपरिधि संक्षाळनं निनयेत् ॥
अथ सालिग्रामविष्णवे तत्पुरतश्चतुरस्रमण्डले सौवर्णं पात्रं प्रकल्प्य उपस्तरणपूर्वकं अन्नसूपघृतपायसभक्ष्यभोज्यादि परिविष्याऽभिघार्य प्रोक्ष्य प्रदक्षिणं परिषिच्य ‘इदं वो अन्नं’ इत्युक्त्वा । विश्वेदेवपुरतश्चतुरश्रमण्डले
पुरू॰ देवानां भोजनार्थे सुवर्णमयपात्रं कल्पयामि
(‘सुपात्रं कल्पय’ इति प्र॰) इति प्रागणेषु दर्भेषु पात्रं कल्पयित्वा । प्राचीनावीती -
पितृ॰ रूपाणां भोजनार्थे रजतमयपात्रं कल्पयामि
(सुपात्रं कल्पय) इति पितृपुरतो वृत्तमण्डले दक्षिणाग्रेषु दर्भेषु पात्रं प्रकल्प्य । उपवीती-विष्णोश्चापि विश्वेदेववत्पात्रमुपकल्पयेत् । भोजनपात्रेषु उपस्तरणपूर्वकं तत्तद्धुतशेषाऽपूपोदनसूपघृतपायसभक्ष्यभोज्यव्यञ्जनादिकं परिविष्याभिघार्य देवपात्रं प्रागग्रैर्दर्भैः पितृपात्रं दक्षिणाग्रैर्दर्भैः प्रतिच्छाद्य दक्षिणं जान्वाच्य विश्वेदेवपात्रं गायत्र्या प्रोक्ष्य ‘सत्यं त्वर्तेन परिषिञ्चामि’ इति प्रदक्षिणं परिषिच्य विप्रहस्ते जलं दत्वा -
पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखेऽमृतं जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसिमा पुरू॰ देवानां क्षेष्ठा अमुत्रामुष्मिन्लोके, शन्नो देवी॰ स्रवन्तु नः ॥ पितुः प्रतिसांव॰ पुरू॰ देवेभ्यः स्वाहा नमः, इदं वो अन्नं, सपरिकरञ्च
(‘अस्त्वन्नं’ इति प्र॰) इति विप्रस्य दक्षिणाऽङ्गुष्ठेनाऽनखेनाऽनुदिशति, पात्रस्याधस्थादुत्तानं सव्यं हस्तमुपरिष्टान्न्यञ्च दक्षिणं हस्तञ्च कृत्वा पात्रं स्पृशञ्चपति -
इदं हव्यममृत स्वरूपमातृप्तेर्दत्तं दास्यमानं, अन्नञ्च ब्रह्म, अहञ्च ब्रह्म, भोक्ता च ब्रह्म, गयेयं भूमिः, गदाधरो भोक्ता, स्वर्णमयं पात्रं, अश्वत्थवटच्छायायां गयायां, ईशानादिचतुर्दशपदेषु दत्तं
इति विभाव्य, यवोदकमादाय कर्ता आत्मनो दक्षिणपार्श्वे देवतीर्थेनाऽङ्गुलि मध्येन भूमौ दर्भेषु निनीय
विश्वेभ्यो देवेभ्यः स्वाहा नमः, हव्यं न मम
इति वदेत् । गदाधरः प्रीयताम् ।
ये देवा दिव्येकादशस्थ पृथिव्या मध्येकादशस्थाऽप्सुषदो महिनैकादशस्थ ते देवा यज्ञमिमं जुषध्वम् [[TODO: परिष्कार्यम्]]
पुरू॰ देवाः इदमन्नं यथाभागं जुषध्वम्
(‘अस्तु यथाभागं जुषामहे’ इति प्र॰) इति वदेत् ॥ पितृपुरतः सव्यं जान्वाच्य भोजनपात्रं गायत्र्या प्रोक्ष्य (प्राचीनावीती) ‘सत्यं त्वर्तेन परिषिञ्चामि’ इति तिलोदकेनाऽप्रदक्षिणं परिषिच्य विप्रहस्तेऽपो दत्वा -
पृथिवी समन्तस्य तेऽग्निरुपद्रष्टर्चस्ते महिमा दत्तस्याऽप्रमादाय, पृथिवी ते पात्रं॰ मसि मा पितॄणां॰ वसुरूपाणां क्षेष्ठा, अमुत्राऽमुष्मिन्लोके, अन्तरिक्षसमन्तस्य ते वायुरुपश्रोता यजूँषि ते महिमा दत्तस्याऽप्रमादाय, पृथिवी ते॰ मसि मा पितामहानां॰ रुद्ररूपाणां॰ लोके, द्यौः समन्तस्य ते आदित्योऽनुख्याता सामानि ते॰ मादाय, पृथिवी॰ प्रपितामहानां॰ आदित्यरूपाणां० लोके, शन्नो देवी॰ स्रवन्तु नः, पितुः प्रतिसां॰ पितृपिता॰ रूपेभ्यः स्वधा नमः इदं वो अन्नं सपरिकरञ्च
(‘अस्तु अन्नं’ इति प्र॰) इति विप्राङ्गुष्ठेनाऽनखेन दक्षिणेन पाणिना भोज्यद्रव्यमप्रदक्षिणमभिभृति । पात्रस्याऽधस्थादुत्तानं दक्षिणहस्तमुपरिष्टान्यञ्च सव्यहस्तञ्च कृत्वा एवं पात्रं स्पृशञ्जपति — ‘इदं कव्यममृतस्वरूपं॰ दत्तं’ इति भावयित्वा, वामपार्श्वे पितृतीर्थेन तिलोदकं भूमौ दक्षिणाग्रेषु दर्भेषु निनीय
पितृपिता॰ रूपेभ्यः स्वधा नमः, कव्यं न मम
इति वदेत् । गदाधरः प्रीयताम् ।
ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म । त्वं वेत्थ यदि ते जातवेदः स्वधाभिर्यज्ञँसुकृतं जुषस्व ॥ मधुवाता॰ भवन्तु नः मधुमधुमधु ॥ [[TODO: परिष्कार्यम्]]
(उपवीती) श्राद्धरक्षकविष्णुपात्रं गायत्र्या प्रोक्ष्य ‘सत्यं॰ परिषिञ्चामि’ इति प्रदक्षिणं परिषिच्य,
पृथिवी ते पात्रं॰ विष्णवे स्वाहा नमः इदं वो अन्नं
इति देवपात्रवत् अङ्गुष्ठनाऽनखनाऽनुदिशति । ततः सालिग्रामविष्णवे परिविष्टं हविर्निवेद्य ‘अमृतोपस्तरणमसि’ इत्यपो दत्वा,
प्राणाय स्वाहा, अपानाय॰, व्यानाय॰, उदानाय॰, समानाय॰, दत्तं दास्यमानञ्च
इति पठित्वा ब्राह्मणेभ्यो विश्वेदेवपूर्वं
श्रद्धायां प्राणे निविष्टोऽमृत जुहोमि । श्रद्धायामपाने निविष्टो॰मि । श्रद्धायां व्याने॰ । श्रद्धायांमुदाने॰ । श्रद्धायाँ समाने नि॰ । ब्रह्मणि म आत्माऽमृतत्वाय । अमृतोपस्तरणमसि” [[TODO: परिष्कार्य्म्]]
इत्यापोशनं दत्वा ‘विश्वेषां देवानामक्षय्यमस्तु’ इति विश्वेदेवसमीपे दर्भेषु पूर्ववद्यवोदकं दत्वा (प्राचीनावीती) ‘पितृपिता॰ नामक्षय्यमस्तु’ इति पितृसमीपे तिलोदकं दद्यात् । (‘अस्तु अक्षय्यम्’ इति प्र॰)। उपवीती -
एको विष्णुमहद्भूतं पृथक्भूतान्यनेकशः ।
त्रीन्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥
अनेन ब्राह्मणभोजनेन पितृरूपी जनार्दनमहाविष्णुः प्रीयताम्, विश्वेदेवा अमृतमस्तु, विष्णो अमृतमस्तु (प्राचीनावीती) पितरः अमृतमस्तु (उपवीती) सर्वत्राऽमृतमस्तु
इत्युक्त्वा, विप्रा आपोशनपूर्वकं (बलिदानवर्जं) भुञ्जीरन् । भुञ्जानान्ब्राह्मणान्समीक्षते -
श्रद्धायां प्राणे निविष्टोऽमृतं जुहोमि । शिवो मा विशाप्रदाहाय । प्राणाय स्वाहा ॥ श्रद्धाोमपाने निविष्टो॰ अपानाय॰ ॥ श्रद्धायां व्याने निवि॰ व्यानाय॰ ॥ श्रृद्धायामुदाने नि॰ उदानाय॰ ॥ श्रद्धायाँ समाने॰ समानाय॰ [[TODO: परिष्कार्यम्]]
इति पञ्चभिः ।
ब्रह्मणि म आत्माऽमृतत्वाय [[TODO: परिष्कार्यम्]]
इत्यात्मानम् ॥
अपेक्षितं याचितव्यं त्याज्यं चैवाऽनपेक्षितम् ।
उपविश्य सुखेनैव भोक्तव्यं स्वस्थमानसैः
इति प्रार्थ्याऽत ऊर्ध्वं कर्ता भोजनोद्यतान्विाप्रान्न समीक्षते ॥ एतत्काले स्वधायुक्तान राक्षोघ्नान्नैर्ऋतान्पित्र्यान्वैष्णवानन्यांश्च पवित्रमन्त्रान् श्रावयेत् ॥
भुक्तवत्सु विप्रेषु कर्ता सोदपात्रस्तिष्ठन्
विश्वेदेवाः मद्गृहे कृताऽन्नशाकादिषु यदपेक्षितं तद्याचनीयम् ।
(प्राचीनावीती)
पितृपिताम॰ रूपा मद्गृहे कृत॰ नीयम् ।
(उपवीती)
श्राद्धसंरक्षकश्रीमहाविष्णो, मद्गृहे कृत॰ नीयं
(‘निरपेक्षः’ इति प्र॰)।
तृप्ताः स्थ, पितुः प्रतिसां॰ श्राद्धं संपन्नम्
(प्राचीनावीती) तृप्ताः स्थ, प्रतिसां॰द्धं संपन्नम्
(‘तृप्ता स्मः, सुसम्पन्नम्’ इति प्र॰) । (उपवीती)
मधुवाता॰ भवन्तु नः, मधुमधुमधु [[TODO: परिष्कार्यम्]]
इति मधुमतीः श्रावयित्वा
अक्षन्नमी मदन्त ह्यवप्रिया अधूषत । अस्तोषत स्वभानवो विप्रा न विष्ठयामती । योजान्विन्द्र ते हरी [[TODO: परिष्कार्यम्]]
इति पठित्वा,
अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् [[TODO: परिष्कार्यम्]]
सालिग्रामविष्णवे निवेदितं हविर्विसर्जयामि,
इति हविर्विसृज्य विश्वेदेवपुरतो भूमौ यवोदकं दत्वा ‘विकिरबल्यर्थे इमे दर्भाः’ इति प्रागग्रान्दर्भानास्तीर्य तेषामुपरि यवोदकं दत्वाऽन्नशेषान्विकिरति
असोमपाश्च ये देवा यज्ञभागविवर्जिताः ।
तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम्
इति । तस्योपरि यवोदकं दद्यात् ॥ (प्राचीनावीती) पितृपुरतो भूमौ तिलोदकं दत्वा द्विगुणदर्भान्दक्षिणाग्रानास्तीर्य तदुपरि तिलोदकं दत्वाऽन्नशेषान्विकिरति -
येऽग्निदग्धा जाता जीवा ये ये त्वदग्धाः कुले मम ।
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥
असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः ।
दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम्
इति । तस्योपरि तिलोदकं दत्वा, सङ्क्षाळनजलं निनयति
ऊर्जं वहन्तीरमृतं घृतं मधु पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितृन्तृप्यत तृप्यत तृप्यत
इति ॥ (उपवीती) पवित्रं विसृज्य हस्तपादान्प्रक्षाळ्याचम्यान्यपवित्रं धृत्वा श्राद्धसंरक्षकविष्णोः पुरस्ताद्यवोदकं निनीय विश्वेदेववद्दर्भास्तरणादि कृत्वा -
असंशयो भवेद्विष्णुर्मोक्षसाधनमव्ययम् ।
पितॄणाञ्च वरं श्रेष्ठं विकिरान्नञ्च वैष्णवम्
इत्यन्नशेषं विकीर्य यवोदकं दद्यात् ॥ ‘उच्छिष्टभाग्भ्योऽन्नं दीयताम्’ इति वदेत् ॥
यजमानकुले जाता दासा दास्योऽन्नकाङ्क्षिणः ।
ते सर्वे तृप्तिमायान्तु भुक्तशेषेण भूतले
इति भोक्तारो भुक्तशेषं वामभागे भूमौ त्यजेयुः ॥ ‘अमृताऽपिधानमसि’ इति पितृपूर्वकमुत्तरापोशनं दद्यात् ।
रौरवे पूयनिलये पद्मांबुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु
इति विप्रा आपोशनजलशेषं भूमौ निनयेयुः॥ ॥ विप्राणां हस्तादिप्रक्षाळनान्ते तानाचमय्य
पुरूरवार्द्रसंज्ञका विश्वेदेवाः स्वदितम्
इत्युक्त्वा (प्राचीनावीती) ‘पितृपिता॰ रूपाः स्वदितम्’ इति वदेत् (‘सुस्वादितं’ इति प्र॰)। (उपवीती) पुरूरवा॰ देवेभ्यः विष्णवे॰ । (प्राचीनावीती) पितृपिता॰भ्यश्च ‘या दिव्या आपः॰’ इति पूर्ववदर्घ्यं दद्यात् (‘अस्तु अर्ध्यं’ इति प्र॰)। उपवीती - पुरू॰ देवाः, ‘स्वस्तीति’ बूत, ‘दीर्घमायुरस्तु’, इत्युक्त्वा ‘शिवा आपः सन्तु’, इत्यपो दद्यात् । (“ॐ स्वस्ति, अस्तु दीर्घमायुः, सन्तु शिवा आपः”, इति क्रमेण प्र॰)। ‘सुमनसः’, इति पुष्पाणि (‘अस्तु सौमनस्यं’ इति प्र॰।) ‘इमे वो यवाः’, इति यवान् । ‘ताम्बूलानि पान्तु’, इति ताम्बूलम् । ‘दक्षिणाः पान्तु’, इति सुवर्णञ्च दद्यात् ॥ प्राचीनावीती - पितुः प्रतिसां॰ रूपाः, ‘स्वस्तीति’ बूत, ‘दीर्घमायुरस्तु’, इत्युक्त्वा ‘शिवा आपः सन्तु’ इत्यपो दद्यात् (“ॐ स्वस्ति, अस्तु दीर्घमायुः, सन्तु शिवा आपः” इति प्र॰)। ‘इमे वस्तिलाक्षताः’ इति तिलान् । ‘ताम्बूलानि पान्तु’ इति ताम्बूलं, ‘दक्षिणाः पान्तु’, इति रजतञ्च दद्यात् ॥ उपवीती -
श्राद्धरक्षकश्रीमहाविष्णो स्वस्तीति बूत
इत्यादि विश्वेदेववदुपचारान्कुर्यात् ॥ (“अस्त्वक्षतमरिष्टं च, ऐश्वर्यमस्तु, स्वस्ति दक्षिणाः पान्तु, बहुदेयञ्चास्तु” इति क्रमेण प्र॰) विभवे सति - फलभूमिभाण्डदण्डोपानच्छत्रकमण्डल्वादि दद्यात् ॥
पुरू॰ देवाः दत्तं श्राद्धमक्षय्यमस्त्विति
भवन्तो ब्रुवन्तु, (प्राचीनावीती) पितृपिता॰ रूपाः दत्तं श्राद्ध॰ ब्रुवन्तु ।(उपवीती) श्राद्धरक्षक॰ दत्तं श्राद्ध॰ ब्रुवन्तु (‘अस्तु अक्षय्यम्’ इति प्र॰) विप्रानभिवाद्य — ‘अस्मद्गोत्रं वर्धताम्’ इति प्रार्थ्य ‘स्वस्ति वर्धतां ते गोत्रम्’ इति प्र॰॥ भोजनपात्राण्युद्धृत्याऽप उपस्पृश्य, पुरू॰ देवाः स्वधोच्यताम् । (प्राचीनावीती) पितुः प्रतिसा॰ रूपाः स्वधोच्यताम् । (उपवीती) ‘श्राद्धर॰विष्णो स्वधोच्यताम्’, इति वदेत् । ‘ॐ स्वधा’ इति प्र॰ । ततो विप्रैः ‘शोभनँ हविः’ इत्युक्ते–
दातारो नोऽभि वर्धन्तां वेदाःसन्ततिरेव नः । श्रद्धाच नो मा व्यगमद्बहुदेयञ्च नोऽस्तु ॥ अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कञ्च न
इत्याशिषः प्रार्थयेत् । ततो विप्राः -
दातारो वोऽभिवर्धन्तां वेदाः सन्ततिरेव वः । श्रद्धा च वो मा व्यगमद्बहुदेयञ्च वोऽस्तु ॥ अन्नञ्च वो बहु भवेदतिथींश्च लभध्वम् । याचितारश्च वः सन्तु मा च याचिढ्वं कञ्चन ॥ आमा वाजस्य प्रसवो जगम्यादा द्यावापृथिवी विश्व शम्भू । आ मागन्तां पितरा मातरा चा मा सोमो अमृतत्वाय गम्यात् ॥ स्वादुषँ सदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतो वीरा उरवो वातसाहाः ॥ ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरितादृतावृधो रक्षा मा किर्नो अघशँ स ईशत ॥ वसवस्त्वा रुदैः पुरस्तात्यान्तु पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्त्वादित्यास्त्वा विश्वैर्देवैः पश्चात्पान्तु द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतः पातु देवास्त्वेन्द्रज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्तु । येन देवा ज्योतिषोर्ध्वा उदायन्येाऽऽदित्या वसवो येन रुद्राः । येनाङ्गिरसो महिमानमानशुस्तेनैतु यजमानः स्वस्ति । यो वै तो ब्राह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः ॥ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्तु तथा राज्यं पितायुष्मत्पितामहाः ॥ सत्या एता आशिषः सन्तु । श्राद्धं गयाश्राद्धसदृशमस्तु । आ चन्द्रार्कवंशाभिवृद्धिरस्तु । पितृप्रसादाद्धनकनसमृद्धिरस्तु [[TODO: परिष्कार्यम्]]
इत्याशिषो दद्युः ॥ प्राचीनावीती
उत्तिष्ठत पितरः प्रेत शूराय यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो बूताद्भागधान्देवतासु
‘पितृ॰ पिता रूपानुद्वासयामि’, इति दर्भहस्तः पित्रादीनुद्वास्य,
यन्तु पितरो यथालोकं मनसा जवेन । परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः ॥ अथा पितॄन्सुविदत्राँ अपीत यमेन ये सधमादं मदन्ति [[TODO: परिष्कार्यम्]]
इति प्रसाद्य
मनोऽन्वाहुवामहे नाराशँसेन स्तोमेन पितृणाञ्च मन्मभिः । आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्चसूर्यं दृशे । पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातँ सचेमहि [[TODO: परिष्कार्यम्]]
इति मन आहूय, (उपवीती)
वाजे वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्यमध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः” [[TODO: परिष्कार्यम्]]
‘विश्वान्देवान् (विष्णुना सह) उद्वासयामि’, इति विश्वान्देवान्विष्णुञ्चोद्वासयेत् ॥ (‘अस्तु उद्वासय’ इति प्र॰)। उद्वासनान्ते विप्राः -
वामदेवाय नमो ज्येष्ठाय॰ मनोन्मनाय नमः
इति पठेयुः । ब्राह्मणान्प्रदक्षिणीकृत्य ‘श्राद्धशेषं किं क्रियताम्’ इति पृष्ट्व (‘इष्टैः सह भुज्यताम्’, इति प्र॰) नमस्कृत्य प्रार्थयेत्-
देवताभ्यः॰ नमो नमः ॥
अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।
अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद्दिवम् ॥
पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः ॥
तक्लेशजातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ ॥
वसिष्ठसदृशा विप्रा सूर्यपर्वसमातिथिः ।
गयाश्राद्धसमं चाऽस्तु भवतां कृपया मम ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः ।
श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥
जपच्छिद्रं तपच्छिद्रं यच्छिद्रं श्राद्धकर्मणि ।
सर्वं भवतु मेऽच्छिद्रं ब्राह्मणानां प्रसादतः ॥ (श्राद्धं सम्पूर्णतां यातु, सर्वमाच्छिद्रमस्तु इति प्र॰)॥
यज्ञोपवीती ‘पश्चाद्धोमं करिष्ये’ इति सङ्कल्प्य
यन्मे माता॰, यन्मे पितामही॰, यन्मे प्रपितामही॰ इत्यन्नशेषेण तिस्र आहुतीर्जुहोति ॥
उपवीती -
पितुः प्रति॰ श्राद्धे पितॄणामक्षय्यतृप्त्यर्थं पिण्डप्रदानं करिष्ये,
इति सङ्कल्प्य
ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्करजनीशगणेश्वराणाम् । क्रौञ्चामरेन्द्रकलशोद्भवकश्यपानां पादानमामि सततं पितृमुक्तिहेतून् ॥
इति पठित्वा (प्राचीनावीती) दक्षिणेनाग्निं दक्षिणामुखः पिण्डनिर्वापणस्थानमुद्धत्यावोक्ष्य पूर्वसादितान्सकृदाच्छिन्नान्दर्भान्दाक्षिणाग्रानास्तीर्य तेषामुपरि
मार्जयन्तां पितरः, मार्जयन्तां पितामहाः, मार्जयन्तां प्रपितामहाः
इति दक्षिणापवर्गं प्रत्येकं तिलोदकं दत्वा उपस्तीर्णाऽभिधारितान्त्रीन् पिण्डान्तथैव (दक्षिणापवर्ग>) दद्यात् -
एतत्ते तत अमुकशर्मन्नमुकगोत्र वसुरूप ये च त्वामनु पितृभ्यः॰ रूपेभ्यः स्वधा नमः, एतत्ते पितामह अमुकशर्मन्नमुकगोत्र रुद्ररूप ये च त्वामनु पितामहेभ्यः॰ रूपेभ्यः स्वधा नमः, एतत्ते प्रपितामह अमुकशर्मन्नमुकगोत्र आदित्यरूप ये च त्वामनु प्रपितामहेभ्यः॰ रूपेभ्यः स्वधा नमः
इति । अपि वा
एतत्ते ततामुकशर्मन्नमुकगोत्र वसुरूप ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेषां च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः, एतत्ते पितामह अमुकशर्मन्नमुकगोत्र रुद्ररूप ये ते मातामहा॰ तेभ्यस्ताभ्यश्च स्वधा नमः
एतत्ते प्रपितामह अमुकशर्मन्नमुकगोत्राऽऽदित्यरूप ये ते मातामहा॰ स्वधा नमः
इति त्रीन्पिण्डान्दद्यात् ॥ ॥ चतुर्विंशतिपिण्डदानपक्षे -
पितृभ्यः स्वधा नमः, पितामहेभ्यः स्वधा नमः, प्रपितामहेभ्यः॰, मातृभ्यः॰, पितामहीभ्यः॰, प्रपितामहीभ्यः॰, मातामहेभ्यः॰, मातुःपितामहेभ्यः॰, मातुःप्रपितामहेभ्यः॰, मातामहीभ्यः॰, मातुःपितामहीभ्यः॰, मातुःप्रपितामहीभ्यः॰, आचार्येभ्यः॰, आचार्यपत्नीभ्यः॰, गुरुभ्यः॰, गुरुपत्नीभ्यः॰, सखिभ्यः॰, सखिपत्नीभ्यः॰, ज्ञातिभ्यः॰, ज्ञातिपत्नीभ्यः॰, अमात्येभ्यः॰, अमात्यपत्नीभ्यः॰, सर्वेभ्यः॰, सर्वाम्य॰
इति ॥ उत्तरतो लेपं निमार्ष्टि -
ये नः पतिता गर्भा असृग्भाज उपासते । तेभ्यः स्वजाः स्वधा नमस्तृप्णुवन्तु मदन्तु च । य आमा ये पक्वा ये च दुष्टाः पतन्ति नः । तेभ्यः स्वजाः॰ मदन्तु च ॥ ये कुमारा याः स्त्रियो ये विज्ञासाः पतन्ति नः । तेभ्यः स्वजाः॰ मदन्तु च
इति ॥
अत्र पितरो यथाभागं मन्दध्वम्
इत्युक्त्वाऽप्रदक्षिणमुदङ्पर्यावृत्योष्मणो व्यावृत उपास्ते । व्यावृत्त ऊष्मण्यभिपर्यावृत्य चरुशेषं किञ्चिदुद्धृत्याऽवजिघ्रति -
ये समानाः समनसः पितरो यमराज्ये ॥ तेषां लोकः स्वधा नमः । यज्ञो देवेषु कल्पताम् ॥ ये संजाताः समनसः । जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पताम् । अस्मिन्लोके शतँ समाः [[TODO: परिष्कार्यम्]]
इति द्वाभ्याम् ॥ तथैव तिलोदकेन मार्जयति - “मार्जयन्तां पितरः” इत्यादित्रिभिः । (कशिपूपबर्हणे दत्वा )
आञ्जतां पितरः, आञ्जतां पितामहाः, आञ्जतां प्रपितामहाः
इत्यञ्जम्,
अभ्यञ्जतां पितरः, अभ्यञ्जतां पितामहाः, अभ्यञ्जतां प्रपितामहाः
इत्यभ्यञ्जनम्, ‘एतानि वः पितरो वासाँ सि’ इति वस्त्राणि च दद्यात् । उत्तर आयुषि लोम च्छित्वा पिण्डेषु दद्यात् । उपवीती–
कुलाभिवृद्धयर्थं पिण्डपूजां करिष्ये
इति सङ्कल्प्य गन्धादिभिरभ्यर्च्य, अपूपादिकं ताम्बूलञ्च निवेद्य षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठते- (प्राचीनावीती)
नमो वः पितरो रसाय पितरो नमो वो य एतस्मिन्लोके स्थ युष्माँ स्तेऽनु येऽस्मिन्लोके मां तेऽनु य एतस्मिन्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिन्लोकेऽहं तेषां वसिष्ठो भूयासम् ॥ नमो वः पितरः शुष्माय पितरो॰ भूयासम् ॥ नमो वः पितरो जीवाय पितरो॰ भूयासम् ॥ नमो वः पितरः स्वधायै पितरो॰ भूयासम् ॥ नमो वः पितरो मन्यवे पितरो॰ भूयासम् ॥ नमो वः पितरो घोराय पितरो॰ भूयासम् [[TODO: परिष्कार्यम्]]
इति षड्भिः ॥ अथ वीरं याचते –
वीरं मे पितरो दत्त पितृमानहं युष्माभिभूयासँ सुप्रजसो मया यूयं भूयास्त, वीरं मे पितामहा दत्त॰ भूयास्त, वीरं मे प्रपितामहा दत्त॰ भूयास्त
इति ॥ (प्राचीनीवीती - ‘बलिस्थापनार्थे इमे दर्भाः’ इति पिण्डपूर्वभागे दक्षिणाग्रान् दर्भानास्तीर्य तेषामुपरि तिलोदकं दत्वा ‘पितृपिता॰ रूपेभ्यः स्वधा नमः’ इति श्राद्धशेषेण बलिं दत्वा, उपवीती - गायत्र्या प्रोक्ष्य, प्राचीनावीती -
पितृभ्यः॰ रूपेभ्यः तिलोदकेन तृप्तिरस्तु, पितामहेभ्यः॰ तृप्तिरस्तु, प्रपितामहेभ्यः॰ तृप्तिरस्तु
इति त्रिस्त्रिस्तिलोदकं पिण्डबल्योरुपरि दद्यात् ) उपवीती - पुरुषसूक्तं पठित्वा, प्राचीनावीती - स्वधापात्रोदकं
पितृभ्यः स्वधा, पितामहेभ्यः स्वधा, प्रपितामहेभ्यः स्वधा
इति पिण्डानामुपरि त्रिस्त्रिर्दत्वा शेषं चरुस्थाल्यां निनीय स्थालीसङ्क्षाळनेन त्रिरपसलैः परिषिञ्चति - ‘ऊर्जं वहन्ती॰ तृप्यत’
इति । दक्षिणतः स्थालीं न्युब्ज्योत्तानीकृत्य प्रोक्ष्य, उपवीती- देवार्घ्यशेषेण –
शान्तिरस्तु, पुष्टि॰, तुष्टि॰, वृद्धि॰, अविघ्न॰, आयुष्य॰, आरोग्यमस्तु, शिवं कर्माऽस्तु, शान्तिः पुष्टिस्तुष्टिश्चास्तु
इत्यात्मानं प्रोक्षेत् ॥ पिण्डेषु समर्पितं नैवेद्यं विसृज्य नमस्कृत्य प्रसादं गृहीत्वा–
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
पुरी द्वारावती चैव पितृमोक्षप्रदायकाः ॥
अनादिनिधनो देव शङ्खचक्र गदाधर ।
अक्षय्यपुण्डरीकाक्ष पितृमोक्षप्रदो भव
इति प्रार्थ्य पिण्डानुद्वास्य, ‘तद्विष्णोः॰, तद्विप्रासो॰’ इति विष्णुं स्मृत्वा (बलिं काकेभ्यो दत्वा) पिण्डानप्सु प्रवाहयेत् ॥ ततः ‘प्रजापते न त्व॰ रयीणाम्’ इत्यग्निमभिप्रपद्य ‘यदन्तरिक्षं पृथिवी॰ नेनसम्’ इत्युपस्थाय, अत्रोपस्थाने गार्हपत्यशब्दवर्जं मन्त्रपाठः ॥ प्रायश्चित्तादि होमशेषं समाप्य सालिग्रामविष्णवे ताम्बूलनीराजनाद्युपचारान्कृत्वा ‘यस्य स्मृत्ये’ त्युक्त्वा
अनेन प्रतिसांवत्सरिकश्राद्धयज्ञेन श्रीमहाविष्णुः प्रीयताम्
इति समर्प्य वैश्वदेवब्रह्मयज्ञदेवर्षिपितृतर्पणानि कुर्यात् ॥
परेहनि–उदयात्पूर्वं स्नात्वाऽऽचम्य पवित्रपाणिः प्राणानायम्य देशकालौ सङ्कीर्त्य
पूर्वेद्युः कृतपितुःप्रतिसांवत्सरिकश्राद्धसम्पूर्णफलप्राप्त्यर्थं श्राद्धाङ्गतिलतर्पणं करिष्ये
इति सङ्कल्प्य जलशुद्धिं कृत्वा प्राचीनावीती सव्यं जानु निपात्य दक्षिणमुद्धृत्य दक्षिणामुखः पितृतीर्थेन त्रिस्त्रिस्तिलोदकं दद्यात्-
पितॄन्॰ रूपान्स्वधा नमस्तर्पयामि॰ तर्पयामि॰ तर्पयामि
एवमेव
पितामहान्॰तर्पयामि, प्रपितामहान्॰ स्वधा नमस्तर्पयामि ॥
ततः
येषां न माता न पिता न बन्धुर्नान्यगोत्रिणः ।
ते सर्वे तृप्तिमा यान्तु मयोत्सृष्टैः कुशोदकैः
इति कूर्चोदकं विसृज्य,
अनेन पितृतर्पणकर्मणा श्रीमहाविष्णुः प्रीयताम्
इति समर्पयेत् । पवित्रं विसृज्याचम्य सन्ध्योपासनादि नित्यकर्म कुर्यात् ॥ केचन इदं परेहनि क्रियमाणतर्पणमपकृष्य श्राद्धदिन एव कुर्वन्ति ॥