( बो. पि. सू. २.७ ) यद्येवं कृतेऽग्निभिर्यजमानः पुनरागच्छेत्कथं तत्र कुर्यादिति ॥ यज्ञियात्काष्ठादग्निं मथित्वाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘हिरण्यगर्भः समवर्तताग्रे’ इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति - ‘सहस्रशीर्षा’ इत्येनेनानुवाकेन प्रत्यृचम् ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अपरेणाग्निं सौवर्णेन पात्रेण घटेन वा मृण्मयेन कृष्णाजिनेन वा दृतीभूतेन घृतेनाद्भिः पूरयित्वा जीवपितुश्चेत्पिताऽभिमन्त्रयते - ‘विष्णुर्योनिं कल्पयतु’ इति ॥ अथैनं प्रवेशयति - ‘त्वां पूषंच्छिवतमामेरयस्व’ इति ॥ स गर्भो भूत्वा कृष्णाजिनदृतावेतां रात्रिं वसति ॥ व्युष्टायां पुंसवनप्रभृत्या जातकर्मणः कारयित्वा जघनार्धादात्मानमपकृष्य जायेत ॥ जातस्य जातकर्मप्रभृति संस्कारान्कारयित्वा द्वादशरात्रमेतद्व्रतं चरेत् ॥ ऊर्ध्वमीप्सितैर्यज्ञक्रतुभिर्यजेतेति विज्ञायते ॥
हिरण्यगर्भस्सम्भूतो ब्राह्मणश्चीर्णनिर्णयः ।
प्रत्युत्थानं न कस्यापि कुर्याद्देवसमस्तु सः ॥
इति विज्ञायते॥ (बो. पि. सू. ३.७ ) अथ यदि जीवन्पुनरागच्छेद्घृतकुण्डे निमज्योत्तीर्य स्नापयित्वा जातकर्मादि संस्कारान् क्रियेरन् द्वादशरात्रान्तानि व्रतानि त्रिरात्रान्तानि वा ॥ अथ स्नानम् । ततस्तामेव जायां प्रतिपद्येत ।
तस्यामविद्यमानायामन्यां कुमारीं विन्देताऽथाग्नीनाधाय व्रात्येनैन्द्राग्नेन पशुनेष्ट्वा गिरिं गत्वाऽग्नये कामायेष्टिं निर्वपेदत उर्ध्वमीप्सितैर्यज्ञक्रतुभिर्यजेतेति
विज्ञायते ॥
प्रयोगः
अथ प्रयोगः॥ यस्य मृतिवार्ताश्रवणेनौर्ध्वदेहिकं कृतं तस्य पुनरागमने -
सङ्ग्राह्यापेक्षया वयोधिकः पित्रादिः, देशकालौ सङ्कीर्त्याऽमुकगोत्रस्याऽमुकशर्मणः पैतृमेधिकसंस्कारोत्तरं पुनरागतस्य सङ्ग्रहणार्थं श्रीपरमेश्वरप्रीत्यर्थं संस्कारविधिं करिष्ये,
इति सङ्कल्प्य ।
गणेशपूजनं हिरण्येन नान्दीसमाराधनं, हिरण्यगर्भः, प्रजापतिः, धाता, सवितारः प्रीयन्तामिति
पुण्याहं वाचयित्वा स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, ॰शर्मणः॰ गोत्रस्य कृतौर्ध्वदेहिकस्य पुनः सङ्ग्रहणार्थं पुनः संस्कारहोमं करिष्ये,
पुनः संस्कारहोमः कर्म, चित्तिर्नामाग्निः, हिरण्यगर्भो देवता, चरुर्हविः, उपहोमे-पुरुषसूक्तेन प्रतिमन्त्रं एकैकयाज्याहुत्या यक्ष्ये, अग्निः स्विष्टकृत्,
इत्यादि सङ्कल्प्यान्वाधाय, हिरण्यगर्भाय चरुं निरुप्य प्रतिष्ठिताभिघारणादि कृत्वा,
हिरण्यगर्भः समवर्तताग्रे॰, यः प्राणतो॰
इति द्वाभ्यां पक्वं हुत्वा (हिरण्यगर्भायेदं॰) स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति-पुरुषसूक्तेन प्रत्यृचं स्विष्टकृदादि होमशेषं समाप्याऽपरेणाग्निं सौवर्णं मृण्मयं वा पात्रं कृष्णाजिनकोशं वा घृतेनाऽद्भिश्च पूरयित्वा ‘विष्णुर्योनिं॰ परीषु पुत्रान्’ इत्यादिभिरभिमन्त्र्याऽथैनं प्रवेशयति - तां पूषन्॰ शेषम्’ इति ॥ स गर्भो भूत्वा तां रात्रिं वसति । अथापरेद्युः पुंसवनादि विष्णुबल्यन्तान्संस्कारान्समाप्य जघनार्धादात्मानमपकृष्य स्वयं बहिरागच्छेत् ।
ततः स्नापयित्वा जातकर्मादि चौलान्तान्संस्कारान्करिष्ये
इति सङ्कल्प्य
गणेशपूजनादि नान्दीश्राद्धान्ते पुण्याहं स्वस्ति ऋद्धिमिति
वाचयित्वा (मृत्युः सविता सविता श्रोत्रं केशीमेधाकरेन्द्राः प्रीयंतामिति विशेषः) जातकर्मादि चौलान्तसंस्कारान्कृत्वा, पुनरुपनयनं कुर्यात् । त्रिरात्रं व्रतचर्य्यां चरित्वा चतुर्थेहनि सुश्रवःपूजनमपि कुर्यात् ॥ संस्कार्यस्तु प्राजापत्यादिपञ्चकाण्डव्रतानि समावर्तनपूर्वकं पूर्वगृहीतया पत्न्या सह पुनर्विवाहविधिना विवाहं च कुर्यात् । तस्या अभावेऽन्यया कुमार्या सह द्वितीयं विवाहं कुर्यात् ॥ ॥ (सुवासिन्याः स्त्रियः पुनः सग्रहणे जातकादि कृत्वोपनयनादि समावर्तनान्तं कर्म वर्जयित्वा पूर्वपतिना सह विवाहविधिना विवाहः, इति विशेषः) एवं कृते कर्माधिकारः॥