(वो. गृ. शे. सू. ४. १७ )
अथातस्सम्प्रवक्ष्यामि संस्कारविधिमुत्तमम् ।
समाहितानां युक्तानां यतीनां च महात्मनाम् ॥१॥
शुचौ देशे तु सावित्र्या देहं प्रक्षाळ्य यत्नतः ।
अलङ्कृत्य च गायत्र्या गन्धैर्माल्यैः पृथक्पृथक् ॥२॥
वहन्ति ब्राह्मणा ये वै शुचयस्सर्व एव ते ।
तेषान्तु वहतां सम्यक्सद्यश्शौचं विधीयते ॥३॥
प्रक्षाळनादि तत्कर्म ये कुन्ति महीयसाम् ।
तेषामपि तथा सद्यश्शौचमेव विधीयते ॥४॥
पुत्रो वा सन्निकृष्टो वा शुचौ देशे निधाय तम् ।
उपावरोहमन्त्रेण तस्याग्नीनवरोप्यतु ॥५॥
तूष्णीं सम्मार्जनं कृत्वा व्याहृतीभिश्च सप्तभिः ॥
प्रोक्ष्य काष्ठञ्च तद्देहं निधाय तु समन्त्रकम् ॥६॥
विष्णो हव्यं रक्षस्वेति मुखे जलपवित्रकम् ।
पवित्रं तेति मन्त्रेण निदधाति तथा पुनः ॥७॥
त्रिदण्डं दक्षिणे हस्ते वैष्णव्यर्चा निधाय च ।
उदरे च तथा पात्रं सावित्र्या निदधाति वै ॥८॥
यदस्य पारे रजसस्सव्ये शिक्यं निधाय च ।
गुह्ये कमण्डलुं चैव भूमिर्भूमिमगादिति ॥९॥
पितृमेधप्रयोगेण दहेदग्निभिरेव हि ।
संस्कर्तुश्च तथा तस्य नाशौच नोदकक्रिया ॥१०॥
एकोद्दिष्टं न कुर्वीत सन्यस्तानां कदाचन ।
अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते ॥११॥
द्वादश्यामह्नि वा पुण्ये नारायणबलिर्भवेत् ।
सर्वं नारायणोद्देशमेकोद्दिष्टवदाचरेत् ॥१२॥
अनाहिताग्निनां चैव संन्यस्तानां महात्मनाम् ।
अपि होतृविधानेन गायत्र्या प्रणवेन वा ॥१३॥
अप्राकृतानां महतां ब्रह्मनिष्ठमनस्विनाम् ।
तेषान्तु खननं कार्यमिति प्राहुर्मनीषिणः ॥१४॥
तिसृभिर्व्याहृतीभिस्तु खात्वा दण्डप्रमाणतः ।
त्रिदण्डादीन् यथास्थानममन्त्रैस्स्थापयेद्बुधः ॥१५॥
प्रच्छादयेदसंस्पृष्टं सृगालश्वापदादिभिः ।
श्वादयो यदि खादन्ति महान्दोषो भविष्यति ॥१६॥
तस्माद्भूमिं भृशं खात्वा सम्यक्प्रच्छादयेद्यतीन् ।
सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च ॥१७॥
न तस्य दहनं कुर्यान्नाशौचं नोदकक्रिया ।
निषेकाद्याश्मशानान्तास्सत्किया ब्राह्मणाश्रिताः ॥१८॥
तस्माद्यत्नेन संस्कारः कर्तव्यो गृहमेधिभिः ॥
ये वहन्ति महात्मानं स्पृष्ट्वा दृष्ट्वा द्विजातयः ॥१९॥
हयमेधफलं तेषामस्तीत्येव विदुर्बुधाः ॥२०॥
स्मृत्यन्तरे —
कुटीचकं तु प्रदहेत्पूरयेच्च बहूदकम् ।
हंसो जले च निक्षेप्यः परमहंसं प्रपूरयेत् ॥
वाराहे —
सन्न्यासिनोप्याब्दिकादि पुत्रः कुर्याद्यथाविधि ।
महालयेपि यच्छ्राद्धं द्वादश्यां पार्वणेन तु ॥
संग्रहे –
द्वादश्यां पार्वणे नैव श्राद्धं कुर्यान्महालये ।
सुतः संन्यासिनोप्यत्र यथाविधि समाचरेत् ॥
एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रियाम् ।
नकुर्याद्वार्षिकादन्यद्ब्रह्मीभूताय भिक्षवे ।
कुटीचकातिरेकेण न दह्येद्यतिनं क्वचित् ।।
(बो. पि. सू. ३. ११) अथातः परिव्राजकस्य संस्कारविधिं व्याख्यास्यामः – पृथिव्यां ‘अक्षीभ्यामोषधीभ्याम्’ इति शरीरं निधाय
भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम्
इति उदरे पात्रं निधायाथ । होतारमधीत्य तस्य दक्षिणे हस्ते कमण्डलुं निदधाति व्याहृतिभिर्देवयजनं पूरयेत् ‘अग्निनाऽग्निः समिध्यते’ - इत्यशेषसंस्कारोऽश्वमेधफलं तत्रोदाहरन्ति ॥
शृगालश्ववायसाः खादन्ति चेद्दोषमाहारयेत्कर्तुस्तस्मादविशङ्कां वेदिं प्रच्छादयेदिति
बोधायनः॥
प्रयोगः
अथ प्रयोगः ॥ ब्रह्मदण्डपूर्वकं वपनं (शिष्यस्य वपनं कृताकृतम् ) कृत्वा स्नात्वाचम्य प्राणानायम्य
अमुकं ब्रह्मीभूतं यतिसंस्कारविधिना संस्करिष्यामि
इति सङ्कल्प्य अधिकारार्थं कृच्छ्रत्रयं कृत्वा कलशं शुद्धोदकेनापूर्य ‘आपो हि ष्ठा’ इत्यभि मन्त्र्य
इमम्मे गङ्गे यमुने॰, गङ्गे च यमुने चैव॰
इति तीर्थानावाह्य सम्पूज्य तदुदकेन सावित्र्या, सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः, पावमानीभिः, पुरुषसूक्तविष्णुसूक्तरुद्रसूक्तादिना, प्रणवेन च पञ्चामृताभिषेकपूर्वकं यतिशरीरं संस्नाप्य गन्धतुलसीमालादिभिरलङ्कृत्य शिक्यादावारोप्य वाद्यघोषमन्त्रघोषपुरस्सरं ग्रामात्प्राचीं वोदीचीं वा दिशं नीत्वा शुद्धदेशं नयेत् । तत्र जले स्थले वा समाहितं कुर्यात् ॥
जलपक्षे-नद्यां पञ्चगव्यं प्रक्षिप्य कुशानास्तीर्य ‘सावित्र्या’ देहं प्रोक्ष्य शङ्खोदकेन ‘पुरुषसूक्तेन, अष्टोत्तरशतावृत्तप्रणवेन’ च संस्नाप्याऽष्टाक्षरेण षोडशोपचारैः सम्पूज्य तुलसीमालाद्यैरलङ्कृत्य ‘विष्णो हव्य ँरक्षस्व’ इति नद्यां क्षिपेत् । ‘पवित्रन्ते॰’ इति जलपवित्रं मुखे, ‘इदं विष्णुः॰’ इति दण्डं त्रेधा भग्नं दक्षिणहस्ते, ‘सावित्र्या’ उदरे भिक्षा पात्रं, ‘यदस्य पारे॰’ इति सव्यहस्ते शिक्यं,
भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम्
इत्युदरे कमण्डलुञ्च निधाय, ‘हँसः शुचिषत्॰’ इत्यादि ‘परामृतात्परिमुच्यन्ति सर्वे’ इत्यन्तं हृदयं स्पृश्ट्वा जपेत् । ‘तत्सवितुः’ इत्युदरं, ‘ब्रह्मजज्ञानं॰’ इति मूर्धानं, ‘पुरुषसूक्तेन’ भ्रुवोर्मध्यं, च ॥ नाळिकेरफलेन शङ्खेनाऽश्मना परशुना वा ‘व्याहृतिभिः’ मूर्धानं भिन्द्यात् । शिरो भेत्तुमशक्तः शिरस्थापितं गुडपिण्डं भिन्द्यात् । शिरोभेदनोत्तरं दभैंराच्छाद्य ‘व्याहृतीभिः’ अभिमन्त्र्य पाषाणं बध्या नद्यादौ ‘ॐ स्वाहा’ इति समाहितं कुर्यात् ॥
स्थले चेत् – समाधिदेशं व्याहृतीभिः प्रोक्ष्य तत्र तिसृभिर्व्याहृतीभिर्दण्डप्रमाणमवटं खात्वा पञ्चगव्येन सप्तव्याहृतीभिः प्रोक्ष्य तत्र लवणं प्रक्षिप्य प्रागग्रान्दर्भानास्तीर्य, पुनर्यतिशरीरं शवोदकेन गायत्र्या, पुरुषसूक्तेन, अष्टोत्तरशतावृत्तप्रणवैश्च संस्नाप्याष्टाक्षरमन्त्रेण षोडशोपचारैः सम्पूज्य तुलसीमालाद्यैरलङ्कृत्य
अक्षीभ्यामोषधीभ्याम्, विष्णो हव्यँ रक्षस्व
इति शरीरं (पद्मासनस्थं प्राड्मुखं ) अक्टे स्थाप्य, ‘भूमिर्भूमिमगान्माता॰ स भिद्यताम्’ इत्युदरे भिक्षापात्रं निधाय,
चित्तिः सुक्॰, पृथिवी होता॰, अग्निर्होता॰, सूर्यन्ते चक्षुः॰, महाहविर्होता॰, वाग्घोता॰
इत्येतान्होतृमन्त्रान्पठित्वा तस्य दक्षिणहस्ते कमण्डलुं दद्यात् । अपि वा तत्तत्स्थाने तूष्णीं पात्राणि निदध्यात् । पूर्वोक्तकमेण मूर्धानं भित्वा व्याहृतीभिः अभिमन्त्र्य प्रागग्रैर्दर्भैः प्रतिच्छाद्य लवणैरवटं सप्तव्याहृतीभिः पूरयेत् । शृगालश्ववायसादयः खादन्ति चेन्महादोषः । तस्मादविशङ्कां वेदिं प्रच्छादयेत् ।।
अग्निनाऽग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाङ्जुह्वास्यः ॥ त्व ँह्यग्ने अग्निना विप्रो विप्रेण सन्त्सता । सखा सख्या समिध्यसे । तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । स्वेषु क्षयेषु वाजिनम् ॥ यज्ञेन यज्ञ॰ देवाः [[TODO: परिष्कार्यम्]]
इति चतसृभिरुपस्थाय “अतो देवा” इति षडृचं, “सहस्रशीर्षं देव॰ स्वराट्" इत्यनुवाकञ्च जपित्वाऽश्वमेधादिफलभागिनो वयमिति भावयन्तः सर्वेऽनुगामिनस्स्नात्वा गन्धादि धृत्वा गृहं गच्छेयुः । ब्रह्मनिष्ठपरिव्राजकबहूदकादीनामेवं क्रमः ॥
कुटीचकस्य यतेव्हनम् ॥ कर्ता ब्रह्मदण्डपूर्वकं वपनं कृत्वा स्नात्वाऽऽचम्य देशकालौ सङ्कीर्त्य
अमुकं ब्रह्मीभूतं कुटीचकसंस्कारविधिना संस्करिष्यामि
इति सङ्कल्प्य कृच्छ्रं चरित्वा कलशार्चनान्ते स्थण्डिलोल्लेखनादि कृत्वा ‘उपावरोह॰ दुरोणे’ इत्यग्निमवरोप्याऽग्निसिद्धिं कृत्वा सावित्र्यादिभिर्यतिशरीरं संस्नाप्यालङ्कृत्य वाद्यघोषादिपुरःसरमग्निना सह यतिशरीरं ग्रामाद् बहिर्नीत्वा शुचौ देशे तूष्णीं सम्मार्जनं कृत्वा सप्तव्याहृतिभिस्तं देशं देहञ्च प्रोक्ष्य चितां कल्पयित्वा तत्र “विष्णो हव्य ँ रक्षस्व" इति तद्देहं निधाय “पवित्रन्ते विततं॰ समाशत” इति मुखे जलपवित्रं, (आचमनार्थोदकस्य पावनहेतुभूतं वस्त्रं) इदं विष्णुः॰ सुरे’ इति दक्षिणहस्ते दण्डं, सावित्र्या उदरे भिक्षापात्रं, ‘यदस्यपारे रजसः॰ वैश्वानराय स्वाहा’ इति सव्यहस्ते शिक्यं, ‘भूमिर्भूमिमगात्’ इति गुह्ये कमण्डलुञ्च निधाय पैतृमेधिकविधिना होतृकल्पेन प्रणवकल्पेन गायत्र्या वा दहेत् ।। आशौचोदकक्रियादि नास्ति ॥ तीर्थं गत्वा स्नानं कुर्यात् ॥
अथ कर्ता आचम्य॰ सिद्धिंगतस्य ब्रह्मीभूतस्य अमुकस्य तृप्यर्थं तर्पणपूजाघृतदीपपायसबल्यर्घ्यप्रदानानि करिष्ये,
इति सङ्कल्प्य सत्येन देवतीर्थेन-
आत्मानं तर्पयामि, अन्तरात्मनं त॰, परमात्मानं त॰
इति प्रत्येकं चतुर्वारं शुद्धोदकेन तर्पयित्वा, शुक्लपक्षे क्षीरेण-केशवादि द्वादशनामभिः, कृष्णपक्षे-सङ्कर्षणादि द्वादशनामाभिः, तर्पयित्वा । वेद्याः (खननदेशात्) उपरि मृण्मयलिङ्गं संस्थाप्य पुरुषसूक्तेनाऽष्टाक्षरेण च षोडशोपचारैः सम्पूज्य घृतदीपं घृतमिश्रपायसबलिञ्च समर्प्य बलिं जले विसृज्य शंखेन - “ब्रह्मणे नमः इदमर्घ्यम्” इत्यष्टवारमर्घ्यं दद्यात् ।। एवमेवादशाहं प्रत्यहं तर्पणादि कुर्यात् ॥
यतीनां पार्वणश्राद्धप्रयोगः
यतीनां पार्वणश्राद्धप्रयोगः ॥
एकादश्यां मध्याह्ने श्राद्धाङ्गतिलतर्पणं कृत्वा, आचम्य प्राणानायम्य देशकालौ सन्कीर्त्य (पुत्रश्चेत् ) अमुक गोत्रस्य॰ ब्रह्मीभूतस्यास्मत्पितुरद्यैकादशेऽह्नि, करिष्यमाणदर्शादिसर्वश्राद्धेषु मम अधिकारसिध्यर्थं (प्राचीनावीती) अस्मात्पितृपितामहप्रपितामहानां अमुकशर्मणां अमुकगोत्राणां वसुरुद्रादित्यरूपाणां तृप्त्यर्थं ( उपवीती ) पुरूरवार्द्रसंज्ञकानां विश्वेषां देवानां प्रीत्यर्थञ्च (प्राचीनावीती) ब्रह्मीभूतस्याऽस्मत्पितुः आद्यपार्वणश्राद्धं सदैवं साग्नौकरणमन्नेन हविषाऽहमद्य करिष्ये,
इति सङ्कल्प्य सर्वं प्रत्याऽऽब्दिकश्राद्धवत्कुर्यात् ॥
पुत्रभिन्नः शिष्यादिः कर्ता चेत्-ब्रह्मीभूतगुरोः प्रत्याब्दिकश्राद्धाधिकारार्थं तत्पितृसम्बन्धिनामगोत्रोद्देश्यतासिध्यर्थञ्च ब्रह्मीभूतगुरुतत्पितृपितामहानां॰ वसुरु॰ पुरुर॰ प्रीत्यर्थं पार्वणश्राद्धं करिष्ये,
इति सङ्कल्प्य तथैव कुर्यात् ॥ ( केचित्तु शिष्यः कर्ता चेत्-आत्माऽन्तरात्मपरमात्मन उद्दिश्य साधुरुरुसंज्ञकविश्वेदेवयुतं देवधर्मकं सव्येन नान्दीश्राद्धवत्कुर्यात्, इत्याहुः) द्वादशाहे यतिनारायणबाल कुर्यात् ॥
यतिनारायणबलिप्रयोगः
यतिनारायणबलिप्रयोगः ॥ पूर्वेद्युर्द्वादशब्राह्मणान्निमन्त्र्याऽपरेद्युः (द्वादशेऽह्नि) स्नानादि नित्यकर्म निर्वर्त्य, विष्णोरालयपार्श्वे नदीतीरे गृहे वा कुर्यात् । देशकालौ सङ्कीर्त्य
सिद्धिंगतस्य यतेर्विष्णुलोकाऽवाप्तिद्वारा श्रीनारायणप्रीत्यर्थं नारायणबलिं करिष्ये
इति सकल्प्य, कलशार्चनं कृत्वा ब्रह्मदण्डं निधाय पूर्वनिमन्त्रितान्ब्राह्मणानाहूय सदर्भक्लृप्तेष्वासनेषूपवेश्य
केशवगुर्वर्थे भवता क्षणः कर्तव्यः, प्राप्नोतु भवान्
एवमेव क्रमेण नारायणादिभ्यः क्षणं ग्राहयित्वा, अथ स्थण्डिलोल्लेखनादि लौकिकाऽग्निं प्रतिष्ठाप्य, हव्यवाहनो नामाऽग्निः, नारायणो देवता, चरुर्हविः, उपहोमे-केशवादि द्वादश नाममन्त्रैराज्येन प्रतिमन्त्रमेकैकयाऽऽहुत्या यक्ष्ये, अग्निः स्विष्टकृत्,
इत्यादि सङ्कल्प्यान्वाधाय प्रतिष्ठिताभिघारणान्तेऽग्रेणाऽग्निमष्टदलपद्मे विधिवत्कलशं प्रतिष्ठाप्य वरुणपूजान्ते सुवर्णादिनिर्मिता नारायणप्रतिमां विन्यस्य, तत्र
सहस्रशीर्षा॰ गुलम्, पुरुष एवे॰ तिरोहति
इति द्वाभ्यां पुरुष नारायणमावाह्याऽऽसनपाद्याचमनानि दद्यात् । पुरुषसूक्तेन स्नापयित्वा विष्णुगायत्र्याऽष्टाक्षरमन्त्रेण वा वस्त्रोत्तरीयाभरणादिभिरर्चयित्वा, केशवादिद्वादश नामभिस्तर्पयेत् ॥
ततो ‘जुषस्व नः’ इत्यादि विष्णोर्नुकं॰, परो मात्रया॰’ इति द्वाभ्यां विष्णवे पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधि निधायाथाज्याहुतीर्जुहोति केशवादिद्वादशनामभिः ।
(यथालिङ्गं त्यागः) इति ॥ ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा, गुडाज्यफलसंयुतं पायसं गायत्र्या देवाय निवेद्य पानीयाचमनमुखवासादि दद्यात् ।
अथाऽग्नेर्दक्षिणतः प्रागग्रेषु दर्भेषु विश्वेभ्यो देवेभ्यो नमः
इत्यादिभिः पायसेन बलिं दद्यात् । अथ विप्रपादप्रक्षाळनं कृत्वा तानाचमय्य स्वयञ्च पादौ प्रक्षाळ्याचम्य प्राङ्मुखानुदङ्मुखान्वोपवेश्य, क्रमेण केशवादिद्वादशभिरावाह्य द्वादशमूर्तिं ध्यायन्नर्घ्यवस्त्रोत्तरीयाभरणगन्धपुष्पधूपदीपैरभ्यर्च्य चतुरश्रमण्डलेषु द्वादश पात्राण्यासाद्योपदंशघृतगुडदाधिफलयुतं श्वेतमन्नं परिविष्य, गायत्र्या प्रोक्ष्य ‘पृथिवी ते पात्रं’ इत्यादि ‘केशवरूपिगुरवे नमः इदमन्नं’ एवं ‘नारायणरूपिगुरवे नमः’ इत्यादि। अथ
अतो देवा॰ ॐ तद्ब्रह्म॰ ॐ तत्पुरोनमः
ब्रह्मार्पणं, “अमृतोपस्तरणमसीत्यापोशनं” दत्वा
अन्तश्चरति भूतेषु॰ भूर्भुवः सुवरोम्
इति पठेत् ।‘श्रद्धायां॰ प्राणे’ इति भुञ्जानान्समीक्ष्य उपनिषदादिश्रावयित्वा भोजनान्ते उत्तरापोशनादि यथाशक्ति सुवर्णं दत्वा पुरुषसूक्तादिभिः स्तुत्वा द्वादशनामभिः प्रणमेत् । तान्प्रदक्षिणीकृत्य शेषमनुज्ञाप्योद्वास्योत्तरपरिषेकादि कुर्यात् ।। अथावाहितदेवताः पुनः सम्पूज्य कलशोदकेन प्रोक्ष्य कलशदानादि कुर्यात् ॥
अभीष्टां परां गतिं स गत्वा विष्णोर्लोके महीयते
इति ।।
यतेराराधनप्रयोगः
यतेराराधनप्रयोगः ॥ यतेराराधनं द्वादशाहे त्रयोदशाहे वा कार्यम् ॥ देशकालौ सङ्कीर्त्य
श्रीनारायणप्रीत्यर्थं ब्रह्मीभूतस्य गुरोराराधनं करिष्ये
इति सङ्कल्प्य, कलशार्चनं ब्रह्मदण्डञ्च कृत्वा पूर्वेद्युर्निमन्त्रितान्योडश ब्राह्मणानाहूय
‘गुर्वर्थे भवता क्षणः कर्तव्यः १, परमगुर्वर्थे॰ २, परमेष्टिगुर्वर्थे॰ ३, परात्परगुर्वर्थे॰ ४, (शुक्लपक्षे) केशवगुर्वर्थे॰, नारायणगुर्वर्थे॰
इत्यादि द्वादश ॥ (कृष्णपक्षे) ‘संकर्षणादि द्वादश गुर्वर्थ॰’ ॥ एवं षोडशेभ्यः क्षणं दत्वा (‘ॐ तथा’ इति प्रतिवचनम् ) गन्धाक्षततुलसीदलकर्पूरजलेन वरणक्रमेण पादान्प्रक्षाल्य पादोदकं पात्रान्तरे सुरक्षितं संस्थाप्य स्वयञ्च हस्तपादं प्रक्षाल्य, स्वस्य तेषाञ्च आचमनान्ते तान्ब्राह्मणान्प्राङ्मुखानुदङ्मुखान्वाऽसनेषूपवेश्य, पुरुषसूक्तेन प्रत्यृचं ‘ॐनमो नारायणाय’ इति मन्त्रसहितेन आसनावाहनादि षोडशोपचारैर्यथाविभवमभ्यर्च्य, चतुरस्रमण्डलेषु सदर्भक्लृप्तेषु पात्रेषु प्रत्येकं सपरिकरमन्नं परिविष्य गायत्र्या प्रोक्ष्य
गुरवे इदमन्नं परिविष्टं परिवेक्ष्यमाणञ्चाऽतृप्तेः स्वाहा हव्यं न मम
एवं परमगुर्वादिभ्यश्चाऽनूद्दिश्य, आपोशनं दत्वा
ये देवा दिव्येकादशस्थ॰ जुषध्वम्
इत्युपस्थाय ब्रह्मार्पणं कृत्वा ।
ॐ तद्ब्रह्म ॥ ॐ तद्वायुः ।। ॐ तदात्मा ॥ॐ तत्सत्यम् ॥ ॐ तत्सर्वम् ॥ ॐ तत्पुरोर्नमः ॥ अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्व ँ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं प्रजापतिः॥ त्वं तदाप आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम्’ [[TODO: परिष्कार्यम्]]
इति जपित्वा, तेषां प्राणाहुतीरनुमन्त्रयते — ‘श्रद्धायां प्राणे॰ ब्रह्मणे स्वाहा’ इति ॥ उपनिषदादि श्रावयित्वा तृप्तेषु सत्सु उत्तरापोशनं दत्वा ‘ॐ तद्ब्रह्म॰ सुवरो३म्’ इत्यन्तं पठित्वा, हस्तप्रक्षालनोत्तरमाचान्तेषु, तेभ्यो ब्राह्मणेभ्यो गन्धतुलस्यक्षतताम्बूलदक्षिणादि दत्वोपोत्थाप्य उपविष्टेषु तेषु —
गुर्वाराधनाङ्गभूतं तीर्थपूजनं करिष्ये
इति सङ्कल्प्य ॥ चतुरस्रमण्डलं गोमयेनोपलिप्य तत्र रङ्गवल्यादिभिरलङ्कृत्य, तन्मण्डले धान्योपरि पादोदककलशं संस्थाप्य, तत्र गङ्गादितीर्थानि भावयित्वा, पुरुषसूक्तेन प्रत्यृचं ‘तीर्थराजाय नमः’ इति मन्त्रेण षोडशोपचारैरभ्यर्च्य तत्पात्रं शिरसि धारयित्वा
भीषास्माद्वातः पवते ॥ भीषोदेति सूर्यः ॥ भीषास्मादग्निश्चेन्द्रश्च ॥ मृत्युर्धावति पञ्चम इति ॥ चरणं पवित्र॰ दधातु [[TODO: परिष्कार्यम्]]
इत्यादि मन्त्राञ्जप्त्वा हरिकीर्तनपुरस्सरं सहर्षं नृत्यं कृत्वा तत्पात्रं पुनर्मण्डले संस्थाप्य चन्दनाक्षतपुष्पाणि पूजाविशिष्टानि बन्धुभिः सह धृत्वा, विप्रान्प्रदक्षिणीकृत्य ॥
आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधरूपम् ।
योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरं नित्यमहं नमामि ॥१॥
गुरुर्ब्रह्मा गुरुर्विष्णुः॰ नमः" ॥२॥
इति द्विजान्तीर्थराजञ्च नमस्कृत्य, गुर्वर्थविप्रहस्ते पादोदकपात्रं दत्वा तदाज्ञया तीर्थं मन्त्रेण पिबेत्–
अविद्या मूलशमनं सर्वपापप्रणाशनम् ।
गुरुपादोदकं तीर्थं संसारद्रुमनाशनम्
इति ॥ (पुत्रादिकामनायान्तु –’
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं चित्रं पुत्रपौत्रप्रवर्धनम्
इति पिबेत् ) तान्पुनः प्रणम्य तानन्यांश्च दक्षिणादिभिस्तोषयित्वा सन्मानपुरस्सरन्ताननुप्रवृज्य कर्मेश्वरार्पणं कुर्यात् ॥ पश्चात्सुहृद्युतो भुञ्जीत ॥ ततः प्राप्तदर्शमहालयतीर्थप्रयुक्तानि श्राद्धानि कुर्यात् ॥ प्रतिमासं वाऽऽराधनं प्रत्यब्दं पार्वणोत्तरञ्चैवमेव ॥ ॥