४५ जीवश्राद्धम्

(बो. गृ. शे. सू. ३. १९) अथातो जीवश्राद्धं व्याख्यास्यामः-यस्त्वात्मनश्रेय इच्छत्यपरपक्षे त्रयोदशीमुपोष्य तस्मिन्नेवाहनि सम्भारानुकल्पयते यान्योर्ध्वदेहिकानि मृतानां वस्त्रषट्कं सौवर्णीं सूचीमङ्कुशं तान्तवं पाशं कन्यां पलाशवृन्तमौदुम्बरीमासन्दीं कृष्णाजिनं कलशानीत्यन्यान्यपि च ॥

श्वोभूते स्नात्वा मध्याह्ने जले स्थित्वोपोत्थाय ‘पुण्याहं स्वस्ति ऋद्धिं’ इति वाचयित्वा वस्त्राङ्गुलीयकं दक्षिणां दद्यात् सघृतपायसं दक्षिणाभिमुखोऽश्नीयात् ॥ अथ श्राद्धविधिनाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात्कृत्वा पक्काज्जुहोति - ‘चत्वारि शृङ्गा’ इति पुरोनुवाक्यामनूच्य ‘त्रिधा हितम्’ इति याज्यया जुहोति ‘तत्सवितुर्वरेण्यम्’ इति पुरोनुवाक्यामनूच्य ‘चोदयित्री सूनृतानाम्’ इति याज्यया जुहोति ‘ये चत्वारः’ इति पुरोनुवाक्यामनूच्य ‘द्वे स्तुती’ इति याज्यया जुहोति ‘अग्ने नय’ इति पुरोनुवाक्यामनूच्य ‘या तिरश्ची’ इति याज्यया जुहोति ॥ अथाऽज्याहुतीरुपजुहोति-पुरुषसूक्तेनाऽष्टादशर्चेन हुत्वा गायत्र्याऽष्टसहस्रमष्टशतमष्टविंशति वा जुहुयात् । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ धार्य एवाग्निरासमाप्तेः ॥

चतुष्पथं गत्वा सूचीमङ्कुशं कन्यां रज्जुमिति

कृष्णतनवे ह्रस्वाय ब्राह्मणाय दत्वा ‘प्रीयन्तां यमकिङ्कराः’ इति वाचयित्वा व्रीहिषु कलशान् सादयेत् ॥ तन्तुना परिवेष्टय जलपूर्णान्पुरुषाकृतिं कृत्वा त्रीणि शीर्ष्णि मुखे त्रीणि ग्रीवायामेकविंशतिं शरीरे चतुष्टयं बाह्वोर्द्वेद्वे लिङ्गस्यैकं पादयोः पञ्च पञ्चेति ‘प्रीतोऽस्तु भगवान् यमः’ इति ॥ तत आसन्दीं कृत्वा पञ्चगव्येन प्रक्षाळ्य पलाशवृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा कलशपुरुषे प्राणानभिनिवेश्य वृन्तशरीरे देहमभिनिवेश्य स्वपेत् ॥ उदिते सूर्ये कलशैर्देहं स्वयमेवाभिषेचयेत् पौरुषेण सूक्तेन पञ्चगव्येन शुद्धोदकेन सायाह्ने सतिलमन्नं सर्पिषाऽश्नीयात् ॥ ब्राह्मणानपि यमकिङ्करतृप्तये भोजयेत् ॥ चतुर्थ्यां यन्त्रदाहः॥ उदकं पिण्डं च

अमुकगोत्राय मह्यं पिण्डमामुत्रिकं स्वधा

इति नमस्कारान्तं R कृत्वा समापयेत् ॥ तत्राऽऽशौचं दशाहं स्यात्स्वस्य । ज्ञातेर्न विद्यते ॥ एकादश्यामेकोद्दिष्टं प्रतिपद्यते॥ अथाप्युदाहरन्ति

आपन्नस्स्त्री च शूद्रश्च यन्त्रैर्दग्ध्वा स्वकां तनुम् ।
तददैव क्रियास्सर्वाः कुर्यादिति हि वै श्रुतिः

स्त्रीणां तूष्णीं समन्त्रकं वा ॥ मासिमास्येवं संवत्सरात्संवत्सरादूर्ध्वमाद्वादशाब्दात्ततो निवृत्तिः ॥ यदा स्वयं न शक्नुयात्तदा पुत्रादयः कुर्युः । अथाप्युदाहरन्ति -

जीवन्नेवाऽऽत्मनश्श्राद्धं कुर्यादन्येषु सत्स्वपि ।
यथाविधि प्रवर्त्याशु सपिण्डीकरणादृते ॥

इति ॥ तस्योक्तं कालं न विलम्बयेद्यतोऽनित्यं जीवितमिति ह स्माह भगवान्बोधायनः ॥

आत्मश्राद्धम् ॥ ( बो. गृ. श. सू. ३. २२) यस्त्वात्मनश्श्रेयांसमिच्छत्यौर्ध्वदैहिकं स्वस्य यदि भवति तदा दहनप्रभृति सपिण्डीकरणान्तं जीवन्नेवाधस्तथोक्तं सकलं कुर्यात् ॥ तथाऽह कण्वः –

जीवन्नेव च यः कुर्वन्नात्मनश्श्राद्धमिच्छति ।
यन्त्रेण कृत्वा संस्कारमुदकं बलिमेव च ॥
कृत्वाऽथ षोडशश्राद्धं दद्याद्यद्यप्रियं भवेत् ॥
आत्मनस्तत्स्वयं दत्वा ततशश्राद्धं समापयेत् ॥
तत्राऽऽशौचं दशाहं स्यात्स्वस्य ज्ञातेर्न विद्यते

इति ॥ अत्रैव विष्णुः -

आत्मार्थं पारलौक्यं यत्तत्सर्वं समवाप्नुयात् ।
न हि कर्म कदाचित्तु क्षयमेति कृतं नरैः

इति ॥ तस्माद्यस्य न सन्ति कर्तारो ज्ञातयः पुत्रोऽन्तेवासिनो वा स जीवन्नेव आमुष्मिकं सर्वमविकृतं कुर्वन् नामोच्चारणे तद्गोत्राय तच्छर्मणे करिष्यते ॥

अथवा प्रविदानकल्पेन वा दद्यादितीदमप्येकम् ॥