४६ (जीवतः) आत्मसंस्कारप्रयोगः

(जीवतः) आत्मसंस्कारप्रयोगः ॥ यस्य न सन्ति कर्तारो ज्ञातयः पुत्रोऽन्तेवासिनो वा स जीवन्नेवौर्ध्वदोहिकं सपिण्डीकरणान्तं सर्वं कर्म कुर्यात् ॥ कर्ता कृष्णपक्षस्य त्रयोदश्यामुपोष्योर्ध्वदेहिकसम्भारैः सह वस्त्रषट्कं, सौवर्णीं सूचीमङ्कुशं, कार्पासनिर्मितं रज्जु, कन्थां, षष्ट्युत्तरत्रिशतानि पर्णवृन्तान्यौदुम्बरीमासन्दीं, कृष्णाजिनं, षट्चत्वारिंशत्कलशानुपयुक्तानन्यानपि सम्भृत्य, श्वोभूते प्रातः कृतस्नानादिनित्यक्रियो मध्याह्ने स्नात्वा जले तिष्ठन्यथाशक्ति गायत्री जप्त्वोपोत्थाय, गणेशं सम्पूज्य ब्राह्मणानन्नेन परिविष्य, ‘पुण्याहं स्वस्त्यृद्धिम्’ इति वाचयित्वा वस्त्रमङ्गुलीयकं सहिरण्यमाचार्याय दत्वा दक्षिणामुखो भूत्वा सघृतं पायसं प्राश्नीयात् ॥ अपराह्ने-देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य

मम जीवत आत्मसंस्काराधिकारसिद्धिद्वारा श्रेयःप्राप्त्यर्थं प्रायश्चित्तहोमं करिष्ये, चित्तिर्नामाग्निः, अग्निः सरस्वती विश्वेदेवाः अग्निःपथिकृत्

इति प्रधानदेवताः, “अग्निः स्विष्टकृत्” इत्यादि सङ्कल्प्याऽन्वाधायाऽग्निमुखान्तं कृत्वा पक्वाज्जुहोति-

चत्वारि शृङ्गाः॰, त्रिधा हितं॰ निष्टतक्षुः स्वाहा

अग्नय इदं॰ ॥ पुनर्दर्व्यामुपस्तीर्येत्याद्यवदानधर्मेणावदाय द्वितीयपक्वं जुहोति-

तत्सवितुर्वरेण्यं॰, चोदयित्री॰ सरस्वती स्वाहा

सरस्वत्या इदं॰ ॥ एवमेव तृतीयपक्वं जुहोति–‘ये चत्वारः॰, द्वे स्तुती॰’ इति द्वाभ्यां, विश्वेभ्यो देवेभ्य इदं॰ ॥ ततश्चतुर्थपक्वं जुहोति-‘अग्ने नय॰, या तिरश्ची॰’ इति द्वाभ्यां, अग्नये पथिकृत इदं॰ ॥ स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति- पुरुषसूक्तेन प्रत्यृचं हुत्वा, गायत्र्याऽष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिं वा जुहुयात् ॥ स्विष्टकृदादि होमशेषं समाप्य कर्मसमाप्तिपर्यन्तमग्निं गोपायेत् ॥

ततश्चतुष्पथं गत्वा सूचीं, अङ्कुशं, कन्थां, रज्जुञ्च यमकिङ्करप्रीत्यर्थं तत्स्वरूपिणे ब्राह्मणाय दत्वा ‘यमकिङ्कराः प्रीयन्ताम्’ इति प्रार्थयेत् । ‘प्रीयन्तां यमकिकराः’ इति प्रतिवचनम् ॥ ततः सायङ्काले सन्ध्यादिनित्यकर्मान्तेऽग्रेणाऽग्निं । व्रीहिभिर्यवैर्वा स्थण्डिलं कृत्वा पुरुषाकारेण षट्चत्वारिंशत्कलशान्संस्थापयेत्-

जलपूर्णं तन्तुना परिवेष्टितं पूर्वभागे, शीर्षस्थाने कलशत्रयं, मुखस्थाने त्रीणि, ग्रीवायामेकविंशतिं, शरीरे चतुष्टयं, दक्षिणवामबाहौ द्वे द्वे, लिङ्गस्यैकं, दक्षिणवामपादयोः पञ्च पञ्च,

इति षट्चत्वारिंशत्कलशान्संस्थाप्य वरुणपूजान्तं कृत्वा, ‘यमो दाधार’ इति मन्त्रेण यममावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ ततोऽग्नेर्दक्षिणत आसन्दीं निधाय पञ्चगव्येन प्रक्षाल्य तस्मिन्दर्भानास्तीर्य तदुपरि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तत्र षष्ट्युत्तरत्रिशतैः पलाशवृन्तैः पुरुषाकृतिं करोति - चत्वारिंशतः शिरः प्रकल्प्य, दशभिर्ग्रिवां, विंशत्योरः, त्रिंशद्भिरुदरं, पञ्चचत्वारिंशद्भिर्दक्षिणं बाहुं, पञ्चभिस्तस्याऽङ्गुलीः, पञ्चचत्वारिंशद्भिरुत्तरं बाहुं, पञ्चभिस्तस्याऽङ्गुलीः, पञ्चषष्टिभिर्दक्षिणं पादं, पञ्चभिस्तस्याद्गुलीः, पञ्चषष्टिभिरुत्तरं पादं, पञ्चभिस्तस्याङ्गुलीः, अष्टभिः शिश्नं, द्वादशभिर्वृषणश्चेति पुरुषाकृतिं कृत्वा, कलशेषु स्वस्य प्राणनिवेशनं चिन्तयित्वा, पलाशवृन्तमध्ये शयित्वा रात्रिं नयेत् ॥ अथोदिते सूर्ये, स्थापितकलशोदकैर्ब्राह्मणाः पुरुषसूक्तेन तस्यदेहमभिषिञ्चेयुः पञ्चगव्येन ततः शुद्धोदकेन च ॥ यमकिङ्करतृप्त्यर्थं यथाशक्ति ब्राह्मणान्भोजयेत् ॥ सायाह्ने स्वयं सपिर्मिश्रं सतिलमन्नं भुञ्जीत ॥ चतुर्थेऽहनि पैतृमेधिकविधिना तं पुरुषाकृतिं दहेत् । ततो नित्यश्राद्धनवश्राद्धनग्नप्रच्छादनश्राद्धादीनि सर्वमविकृतं कुर्यात् । पिण्डदाने

अमुकशर्मणेऽमुकगोत्राय मह्यं पिण्डमामुत्रिकं स्वधा नमः

इति वदेत् । एवमेव तिलोदकवासोदकादिष्वप्यूह्यम् ॥ अत्र स्वस्यैव दशाहमाशौचम् । ज्ञातीनां न विद्यते ॥ एकादश्यामेकोद्दिष्टं षोडशमासिकादि सर्वं कुर्यात् । दानकाले स्वस्य यद्यप्रियतमं तत्सर्वं देयम् ॥ ॥ स्त्रीणान्तु - तूष्णीं समन्त्रकं वा कार्यम् ॥ ॥ सपिण्डीकरणं, तत्तत्काले षोडशमासिकानि च कृत्वा दहनतिथौ द्वादशवर्षपर्यन्तं सांवत्सरिकश्राद्धं कृत्वा विरमेत् ॥ ॥ यस्य ज्ञातयः पुत्रोऽन्तेवासिनो वा सन्ति तस्य सपिण्डीकरणं विना एकोद्दिष्टान्तं सर्वं पैतृमेधिकं भवति । तत्तत्काले एकोद्दिष्टविधानेन मासिकानि भवन्ति । प्रत्याऽब्दिकानि चाऽऽद्वादशाब्दात् ।।