४४ सकेशादहनप्रयोगः

सकेशादहनप्रयोगः ॥ कर्ता स्नात्वा देशकालौ सङ्कीर्त्य, अमुकगोत्राया अमुकनाम्न्याः प्रेताया भर्तृवियोगोत्तरमेतावन्तं कालं निषिद्धकेशकञ्चुक्यादिधारणजनितप्रत्यवायपरिहारार्थं प्रत्यब्दमेकैकं कृच्छ्रं, तथा केशकञ्चुक्यादिसहितायाः प्राणोत्क्रमणजनितदोषनिवृत्त्यर्थं कृच्छ्रत्रयं प्रायश्चित्तं हिरण्यदानेन चरित्वा कञ्चुक्यादि परित्यज्य वपनं कारयित्वा संस्नाप्य विधिना दहेत् ॥